लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः १२३

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः १२२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १२३
[[लेखकः :|]]

श्रीनरनारायण उवाच-
शृणु श्रीबदरीदेवि नारायणि परेश्वरि ।
तिष्यसन्तानविषयान् संक्षेपात् स्मारयामि ते ।। १ ।।
चतुर्थे तिष्यसन्ताने नरनारायणस्य मे ।
श्रीबदर्याः स्वरूपस्य वर्तनं ते समीरितम् ।। २ ।।
राजर्षेर्बदराख्यस्याऽऽख्यानं हिमाचलस्य च ।
हेमानलासुरस्यैव गर्ते निक्षेप ईरितः ।। ३ ।।
श्रीमाणिक्या बदरीशीरूपतादि प्रकीर्तितम् ।
श्रीशीलस्य तु विप्रस्य प्रेतस्य मुक्तिरीरिता ।। ४ ।।
दाराभाग्याख्यभूपस्य परीक्षणं च मोक्षणम् ।
ब्रह्मदेवद्विजस्यापि वंशवत्त्वकथोदिता ।। ५ ।।
बदर्या बालयोगिन्या गीतोक्ता ब्रह्मभावदा ।
दास्यं भागवतत्वं च वैष्णवत्वं च योगिता ।। ६ ।।
परब्रह्मप्रेमरसवर्णनं चेति कीर्तितम् ।
सत्सेवया नाग्नमुखीचारण्या मुक्तिरीरिता ।। ७ ।।
विनोदिन्यास्तु कान्तस्य भक्त्या नारायणाऽऽगमः ।
देवलिकात्मकत्वं चेत्येतत् सर्वमुदीरितम् ।। ८ ।।
बाहुलकस्य च लीलावत्या भक्तिरुदाहृता ।
सप्तदशोऽनादिकृष्णजन्मोत्सवस्तथोदितः ।। ९ ।।
मालियानमल्लिकयो सेवया मुक्तिरीरिता ।
ज्ञानलभ्यो ब्रह्मरसश्चोपास्त्या कथितस्ततः ।। 4.123.१ ०।।
रसप्रदाधिधर्माणां महायोगस्य वर्णनम् ।
अनादिश्रीकृष्णनारायणश्च बालयोगिनीन् ।। १ १।।
विवाहयामास कथा चैषा तत उदीरिता ।
सद्भक्तस्य ततो निकामदेवस्य च मोक्षणम् ।। १२।।
स्वरूपयोगरूपं च परब्रह्मणि चोदितम् ।
ततो विशिष्टब्रह्माऽद्वैतात्मा हरिरुदीरितः ।।१ ३।।
निर्भययोगकथनं स्तुतिश्चापि तथोदिता ।
स्तुतिकर्त्र्यै तथा स्तोत्रे ह्यखिलधामिदर्शनम् ।। १४।।
सदेहदिव्यमुक्तिश्च तयोस्तत उदीरिता ।
निगडभ्रमणादीनां कैवर्तानां प्रमोक्षणम् ।। १५।।
पिपठायनयोगेन तत उक्तं हि बद्रिके ।
एकलायाश्च कुशलीसागर्या राजयक्ष्मतः ।। १६।।
रक्षणं मोक्षणं चापि तत उक्तं हि बद्रिके ।
वञ्चयित्र्या विषलाण्याः सतां प्रसादभोजनात् ।। १७।।
मुक्तिरुक्ता ततो गंगाञ्जन्या मोक्ष उदीरितः ।
रमाञ्जन्या रमात्व च मोक्षणं समुदीरितम् ।। १८।।
स्त्रियां रणस्तम्बकुम्भकारस्य साधुसेवया ।
चन्द्रमाः पुत्रतां प्राप्तस्ततो मोक्षं उदीरितः ।।१९।।
ततो देवसुधानाम्न्याः स्वर्णकर्त्र्याश्चमत्कृतिः ।
दुर्भिक्षेऽसंख्यजीवानां भोजनं मोक्षणं तथा ।।4.123.२०।।
विष्टिनार्या विद्रुमिण्याः सत्संगेन च दिव्यता ।
चाण्डाल्या मालवान्याश्च सेवया धर्मदर्शनम् ।।२१ ।।
मूर्तमन्त्रदर्शनं च मोक्षणं चाप्युदीरितम् ।
कारेलिकायाः शूद्र्याश्च निर्मोहित्वमुदाहृतम् ।।२२।।
बद्रिकायनसाधोश्च मूकता शापमोक्षणम् ।
यन्त्रकर्त्र्याश्च गोमत्याः क्षयरोगनिवारणम् ।।२३।।
कनकांगदाया मोक्षः साधूनां सेवया कृतः ।
रायहरिभाणवाण्योरुन्मत्तयोस्तु मुक्तये ।।२४।।
लक्ष्मीनारायणसंहितायाः कथादिवाचनम् ।
अष्टादशो हरेर्जन्ममहोत्सव उदीरितः ।।२५।।
नारायणसरःस्थानां मोक्षणं रुच्छभूभृतः ।
पावनत्वं तथा विद्योताया मोक्षं उदीरितः ।।२६।।
कुंभकारकुटुम्बस्य स्वर्णकारस्त्रियास्तथा ।
धातुध्माया नटस्यापि कदर्यस्यापि मोक्षणम् ।।२७।।
क्षीरोदनृपतेः पत्न्याः प्रजानां मुक्तिरीरिता ।
सोमिकादिगणिकानां मोक्षं उदीरितस्ततः ।।२८।।
दुःखनाशो मद्यपस्य मोक्षश्च हरिणा कृतः ।
चक्रिणो यास्कवादस्य बहूनां मोक्ष ईरितः ।।२९।।
निन्दकयोर्द्विवदन्तीर्द्विर्गर्जनाभिधानयोः ।
यमदूतदर्शनं च मोक्षस्तत उदीरितः ।।4.123.३०।।
सुरप्रसादविप्रस्य गुरुहन्तुः कथाश्रवात् ।
सतां प्रसेवया मोक्षस्तत उक्तो हि बद्रिके ।।३ १।।
काराग्रहे पतितानां देवद्रोहवतां सदा ।
नागविक्रमादीनां च रक्षामोक्ष उदीरितौ ।।३२।।
शालमित्रनृपतेश्च राज्ञ्याश्चायुर्विनाशनम् ।
मोक्षणं संहिताकथाश्रवणात् समुदीरितम् ।।३३।।
युद्धराजस्य च विषप्रदस्य कन्यकादिषु ।
यमदूतागमो मृत्युः साधुकृतं च रक्षणम् ।।३४।।
व्यवायिन्या गर्भहन्त्र्या अनंगवल्लरीस्त्रियाः ।
पापनाशो मोक्षणं च कथाश्रयादुदीरितम् ।। ३५।।
षण्ढवज्रादिषण्ढानां कथाश्रवात् प्रमोक्षणम् ।
नपुंसकानामन्येषां पुंस्त्रीव्यञ्जकतोदिता ।।३६।।
घातकिनो यवसन्ध्याख्यस्य मुक्तिरुदीरिता ।
भण्डशीलाख्यभाण्डस्य भवायनस्य मोक्षणम् ।।३७।।
हर्षवीर्यादिमल्लानां मृगयूणां च बद्रिके ।
वार्धूषिकाणां मोक्षश्च कथाश्रवादुदीरितः ।।।२८।।।
नागादस्य वादिटस्य सारहासे च खेलिनाम् ।
कथासाधुप्रसंगेन मोक्षस्ततः उदीरितः ।।३९।।
विलासदेवविप्रस्य लुञ्चादस्य च दीक्षणम् ।
दुरितघोषसंज्ञस्य दीक्षणं कीर्तितं ततः ।।4.123.४०।।
शीलयान्याः स्वामिनश्च धर्मभटस्य मोक्षणम् ।
न्यायाक्षिण्याः स्वामिनश्च न्यायाधीशस्य मोक्षणम् ।।४१ ।।
विशालरेखकायस्थादीनां चोक्तं च मोक्षणम् ।
शाहविलापनक्षत्रियस्योक्तं मोक्षणं ततः ।।४२।।
दण्डारणिकौलिकस्य गृध्रजन्मनि मोक्षणम् ।
गोवारस्य बिडालजन्मनश्चोक्तं प्रमोक्षणम् ।।४३।।
ठट्ठोलवणिजो मोक्षः प्रोक्तः शृगालजन्मनः ।
स्वर्णाञ्जनानिभृत्यानां सेवयोक्तं प्रमोक्षणम् ।।४४।।
अजापालस्यापि मुक्तिरुक्ता च श्येनजन्मनः ।
अजानां मोक्षणं चोक्तं चटकाजन्मनां ततः ।।४५।।
कपोतानां पुरा सार्थवाहानां मोक्षणं तथा ।
पुरा तु कंकजातीनां मोक्षणं काकपक्षिणाम् ।।४६।।
नाणकिन्याः खवासिन्या गृहगोधाख्यजन्मनि ।
मोक्षणं संघवाटादिशूद्राणामाखुजन्मनाम् ।।४७।।
सागरदानवारुटकीरताराख्यभाटयोः ।
पुण्यवत्याः स्वामिनश्च देवगतीश्वरस्य च ।।४८।।
जयमानबन्दिनश्च वज्रविक्रमभूभृतः ।
कथाश्रवणतः प्रोक्तं मोक्षणं बद्रिके ततः ।।४९।।
सप्ताब्धिसिंहनृपतेः सर्पदष्टस्य मोक्षणम् ।
हर्षनयनसंज्ञस्य मागधस्यापि मोक्षणम् ।।4.123.५०।।
योगिदासस्य मोक्षश्च कथितो बद्रिके ततः ।
सौरभसावित्रनाम्नस्ताम्चूलिनश्च मोक्षणम् ।।५१ ।।
रगिलाख्यरंगकर्तुर्मोक्ष उक्तस्ततः परम् ।
डमरूकाभिधवाद्यकारस्योक्तं च मोक्षणम् ।।।५ २ ।।
चिह्नरायाभिधभावसारस्योक्तं च मोक्षणम् ।
स्वर्णास्तरणादीनां च विद्याध्राणां प्रमोक्षणम् । । ५ ३ ।।
चित्रबर्हादिगन्धर्वोत्तमानां मोक्षणं ततः ।
किन्नराणां चारणानां सिद्धानां मोक्षणं ततः ।।५४।।
संहितायाः कथायास्तु समाप्तौ पूजनादिकम् ।
नगरे भ्रमणं सर्वराजराष्ट्रादिषु प्रभोः ।।५५।।
कुंकुमवापिकायां श्रीहरेश्च गमनं ततः ।
उक्तः सर्वमेधयज्ञो नागविक्रमभूपतेः ।। ५ ६ ।।
दिलावरीश्वरनन्दिभिल्लस्य योधनं ततः ।
नागविक्रमभूपेन सह सैन्योभयोरपि ।।५७।।
नागविक्रमविजयो नन्दिभिल्लस्य संक्षयः ।
दिलावर्याः सतीत्वं च कथितं बद्रिके ततः ।।।५८ ।।
प्रभुणा निजकान्ताभ्यः कृष्णनारायणेन तु ।
गृहगीता शुभा प्रोक्ता गृहिणां मोक्षसाधनम् ।। ९९ ।।
विध्यर्थाऽऽज्ञावतां मोक्षः कथितो गृहिणोरपि ।
द्वाविंशः श्रीहरेर्जन्मजयन्त्युत्सव ईरितः ।। 4.123.६० ।।
पुरञ्जयशितीपस्य स्वप्ने नरकभोगिता ।
मोक्षणं कथितं चापि सत्यलोकं ययौ हरिः ।।६ १ ।।
सप्तलोकेषु भगवान् गत्वाऽश्वसारसं ययौ ।
अतलादिषु गत्वापि हरिर्जन्मदिनं निजम् ।। ६२।।।
चतुर्विंशं प्रचक्रे कुंकुमवाप्यां कथोदिता ।
सप्तद्वीपेषु गत्वापि पञ्चविंशं निजोत्सवम् । । ६ ३।।
कुंकुमवापिकायां च चकार परमेश्वरः ।
वैराजेश्वरप्रभृतिलोकेषु धामसूर्ध्वगः ।। ६४।।
हरिः प्रदर्श्य पत्नीभ्यो धामानि चाययौ ततः ।
कुंकुमवापिकाक्षेत्रं सिंहारण्यादिभूमिषु ।। ६५।।
विचचार विहारार्थं पत्नीभिः सहितः प्रभुः ।
तत्र सर्वाभिरिष्टानि ह्यपत्यानि हरेस्तदा ।।६६।।
सर्वाभ्यः प्रददौ तत्र युगलापत्यकानि सः ।
मानसानि हि दिव्यानि न गर्भजानि बद्रिके ।। ६७।।
तेषां संस्कारविधयः कथिताश्च ततः परम् ।
तिष्यस्वभावकथनं तिष्यगुणप्रवर्णनम् ।।६८ ।।
मायापालनृपतेश्च याम्यदण्डात् प्ररक्षणम् ।
सनत्कुमारमुनिना कृतं च मोक्षणं ततः ।।६९ ।।
कलौ मोक्षसाधनानि प्राविर्भावा हरेस्ततः ।
नागविक्रमभूपस्य तीर्थयात्रा च दिव्यता ।।4.123.७ ० ।।
श्रीहरिर्निजपुत्राय मुकुन्दविक्रमाय तु ।
दिलावरीराजधान्यामभिषेकं चकार ह ।।७१ ।।
श्रीकृष्णो निजपत्नीनामक्षरेक्षणवाञ्च्छनाम् ।
गत्वा कोटिविमानैः प्रदर्श्य पूरितवान् प्रभुः ।।७२।।
पत्नीनां मुक्तपुंरूपत्वं च व्रह्मह्रदाप्लवः ।
कोटिशृंगाद्रिवीक्षा च नृत्यमण्डपवीक्षणम् ।।७३।।
रासमण्डपवीक्षा च विहारमण्डलेक्षणम् ।
राष्ट्रमण्डलवीक्षा चाऽक्षरधामपुरेक्षणम् ।।७४।।
ब्रह्ममहोलवीक्षा चाऽवतारालयवीक्षणम् ।
वर्णितं सर्वमेवैतत् ततः परमधामनि ।।७५।।
गमनं तद्रहस्योपनिषदादिविवेचनम् ।
अष्टदुर्गवर्णनं च परब्रह्मपुरस्य च ।।७६।।
परब्रह्मात्मुक्तादिवसतीनां प्रवर्णनम् ।
रहस्यमुक्तकोटीनां द्वेधात्वमैक्यमित्यपि ।।७७।।
षोडशानां महोलानां दर्शनं वर्णितं ततः ।
मूर्तिगर्भगताऽनादितादात्म्यमुक्तकेक्षणम् ।।७८।।
स्वपत्नीनां समस्तानां तादात्म्यमुक्ततार्पणम् ।
श्रीहरेः सप्तायतनसमष्टिरूपतोदिता ।।७९।।
श्रीहरेः कुंकुमवाप्यामागमनमुदाहृतम् ।
असंख्यानां निजर्द्धीनां दानानि कथितानि च ।।4.123.८ ०।।
वानप्रस्थोत्तरं साधुदीक्षा हरेश्च कीर्तिता ।
लक्ष्मीकृतं स्तवनं च ततस्तीर्थाऽभियात्रिका ।।८ १ ।।
हरेर्लक्ष्म्या सहितस्य पुनः कुंकुमवापिकाम् ।
प्रत्यागमनमुक्तं श्रीस्वामिनीभिश्च कोटिभिः ।।।८२।।।
संहिताध्यायसंख्या च श्लोकसंख्या ह्युदीरिता ।
संहितादानमाहात्म्यं पुरश्चरणमित्यपि ।।८३।।
सार्वभौममहादानविधिस्तत उदीरितः ।
पुनः कथानां स्मरणं बद्रिकेऽभिहितं च ते ।।८४।।
इत्येवं विषया बद्रि कथितास्ते मयाऽखिलाः ।
येषां श्रवणात्स्मरणान्मुक्तिं विन्दति देहवान् ।।८५।।
विषयाः प्रतिखण्डस्य खण्डान्ते तत्र तत्र च ।
कथिता बद्रिके तस्मात् ज्ञातव्यास्तत्तदन्ततः ।।८६।।
तत्तत्खण्डस्य माहात्म्यं तदन्ते चोपपादितम् ।
पठनाच्छ्रवणाद्ध्यानाद् भुक्तिर्मुक्तिर्मिलेद् ध्रुवा ।।८७।।
विरमामि क्षणं बद्रि! कृष्णनारायणेऽधुना ।
त्वं विरामं कृष्णनारायणे याहि सुनन्ददम् ।।।८८।।।
एह्यागच्छ महानन्दपयोधौ स्याव तन्मयौ ।
श्रीकृष्णस्वामिजाऽऽनन्दं भुज्यास्वाऽति यथेष्टकम् ।।८९।।
श्रीश्वेतकृष्णायनो व्यास उवाच-
एवं वै वर्तमानायां कथायां प्राह बद्रिका ।
धन्याऽस्मि तापसी चाहं महाभाग्याऽन्विताऽस्मि च ।।4.123.९०।।
याऽहं शक्तिश्चार्धमूर्तिः पुरुषोत्तमरूपिणी ।
अवैमि मां माणिकीं च माधवीं च प्रमात्मिकाम् ।।९ १ ।।
अवैमि मां च लक्ष्मीं श्रीकृष्णनारायणीं स्वयम् ।
स्वामी कान्तोऽनादिकृष्णोनारायणोऽस्ति मे पतिः ।।९२।।
अवैमि तं सकलावतारिणं परमेश्वरम् ।
स भवानिह बद्रीनारायणोऽस्ति नरान्वितः ।।९३।।
साहं नारायणीबद्री सर्वेशी पुरुषोत्तमी ।
नरनारायणस्वामिन् ते सत्संगात् कथाश्रवात् ।।९४।।
मन्निमित्तेन लोकानां परं श्रेयो भविष्यति ।
धन्येयं पृथिवी सर्वा धन्याश्च मानवा इमे ।।९५।।
येषां नारायणो भर्ता धर्ता कर्ताऽविता सदा ।
धन्या नार्यः सर्वविधाः कृपा यासु हरेः शुभा ।।९६।।
सर्वाभ्योऽपि विशेषेण कृपा षट्सु हि चक्रिणः ।
कृष्णरूपस्य राधायां लक्ष्म्यां नारायणस्य च ।।९७।।
प्रज्ञायां पाशवत्यां श्रीकृष्णनारायणस्य च ।
नारायणीश्रियां चापि पुरुषोत्तमरूपिणः ।।९८।।
नरनारायणस्याऽपि बदर्या मयि शाश्वती ।
लक्ष्म्यै नारायणेनात्र श्रावितः कृतखण्डकः ।।९९।।
राधायै कृष्णरूपेण श्रावितस्त्रीतखण्डकः ।
पुरुषोत्तमरूपेण नारायणीश्रियै तथा ।। 4.123.१००।।
श्रावितो द्वापरसन्तानको मह्यं त्वयाऽन्तिमः ।
प्रज्ञायै पाशवत्यै च गृहगीताद्युदीरितम् ।।१ ०१ ।।
एषाऽहं भगवन्नस्मि पतिता पादयोस्तव ।
मामन्तर्भाव्य मूर्तौ त्वं कृष्णनारायणे प्रभौ ।। १ ०२।।
विरामं लभ मे स्वामिन्नैषा ध्यायामि तं हरिम् ।
इत्युक्त्वा बदरी तूर्णं ध्यानमग्ना यतोऽभवत् ।। १० ३।।
तावत्तत्राऽभवत्तूर्णं महाश्चर्यं महाद्भुतम् ।
महातेजोऽभवद् व्याप्तं शीतलं मधुरं सुखम् ।। १ ०४।।
तत्राऽश्रयन्त सन्नादाः किंकिणीनां मनोहराः ।
बिभूषाणां पादयोश्च करयोः कटिवक्षसोः ।।१ ०५।।
किंकिणीनां मिष्टनादाः अश्रूयन्त सुखावहाः ।
तत्र तेजसि कन्यैका व्यदृश्यत सुसुन्दरी ।। १ ०६।।
प्रोद्भिन्नयौवनाकोटिचन्द्रकान्तिध्रविगृहा ।
चतुर्हस्तेषु रम्येषु चतुर्धा पुस्तकानि सा ।। १०७।।
स्मितहासा धृतवती सर्वाभरणभूषिता ।
दिव्यस्वर्णकटकादिदिव्यमुकुटशोभना ।। १ ०८।।
दिव्यगन्धसुगन्धाढ्या दिव्याम्बरसुशोभना ।
रमणीनां समस्तानां मोहिनी चातिसुन्दरी ।। १ ०९।।
पुष्टा सर्वांगरम्या च भरपूरबलान्विता ।
चतुर्षु संहितावत्सु करेषु वरमालिकाः ।। 4.123.११ ०।।
चतस्रो धृतमाना च प्रसन्नवदनेक्षणा ।
लक्ष्मीर्यद्वा राधिका माणिकी बद्री प्रमाऽथवा ।। १११ ।।
माधवीं वाऽथतां नारायणोऽन्तरे तु संहिताम् ।
बद्री मूर्तिमतीं ज्ञात्वेमां लक्ष्मीसंहितां तथा ।। ११ २।।
नेमाते कुशलं पप्रच्छतुश्चक्रतुः स्वागतम् ।
नारायणोऽस्यै प्रददौ मधुपर्कं शुभासनम् ।। ११ ३।।
का ? कुतश्च? कथं? पृष्टा सा प्रोवाच निजां कथाम् ।
लक्ष्मीनारायणसंहिताऽस्मि श्रीपुरुषोत्तमी ।।१ १४।।
अनादिश्रीकृष्णनारायणांगाद् दिव्यरूपिणी ।
प्राविर्भूताऽहमेवाऽस्मि राघालक्ष्मीस्वरूपिणी ।। १ १५।।
नारायणीश्रीस्वरूपा बद्रीरूपा प्रभात्मिका ।
पद्मावतीरूपिणी च चतुर्हस्तवती सदा ।। १ १६।।
चतुःपुस्तकधर्त्री च चतुःसन्तानविग्रहा ।
चतुर्वेदोद्भवमाता चतुर्धामस्वरूपिणी ।। १ १७।।
चतुर्नारायणवाणी चतुर्युगेषु वर्तिनी ।
चतुराश्रमवर्णानां चतुःसाधनसंभृता ।। १ १८।।
चतुष्पादवती चाष्मि चतुर्नारायणश्रिता ।
चतुर्नारायणमूर्तिश्चतुर्मुक्तिसुविग्रहा ।। १ १९।।
चतूरूपा चतुर्मालाधरा च भगवन्मयी ।
सम्पूर्णाऽद्य भवाम्येव चतुर्नारायणात्मिका ।। 4.123.१२० ।।
साऽहं नारायणं कृष्णं बद्रीपं पुरुषोत्तमम् ।
अर्चितुं कामये कृष्णनारायणार्यवल्लभम् ।। १ २१।।
इत्युक्त्वा सा चतुर्हस्तैः समालैः श्रीनरायणम् ।
अर्चितुं त्वाजगामाऽग्रे तावत्तु भगवान् पतिः ।। १ २२।।
राधया सह कृष्णोऽभूद् द्विभुजो मुरलीधरः ।
चतुर्भुजधरो नारायणो लक्ष्म्या सहाऽभवत् ।। १ २३।।
नारायणीश्रिया युक्तः श्रीपुरुषोत्तमोऽभवत् ।
बद्रीनारायणश्चापि प्रादुरासीत् पुरःस्थले ।। १२४।।
प्रज्ञाबदरिकास्वामी चतुर्ष्वपि सुदृश्यते ।
पूजां नेतुं कृपां कर्तुमाशिऽर्पयितुं हरिः ।। १२५।।।
तादृशो दृश्यते तस्मै चतस्रः पद्ममालिकाः ।
आर्पयच्चन्द्रकं भालेऽक्षतकुंकुमचन्दनैः ।। १ २६।।
कृत्वा प्रपूज्य युग्मानि चाऽस्तौत् तद्गतमानसा ।
विह्वला स्नेहिहृदया पूर्णकामाऽपि संहिता ।। १२७।।
विचरति योऽक्षरे परतरे निजधाम्नि
हरिर्वहुविधिसेवितश्च पुरुषोत्तम इष्टपतिः ।
निजतनुरूपिणीभिरनुगाभिरमाभिरयं
परतम एव सोऽस्तु मम सर्ववरार्थकरः ।। १ २८।।
बहुविधगोपिकाभिरभिसेवित एव च यो
विलसति राधया च सहितोऽत्र स कृष्णपतिः ।
निजजनमानसानि समपूरयितुं पुरतः
स भवतु मे मनोऽभिलषितं सुविधातुमिह ।। १ २९।।
प्रसरति यः प्रभुर्मुहुरसंख्यतनुर्वसतौ
स हि कमलापतिर्मयि नरायणरूपधरः ।
बहुकरुणाकरस्त्विह सुगोचरतां तु गतो
वितरतु हृद्गतं मम समस्ततनुध्रहितम् ।। 4.123.१ ३०।।
विधविधलोकिनां सुखदशान्तिकृते तपसा
ह्युरुकमनीयरूपमपि शुष्कवसे सततम् ।
अगणितबोधदः स इह मे बदरीशमुनिः
पतिरभिलाषगोचरमतीव ददातु च मे ।। १३१ ।।
नमनमनन्तकं मुहुरिहाऽस्मि च दत्तवती
चरणतले चतुःप्रतिमधारिहरेरिह वै ।
अयुगलरूपिणी युगलमानमवाप्तुमतिः
प्रकटवचोमयौ कमनुयामि चतुष्षु रता ।।१ ३२।।
इत्येवं सहितादेवी तुष्टाव चतुरः प्रभून् ।
लज्जानम्रा प्रतस्थौ च मौनमास्थाय कामिनी ।। १ ३३।।
चत्वारो हरयस्तस्यै वरदानानि सन्ददुः ।
संहिते सुभगे देवि नो मुखेभ्यो विनिर्गता ।। १३४।।
राधायां च श्रियां चापि बद्र्यां लक्ष्म्यां कृतस्थितिः ।
विराजसे यतो नित्या नित्याऽस्मद्रूपधारिणी ।। १ ३५।।
अस्मदभिप्रायगर्भा वर्तसे वेदसत्प्रसूः ।
पात्रं त्वं वर्तसे श्रेष्ठं वरदानाऽयुतस्य वै ।।१ ३६।।
दद्मस्ते बरदानानि चतुःस्वरूपरूपिणी ।
संहिते! शाश्वती पत्नी चतुर्ण्णामद्यतोऽसि च ।। १ ३७।।
चतुष्पत्नीसमा चैका प्रज्ञापाशवतीसमा ।
ता देव्यो मुक्तिदा यद्वत् तथा त्वं मुक्तिदा सदा ।। १३८।।
सर्वधामाधिदेवी च महती पुरुषोत्तमी ।
सर्वदा वस नो धामालयेषु दिव्यभामिनी ।। १ ३९।।
द्वितीयेन स्वरूपेण वाणी वस विमुक्तिदा ।
आश्रितानां पूजकानां श्रोतॄणां तव संहिते! ।।4.123.१४०।।
तथा वाचनशीलानां परं श्रेयोऽस्तु धामनि ।
धर्मोऽस्तु धर्मकामानामर्थोऽस्तु चाऽर्थकामिनाम् ।। १४१।।
कामः कामवतां चाऽस्तु मोक्षोऽस्तु मोक्षकांक्षिणाम् ।
न चैवाऽस्त्वशुभं तेषां सदा स्वस्त्यस्तु सेविनाम् ।। १४२।।
प्रजार्थिनां प्रजाः सन्तु यशश्चाऽस्तु यशोऽर्थिनाम् ।
प्रजाप्राधान्यमेवाऽपि राजधिष्ण्याधिपालनम् ।। १४३।।
श्रीश्च तेषां विपुलाऽस्तु श्रेयश्चाऽस्तु परात्परम् ।
वीर्यं तेजो बलं चाऽस्तु निर्भयत्वं सदाऽस्त्वपि ।। १४४।।
अस्त्वारोग्यं च सौन्दर्यं गुणित्वं बहुमान्यता ।
अबन्धनत्वं सर्वापन्मोचनं पुत्रपौत्रकाः ।। १४५।।
वंशशाखाः स्वर्गराज्यं भूपतित्वं सुरेशता ।
ईशिता भोगसामर्थ्यं चर्द्धयः सन्तु सर्वदा ।। १४६।।
यद्यद्धामाभिमुक्तत्वं वाञ्छितं तद् भवत्वपि ।
विद्वत्त्वं च कलावित्त्वं भाविवित्त्वं भवत्वपि ।।१४७।।
जातिस्मरत्वं सार्वज्ञ्यं निरावरणताऽस्त्वपि ।
योगित्वं कोविदत्वं च गान्धर्वत्वं भवत्वपि ।।१४८।।
सिद्धता यतिता ब्रह्मविष्णुमहेशताऽस्त्वपि ।
संहितासेविका नारी लक्ष्मी राधाऽस्त्वितीश्वरी ।। १४९।।
नरो नारायणश्चाऽस्तु दद्मस्ते सद्वरानिमान् ।
संहिते! वेदधात्रीत्वं ख्यातिं लोके गमिष्यसि ।।4.123.१५०।।
वेदाधानस्वरूपा त्वं वेदगर्भा च वैदिकी ।
एवमुक्त्वा विरेमुस्ते कृष्णनारायणादयः ।। १५१ ।।
राधिकाद्यास्ततः प्राहुः प्रसन्नवदनास्तदा ।
भव त्वखण्डसौभाग्यवती मोक्षप्रदा ध्रुवा ।। १५२।।
इत्युक्त्वा संहितां पत्नीं निन्युः सह तिरोहिताः ।
वाणीरूपां पृथिव्यां तां ररक्षुः शाश्वतीः समाः ।। १५३।।
सेयं विजयते लोके कृष्णनारायणप्रिया ।
ईशलोके ब्रह्मलोके सदाधारा हरिप्रिया ।।१५४।।
प्रपूजिता समस्तैर्वै सर्वमाता परेश्वरी ।
वैष्णवानां कुटुम्बेषूवासेयं संवसत्यपि ।। १५५।।
निवत्स्यति सदा कालं व्यासेषु सत्सु साधुषु ।
भाववत्सु प्रभक्तेषु भक्तासु जयमेष्यति ।। १५६।।
जयतु सकलकल्पद्रुमस्वरूपाऽऽत्मवल्ली
निगमरससुपात्री ब्रह्मसम्बन्धदात्री ।
शरणरणितभर्त्री संहिता मोक्षकर्त्री
नयतु निजगुणाढ्यान् स्वाभिधामाऽक्षरं नः ।। १५७।।
जयत्वनादिश्रीकृष्णनारायणोऽखिलेशिता ।
माता श्रीकम्भरालक्ष्मीः पिता गोपालकृष्णकः ।। १५८।।
कुंकुमवापी जयतु चाश्वपट्टसरोवरम् ।
सौराष्ट्रमण्डलं जयत्वजस्रं लोमशो मुनिः ।। १५९।।
स्वतःप्रकाशो जयतु लक्ष्मीर्जयतु शाश्वती ।
मुक्तिर्जयतु भक्तिश्च जयत्वाशु सुखप्रदा ।। 4.123.१ ६०।।
विजयोऽस्तु च कल्याणं स्वस्तिरस्तु सुखं शुभम् ।
मंगलं सर्वदा चाऽस्तु परब्रह्माभियोगिता ।। १ ६१।।
इति स्मृत्वा परं कान्तं दद्मश्चाशीर्वचांसि वै ।
ओं नमोऽनादिशास्तृश्रीकृष्णनारायणाय ओम् ।। १६२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने तिष्यसन्तानविषयाः, बद्रिकानारायणसन्निधौ संहितायाः कुमारीरूपेणाऽऽविर्भावः, श्रीनारायणश्रीकृष्णनारायणश्रीपुरुषोत्तमनारायणश्रीनरनारायणानां स्वस्वशक्तिभिः साकं तत्रैव आविर्भावः, संहितायै वरदानानि, कथाश्रवणफलं चेत्यादिनिरूपणनामा त्रयोविंशत्यधिक-
शततमोऽध्यायः ।। १२३ ।।

इति श्रीतिष्यसन्तानखण्डः

।। सम्पूर्णेयं चतुःखण्डात्मिका श्रीलक्ष्मीनारायणसंहिता विजयते ।।
हरिः ओम्

तिष्यसन्तानस्याऽध्यायाः-१२३
 ' श्लोकाः-१३०३८