लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५५९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५८ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५५९
[[लेखकः :|]]
अध्यायः ५६० →

श्रीनारायण उवाच
शृणु लक्ष्मि ! ततः शंभुः पार्वतीं प्राह चोत्तमम् ।
शाण्डिल्याकल्पगायोगं तीर्थं चान्यद् वदामि ते ॥ १ ॥
यत्र जन्म सहृस्राऽर्जुनाख्यस्य भूपतेरभूत् ।
तत्र शाडिल्यकौण्डिन्यमाण्डव्या न्यवसन् मुदा ॥ २ ॥
शाण्डिल्यस्याऽऽश्रमस्त्वास्ते शाण्डिल्यारेविकायुजि ।
शाण्डिल्यपुरमित्येवं प्रसिद्धं तत्पुराऽभवत् ॥ ३ ll
निशायां मूषकः कश्चिदटमान इतस्ततः ।
प्रभक्षितो बिडालेन तावद् वृकः समागतः ॥ ४ ॥
किञ्चिच्छेषं मूषकं तं त्यक्त्वा दुद्राव चाखुभुक् ।
तदा मेघे प्रसञ्जाते प्रवाहस्तत्र निर्गतः ॥ ५ ॥
अस्थिप्रवहणं स्वाखो: प्रसंजातं जले ततः ।
तीर्थस्याऽस्य प्रभावेण यक्षोऽभवत् स उन्दुरुः ॥ ६ ॥
बृहद्वृन्दसमाख्यातो यक्षायुतसमावृतः ।
हंसयुक्तविमानेन यक्षेश्वरो दिवं ययौ ॥ ७ ॥
यक्षलोकेऽधिपो जातस्तीर्थस्यैव प्रभावत: ।
ततो गच्छेन्महातीर्थे कुब्जारेवासमागमम् ll ८ ॥
रन्तिदेवेन वै यत्र यज्ञ: कृतोऽतिशोभनः ।
अवध्याया नृपश्चासीद् रन्तिदेवाऽभिधः पुरा ॥ ९ ॥
वसिष्ठस्याऽनुमत्या स रेवातीरे क्रतुं शुभम् ।
कर्तुं चाज्ञापयामास भृत्यामात्यपुरोधसः ॥१.५५९.१०ll
यज्ञोपस्कारसंभारः शीघ्रमेव विधीयताम् ।
धेनूश्च दशलक्षाणि सवत्साः सुपयस्विनीः ॥११॥
हेमभारैर्भूषिताश्च कामदुघाः सुमंगला: ।
आनयन्तु लक्षमश्वानामयुतं सुदन्तिनाम् ll१२ll
मणिमाणिक्यरत्नानां यत्राऽऽनन्त्यं यथा भवेत् ।
अनेकानि सहस्राणि विमानानां स्युरम्बरे ॥१३॥
पृथ्वीयानान्यनेकानि चानयन्त्वत्र तीर्थके ।
आज्ञाप्यैवं स्वयं याने व्योमगे सन्निषद्य वै ॥१४॥
नर्मदायास्तटे गत्वा सान्तःपुरपरिच्छद्ः ।
विशश्राम सुवर्णस्य यूपान् कुण्डाँश्च मण्डपान् ॥१५॥
कारयामास भक्ष्याँश्च भोज्यान् पक्वान्नपर्वतान् !
कृतवान् रत्नभूषाभिर्ब्राह्मणान् समलंकृतान् ॥१६॥
यज्ञदीक्षां प्रजग्राह पत्न्या सह नराधिपः ।
यज्ञे प्रवर्तिते हव्यवाहन: सर्वगोचरः ॥१७॥
प्रत्यक्षो जगृहे हव्यं मूर्तिमान् स्वाहया सह ।
ब्रह्मशक्रादयो देवा लोकपाला मरुद्गणाः ॥१८॥
विश्वेदेवाश्च साध्याश्च वसवश्चन्द्रभास्करौ !
सरितः सागराः शैलाः सर्वतीर्थानि चापगाः ॥१९॥
मातरः सिद्धगन्धर्वाः सयक्षोरगराक्षसाः ।
उमया सहितो रुद्रो विष्णुर्नारायणीयुतः ॥१.५५९.२०॥
आययुर्यज्ञभागाँश्च तेषां पृथगकल्पयत् ।
वेदध्वनिं प्रवृत्तं च श्रुत्वा दानवपुंगवाः ॥२१॥
महाबाहुसुबाह्वाद्या: क्रौंचपुरनिवासिनः ।
आययुर्नर्मदातीरे सभृत्यबलवाहनाः ॥२२॥
प्रचक्रिरे क्रतौ विघ्नं दक्षिणायां दिशि स्थिताः ।
उवाच रन्तिदेवं तु ब्रह्मा भयात् प्रविह्वलः ॥२३॥
विघ्नं वारय राजेन्द्र ! यज्ञः क्रमाद् यथा भवेत् ।
ब्रह्मिष्ठो रन्तिदेवस्तच्छ्रुत्वोवाच हरिं स्मरन् ॥२४॥
यदि मे विद्यते सत्यं ब्रह्मभक्तौ परा मतिः ।
दैत्यराक्षसदुष्टाद्या लयं यान्तु विना मृधम् ॥२५॥
एवमुक्त्वा स राजर्षि: सस्मार विष्णुमीश्वरम् ।
शंखचक्रगदापद्मधारी साक्षादुपागतः ॥२६॥
विष्णोश्चक्रं कुशाग्रेऽत्र तिष्ठतु राक्षसार्दनम् ।
एवमुक्त्वा नार्मदे सुजले त्वाप्लाव्य तं कुशम् ॥२७॥
प्रेषयामास रक्षार्थं दक्षिणस्याँ दिशि ध्रुवम् ।
उत्तरेऽपि तथा चान्यत् प्रेषयामास दर्भकम् ॥२८॥
देवमन्त्रेण घोरेण रक्षां विधाय सर्वतः ।
पूर्वस्यां पश्चिमायां च प्रेषयामास वै कुशौ ॥२९॥
मूर्तिमन्तस्तु ते जाताश्चक्रुर्दुर्गान् समन्ततः ।
अग्निना ज्वलमानाश्च राक्षसानां प्रदाहका: ||१.५५९.३०||
दुर्गास्ते व्योमचारा वै यत्र यत्र च राक्षसाः ।
तत्र तत्राऽभिगत्वैव दद्हुस्तान् सहृस्रशः ॥३१॥
अथाऽग्नौ च जुहावाऽयं राजा बिल्वाऽऽम्रवेतसम् ।
तस्मात् समुत्थितं लिंगं ज्वलत्कालानलप्रभम् ॥३२॥
नेमुर्यज्ञीयभूमिस्थाः सर्वे कुण्डस्थमीश्वरम् ।
रन्तिदेवस्य वै सर्वे चमत्कारं विलोक्य च ॥३३॥
धन्यवादान् ददुस्तत्र देवाद्या अपि भावत: ।
दानवा दुद्रुवुः सर्वे भयाद् दर्भानलोत्थितात् ॥३४॥
क्रौंचद्वीपं ययुर्यज्ञः संपूर्णतां गतस्तथा ।
लिंगं बिल्वाम्रकं नत्वा पूजयित्वा सुरादयः ॥३५॥
ययुः स्वर्गं प्रशंसन्तो नृपं तीर्थे चमत्कृतिम् ।
साकेतं व ययौ यानं समारुह्य च भूपतिः ॥३६॥
तत्र तीर्थे कृतस्नाना यान्ति ब्रह्म सनातनम् !
दर्शनादपि पापानां प्रज्वालकं प्रमोक्षदम् ॥३७॥
कुब्जायां चाऽपरं तीर्थं हारिकेशाख्यमस्त्यपि ।
हरिकेश इति ख्यातः शालग्रामे द्विजोऽभवत् ॥३८॥
शिलोञ्च्छवृत्तिर्धमात्मा तस्य पत्नी पतिव्रता ।
सुव्रताख्याऽभवद् यस्यां शतं पुत्राः प्रजज्ञिरे ॥३९॥
कपिलापुरमाश्रित्य हरिकेशो दिवानिशम् ।
शिलानामर्जनेनैव प्रस्थमन्नं समृच्छति |l१.५५९.४०ll
बाला अपि च ते पुत्रा यथाकथंचिदेव तु ।
वर्तयन्ति प्रभिक्षाद्यैः पूर्णमन्नं न यन्ति हि ॥४१॥
स्थितिं तु तादृशीं दृष्ट्वा माता शुशोच विह्वला ।
पतिं प्राह सुदुःखार्ता गर्हमाणां निजां दशाम् ll४२॥
वृद्धौ च मातापितरौ साध्वी भार्या सुतः शिशुः ।
भरणीया: प्रयत्नेन धर्म एषः सनातनः ॥४३॥
तस्मात् प्रतिग्रहं कृत्वा भर्तव्यं स्वकुटुम्बकम् ।
पुत्रेण लोकं जयति पुत्रेण सुखमेधते ॥४४॥
पुत्रेण सुखमाप्नोति पितॄणां च सुतो गतिः ।
अम्बरीषो महृाराजश्चायोध्याधिपति: किल ||४५||
प्रकरोति क्रतुं याहि कुरुक्षेत्रे द्विजोत्तम ।
गताश्च ब्राह्मणास्तत्र प्रतिग्रहजिघृक्षया !!४६||
गा: काञ्चनं धनं लब्धं शालग्रामनिवासिभिः ।
श्रुत्वैवं भामिनीवाक्यं गृहीत्वा च कुटुम्बकम् ||४७||
कुरुक्षेत्रे ययौ यज्ञे प्रविष्टश्चाऽध्वरे द्विजः ।
अम्बरीषो विलोक्यैनं चार्घपाद्यैरपूजयत् ॥४८॥
उवाचाऽऽतिथ्यरूपेण याचयस्व यथेप्सितम् ।
विप्रः प्राह धनं वर्षशतं यावद्भवेन्मम ॥४९॥
पर्याप्तं सकुटुम्बस्य तावद् देहि नृपोत्तम ।
धेनूर्देहि प्रतिपुत्र हेमभारपरिष्कृताः ॥१.५५९.५०॥
आभरणानि वस्त्राणि क्षेत्रोद्यानगृहाणि च ।
दारिद्यं मे यथा न स्यात्तथा भिक्षां प्रदेहि मे ॥५१॥
अम्बरीषः प्रसन्नोऽति ददौ सर्वं यथेप्सितम् ।
शालग्रामे शुभे क्षेत्रे विप्रो राजेव मोदते ॥५२॥
कालान्तरे ततः प्राप्ते विप्रो मृत्युवशं ययौ ।
मरुदेशे निरुदके ब्रह्मरक्षस्त्वमागतः ll'९३ll
राजप्रतिग्रहाच्चापि तथा ब्राह्मण्यलोपत: !
विषयवासनावत्त्वाद् धनादिवासनादिना ||५४||
इह वृक्षा: प्ररोहन्ति दावदग्धा घनागमे ।
राजप्रतिग्रहदग्धाः प्ररोहन्ति न कर्हिचित् ॥५५॥
नरके रौरवे घोरे तस्य वै पतनं भवेत् ।
विप्रोऽयं राक्षसः प्रेतो भूत्वा सुतान् प्रियां तथा ॥५६॥
आगत्याऽऽगत्य च ग्रहे रुदन् प्राह पुनः पुनः ।
ममोद्धारं प्रकुर्वन्तु राक्षसोऽहं प्रतिग्रहात् ।।'९७||
जातोऽस्मि मे महानारायणबलिं ददत्वपि !
ततस्तस्य सुतैर्नारायणबलिः प्रसंकृतः ॥५८ll
व्योमवाण्या सुतेभ्यश्च कथितं यान्तु नर्मदाम् ।
कुब्जाया: संगमे तत्र बिल्वाम्रके सुतीर्थके ॥५९॥ ।
तत्र स्नात्वा भवत्येव ब्रह्मरक्षोविमोक्षणम् ।
लभते ब्रह्मलोकं च पापतापप्रणाशनात् ॥१.५५९.६०॥
श्रुत्वा साध्वी सुतैर्युक्ता ययौ बिल्वाम्रकस्थलम् ।
राक्षसोऽपि कुटुम्बेन सहाऽदृश्यो ययौ तदा ॥६१॥
सम्प्राप्तः सुमुदायुक्तः कुब्जारेवासमागमम्।
स्नात्वा शंभुं प्रपूज्यैव नारायणं समर्च्य च ॥६२॥
ध्याने तस्थुस्तदा व्योम्ना विमानं त्वाययौ शुभम् ।
विष्णुपार्षदयुक्तं च समारुह्य महोज्ज्वलम् ॥६३॥
तत्क्षणाद् दिव्यदेहास्ते ब्रह्मलोकं तदा ययुः ।
एवं कुब्जासंगमस्य रेवायां पापनाशनम् ॥६४॥
मोक्षणं हरिकेशस्य जातं कुटुम्बिनस्तदा ।
सर्वे ययुर्हि ते मुक्तिं तथा यास्यन्ति मानवाः ।।६५॥
अथ सुवर्णनाम्नश्च गन्धर्वस्य प्रिया सती ।
हेमगर्भेति विख्याता पुत्री तस्याः प्रसुन्दरी ॥६६॥
सुकामा नामतः सा च धनदेन विवाहिता ।
तस्यां पुत्रः केतुमाली राजा वैद्याधरे पुरे ॥६७॥
बभूव तस्य पत्नी च शशिरेखेतिनामत: ।
द्वे कन्ये जनयामास रतिं प्रीतिं मनोरमे ॥६८॥
ददौ स कामदेवाय पाणिग्रहणपूर्वकम् ।
अन्याश्च कन्यका बह्वीर्दासीरूपा तदा ददौ ॥६९॥
ताश्च कन्या नियमं वै जगृहुः शिवपूजनम् ।
कृत्वा जलादिकं ग्राह्यं नान्यथा तु कदाचन ॥१.५५९.७०॥
अथैकदा ययुः सर्वा देवनद्यां विगाहितुम् ।
चित्रांगदश्च गन्धर्वो दृष्ट्वा तास्तत्र चाययौ ॥७१॥
कामरूपधरो भूत्वा रूपानुरूपशोभित: |
सस्नौ जले यदा तस्मिन् मोहितास्तास्तु कन्यकाः ॥७२॥
रेमुस्तेनैव साकं च विसस्मरुर्हरार्चनम् ।
एवं वै दिवसे याते सायं संस्मृत्य शंकरम् ॥७३॥
आाययुः पूजनार्थं च भुक्त्वा पीत्वाऽन्नवारि च ।
पार्वती कुपिता दृष्ट्वा शशाप सायमेव ताः ।।७४।।
धर्मस्य नियमं हित्वा चाऽपूज्य शंकरं च माम् ।
जलान्नं भुक्तवत्यश्च ततो दोषान्विताः खलु ||७५|।
मम शापेन वै सर्वा भवन्तु कुब्जिकास्तथा ।
वामन्यश्च मर्त्यलोके हीनांगा वनभील्लिकाः ॥७६॥
एवं शप्तास्तु ताः सर्वा मर्त्यलोकं समागमन् ।
बभ्रमुस्ता वनेऽरण्ये भीलिकाः शापदुःखिताः ॥७७॥
एकदा च कुबेरो वै तेन मार्गेण चाम्बरे ।
निर्गतो दिव्ययानेन दृष्ट्वा ता दुःखितास्ततः ॥७८॥
ययौ शीघ्रं पार्वतीं च प्रति कैलासमेव सः ।
नत्वा रुरोद च तदा सती प्राह कथं त्विह ॥७९॥
रोदिषि वद मे त्वत्र कारणं प्रकरोमि यत् ।
कुबेरः कन्यकाशापनिर्वृतिं प्रार्थयत् तदा ॥१.५५९.८०॥
श्रुत्वैतत् पार्वती प्राह यान्तु सर्वा हि नर्मदाम् ।
यज्ञपाकाश्रमं गत्वा बिल्वाम्रकं सुतीर्थकम् ॥८१॥
कृत्वा शापात्ततो मुक्ता भविष्यन्ति द्रुतं तु ताः ।
यत्र वै संगमे कुब्जा गान्धर्व्यो भील्लयोनितः ॥८२॥
मुक्ताः खात्वा जलं पीत्वा कुब्जातीर्थं तदुच्यते ।
कुब्जानदी च सा प्रोक्ता नर्मदासंगता च या ॥८३॥
तत्र स्नाताः शापमुक्ता गान्धर्व्यो यानसंस्थिताः ।
ययुः सर्वाः कुबेरोक्त्या स्वर्गे पुनर्निजालयम् ॥८४॥
अनेके जलपानाद्यैस्तत्र सिद्धिं परां गताः ।
श्रवणात् कीर्तनाद् वापि मुच्यन्ते भवबन्धनात् ॥८५॥
अथान्यत्तत्र वै तीर्थं माहेश्वरपुरात्मकम् ।
रौद्रं वारुणमासाद्य क्रोशमात्रप्रमाणत: ॥८६॥
शिवक्षेत्रेऽत्र ये स्नाताः पशवः पक्षिणोऽपि च ।
अपि कीटपतंगाद्या मृता यान्ति दिवं परम् ॥८७॥
सालंकायनमुनिना कृतो यज्ञो महान् पुरा ।
अयोध्याधिपति: सालंकायनाऽख्यो नृपोऽभवत् ॥८८॥
अनावृष्टौ प्रजातायां मार्कण्डेयं महामुनिम् ।
पर्यपृच्छत् कारणं च मार्कण्डेयो जगाद् तम् ॥८९॥
गंगासागरसंभेदे तव राज्ये नराधिप ।
अधिकारविहीना वै सकामा फलवाञ्च्छनाः ॥१.५५९.९०॥
साम्प्रतं सप्तचाण्डाला ऊर्ध्वपादा अध:शिखाः ।
कणधूमं पिबन्त्येव तपः कुर्वन्ति तेन वै ॥९१॥
तपस्यनधिकाराणां पापं तपसि जायते ।
तद्दशांशस्त्वयि राजन्नास्ते ततोऽप्यवग्रहः ll९२ll
तस्मात्तान् दण्डय राजन् तपोरोधं च कारय !
यज्ञे च नार्मदे क्षेत्रे समाचर महामखम् ll९३ll
वृष्टिस्तेन व सर्वत्र भविष्यति न संशयः ।
मुच्यतां पापदोषेण राज्यं स्वर्गमवाप्स्यसि ||९४ll
श्रुत्वा राजा त्वादिदेश भृत्यान् सम्भारसिद्धये ।
सप्तरात्राभ्यन्तरतो यथा यज्ञः प्रवर्तते ll९९ll
 राजा राज्यप्रजाश्चाप्यमात्या राजकुमारकाः । ।
ऋषयो मुनयो विप्रा राज्ञ्यो देवाः सुरेश्वराः ||९६||
आययुस्तत्र वै तीरे रेवायाश्च निमन्त्रिताः । ।
अर्बुदाऽर्बुदसंख्याकाः स्वर्णमुद्राश्च संददौ ।।९७।।
कोटिगोगजवाज्यादिदानं चकार भूपतिः ।
हिरण्मया महास्तम्भाः स्रुवाद्या अपि कानकाः ।।९८।।
भक्ष्यभोज्यरसाद्याश्चाऽपूर्वा दिव्यरसाऽन्विताः । ।
वर्तन्ते तत्र भूभागे विष्णुः साक्षात् समाययौ ।।९९।।
रुद्रश्चाग्निः स्वयं ब्रह्मा तत्तद्देव्यः समाययुः । ।
यज्ञो निर्वर्तितः पूर्णोऽवभृथं नर्मदाजले ॥१.५५९.१००॥
चक्रुः सर्वे महावृष्टिः संजाता क्षितिमण्डले ।
देवाद्याः पूजिता राज्ञा ब्राह्मणाश्च प्रतोषिताः ॥१०१॥
तादृशं तन्महत्तीर्थे यज्ञीयं नार्मदं शुभम् ।।
सञ्जातं तापसा राज्ञा निरुद्धास्तपसस्तथा ।। १०२॥
ये चाण्डालास्तपस्यासन् तेन वृष्टिर्बभूव च ।
इत्येवं च क्रतुं कृत्वा ययुः स्वं स्वं निकेतनम् ।। १०३॥
तत आरभ्य तत्तीर्थं यज्ञतीर्थं हि कथ्यते ।
इत्येवं शंकरः प्राह पार्वतीं तीर्थमण्डलम् ।। १०४॥
मयोदितं च ते लक्ष्मि ! पापतापप्रणाशनम् ।।
पठनाच्छ्रवणाच्चापि मुक्तिदं नार्मदं जलम् ।। १०५॥
इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने शाण्डिल्याकल्पगातीर्थ रन्तिदेवतीर्थ हरिकेशतीर्थाऽम्बरीषतीर्थ बिल्वाम्रकतीर्थ सालंकायनतीर्थादीनि सचमत्कार निरूपितानीति नामैकोनषष्टयधिकपञ्चशततमोऽध्यायः॥५५९॥