लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः १०४

विकिस्रोतः तः
← अध्यायः १०३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १०४
[[लेखकः :|]]
अध्यायः १०५ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि तिष्योद्धारकरान् वृषान् ।
दिने क्षणे कृतैश्चापि देह्युद्धारः प्रजायते ।। १ ।।
कालबलं समस्तेषु प्रवर्तते न संशयः ।
देवानां दैवतं तिष्ये मान्द्यं याति क्रमात्तथा ।। २ ।।
ऋषीणां च तपश्चाप्यैश्वर्यं मान्द्यं प्रयात्यपि ।
सतीनां वै सतीत्वं तु तिष्ये ह्रासं प्रयाति च ।। ३ ।।
योगिनां योगचर्यापि शक्तिशून्या प्रजायते ।
ईश्वराणामीशनत्वं निःसत्त्वं जायते कलौ ।। ४ ।।
ब्रह्मतेजो ब्राह्मणानां विलीयते न संशयः ।
मन्त्राणां च बलं शीलं शैथिल्यं याति वै कलौ ।। ५ ।।
हवनानां मखानां च फलं विशीर्यते कलौ ।
जपानां च व्रतानां च सामर्थ्यं लीयते कलौ ।। ६ ।।
दानानां सफलत्वं च भिद्यते तिष्ययौवने ।
योगिनीनां परा सत्ता तिरोभवति वै कलौ ।। ७ ।।
सिद्धानां सिद्धता छन्ना जायते तिष्यकालिका ।
पूजायाः प्रतिफलता शून्यायते कलौ तदा ।। ८ ।।
साधूनां सद्गुणावासः कुवास इव जायते ।
धर्मस्य च गतिः शान्ता ह्रासं याति कलौ तदा ।। ९ ।।
ज्ञानस्यापि फलं नैव शान्त्यर्थं सम्प्रजायते ।
वैराग्यस्य विवासो वै जायते सर्वथा कलौ ।। 4.104.१० ।।
ऐश्वर्याणां क्लेशदत्वं गर्विता जायते कलौ ।
तीर्थानां मग्नशीलत्वं वर्धते च कलौ कलौ ।। ११ ।।
तारकाणां च निस्तारस्तारणे निर्बला यतः ।
पृथ्वी दोहे समर्था न जलं तृप्तौ च निर्बलम् ।।।१२।।
वह्निः पाके न वै शक्तः कलौ वायुर्न सौख्यदः ।
लक्ष्मीः कलावशुद्धा च सम्पदो विपदन्विताः ।। १३।।
आश्रया व्रणयुक्ताश्च गुरुत्वं न गुरौ कलौ ।
गौरवं गर्त्तगं तिष्ये प्रतिष्ठा क्लिष्टताहता ।। १४।।
सम्मानं भानहीनं च क्रिया ध्यानविवर्जिता ।
स्थितिर्विश्वासरहिता भवत्येव कलौ कलौ ।। १५।।
बद्रिके प्रतिमाः सर्वा देवताश्च शवा इव ।
कलौ सर्वत्र जायन्ते द्यौस्तमोवद् विभाति च ।। १६।।
आशा तृष्णा च वर्धेते कलेरायुष्यतोऽधिके ।
आशावान् म्रियते तिष्ये न त्वाशा म्रियते क्वचित् ।। १७।।
पर्व पर्व दिनं तिष्ये श्रद्धाहीनं प्रजायते ।
धर्मकर्मादि च कृत्यविषयं वै कलौ कलौ ।। १८।।
दीक्षा भिक्षा च शिक्षा च क्षयमेति कलौ तदा ।
कक्षा चक्षा च पक्षा च यक्षा रक्षा न विद्यते ।। १९।।
उद्याने फलवद्वृक्षस्तरलो बहुशोऽफलाः ।
मानवे नयवल्लोको विरलो बहुशोऽनयाः ।।4.104.२०।।
खातेषु जलवद्गर्तो दुर्लभः सुलभोऽबलाः ।
स्वामिषु हितकृन्नेता क्वचित् सर्वत्र नाशकाः ।।२१ ।।
यात्रासु दानकृत् कश्चिद् बहुलाः पानकारिणः ।
व्यवहारे परार्थस्तु कश्चित् स्वार्था गृहे गृहे ।।२२।।
सत्यवाग् दुर्लभस्तत्र मिथ्यावाक् तु पदे पदे ।
आपत्तौ हासकास्तिष्ये सम्पत्तौ चाभ्यसूयकाः ।।२३।।
अवमानेऽमृतजिह्वाः सम्माने नेत्रवह्नयः ।
व्यसने तालिकावादाः कलौ भवन्ति मानवाः ।।२४।।
द्यूते हास्ये कलौ नाट्ये कुतूहले विनाशने ।
संधिनो मानवास्तिष्ये सत्कार्ये पृष्ठपादिनः ।।२५।।
धर्मे व्रते सहाये च भजने बोधने हले ।
कथायां विरला लोकाः कलौ भवन्ति सेवने ।।२६।।
नाशोन्मुखास्तु बहुधा रक्षोन्मुखाः क्वचित् कलौ ।
आराधनायां विरला बाधायां संघशो जनाः ।।२७।।
त्यागे तिष्ये नाऽधिका वै ग्रहणे सर्वतो जनाः ।
मारणे संहिताः सर्वे तारणे नैक इत्यपि ।।२८।।
प्रपातने प्रवीणाश्चोत्तारणे मूर्ध्निमारकाः ।
उन्नयने तु रिक्तांऽका बूडने बहुसंख्यकाः ।। २९।।
आगमे तु कृतोत्साहा विगमे म्लानमानसाः ।
अवग्रहे तनुत्यागा विग्रहे मदगंजनाः।।३०।।
असत्सु च कृतावेशाः सत्सु चाऽऽदरवर्जिताः ।
भवन्त्येव जनास्तिष्ये शिष्ये प्रतारणार्थिनः ।।३ १ ।।
ग्रामा दुर्गविहीनाश्च लोका लज्जाविहीनकाः ।
विवाहा वह्निरहिताः कलौ भवन्ति सर्वशः ।।३२।।
ज्ञानं पालनशून्यं च दानं मानविवर्जितम् ।
गानं च देवताशून्यं तिष्ये सर्वत्र जायते ।।३३।।
आदानं सर्वतस्तिष्ये प्रदानं शून्यतापरम् ।
निदानं बाह्यतो मिथ्या तिष्ये भवति धीरधीः ।।३४।।
पानं तु सरसं तिष्ये भोजनं विरसं सदा ।
भञ्जनं परकार्याणां तिष्ये सर्वत्र विद्यते ।। ३५।।
रञ्जनं चेन्द्रियाणां चोद्वेजनं तु कुटुम्बिनाम् ।
आटाटोपाऽञ्जनं तिष्ये भोजने व्यञ्जनं बहु ।।३६।।
परगृहे धनं तिष्ये परहस्ते सुता प्रिया ।
पारवश्यं निजे देहे पारवश्यं गृहे गृहे ।।३७।।
निद्रा स्वल्पा कलौ स्वप्नबाहुल्यं कलहो बहुः ।
शान्तिरल्पा महाचिन्ता रक्तनाशोऽधिकः कलौ ।।३८।।
वैद्यालयास्तु बहुलाः प्रजालयाः सुरोगिणः ।
प्रलया नित्यशस्तिष्ये निलया भयसंभृताः ।। ३९।।
भूषा भषकबालाद्याः प्रतिष्ठा वेषलग्नता ।
म्लेच्छभाषा च विद्वत्ता कलौ सर्वत्र जायते ।।4.104.४०।।
धूम्रपानं महत्ता च गालीवादः सरस्वती ।
सांकर्यं चोत्सवे धर्मस्तितष्ये भवति सर्वशः ।।४१।।
नीतिश्चूषणरूपा च लाभो धनसहायिनः ।
भार्या मिष्टान्नदातुश्च कलौ सर्वत्र जायते ।।४२।।
सर्वे सर्वत्रपाकाश्च पामराणां गृहेशयाः ।
हत्यायां जन्तुमूल्याश्च तिष्ये सन्ति स्थले स्थले ।।४३।।
श्मश्रूहीना नरास्तिष्ये केशकबरीशालिनः ।
पात्रस्थधातुजाऽपत्यप्रजा भवन्ति तिष्यके ।।४४।।
अलिंगगर्भाः पशवश्चाऽनात्मपुत्तला भटाः ।
अधारशस्त्राः संग्रामास्तिष्ये भवन्ति बद्रिके ।।४५।।
अयत्नसाध्याः कूट्टन्यः कुटिका भोजनालयाः ।
नाट्यशालाश्च शिक्षांग्यस्तिष्ये भवन्ति बद्रिके ।।४६।।
नार्यश्च बहुनाथा वै नराः स्त्रीभावशोभनाः ।
कृत्रिमपुत्तलाऽऽनन्दास्तिष्ये भवन्ति मानवाः ।।४७।।
कृत्रिमदन्तका लोकाः कृत्रिमस्तनधारिणः ।
कृत्रिमदृश्यतृप्ताश्च कृत्रिमस्त्रीविहारिणः ।।४८।।
स्वहस्तक्षुरकर्माणः स्वहस्तदेहमर्दनाः ।
यन्त्रदोहनपशवस्तिष्ये पाकाश्च यान्त्रिकाः ।।४९।।
विद्युद्वाहासना लोका निःसत्त्वपानभोजनाः ।
रक्तविक्रयनिर्वाहास्तिष्ये भवन्ति मानवाः ।।4.104.५०।।
पशुस्नेहपरा नार्यो नराः पशुसुयोगिनः ।
पाशववृत्तिचर्याश्च तिष्ये भवन्ति मानवाः ।।५१ ।।
हृदि चान्ये वचस्यन्ये कर्मण्यन्ये फलेऽपरे ।
रहस्यन्ये प्रकाशेऽन्ये कलौ भवन्ति मानवाः ।।।५२।।
स्वल्पेऽपि क्लेशकर्तारस्तामसा बहुला जनाः ।
मानाभिमानजीवाश्च वितण्डामात्रवीरकाः ।।५३।।
नारीमग्रे व्यवस्थाप्य विजयाऽऽकांक्षिणः सदा ।
बहुचित्राम्बरा नार्यो नारीवेषा नराः कलौ ।।५४।।
दैत्यम्लेच्छादरपराः शास्त्रसाधुविरोधिनः ।
चिरधर्मविहन्तारो वृत्तिधर्मपराः कलौ ।।५५।।।
प्रतारका देवकार्ये गृहकार्ये कुसीदिनः ।
बहुमृषासम्प्रदाया मिथो देवाऽतिनिन्दकाः ।।५६।।
शब्दाडम्बरविद्वांसो युक्तिऋतपरायणाः ।
सन्दिग्धाः सर्वकृत्येषु गुरुष्वत्यन्तनिर्घृणाः ।।।५७।।
जिह्वापोषाः सम्प्रदायाः शिश्नपोषा गृहाश्रमाः ।
कीर्तिपोषा यतयश्च भवन्त्येव कलौ जनाः ।।५८।।
पुत्रवत् पुत्रिकामानं पुत्री पुत्रायते कलौ ।
आश्रिता सुभगा नारी पक्षीयति परार्थिनी ।।५९।।
लोहपात्रव्यवाहारा नालिकावारितर्पिणः ।
अशिखाः प्रायशो विप्रा द्विजास्तिष्ये न सन्ति च ।।4.104.६०।।
प्रतारणं पुरुषार्थो न्यायो लुञ्चां प्रगच्छति ।
द्रव्यं कुटुम्बवत् सर्वं धर्मस्तु शत्रुवत् कलौ ।।६१ ।।
गृहे गृहे चापणानि विष्टालया गृहे गृहे ।
विधवा विधुराश्चापि तेषां योगा गृहे गृहे ।।६२।।
भृत्याधीनाः स्वामिनश्च स्त्र्यधीनाः पतयस्तथा ।
प्रजाधीनानि राज्यानि भवन्ति वै कलौ युगे ।।६३।।
समुदायाऽपीनराष्ट्रं मर्यादाहीनमण्डलम् ।
भाण्डानां गणिकानां च प्राबल्यं तु कलौ कलौ ।।६४।।
भोजनस्य स्थले वारिपानं सत्काररूपकम् ।
वारिपानस्थले धूम्रपानं सत्काररूपकम् ।।६९।।
पयोवार्युष्णपानं च कलौ सत्कारकारणम् ।
महीमानाऽतिथिसाधुसत्कारो वाङ्मयः कलौ ।।६६।।
न नेत्रयोर्न हृदये स्नेहः सत्कारकारणम् ।
उच्चासनस्थाः श्वपचा नीचस्था ब्राह्मणाः कलौ ।।६७।।
मिथ्याप्रचारः शतधा मिथ्यावाणी सहस्रधा ।
मिथ्याव्ययोऽयुतधा च कलौ भवति बद्रिके ।।६८।।
अफलाः ऋतवस्तिष्ये चारंभा विफलाः कलौ ।
सर्वकर्मकलानार्यो नराः कृष्णाः कलौ युगे ।।६९।।
कापट्यपटलं पृथ्व्यां पर्वते गगनेऽपि च ।
सर्ववस्तुषु सांकर्यं धूलिधुर्याः कलौ जनाः ।।4.104.७०।।
परदोषारोपकाश्च स्वदोषे गुणमानिनः ।
भग्नपादा ललज्जिह्वा मानवा वै कलौ कलौ ।।७१।।
कृष्णकर्दममार्गाश्च नीलीस्पर्शाम्बरास्तथा ।
कालुष्यादिप्रपूर्णाश्च मानवा वै कलौ कलौ ।।७२।।
गृहस्थिनोऽस्थिरस्थानास्त्यागिनः सपरिग्रहाः ।
व्याघ्राः सिंहा ग्रामसीमवासाः श्ववत् कलौ कलौ ।।७३।।
चत्वरे चत्वरे द्वीपा गोमायवो गृहे गृहे ।
आपणे चापणे धूर्ताश्चौरास्तिष्ये पदे पदे ।।७४।।
धिष्ण्ये धिष्ण्ये शठास्तिष्ये वृन्दे वृन्दे च वृन्दलाः ।
प्रसह्य च करग्राहास्तिष्ये भवन्ति बद्रिके ।।७५।।
राक्षसाभाश्च भूताभाः पिशाचाभाश्च मानवाः ।
दैत्याभा वामना ह्रस्वाः कुब्जास्तिष्ये हि मानवाः ।।७६।।
कुसूलान्यन्नहीनानि जलहीनं प्रपास्थलम् ।
हृदयं स्नेहशून्यं च मानवानां मिथः कलौ ।।७७।।
रात्रिन्दिवं व्यवसायपराणामपि नैव ह ।
पूर्णमुपार्जनं तिष्ये रूक्षः कलिस्ततो मतः ।।७८।।
तथापि बद्रिके तत्र सत्कार्यं चेत् कृतं भवेत् ।
सहस्रगुणितं तद्वै फलदं श्रद्धया कृतम् ।।७९।।
सर्वदोषनिधानेऽपि कलौ गुणो महानपि ।
कृष्णकीर्तनमात्रेण शुद्धिं यातीति मानवः ।।4.104.८०।।
पूजनं जलमात्रेण कीर्तनं नाममात्रतः ।
स्मरणं रूपमात्रस्य कलौ वै मोक्षदं हरेः ।।८१।।
यादृशास्तादृशा वाऽपि काषायाऽम्बरसाधवः ।
आश्रितास्तारकास्तिष्ये श्रीकृष्णांऽकस्थिता यतः ।।।८२।।
सधूम्रो वा मन्दवर्चाः छन्नो वा मलिनाश्रयः ।
दुष्टादो वाऽनलः शुद्धस्तथा साधुः कलौ शुचिः ।।८३।।
गृहं क्षेत्रं धनं नारीं ग्रामं त्यक्त्वा स्वकं निजम् ।
कृष्णाऽङ्केऽवस्थितः साधुः श्रैष्ठ्यं चाऽस्य ततः सदा ।।८४।।
सत्तां त्यक्त्वा पारवश्यं त्यक्त्वा शक्तिं च दीनताम् ।
शास्तिं विहाय शरणं जग्राहाऽतो वरो मुनिः ।।८५।।
कलिदोषेऽपि हृदये जिह्वायां शरणेऽपि च ।
हरिं रक्षति गृह्णाति शृणोत्यतो वरो मुनिः ।।८६।।
देहाचारदुराचारपरोऽपि भक्तिमोदनः ।
पावनो ब्रह्मवित् साधुर्यतः स लोकपावनः ।।८७।।
व्यभिचारपरश्चापि शाट्यधौर्त्यपरोऽपि वा ।
द्रव्यतृष्णान्वितश्चापि कृष्णपुत्रो वरो मुनिः ।।८८।।
कृष्णस्मृतेस्तु कर्ता सः कारयिता विलोकितः ।
मिलितो रामवक्ता च वाचयिता वरो मुनिः ।।८९ ।।
कृष्णवेषधरो नाट्ये कृष्णस्य स्मारको यथा ।
स्मृत्या पापविहन्ता स्यात् तथा तादृग्वरो मुनिः ।। 4.104.९० ।।
काषायाऽम्बरमालोक्य पापा नमन्ति तं मुनिम् ।
ब्रह्मात्मभावनाधानं तस्मात् साधुर्वरः सदा ।।९ १ ।।
बद्रिके दर्शनात् साधोः स्पर्शनात् सेवनात्तथा ।
मर्दनाद् भोजनाद् वारिपानाच्छुद्ध्यन्ति मानवाः ।।९२।।
साधोश्चरणरजसा प्रसादभोजनादपि ।
साधोस्तत्त्वाऽऽसादनाच्च सद्यः शुद्ध्यन्ति मानवाः ।। ९३ ।।
कृष्णदीक्षावतो योगाद् भक्तस्य शीलनादपि ।
साधुजीवनकरणात् कलौ शुद्ध्यन्ति मानवाः ।। ९४।।
साधुसाध्व्यो सुसत्सङ्गात् तयोः प्रसादनादपि ।
साध्वाज्ञाकरणात् तिष्ये सद्यः शुद्ध्यन्ति मानवाः ।। ९५ ।।
साधोः पादाऽमृतपानात् साध्वाश्लेषविधापनात् ।
साधुदेहस्य योगाच्च सद्यः शुद्ध्यन्ति मानवाः ।। ९६ ।।
साधवे देहदानाच्च तथेन्द्रियसमर्पणात् ।
मनोऽर्पणाज्जीवदानान्मुक्तिं प्रयान्ति मानवाः ।। ९७।।
साधौ तादात्म्ययोगाच्च ह्यनावरणसंगमात् ।
तद्रूपाऽऽकारतायोगान्मुक्तिं प्रयान्ति मानवाः ।।९८।।
यथेष्टवस्तुदानाच्च कुटुम्बसम्पदर्पणात् ।
श्रीकृष्णार्पणकरणान्मुक्तिं प्रयान्ति मानवाः ।। ९९ ।।
कृष्णन्यासात् कृष्णभावात् कृष्णरहस्यसेवनात् ।
कृष्णसाधुव्रताचारान्मुक्तिं प्रयान्ति मानवाः ।। 4.104.१०० ।।
तिष्ये तु बद्रिके देवा मूर्तयो न पुनन्ति हि ।
तीर्थानि न पुनन्त्येव सद्यः पुनन्ति साधवः ।। १०१ ।।
सेवां दत्वा द्रुतं सन्तः पुनन्ति मानवान् कलौ ।
सेवां कृत्वा सतां सद्यः शुद्ध्यन्ति मानवाः कलौ ।। १०२।।
आशीर्वादैः सतां साध्यः साधवश्च यथा कलौ ।
पवित्राः पावका यद्वत्तथा भवन्ति मानवाः ।। १०३ ।।
सतां संगादाश्रयाच्च कृष्णकान्तस्य कीर्तनात् ।
स्मृतेर्नार्यो नरा दिव्या भूत्वा मोक्षं प्रयान्ति वै ।। १ ०४।।
अनादिश्रीकृष्णनारायणस्वामिसतां मुहुः ।
सेवनात् कीर्तनात् बद्रि मोक्षो भवति देहिनाम् ।। १० ५।।
इत्येतत् सरलं तिष्ये साधनं बद्रिके मया ।
मोक्षस्य कथितं सर्वार्पणात्मकं सुनिश्चितम् ।। १०६ ।।
प्रभोः कृपावतः स्वामिनश्च कृष्णस्य योगिनः ।
सेवनादस्य पठनाच्छ्रवणात् स्मरणात्तथा ।। १ ०७।।
सर्वार्पणाद्याचरणात् तादात्म्यभावयोजनात् ।
तिष्ये भुक्तिर्मुक्तिरस्ति देहिनां शाश्वती शुभा ।। १ ०८।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कलिदोषाणां मोक्षसाधनगुणानां सतां सेवादीनां च प्रदर्शननामा चतुरधिकशततमोऽध्यायः ।। १०४ ।।