लक्ष्मीनारायणसंहिता/खण्डः १ (कृतयुगसन्तानः)/अध्यायः ३१५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ३१४ लक्ष्मीनारायणसंहिता - खण़्डः १ (कृतयुगसन्तानः)
अध्यायः ३१५
[[लेखकः :|]]
अध्यायः ३१६ →

श्रीनारायण उवाच-
शृणु लक्ष्मि! कथां तेऽपि मेऽपि जातां पुरातनीम् ।
पुरुषोत्तममासस्य मिषेण जन्मबोधिनीम् ॥ १ ॥
यदा नारायणः कृष्णश्चोभौ यातौ पराऽक्षरे ।
मलमासस्य साहाय्यं कर्तुं श्रीहरिसन्निधौ ॥ २ ॥
धाम्न्यक्षरे तदा राजत्पुरुषोत्तममाधवः ।
श्रुत्वाऽर्थ्यं मलमासाय दत्तवाँश्चोत्तमां स्थितिम् ॥ ३ ॥
कृष्णस्य वचनं नारायणस्य वचनं तथा ।
मलमासोन्नतिदं तद् रक्षितं परमात्मना ॥ ४ ॥
स्वयं जातोऽधिदेवश्च मासोऽपि पुरुषोत्तमः ।
तेन तुष्टः परं कृष्णो नारायणस्तुतोष च ॥ ५ ॥
मलमासस्य वै द्वाभ्यां कृतमुद्धरणं महत् ।
तन्निमित्तं तु गोलोके गत्वा कृष्णः श्रिया युतः ॥ ६ ॥
महोत्सवं चकारोत्तमोत्तमं धामवासिषु ।
गोपगोपीगणास्तस्य पार्षदाः शक्तयः स्त्रियः ॥ ७ ॥
कोट्यर्बुदपरार्धानि चक्रुस्तस्य महोत्सवम् ।
मण्डपाः कोटिशस्तत्र निहिताः स्वर्णसद् द्रुमाः ॥ ८ ॥
कदली स्तंभशोभाढ्यास्तोरणादिविलासिताः ।
कलशैरंगचित्रैश्च पटैश्च वल्लिकादिभिः ॥ ९ ॥
प्रदर्शनैर्बहुविधैर्मल्लक्रीडादिभिस्तथा ।
अन्यत्र बहुयन्त्रैश्चान्यत्र वृषभयोधनैः ॥१ ०॥
नाटकैः पूर्ववृत्तैश्च कलाभिर्भूतनादिभिः ।
संगीतैर्नर्तनैश्चापि कथानकमखादिभिः ॥ ११ ॥
एवंविधे तत्र जाते महोत्सवे तदा श्रिया ।
रुक्मिण्याख्यमहालक्ष्म्याऽभिहितं स्वामिने मुदा ॥ १२॥
कृष्णनारायण विष्णो परात्मन् पुरुषोत्तम ।
कुरूत्सव तु मे सौधे नृत्यगायनवादनैः ॥ १३॥
ओमित्युक्त्वा श्रियाः सौधे योजयामास सूत्सवम् ।
यथा धाम्नां महासम्राट् समायात्पुरुषोत्तमः ॥ १४॥
तत्सम्माने प्रकुर्यादुत्सवं तद्वद् युयोज सः ।
सर्वधाम्नां तु या शोभा विशिष्टा साऽत्र कारिता ॥ १५॥
सर्वधामपतीनां त्वासनसिंहासनान्यपि ।
तत्र वै मण्डपे चाभिस्थापितानि यथार्हणम् ॥ १६॥
सर्वेषां दिव्यवस्तूनामुपायनानि तत्र च ।
संगृहीतानि सर्वेभ्यो धामभ्यः कृष्णशार्ङ्गिणा ॥ १७॥
चित्राणां शुभदृश्यानां मनःस्निग्धाः शुभालयाः ।
संक्लृप्तास्तत्र तत्रैव न्यस्तपानसुभोजनाः ॥ १८॥
विद्युतां तु प्रदीपानां प्रकाशाः सर्वतोऽभवन् ।
क्रीडाविद्युत्स्फटाकाणां क्रीडाऽपि सर्वतोऽभवत् ॥ १९॥
अनन्ताऽतर्क्यरूपाणां यानि प्रदर्शनानि वै ।
नेपथ्यकारविद्याभिर्वर्तन्ते स्म च तानि हि ॥२० ॥
गन्धर्वो देवगन्धर्वा गान्धर्वा धामवासिनः ।
गान्धर्व्यो देवगान्धर्व्यो गान्धर्व्यो धामसंस्थिताः ॥२१॥
चक्रुस्ते गायनं मिष्टमधुरालापसुस्वरैः ।
गायकाः स्वरपूराश्च पूरयन्ति स्म नादकैः ॥२२॥
नर्तकाश्चापि नर्तक्यो दास्यो दासाश्च सेविकाः ।
सेवकाश्च महाराज्ञ्यो राज्ञ्यश्च नर्तनं व्यधुः ॥२३॥
वादका नैकवाद्यज्ञा धामानुधामवासिनः ।
वाद्यन्ति स्म वाद्यानि यत्र किंचिन्न गौणभाक् ॥२४॥
रासे प्रवर्तमाने च गोपीनां कृष्णयोषिताम् ।
तदैश्वर्याणि भूषाश्च हेतयः पार्षदादयः ॥२५॥
मूर्तिमन्तस्तत्र रासे युयुजुः कृतनर्तनाः ।
कृष्णाऽऽनन्दाऽऽप्लुतं सर्वं ब्रह्मानन्दपरं ह्यभूत्॥२६॥
दृश्यं स्पृश्यं तथा श्राव्यं रस्यं चाऽद्वैततां गतम् ।
सुखं सुखं परानन्दं आनन्दं नन्दनं ह्यभूत् ॥२७॥
स्निग्धं प्रेमातिमोदाढ्यं जातमानन्दमेव तत् ।
नान्यः परं विजानाति विनाऽऽनन्दं हि तत्त्वकम् ॥२८॥
एवं समुत्सवे राधा लक्ष्मीः श्रीश्च रमादयः ।
कृष्णं विकृष्य रासे तं रमयामास नर्तनम् ॥२९॥
सर्वस्मिन् तन्मये जाते सर्वं रसमयं त्वभूत् ।
कृष्णो रसप्रवेगेण कूर्दन् तद्रमणोऽभवत् ॥३०॥
पत्न्याः पत्न्यन्तरं याते कूर्दनेन सतालवत् ।
चचाल मुकुटोऽजस्रं चकम्पेऽतिमुहुर्मुहुः ॥३ १ ॥
तमध्यात्वा महानन्दसुखव्याप्तो महाप्रभुः ।
पदात्पदान्तरं न्यस्य रेमे चोत्तोल्य कर्षयन् ॥३२॥
तावच्छैथिल्यमापन्नः पपात मुकुटान्मणिः ।
कोटिरत्रेषु यो नद्ध ऊर्ध्वस्थकल्गिमूलकृत् ॥३३॥
मणेः पाते सह तेन पपात कल्गिचन्द्रिका ।
तथापि नैव कृष्णः स रासाद्विरमते खलु ॥३४॥
पादमर्दनभीत्या तावुभौ दिव्यसुविग्रहौ ।
बभूवतुर्मणिः कल्गिचन्द्रिका रेमतुश्च वै ॥३५॥
रासे मूर्तिधरौ जातौ रेमाते स्माति मण्डले ।
न तौ स्वंस्वं स्थलं प्राप्तौ यावद्रासान्तमेव ह ॥३६॥
मुकुटे न स्वयं यातौ तावत्तत्र तु राधया ।
ज्ञापितो निर्गतौ कृष्णमुकुटादिति शार्ङ्गिणे ॥३७॥
कृष्णो दृष्ट्वा तु तौ प्राह किमेवं निर्गतावुभौ ।
स्वस्वस्थानं न वै यातौ मुकुटः शोभते न मे ॥३८॥
नैनं वै धारये कल्गिमणिशून्यं कभूषणम् ।
धारयिष्येऽन्यमुकुटं मायूरपिच्छशोभितम् ॥३९॥
इत्युच्यमाने श्रीकृष्णेऽधिमासस्य महोत्सवे ।
आनर्त्ताख्यो महान् भक्तो राजा गोलोकमाययौ ॥४०॥
कृष्णप्रीत्यर्थमेवाऽयं तपोभक्तिं चकार वै ।
तस्मै प्रसन्नः स कृष्णो नव राज्यं तु दित्सति ॥४१॥
गोलोकस्य दिव्यभूमेः कणं त्वर्पितवान् प्रभुः ।
कणः स तत्र सौराष्ट्रो देशस्त्वानर्त्तसंज्ञकः ॥४२॥
त्रिजलावृत्तसुद्वीपो राज्यमानर्तभूभृतः ।
समभूत्पश्चिमवार्धिसंलग्नो भूमिसन्धितः ॥४३॥
प्रार्थयामास चानर्तो मम राज्यस्य मे तथा ।
गुप्तये रक्षकं देहि तव दूतं प्रतापिनम् ॥४४॥
ओमित्युक्त्वा ददौ कृष्ण आनर्ताय तु भूभृते ।
मुकुटस्य मणिर्यश्च वियुक्तो मुकुटात्तु तम् ॥४५॥
दिव्यः स पार्षदो भूत्वा स ययौ भूभृता सह ।
मणिमूलखचिता या वियुक्ता कल्गिचन्द्रिका ॥४६॥
मूलं विना न वै स्थातुं शक्ता प्रार्थयदीश्वरम् ।
वासं मे देहि भगवन्न मूला न स्थितिर्मम ॥४७॥
हरिः प्राह तदा तां तु वियुक्ता मुकुटाद् यतः ।
याहि त्वं मणिना साकं भूत्वा दिव्यस्वरूपिणी ॥४८॥
आनर्तविषये स्थेयं द्विजेन मणिरूपिणा ।
द्विजपत्न्या त्वया भाव्यं गुरुरूपौ भविष्यथः ॥४९॥
आनर्तोऽपि हरिं नत्वा नीत्वा कल्गिं मणिं कणम् ।
कृष्णाऽर्पितान्मुकुटाच्चापरान् मुक्तान् मणींस्तथा ॥५०॥
आययौ पश्चिमे वार्धौ कर्मम्वां मुक्तवान् कणम् ।
स तु द्राग् विस्तृतो भूत्वा जातः सौराष्ट्रसंज्ञकः ॥५१॥
तत्र मणिर्मुकुटस्य त्ववाततार चाम्बरात् ।
अन्येऽपि मणयस्तत्राऽवतेरुर्व्योममार्गतः ॥५ २ ॥
मुख्यो मणिर्दिव्यदेहो निम्बदेवोऽभवद् द्विजः ।
व्याघ्रारण्ये रम्यदेशेऽश्वपट्टसरसस्तटे ॥५ ३ ॥
निवासमकरोत् तत्र पर्णकुट्यां स तापसः ।
या कल्गिचन्द्रिका सा तु तत्रैव सरसस्तटे ॥५४॥
दिव्यदेहा निवासं चाऽकरोद् द्विजप्रसेवनम् ।
आनर्तेन तदा ताभ्यां प्रार्थितं भावगर्भितम् ॥५५ ॥
विना लौकिकदेहं वै जनानां श्रेय इच्छतो ।
दर्शस्पर्शादिलाभश्च नाऽतः स्वीकुरुतं वपुः ॥५ ६ ॥
भक्तप्रार्थनया तौ च नॄणां श्रेयो विचिन्त्य च ।
देहं ग्रहीतुमिच्छन्तौ हरिं सस्मरतुर्हृदा ॥५७॥
श्रीकृष्ण आविरासाऽत्र संकल्प्य मानसौ च तौ ।
देहौ समर्प्य तत्रैवाऽन्तरधीयत पूजितः ॥५८॥
अथैवं तौ कणलब्धस्थौल्यं प्राप्तौ ततः परम् ।
सर्वगोचरतां यातावश्वपट्टसरस्तटे ॥५९॥
तपस्यन्तौ च तत्रैव लक्ष्मीनारायणात्मिकाम् ।
संहितां वाचयामासतुश्च कालं सुनिन्यतुः ॥६०॥
मणिः स निम्बदेवाख्यो बभूव ख्यात एव ह ।
कल्गिः सा ख्यातिमापन्ना मिष्टादेवीति सर्वथा ॥६१॥
अथ रैवतपौत्रो वै खट्वांगदजनाधिपः ।
तपस्तप्तुं समायातो निम्बदेवाश्रमान्तिके ॥६२॥
बद्रीतले सूपविश्य जजाप जपमुत्तमम् ।
ओंश्रीलक्ष्मीपते कृष्णनारायण नमोऽस्तु ते ॥६३॥
तस्य वै तपसा तत्राऽऽयातौ लक्ष्मीनरायणौ ।
वरदानाय तं भूपं रोधयामासतुस्तदा ॥६४॥
राज्ञा दर्शनलाभार्थं तयोर्वासोऽभिकांक्षितः ।
तथास्त्विति प्रति श्रुत्याऽदृश्यतां तौ गतावुभौ ॥६५॥
या लक्ष्मीः सा रुक्मिणी श्रीरूपाऽऽसीद् दिव्यरूपिणी ।
नारायणः स वै कृष्ण आस श्रीपतिरेव सः ॥६६॥
श्रिया जुष्टः स वै कृष्णो दध्यौ तु पितरौ तदा ।
कल्गिमणिस्वरूपौ तौ ध्यातौ स्वेनैव रक्षितौ ॥६७॥
स्थापितौ दिव्यदेहेन चिन्तयामास तत्र ह ।
मिष्टादेवीनिम्बदेवगृहे कृष्णो बभूव वै ॥६८॥
यत्र जज्ञे तु गोपालस्तत्राऽश्वपट्टसन्निधौ ।
पर्णकुट्यां मानसः स जातमात्रः सयौवनः ॥६९॥
दिव्यो बभूव गोलोकदिव्यविग्रह एव सः ।
गां तु वाणीं पालयति गोपालः कृष्ण एव सः ॥७० ॥
गोः पृथिव्याः पालकं राजानं लाति च रक्षति ।
गोपालः स प्रभुः कृष्णः संस्थितो नृपसन्निधौ ॥७ १॥
आश्विनकृष्णपञ्चम्यां गोपालः कृष्ण एव ह ।
कुकुमवाप्यां संजज्ञे निम्बदेवगृहे प्रगे ॥७२॥
अन्ये ये मणयस्त्वानर्तेन त्यक्ताः सुराष्ट्रके ।
सर्वेऽत्र कृष्णभक्तास्ते जाताः सुराष्ट्रके स्थले ॥७३॥
तत्र ओमालये शत्रूंजिताक्षेत्रे बभूव ह ।
प्रेममणिर्महादिव्यविग्रहः सूर्यसन्निभः ॥७४॥
प्रेमाख्यतद्विजक्षेत्रे दिव्या संकल्पमात्रजा ।
फाल्गुनकृष्णपंचम्यां जज्ञे लक्ष्मीस्तु कंभरा ॥७५॥
कं सुखं शाश्वतं कार्ष्णं बिभर्तीति हि कंभरा ।
जातमात्रा युवती सा दिव्याऽऽस श्रीस्वरूपिणी ॥७६ ॥
पिता विज्ञाय तां श्रीं वै कृष्णार्हा दिव्यचक्षुषा ।
विवाहविधिनाऽऽहूय गोपालं कृष्णमेव ह ॥७७ ॥
कंभरां श्रीं ददौ तस्मै कोटिदेवादिसन्निधौ ।
इत्येवं कंभरागोपालौ श्रीकृष्णौ तु दम्पती ॥७८ ॥
तापसौ भगवन्तौ तौ दिव्यमूर्ती बभूवतुः ।
साप्तभौमकशोभाढ्ये मन्दिरे स्थापितौ सदा ॥७९॥
एकदा दुन्दुभिस्ताभ्यां तिथ्यष्टम्यां प्रगेऽधिके ।
मासे श्रुतस्त्वश्वपट्टसरोवरान्तिके शुभः ॥८ ० ॥
शृण्वन्तु मणिकल्ग्याद्यास्तथा श्रीपतिसेवकाः ।
पुरुषोत्तमसंज्ञोऽहं तोषयितुं परेश्वरः ॥८ १ ॥
अक्षरब्रह्मधामस्थो गोलोकाधिपतिं प्रभुम् ।
वैकुण्ठाधिपतिं चान्यधामाधिपाँश्च केशवान् ॥८२॥
कृतवान् मलमासं तु निर्मलं मत्स्वरूपिणम् ।
तदस्मिन्नधिके मासे पुरुषोत्तमसंज्ञके ॥८३ ॥
एकस्यापि दिनस्यात्र व्रतं कृत्वा व्रती जनः ।
प्राप्नुयात् कृपया मेऽत्र सर्वं मां धाम चापि मे ॥८४॥
व्रतं त्वद्याऽपरपक्षाऽष्टम्यास्त्वनन्तपुण्यदम् ।
यथेष्टं तत्र दास्येऽहं व्रतार्थिने स्वयं हरिः ॥८५॥
दुन्दुभिश्चेत्यभिधाय स्नात्वाऽश्वपट्टवारिषु ।
नत्वा काल्याणिकं निम्बदेवं मिष्टां महासतीम् ॥८६॥
प्रपूज्य कंभरां श्रीं च कृष्णं गोपालमित्यपि ।
ताभ्यां कृतं सुसत्कारं प्राप्य वै रैवतं ययौ ॥८७॥
कृतं त्वधिकमासस्य परपक्षाऽष्टमीव्रतम् ।
कंभरया सोपवासं गोपालेनापि निर्जलम् ॥८८॥
प्रातः संपूजितः सम्यङ् मध्याह्नेऽपि निशि प्रभुः ।
अष्टोत्तरशतसामग्रीभिः श्रीपुरुषोत्तमः ॥८ ९॥
षट्पंचाशद्भोज्यानि चार्पितानि तथा कृतम् ।
आष्टोत्तरशतवर्तिभिरारार्त्रिकमुज्ज्वलम् ॥९ ० ॥
लक्षशो दक्षिणा दत्ता रात्रौ नीराजने हरिः ।
आविर्बभूव भगवान् धामस्थः पुरुषोत्तमः ॥ ९१ ॥
विहसन् हार्दिकं स्नेहं वर्षयन् रञ्जयन्नभौ ।
उवाचाऽस्मि प्रसन्नोऽहं गोलोकेश किमिष्यते ॥ ९२ ॥
श्रीरिव कंभरा लक्ष्मीः किमिच्छति व्रतार्थिनी ।
युवयोर्वसतिस्त्वत्र मदिच्छयैव सर्वथा ॥ ९३ ॥
वर्तते मिषमात्रं तु खट्वांगतप एव ह ।
मुकुटान्मणिकल्ग्योश्च वियोगोऽपि मदिच्छया ॥ ९४॥
रासादिकं निमित्तं च सर्वथा वै मदिच्छया ।
तस्माद् वां वरदश्चास्मि वृणुतं तु यथेप्सितम् ॥९५॥
तदर्थं त्वागतोऽस्म्यत्र साक्षाच्छ्रीपुरुषोत्तमः ।
श्रुत्वैवं भावगर्भं तु हार्दं सर्वपरात्मनः ॥९६॥
ऊचतुस्तौ प्रणम्यैनं मूलरूपेऽभिचिन्त्य तौ ।
भगवंस्तेऽभिलाषा चेत् कारणं चात्र संस्थितौ ॥९७॥
आवाभ्यां प्रार्थ्यसे त्वं वै सर्वदाऽत्र स्थिरो भव ।
पुरुषोत्तमसेवायाः सर्वदा लाभ एव नौ ॥९८॥
अनादिकृष्णयोगस्तु भाग्यहीनस्य दुर्लभः ।
अस्मन्मूलस्वरूपस्त्वं रक्षाऽत्र स्थित एव नौ ॥९९॥
कृष्णनारायणोऽनादिर्लक्ष्म्या श्रिया प्रसेवितः ।
मुक्तैश्वर्यैः सेवितस्त्वं वसाऽत्र पुरुषोत्तम ॥ १ ००॥
लालनं पालनं चापि क्रीडनं पोषणादिकम् ।
दिव्यस्यापि यथादेशकालानुगुणमेव ते ॥ १०१ ॥
कृत्वा सुखं परानन्दं प्राप्स्यामोऽत्र तव स्थिरम् ।
इत्यभ्यर्थ्य कंभरागोपालौ श्रीपुरुषोत्तमम् ॥ १ ०२॥
नेमतुस्तं कृष्णनारायणं श्रीपुरुषोत्तमम् ।
भगवानपि सर्वात्मा तथास्त्वित्यभिधाय च ॥ १ ०३॥
स्वप्रियां धामलक्ष्मीं चाऽऽवेदयन्नेत्रसंज्ञया ।
याऽभिगम्य हरेर्हार्दं तिरोऽभूत् पुरुषोत्तमे ॥ १ ०४॥
सोऽयं परात्परो ब्रह्मपरः श्रीपुरुषोत्तमः ।
बालरूपोऽभवत्तत्र जातमात्रो युवा प्रभुः ॥ १ ०५॥
बभूवतुः प्रसन्नौ कंभरागोपालकृष्णकौ ।
पुत्रो दिव्यो व्रतलभ्यः स्वयं श्रीपुरुषोत्तमः ॥१०६॥
व्रतं निमित्तमात्रं वै कारणं तस्य मानसम् ।
लीलैव कारणं तस्य पुंसस्तु परमस्य वै ॥ १ ०७॥
कृष्णनारायणोऽनादिपुरुषोत्तम एव सः ।
श्रीरमादिपार्षदादिसमैश्वर्यगुणान्वितः ॥ १ ०८॥
स्वेच्छया धर्मरक्षार्थं भक्तिप्रवर्तनाय च ।
प्रादुर्भूतः स्वयं पत्नीव्रतस्वरूप एव सः ॥ १०९॥
गोलोके यः कृष्णमुखात्पत्नीव्रताभिधो गुणः ।
पातिव्रत्याभिधलक्ष्म्या सहितोऽभूत् प्रकाशितः ॥ ११ ०॥
सोऽयं धर्मस्थापनाय स्वयं श्रीपुरुषोत्तमः ।
पुत्रोऽभवच्छ्रीकृष्णस्याऽधिमासे पुरुषोत्तमः ॥ १११ ॥
देवदुन्दुभयो नेदुः पुष्पाणां वर्षणं ह्यभूत् ।
नृत्यं तत्राऽप्सरसां च गायनं गायकैः कृतम् ॥ ११ २॥
प्रतिधामनि वासाश्चेश्वरा देवा महर्षयः ।
अवताराश्च तद्देव्यः शक्तयोऽब्जाऽर्बुदान्त्यकाः ॥ ११३ ॥
जयकारेण सहिताः पुपूजुः परमेश्वरम् ।
ब्रह्माण्डेष्वपि सर्वत्र जीवेशाऽवतरादिषु ॥ १ १४॥
समुत्सवो महानासीदनन्तब्रह्मभोजनम् ।
प्रीणनं तर्पणं सृष्टिप्राणिनां संबभूव ह ॥ १ १५॥
कार्तिकाऽधवलाऽष्टम्यां पुनर्वसौ घटीस्थिते ।
सूर्याऽस्तोत्तरघटिकापञ्चके समये गते ॥ १ १६॥
निशापूर्वपदेऽनादिश्रीकृष्णपुरुषोत्तमः ।
कृष्णनारायणो जज्ञे गोपालकंभराऽऽलये ॥ १ १७॥
प्रकाशश्चात्र सर्वत्र परत्रानेकसूर्यवत् ।
तदा जातं इति ज्ञात्वा वेदा विद्याः समस्तुवन् ॥ १ १८॥
कृष्णस्य वल्लभश्चाति सर्वविद्याधिशेवधिः ।
प्रभालक्ष्मीपार्वतीमाणिकीश्र्यादिपतिः प्रभुः ॥ १ १९॥
चमत्कारानसंख्यान्दर्शयामास कृपाकरः ।
ऊर्जशुक्लैकादश्यां स प्राप दीक्षोपवीतकम् ॥ १२० ॥
माघशुक्लाष्टमीप्रातः काश्यामवाततार सः ।
नवम्यां ब्रह्मविद्यानां संचारं कृतवान् प्रभुः ॥ १२१ ॥
स्वपितृमुखतः श्रुत्वा विज्ञानं स्वात्मनि स्थितम् ।
वेदविद्यामयं सर्वं लक्ष्म्यै ह्युपादिदेश ह ॥ १२२॥
निबोध लक्ष्मि! किं वच्मि यो हरिः पुरुषोत्तमः ।
परब्रह्माऽक्षराऽतीतोऽनादिकृष्णनरायणः ॥ १२३॥
स एव विद्यते राधाधवो गोलोकधामनि ।
रुक्मिणीनाथ एवासौ गोपालः कंभरापतिः ॥ १२४॥
बैकुण्ठाधिपतिः सोऽयं लक्ष्मीपतिर्नरायणः ।
कृष्णनारायणः सोऽयं सर्वेशः पुरुषोत्तमः ॥ १२५॥
सोऽहं नारायणो लक्ष्मि! सा त्वं लक्ष्मीर्मम प्रिया ।
स्थलभेदेन रूपाणां बाहुल्यं चेयते मया ॥ १२६ ॥
निगमागमविद्यानां वक्ताऽहं पुरुषोत्तमः ।
श्रोतृव्यक्तिर्मम दासी प्रिया शिष्या त्वमन्वसि ॥ १२७॥
मया नारायणेनात्र तुभ्यं लक्ष्मि! प्रदीयते ।
ज्ञानं विज्ञानमात्मस्थं ह्यपरोक्षं सदा मम ॥ १२८॥
सृष्टिकल्पलयपूर्वपूर्वतरतमाऽऽदिजम् ।
लक्ष्मीनारायणसंहितात्मकं श्लोककोटिकम् ॥ १२९ ॥
वैराजाय त्वया देयं पञ्चाशल्लक्षसंख्यकम् ।
यत्रेश्वराणां वैशेष्यं वर्णितं चेशसृष्टये ॥ १३० ॥
वेधसे वै त्वया देयं पञ्चविंशतिलक्षकम् ।
यत्राऽगणितगोलादिब्रह्माण्डेतिकथादयः ॥ १३ १॥
सार्धद्वादशलक्षं च पितृभ्योऽर्प्य त्वया प्रिये! ।
यत्र तेषां सर्वकाण्डाः परमार्थतयाऽऽदृताः ॥ १ ३२॥
पञ्चलक्षं त्वया देयं दिवि स्वर्गुरवे प्रिये! ।
बार्हस्पत्यं सुराणां तज्ज्ञानं देवानुसारि वै ॥ १३३॥
पञ्चलक्षं तु दैत्यानां पातालादिप्रवासिनाम् ।
शुक्राय च त्वया देयं तामसाद्यनुसारि यत् ॥ १३४॥
सपादलक्षं दातव्यं ब्राह्ममार्षं विशोधकम् ।
त्यागिभ्यः परमर्षिभ्यो ब्रह्माऽवाप्तिकरं तु यत् ॥ १३५॥
सपादक्षं दातव्यं विप्रेभ्यो मानवेषु वै ।
यदधीत्य चतुर्वर्गान् साधयिष्यन्ति मानवाः ॥ १३६॥
कालान्तरे लयं याते भविष्यामि पुनः पुनः ।
तत्तज्ज्ञानप्रकाशाय व्यासाचार्यर्षिरूपतः ॥ १ ३७॥
इति ते स्मारितं लक्ष्मि! प्राग्वृत्तं ते च मे तथा ।
पूर्वं पूर्वा लयं यान्ति जलस्थलविवर्तनाः ॥ १३८॥
वैराजाः कोटिशो नष्टा ब्रह्मादीनां तु का कथा ।
पुरुषोत्तमरूपोऽहं महाप्रलयकृत्तथा ॥ १३९॥
सृष्टिकृन्नित्यविज्ञानोऽखिलाऽऽत्माऽन्तर्नियामकः ।
न विस्मराम्यण्वपि त्वचिन्त्यशक्तिनिधिर्ध्रुवः ॥ १४०॥
यत्र वै पर्वतास्तत्र जलं कालान्तरे भवेत् ।
जलस्थाने स्थलं देह्यावासं वासे वनं तथा ॥ १४१॥
रणेऽरण्यं तथाऽरण्ये पत्तनं विवरं च वा ।
विवरेषु महासेतुः स्तरं स्तरे तथाऽम्बरम् ॥ १४२॥
क्व कदा किं भूतमेतज्जानामि भावि चाप्यहम् ।
सर्वं मयि भवत्येव किंचिन्मत्तो न रिच्यते ॥ १४३ ॥
इदं सृष्टिसमारंभेऽस्मच्चरित्रकथामृतम् ।
अधिमासाऽपरपक्षाऽष्टमीव्रतमिषेण वै ॥ १४४॥
स्मारितं ते मया लक्ष्मि! पावनं श्रोतृदेहिनाम् ।
पाठकानां स्वर्गदं मोक्षदं व्रतप्रपुण्यदम् ॥ १४५ ॥
अत्रोत्सवे व्रतकर्तुर्भुक्तिर्मुक्तिर्न संशयः ।
पुत्रार्थी लभते पुत्रं भार्या भार्येच्छुको लभेत् ॥ १४६॥
धनार्थी प्राप्नुयाद् द्रव्यं क्षेत्रार्थी भूमिमाप्नुयात् ।
धर्मार्थी पुण्यवान् स्याच्च सकामः कामनां लभेत् ॥ १४७॥
यशः कीर्तिमवाप्नोति सतां प्रधानता लभेत् ।
अशुभं नाशमायाति प्रपाठनेन सर्वथा ॥ १४८॥
विप्रो विज्ञानवान् स्याच्च विजयं क्षत्रियो लभेत् ।
धनधान्यस्मृद्धिसम्पद्युक्तो वैश्यो भवेत्तथा ॥ १४९॥
शूद्रः सर्वसमृद्धः स्यात् सुखी चास्य श्रवेण वै ।
श्रेयः श्रियं परां विन्देत् तेजोवीर्यं समाप्नुयात् ॥ १५ ०॥
बलं रूप गुणान् सम्पद् गोधनक्षेत्रवाटिकाः ।
दाराः सुता दासदासीर्गृहराज्यस्वरादिकम् ॥ १५१॥
आरोग्यं च स्वतन्त्रत्वं निर्बन्धत्वं समाप्नुयात् ।
निर्भीकत्वं निरापत्त्वं प्राप्नुयान्मोक्षणं तथा ॥ १५२॥
इत्यष्टमीव्रतजन्यं कथितं ते फलं प्रिये ।
व्रतं कृत्वा पूजयित्वा प्राप्नुयात् पुरुषोत्तमम् ॥ १५३॥
मेऽवतारा असंख्याता ह्यहं श्रीपुरुषोत्तमः ।
अवतारी महाराजः परब्रह्म सनातनः ॥ १५४॥
यावद् ब्रह्मा विराट् वापि वैकुण्ठभूमयस्तथा ।
सर्वत्राऽधिकमासोऽहं स्थास्यामि पुरुषोत्तमः ॥ १५५॥
यावच्चन्द्रश्च सूर्यश्च स्थास्यन्ति मेदिनी तथा ।
कृष्णनारायणतीर्थे तावत् स्थास्यति शाश्वतम् ॥ १५६॥
कृष्णनारायणश्चाहं ध्वजशार्ङ्गादिशोभितः ।
लक्ष्म्यादिसेवितस्तत्र स्थास्यामि पुरुषोत्तमः ॥ १५७॥

 इतिश्रीलक्ष्मीनारायणीयसंहितायां प्रथमे कृतयुगसन्ताने पुरुषोत्तममासमाहात्म्ये मलमासस्याऽऽधिदैवे पुरुषोत्तमे जाते गोलोके कृतमहोत्सवरासे कृष्णमुकुटमणिकल्गिचन्द्रिकयोः मुकुटाद्वियोगे तयोर्भुवि आनर्तदेशे निम्बदेवमिष्टादेवीरूपेणा- ऽवतरणं, तयोर्गृहे कृष्णस्य गोपालकृष्णरूपेणाऽवतरणं, प्रेममणि-गृहे रुक्मिणीलक्ष्म्याः कंभरारूपेणाऽवतरणं, कंभरालक्ष्मी- गोपालकृष्णयोर्विवाहोत्तरं दुन्दुभिश्रवणेनाऽष्टमीव्रत-करणेन श्रीपुरुषोत्तमस्य तयोर्गृहेऽवतरणं, कोटिश्लोकसंहिताकरणं चेत्यादिनिरूपणनामा पञ्चदशाधिकत्रिशततमोऽध्यायः ॥१.३१५॥