लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ५६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ५५९ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ५६०
[[लेखकः :|]]
अध्यायः ५६१ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! तथाऽन्यानि यानि तीर्थानि शंभुना ।
पार्वत्यै चाभिधत्तानि कथयामि समासतः ।। १ ।।
चमत्कारपुरे नागनदीतीरे पुराऽरुणिः ।
ऋषिरास तदा तत्र कश्चिद्व्याधः समागतः ।। २ ।।
ऋषेर्योगाच्छुद्धमना व्याधस्तपश्चचार ह ।
द्विजत्वं कर्मणा प्राप्तो नाम्ना सत्यतपा ह्यभूत् ।। ३ ।।
स तु सत्यतपा दुर्वाससा चाशीःसुयोजितः ।
ययौ कुब्जानर्मदायाः संगमं स्नानकारणात् ।। ४ ।।
स्नात्वा पीत्वा जलं पुण्ययुतो हिमाचलं ययौ ।
हिमाद्रेरुत्तरे पादे पुष्पभद्रानदीतटे ।। ५ ।।
चित्रशिलां समध्यास्य भद्रन्यग्रोधसन्निधौ ।
तपश्चकार तत्राऽपि भजन् वै श्रीनरायणम् ।। ६ ।।
स कदाचित् कुठारेण चिच्छेद समिधः किल ।
चिच्छेद चांगुलीमेकां वामतर्जनिकां ततः ।। ७ ।।
भस्मचूर्णं विनिष्क्रान्तं न मांसं न च लोहितम् ।
अंगुली सन्धिता तेन पूर्ववच्चाऽभवत्तदा ।। ८ ।।
एतदाश्चर्यमेकेन किन्नरेण विलोकितम् ।
आकाशे गच्छता तेन किन्नरेण दिवं ततः ।। ९ ।।
गत्वा त्विन्द्रसभायां चाऽपूर्वमाश्चर्यमीरितम् ।
तद्यथा दृष्टमाश्चर्यं मया तापसदर्शितम् ।। 1.560.१ ०।।
पुष्पभद्रानदीतीरे सत्यतपास्तु तापसः ।
तपसा शुष्कदेहश्च देहे भस्मैव वर्तते ।। ११ ।।
तच्छ्रुत्वा सहसा शुक्रोऽनुजं विष्णुं समब्रवीत् ।
आगच्छ विष्णो गच्छामो हिमवत्पार्श्वमुत्तमम् ।। १२।।
तत्राश्चर्यमपूर्वं मे कथितं किन्नरेण वै ।
एवमुक्तस्ततो विष्णुर्वाराहरूपमग्रहीत् ।। १३।।
मृगयुश्च तथैवेन्द्रो जग्मतुस्तमृषिं प्रति ।
विष्णुर्वाराहरूपेण ऋषिदृष्टिपथे स्थितः ।। १४।।
भूत्वा दृश्योप्यदृश्योऽभूत्पुनरेव च दृश्यते ।
तावदिन्द्रो धनुष्पाणिस्तीक्ष्णसायकधृग् वने ।। १५।।
आगत्य सत्यतपसमृषिमेनमुवाच ह ।
भगवन्निह दृष्टस्ते वराहः पृथुलो महान् ।। १६ ।।
येन तं हन्मि भृत्यानां पोषणाय महामुने ।
श्रुत्वा मुनिश्चकितः सन् चिन्तयामास तत्क्षणात् ।। १७।।
यदि तं दर्शयाम्यस्मै वराहं स हनिष्यति ।
नो चेत् कुटुम्बः क्षुधया सीदत्यस्य न संशयः ।। १८।।
उभयथापि मे पापं भवत्येव न संशयः ।
वराहः शरणं यातो ममाश्रमेऽवनाय वै ।। १९।।
व्याधश्चापि हि मां प्राप्तो वीक्ष्य मां सत्यवादिनम् ।
असत्यवचने दोषो विश्वासघातनं परम् ।।1.560.२०।।
अन्यतरस्य हिंसा च दूषणं सर्वथा भयम् ।
एवं गतेऽत्र किं वाच्यमथाऽसौ चिन्तयन् हरिम् ।।२१।।
क्षणं साक्षिणि धैर्यं च स्थैर्यं प्राप तदा द्रुतम् ।
रक्षात्मिका सुबुद्धिश्च क्षणात्तस्य व्यजायत ।।२२।।
नेत्रं पश्यति नो वक्ति वक्ति जिह्वा न पश्यति ।
पश्यत्यन्यो वदत्यन्यो द्वयोर्नास्त्येककार्यता ।।२३।।
द्रष्टा मूको वक्ता चान्धः को दद्यादुत्तरं वद ।
एवं श्रुत्वा परं तुष्टाविन्द्रविष्णु क्षणान्तरे ।।२४।।
स्वरूपे दर्शयन्तौ च वाक्यमेतत् समूचतुः ।
ब्रूहि तुष्टौ च नौ तेऽत्र वृणु चैकं वरं परम् ।।२५।।
तच्छ्रुत्वाऽसौ सत्यतपा उवाच संप्रसन्नहृत् ।
नान्यो वरः पृथिव्यां मे परो विष्णोस्तु दर्शनात् ।।२६।।
येन कृतार्थता मेऽस्ति दुर्लभं तव दर्शनम् ।
तथाप्यत्र पुष्पभद्राजले वटान्तिके तु ये ।।२७।।
स्नात्वा ध्यात्वा हरिं स्मृत्वा वसेयुर्मासमेककम् ।
तेषां पापानि नश्यन्तां मुक्तिं तेभ्यः प्रदेह्यपि ।।२८।।
तथेत्युक्त्वा तु तौ देवौ दत्वा तस्य वरं तथा ।
विमानस्थौ व्योममार्गे तिष्ठतस्तावदेव च ।।२९।।
गुरुस्तस्य समायातश्चारुणिः समदृश्यत ।
दुर्वासाश्च समायातः स्मृतौ सत्येन वै तदा ।।1.560.३० ।।
पूजितौ सत्यतपसा ज्ञात्वा शिष्यं कृतार्थकम् ।
सिद्धं च तपसा दग्धकिल्बिषं पुरतः स्थितम् ।।३ १ ।।
आरुणिः प्राह सिद्धोऽसि ब्रह्मभूतोऽसि सर्वथा ।
इदानीमात्मना सार्धं मुक्तिकालो मतोऽस्ति ते ।।२२।।
उत्तिष्ठाऽऽगम्यतां पुत्र मया सार्धं विमानके ।
नारायणेन चेन्द्रेण तथा दुर्वाससा सह ।।३३।।
यास्यामो नार्मदं तीर्थं परं कुब्जाम्रकं शुभम् ।
एवमुक्त्वा चारुणिश्चात्रेयः सत्यतपास्त्रयः ।। ३४।।
ध्यात्वा नारायणं देवं चारुरुहुर्विमानकम् ।
भक्तानां वाञ्च्छया नारायणश्चेन्द्रोऽपि नार्मदम् ।।३५।।
याज्ञीयं तीर्थमासाद्य स्नात्वा स्वर्गं ययुस्ततः ।
ततो मुक्तिं जगामाऽसौ सत्यतपाः परं पदम् ।।३६।।
अन्ये चिरंजीविनश्च स्वस्वस्थानानि वै ययुः ।
दुर्वासाद्यास्तु कैलासादिकं यच्छाश्वतं मतम् ।।३७।।
अथाऽन्यत्ते प्रवदामि तीर्थं वै नार्मदे जले ।
मण्डपेश्वरसंज्ञं च तीर्थं तत्र हि राजते ।। ३८।।
यत्र स्नात्वा तनुं त्यक्त्वा राजा वैद्याधरे पुरे ।
दशवर्षसहस्राणि भवत्येव न संशयः ।।३९।।
मानसौ ब्रह्मणः पुत्रौ बादरायणशाकटौ ।
वनस्थौ च प्रति राजा ह्यजापालो ययौ क्वचित् ।।1.560.४० ।।
अवध्याधिपतिर्नत्वा पप्रच्छ मधुरम् ऋषी ।
पितॄणां तारणार्थाय दानं देयं मयाऽत्र वै ।।४१ ।।
के ग्रहीष्यन्ति ऋषयः समायान्तु मदन्तिकम् ।
तदा द्वौ वर्जयित्वा तु बादरायणशाकटौ ।।।४२।।
अन्ये राज्ञा प्रदत्तानि दानानि जगृहुस्तदा ।
गजानां दशसाहस्रं घण्टाभरणभूषितम् ।।४३।।
प्रादाद् विप्रेभ्यश्च धनं मठान् हेममयाँस्तथा ।
कलंजरगिरिं राजा चकार त्रिःप्रदक्षिणम् ।।४४।।
नमस्कृत्वा ऋषीन् सर्वान् जगाम स्वपुरं प्रति ।
गते तस्मिन् महीपाले ऋषयो धनमोहिताः ।।४५।।
सुखं च परमं प्राप्ता राजद्रव्येण राजसाः ।
तपसः पतिता भोगे सक्ता बभूवुरेव ते ।।४६।।
पुण्यक्षयेण च मृताः ऋते बादरशाकटौ ।
राजप्रतिग्रहो घोरो रौद्रः पापो भयावरः ।।४७।।
ऋते ब्रह्मस्वरूपं वै कः सोढुं शक्तिमान् भवेत् ।
कामक्रोधपरा भूत्वा मृतास्ते ब्राह्मणास्ततः ।।४८।।
श्वयोनिं समनुप्राप्ता जाता अमेध्यभक्षकाः ।
अथ प्रतिग्रहयुक्तविप्रेषु वासकारणात् ।।४९।।
संगदोषेण जातौ श्वमुखौ बादरशाकटौ ।
दृष्ट्वाऽऽननं श्वतुल्यं च चिन्तयामासतुश्च तौ ।।1.560.५०।।
संगदोषेण वै पापं लग्नं राजप्रतिग्रहे ।
इति सञ्चिन्त्य तौ सत्यं ययतुः परमेष्ठिनम् ।।५१ ।।
अभिवाद्य प्राहतुश्च वृत्तान्तं विकृताननौ ।
श्रुत्वा ब्रह्मा निष्कृतिं च प्राह वै नार्मदे जले ।।।५२।।
स्नानेन शुद्धिर्भविता यान्तु वै मण्डपेश्वरम् ।
पितामहवचः श्रुत्वा बादरायणशाकटौ ।।५३।।
श्वभिः ऋषिभिः सहितौ नर्मदा ययतुस्तदा ।
स्नात्वा पीत्वा जलं तत्र पापहीनास्तु तेऽनघाः ।।५४।।
ययुः स्वर्गं दिव्ययानैरेवं तीर्थं तदुत्तमम् ।
श्रवणात्कीर्तनाच्चापि हयमेधफलं भवेत ।।५५।।
ततो गच्छेत् परं तीर्थं श्वेतकिंशुकसंज्ञकम् ।
नर्मदादन्तिवनिकासंगमे स्नानमाचरेत् ।।५६।।
तीर्थं कपिशिलाख्यं च कुर्यात् ततः शुभप्रदम् ।
शशभीनर्मदायोगं तीर्थं गच्छेत् ततः परम् ।।।५७।।
राजतीर्थं ततो गच्छेद् रामलक्ष्मणसेवितम् ।
उत्तीर्य नर्मदां रामो ययौ वनान्तरे पुरा ।।५८।।
दशाश्वमेधतीर्थं च ततो गच्छेत्परं शुभम् ।
पिपीलिकोद्धारतीर्थं ततो गच्छेत् प्रमुक्तिदम् ।।।५९।।
वन्ध्यारेवासमायोगं ततो गच्छेच्छुभप्रदम् ।
शुक्लतीर्थं ततो गच्छेत् स्वर्गमोक्षप्रदं वरम् ।।1.560.६०।।
रासभीनर्मदाभेदे स्नात्वा मोक्षो भवेद् ध्रुवम् ।
हविर्धानस्तु राजर्षिः समर्थोऽभूत् पुरा युगे ।।।६१ ।।
आत्रेयस्य सुतश्चासीत् हरिकेशाभिधानकः ।
अग्निपुत्री सुतेजाश्च पाणिग्रहणधर्मतः ।।६२।।
हविर्धानाय दत्ता सा सुतेजानामिका ततः ।
हविर्धानस्तु राजर्षिः ऋतुं बुद्ध्वा गतो हि ताम् ।।६३।।
कदाचित्तु युवा तत्राऽऽययौ वै हरिकेशकः ।
सोऽपि वै कामभावेन तस्या जग्राह वै करम् ।।६ ४।
अग्निहोत्रस्य शालायां जग्राह कामधर्मतः ।
हरिकेशस्तया साकं रेमे यथेष्टकामतः ।।६५।।
हविर्धानश्च ददृशे युगलं सुरते स्थितम् ।
आसीद् विषण्णवदनो ह्यवध्यो ब्राह्मणो यतः ।।६६।।
पत्नी चापि ह्यवध्या वै यतः स्त्रीजातिरेव सा ।
विचार्येत्थं शनैर्विप्रं हविर्धान उवाच ह ।।६७।।
मातरं गुरुपत्नीं च स्वसारं च सुतां तथा ।
गत्वा तु प्रविशेदग्निं ततः शुद्ध्यति मानवः ।।६८।।
गुरुं च गुरुपुत्रं च गत्वा स्त्री संविशेच्चिताम् ।
एवं कर्तुं समर्थौ न भवन्तौ भवतो यतः ।।।६९।।
गर्दभस्त्वं भव विप्र सुतेजा गर्दभी भव ।
वर्षशतं तथाऽरण्ये जातौ तौ गर्दभौ ततः ।।1.560.७०।।
जातिस्मरौ कदाचित्तावगस्त्याऽश्रममीयतुः ।
पप्रच्छतुश्च शापस्य निवृत्त्यर्थं तपो व्रतम् ।।७१ ।।
अगस्त्यः प्राह यातं वै हविर्धानं प्रति ह्युभौ ।
तौ ततश्च हविर्धानाश्रमं ययतुरादरात् ।।७२।।
क्षमां याचितवन्तौ च नेमतुः पादयोस्तदा ।
हविर्धानश्च तौ प्राह यातं वै नर्मदातटम् ।।।७३ ।।
स्नात्वा पीत्वा जलं तस्यास्तपसा क्षीणकल्मषौ ।
यास्यथः परमां मुक्तिं फलं मानुषजन्मनः ।।७४।।
एवमुक्तौ ययतुश्च नर्मदां चेरतुस्तपः ।
शुद्धौ तौ गर्दभीं योनिं त्यक्त्वा दिव्यौ बभूवतुः ।।७५।।
कामिकं यानमारूढौ सर्वालंकारभूषितौ ।
ययतुस्तौ दिवं तत्र न्युषतुर्युगसप्ततिः ।।७६ ।।
अथाऽन्ते ययतुः श्रीमन्नारायणपदं च तौ ।
तत्र तीर्थं हरिकेश सुतेजस्कं प्रमोक्षदम् ।।७७।।
हविर्धानेश्वरं लिंगं रेवागर्दभीसंगमे ।
वर्तते परमं पुण्यं दर्शनात् पापनाशनम् ।।७८
ततो गच्छेत् करमर्दातीर्थं पुण्यप्रदं परम् ।
मैत्रेयस्याऽऽश्रमं राजा कुशध्वजः समाययौ ।।७९
नर्मदायास्तटे रम्ये श्राद्धं चकार भावतः ।
तत्र दानं ददौ राजा गवां दशाऽयुतानि वै ।।1.560.८०
सवत्सानां सुवर्णानां घण्टाऽऽभरणशोभिनाम् ।
भोजयित्वा ततः श्राद्धे ब्राह्मणाँस्तान्नृपोत्तमः ।।८१
ययौ राजा निजं गेहं विप्रास्तत्र व्यवस्थिताः ।
तान् धेनूश्चागता जग्धुं राक्षसाश्चैकदा वने ।।।८२
धेनवो विविशुर्वारौ काश्चिद्दिवं ययुस्तदा ।
विप्रान् वै भक्षितुं तत्र दुद्रुवू राक्षसास्ततः ।।८३
सस्मरुर्ब्राह्मणाः कृष्णनारायणं पुमुत्तमम् ।
लक्ष्मीपतिं प्रभानाथं पार्वतीशं नरायणम् ।।।८४
माणिकीशं च हंसेशं मञ्जुलेशं हृदिस्थितम् ।
तावद् विष्णुः समायातः शंखचक्रगदाधरः ।।।८५
चक्रेण करमर्देन नाशयामास राक्षसान् ।
ब्राह्मणान् संररक्षापि गावस्तत्राऽऽगताः पुनः ।।८६
करमर्देश्वरः शंभुर्विष्णुचक्राद्विनिर्गतः ।
करमर्देश्वरं तीर्थं परं रक्षाकरं मतम् ।।८७।।
अथ कालान्तरे विष्णुर्विप्रान् गाश्च विमानके ।
आरोहयित्वा वैकुण्ठं नीतवान्मोक्षमालयम् ।।८८।
तत्र स्नाता दिवं यान्ति मृताश्च न पुनर्भवाः ।
श्रवणात् कीर्तनाच्चापि गोसहस्रफलं भवेत् ।।८९।
इत्याह पार्वतीं शंभुर्मया लक्ष्मि! च ते पुरः ।
उदितं श्रीकृष्णनारायणचक्रप्रतीर्थकम् ।।1.560.९० ।
इति श्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने आरुणिशिष्यसत्यतपसो मोक्षः, मण्डपेश्वरतीर्थं, बादरायणशाकटायनयोः श्वमुखतानिवृत्तिः, नर्मदादन्तिवनिकासंगमः, रासभीनर्मदातीर्थवृत्तान्तः, करमर्दतीर्थं चेत्यादिसेतिहासनिरूपणनामाषष्ट्यधिकपञ्चशततमोऽध्यायः ।। ५६० ।।