लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०९०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ८९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ९०
[[लेखकः :|]]
अध्यायः ९१ →

श्रीपद्मावतीप्रज्ञे प्रोचतुः-
कृष्णनारायणस्वामिन सर्वोद्धारपरायण ।
संसारकर्दमस्थानामुद्धारकोऽसि वै प्रभो ।। १ ।।
येषां ज्ञानं न वा ध्यानं न जपो नेष्टदेवता ।
न गुरुर्न मखो धर्मः किन्तु पापानि सन्ति वै ।। २ ।।
न सत्संगो व्रतं नास्ति न तीर्थं विप्रभोजनम् ।
न साधुभोजनं कृष्णपूजनं नास्ति वै तथा ।। ३ ।।
तेषां संसारमग्नानां समुद्धाराय साधनम् ।
मोक्षदं पापनाशार्थं सुगमं यद् वदस्व नौ ।। ४ ।।
श्रीकृष्णनारायण उवाच-
शृणुतं माधवि साध्वि प्रज्ञे संसारिमुक्तये ।
पापिनां पापनाशार्थं साधनं गोप्रदानकम् ।। ५ ।।
गृहाश्रमस्तु पापाढ्यो गोदानं पापनाशकम् ।
उद्धारकं यमदूतभयात् संरक्षकं सदा ।। ६ ।।
पित्रुद्धारकरं स्वर्गप्रदं वंशप्रदं तथा ।
सम्पत्प्रदं हि गोदानं मोक्षदं सद्गतिप्रदम् ।। ७ ।।
येन नाऽन्यत् कृतं पुण्यं कर्तव्यं गोप्रदानकम् ।
गोदानेन प्रजायन्ते समग्रा इष्टसिद्धयः ।। ८ ।।
गोदानं पृथिवीदानं पृथिवी गोस्वरूपिणी ।
गोदानं श्रीकृष्णदानं धेनुः कृष्णप्रिया सदा ।। ९ ।।
गोदानं यज्ञपुण्यादिप्रदं गौर्यज्ञरूपिणी ।
गोदानं श्रीरमादानं गौर्हि लक्ष्मीस्वरूपिणी ।। 4.90.१ ०।।
गोदानं तु सर्वरसप्रदानं दुग्धदा हि गौः ।
गौर्माता सर्वलोकानां पयोभिः पोषणप्रदा ।। १ १।।
दातव्या सर्वथा दाने दोग्ध्री वत्सतरीयुता ।
गुरवे सा प्रदातव्या वैष्णवाय तु साधवे ।। १२।।
विप्राय सा प्रदातव्या मखिनेऽतिथिसेविने ।
अङ्गने! यजमानस्तु स्नातः कृताभिवन्दनः ।। १ ३।।
यायाद् गोष्ठं मखद्वारं देवालयं मठं सताम् ।
तीर्थं यायात् प्रकुर्याद्वै शुद्ध्यर्थं तीर्थवारिणा ।। १४।।
आचमनत्रयं नेत्रे जलस्पर्शं तथाऽऽचरेत् ।
हस्तपादौ आलयेच्च दक्षे करे जलं शुभम् ।। १५।।
गृह्णीयाद् देशकालादि पुण्याहं वाचयेत्ततः ।
गुरुर्दानस्य संकल्पं कुर्याच्च कारयेत्तथा ।। १ ६।।
जलं भूमौ प्रमुच्याऽथ नमः कुर्यात् पयस्वतीम् ।
सवत्सिकां मातरं गां पुनर्जलं करे न्यसेत् ।। १७।।
धर्मार्थकाममोक्षार्थं निजसम्बन्धिनां तथा ।
कुटुम्बिनां च सौख्यार्थं करोमि गोप्रदानकम् ।। १८।।
इत्युक्त्वा तज्जलं पृथ्व्यां मुञ्चेद् वरुणसाक्षिकम् ।
नमस्कुर्याच्च गां पश्चात् करे धृत्वा तु कुंकुमम् ।। १९।।
यजमानो वदेत् स्वेष्टसिद्ध्यर्थं गोसमीपतः ।
आरोग्यार्थं सम्पदर्थं पुत्रपौत्रादिसिद्धये ।।।4.90.२०।।
वंशविस्तारसौख्यार्थं सौख्यार्थं यशसे तथा ।
तापत्रयविनाशार्थं धर्मार्थं मोक्षहेतवे ।।२१ ।।
सर्वशत्रुविनाशार्थं निर्विघ्नकार्यसिद्धये ।
प्रेतानां मम मुक्त्यर्थं सर्वपापादिशान्तये ।। २२।।
सर्वक्लेशविनाशार्थं पुण्यार्थं गोप्रपूजनम् ।
धेनुदानांगभूतं वै करोमि कुंकुमादिभिः ।।२३।।
बिन्दुं भाले कुंकुमेन करोमि चन्दनादिभिः ।
मम सौभाग्यसिद्ध्यर्थं करोमि तिलकं तु गोः ।। २४।।
मम कुटुम्बिसौख्यार्थं पूजां करोमि चाक्षतैः ।
मम पुण्यस्य लाभार्थं दीपं धूपं करोमि च ।।२५।।
मम सम्पत्प्रवृद्ध्यर्थं गवे भक्ष्यं ददामि च ।
मम स्वर्गस्य सिद्ध्यर्थं गवे वारि ददामि च ।।२६।।
पित्रुद्धाराय च गवे गुडं मिष्टं ददामि च ।
नवसस्यानि बीजानि कार्पासस्य ददामि च ।। २७।।
वस्त्रं प्रावरणं पृष्ठे ददामि झुल्लरीं शुभाम् ।
माल्यं मालां पुष्पमालां स्वर्णमालां ददामि च ।। २८।।
अम्बरं च विभूषाश्च गवे ददामि शृङ्गयोः ।
स्वर्णशृङ्गे रूप्यखुराः खुरेषु प्रददामि च ।।२९।।
दोहनं ताम्रपात्रं च शृङ्खलां प्रददामि च ।
सुवर्णघण्टिकायुक्तं हारं कण्ठे ददामि च ।। 4.90.३०।।
भक्ष्यपात्रं पानपात्रं दोहपात्रं ददामि च ।
गवां खर्जननाशार्थं खर्जकं प्रददामि च ।।३ १ ।।
देवगुर्वोः प्रतुष्ट्यर्थं दक्षिणां प्रददामि च ।
गुलालाबीरकुंकुमाऽक्षतैः प्रपूजयामि गाम् ।।३२।।
पत्रैः पुष्पैः फलैश्चापि तुलसीपत्रकैस्तथा ।
पूजयामि प्रकरोमि प्रदक्षिणचतुष्टयम् ।। ३३।।
पृथ्वीप्रदक्षिणतुल्यं चार्थयामि सुखाप्तये ।
नमोऽस्तु ब्रह्ममूर्तिभ्यो विश्वमातृभ्य ओंनमः ।।३४।।
लोकाधिवासिनीभ्यश्च रोहिणीभ्यश्च वै नमः ।
गवामङ्गेषु तिष्ठन्ति सर्वे देवास्तथेश्वराः ।।३५।।
अवताराश्च पितरस्तिष्ठन्ति श्रीरमादिकाः ।
गोललाटे गणेशोऽस्ति गणेशं प्रणमाम्यहम् ।।३६।।
गोशृंगयोस्तु गोलोको वैकुण्डस्तौ नमाम्यहम् ।
गोनेत्रयोः सूर्यचन्द्रौ वसतस्तौ नमाम्यहम् ।। ३७।।
वैश्वानरोऽस्ति धेन्वास्ये वैश्वानरं नमाम्यहम् ।
गोदन्तेषु ग्रहाः सर्वे ग्रहान् सर्वान्नमाम्यहम् ।।३८।।
गोनसोरश्विनीपुत्रौ कुमारौ तौ नमाम्यहम् ।
गवोष्ठयोर्नारदस्तुम्बुरुस्तौ प्रणमाम्यहम् ।।३९।।
गोकर्णयोर्नरनारायणौ तौ प्रणमाम्यहम् ।
गोजिव्हायां शारदाऽस्ति शारदां प्रणमाम्यहम् ।।4.90.४०।।
गोकण्ठे प्रणवश्चास्ति ओंकारं प्रणमाम्यहम् ।
ब्रह्मा गले कम्बले तु सावित्री तौ नमाम्यहम् ।।४१ ।।
शंभुः ककुदि स्कन्धे तु शिवा तौ प्रणमाम्यहम् ।
विष्णुर्हृदये लक्ष्मीश्च शकृति तौ नमाम्यहम् ।।४२।।
मूत्रे गङ्गा यमुना च सरस्वती नमामि ताः ।
पुच्छे तु पितरः सन्ति पितॄन् सर्वान्नमाम्यहम् ।।४३।।
पृष्ठवंशे तु ऋषयः ऋषीन् सर्वान्नमाम्यहम् ।
पार्श्वेषु देवताः सन्ति देवतास्ता नमाम्यहम् ।।४४।।
रोमसु साधवः सिद्धा वसन्ति तान्नमाम्यहम् ।
पुच्छे शेषश्च विष्णुः श्रीस्तान् सर्वान् प्रणमाम्यहम् ।।४५।।
पुच्छान्ते सर्वतीर्थानि तीर्थानि प्रणमाम्यहम् ।
उदरे लोकपालाश्च लोकपालान्नमाम्यहम् ।।४६।।
ओघस्यमृतसर्वस्वं ब्रह्मामृतं नमाम्यहम् ।
स्तनेषु सागराः सर्वे राधापुत्रान्नमाम्यहम् ।।४७।।
वक्षोऽग्रे तु ब्रह्मह्रदो ब्रह्म तत्प्रणमाम्यहम् ।
पादेषु पार्षदा विष्णोस्तान् सर्वान् प्रणमाम्यहम् ।।४८।।
खुरेषु तु मखाः सर्वे तान् यज्ञान् प्रणमाम्यहम् ।
गोष्ठं ब्रह्माऽक्षरं धाम गोस्थलीं प्रणमाम्यहम् ।।४९।।
गोधूलिर्जंगमं तीर्थं धूलिं मूर्ध्नि वहाम्यहम् ।
गोतक्रं गोघृतं धेनुक्षीरं गोरसमित्यपि ।।4.90.५०।।
गोनवनीतमेवापि ब्रह्मपीयूषपञ्चकम् ।
दाने ददामि तत्सर्वं तृप्यन्तां पितरः सुराः ।।५१।।
रोहिण्यो दोग्ध्र्य ईश्वर्यो मातरः पान्तु मां सदा ।
गावो ममाऽग्रतः सन्तु गावः सन्तु च पृष्ठतः ।।५२।।
गावः शिरसि मे नित्यं गवां मध्ये वसाम्यहम् ।
वत्सतरी भक्तिरूपा वत्सो धर्मः सनातनः ।।५३।।
कृष्णशंभुप्रियौ पातां मां सदा सकुटुम्बकम् ।
स्वर्गं सत्यं च वैराजं भौमं वैकुण्ठमुत्तमम् ।।५४।।
श्रीपुरं चामृतं चाव्याकृतं गोलोकमक्षरम् ।
ब्रह्मधाम च मे गावो ददत्वेव च सम्पदः ।।५५।।
त्वं देवि सर्वदेवानां वासरूपाऽसि तारिणी ।
कामधेनुसमस्तानां प्रतिमायै च ते नमः ।।५६।।
सर्वकामप्रदे मातर्गोलोकवासिनि प्रिये ।
पापहे पुण्यदे मोक्षप्रदे मातश्च ते नमः ।।५७।।।
मामस्मात् सागराल्लक्ष्मीरूपे तारय सर्वथा ।
सर्वसम्पत्प्रदे कृष्णप्रिये तारय सागरात् ।।५८।।
पुत्रान् पौत्रान् पुत्रिकाश्च धनं धान्यादि देहि मे ।
ऐश्वर्याणि च दीर्घायुरारोग्यं सम्प्रदेहि मे ।।५९।।
सौभाग्यं पतिसौभाग्यं पत्नीसौभाग्यमित्यपि ।
द्रव्यसौभाग्यमेवाऽपि देहि मे कामपूरिके ।।4.90.६०।।
इत्यभ्यर्थ्य यजमानो गुरोर्हस्ते द्विजस्य च ।
जलं दद्यान्मया दत्ता गौर्गृह्यतां समुच्चरेत् ।।६१।।
गवे पुष्पाञ्जलिं दद्यान्नमस्कुर्याद् गवे सते ।
गुरवे चापि विप्राय साधवे पात्रयोगिने ।।६२।।
धेनुं दद्यात् सुगुरवे महाचार्याय साधवे ।
विप्राय योग्यपात्राय वैष्णवाय च शार्ङ्गिणे ।।६३।।
मह्यं कृष्णाय दातव्यो मन्दिराय हराय च ।
अन्यरत्नानि धान्यानि देयवस्तूनि यानि च ।।६४।।
तानि सर्वाणि दद्याच्च यथायोग्येभ्य आदरात् ।
भोजयेद् बालिका बालान् सतीः साध्वी सतो द्विजान् ।।६५।।
पुष्पहारं गवोच्छिष्टं गृह्णीयाद् यजमानकः ।
गोपूजासलिलं पुच्छपावनं प्रणमेद् गृहे ।।६६।।
प्रोक्षणं गृहमध्ये वै कुर्याद्गोपूतवारिणा ।
पुष्पहारं रक्षयेच्च विध्ननाशकरो हि सः ।।६७।।
गुरुं सम्पूजयेत्तत्र गोपूजाया अनन्तरम् ।
वत्सं वत्सां पूजयेच्च प्रणमेच्च प्रदक्षिणम् ।।६८।।
दक्षिणां गुरवे दद्याद् यथाशक्ति कृतादरः ।
कपिलां गां च धवलां रक्तां कर्बुरिकां च वा ।।६९।।
दद्यात्तस्या फलं साध्व्यौ! वैराजपदमुत्तमम् ।
कृष्णां धूम्रां पिशंगीं च दद्याद् वेधःपदं फलम् ।। 4.90.७०।।
दोग्ध्रीं यां कां प्रदद्याच्च फलं त्विन्द्रपदं दिवि ।
वत्सां दद्यात् फलं तस्य देवताभवनं दिवि ।।७१ ।।
दद्यादुभयतोमुखीं फलं तस्याः परं पदम् ।
आक्षरी परमा मुक्तिः शाश्वती पौरुषोत्तमी ।।७२।।
असूतकीं प्रदद्याद्वै दोग्ध्रीं गोलोकदा तु सा ।
गोदानस्य यजमानः पालयेद् गोव्रतं तदा ।।७३।।
दिवारात्रं व्रतं कुर्यादेकभोजित्वमेव ह ।
गव्याऽशित्वं प्रकुर्याद्वै गोसेवां सर्वथा चरेत् ।।७४।।
ब्रह्मचर्यं तदेकाहं पालयेद् गोस्थले स्वपिम् ।
मालया श्रीहरिं मां श्रीकृष्णं नारायणं जपेत् ।।९५।।
गोदानेन समं दद्यान्मासग्रासतृणान्यपि ।
कार्पासबीजकादीनि दद्याद् गोभुक्तये सदा ।।७६।।
प्रत्यक्षां गां प्रदद्याद्वै श्रेष्ठं दानं हि तन्मतम् ।
गवाऽलाभे गां प्रपूज्य तन्मूल्यं चार्पयेत्परम् ।।७७।।
मूल्यार्धं वा तदर्धं वा स्वल्पं दशांशकं च वा ।
दद्याद् यथाधनं भक्तो नत्वा श्रीगुरवे मुहुः ।।७८।।
यथाशक्ति मया दत्तं क्षमस्वाऽऽपूर्णमत्र यत् ।
कुर्याच्च दण्डवत्तस्मै वित्तशाठ्यं विवर्जयेत् ।।७९।।
गोदानं मन्दिरे श्रेष्ठं देवालये तदुत्तमम् ।
मठे साध्वाश्रमे श्रेष्ठं मखे पारायणालये ।।4.90.८० ।।
विवाहमण्डपे श्रेष्ठं तीर्थे सरित्तटेऽपि च ।
व्रताहे पुण्यदिवसे महोत्सवे शुभोत्सवे ।।८ १।।
श्रेष्ठं धेनुप्रदानं वै स्वास्थ्ये कुर्यात् करेण वै ।
या धेनुर्दीयते दाने सा दिव्या मरणोत्तरम् ।।८२।।
स्वर्गमार्गे धर्ममार्गे ह्यग्रेऽग्रे याति रक्षिका ।
धेनुदानप्रदाता न यात्यसद्गतिमीश्वरि ।।८ ३।।
वैतरण्यां दुःखनद्यां धेनुश्चोत्तारिणी प्रिये! ।
परलोके प्रगन्तुश्च प्रेतस्य भोजनप्रदा ।।८४।।
धेनुं स्वर्णमयीं दद्याद् धेनुं च राजतीं तथा ।
धेनुं धान्यमयीं दद्याद्धेनुं कार्पासकीं तथा ।।८५।।
धेनुं रसमयीं दद्याद् धेनुं सम्पन्मयीं तथा ।
धेनुं कन्यामयीं दद्यात् कन्याहीनो जनो भुवि ।।८६।।
विधिवन्मण्डपं कुर्याद् वेदीं कुण्डं च कारयेत्। ।
दानवस्तूनि सर्वाणि तथा रत्नानि सन्न्यसेत् ।।८७।।
धेनुं स्वकन्यकां कृत्वा नामान्वितां तदा ।
कन्यावस्त्राणि सर्वाणि कन्यकाभरणानि च ।।८८।।
कन्याधेनुं मण्डपे वै कृत्वा दद्याद् द्विजातये ।
हवनं कारयेत्तत्र वादित्राणि प्रवादयेत् ।।८९।।
कन्यादानविधिं योग्यं कारयेन्मण्डपे तदा ।
कन्यादानफलं तस्य धेनुदातुः प्रजायते ।।4.90.९०।।
कन्याधेनुं रोहिणीं वै दद्याद् वृषभासंगिनीम् ।
अगर्भिणीं महावत्सीं दद्यात् कन्यास्वरूपिणीम् ।।९ १ ।।
महावत्सीप्रदानेन कन्यावान् जायते ततः ।
एवंदानप्रदाता स्यात् स्वर्गभाक् मोक्षभाक् तथा ।।।९२।।
भुक्तिमुक्तिमहामुक्तिसम्पन्नो जायते सदा ।
पितॄणां तारकश्चापि कुटुम्बिनां च तारकः ।।९३।।
सर्वपुण्यसुपात्रं च ब्रह्मानन्दमयो भवेत् ।
अनपत्यो धेनुदाता सापत्यो हि समान्तरे ।।९४।।
अपुत्रः पुत्रवान् स्याच्च वर्षान्तरे न संशयः ।
शुभं कालं च सत्पात्रं प्राप्य दद्यात् प्रदानकम् ।।।९५।।
गतः कालः शुभो यस्तु पुनर्नाऽऽयास्यति क्वचित् ।
गृहस्थो धर्मकर्मार्थहीनो गोदानमाचरेत् ।।९६।।
गौस्तस्योद्धारिका साध्व्यौ! शतैकादिकुटुम्बिनाम् ।
गोदात्रे तु गुरुर्दद्यादाशीर्वादान् तदाऽक्षतैः ।।९७।।
धनवान् पुत्रवाँल्लक्ष्मीसम्पद्वान् भव पार्थिवः ।
आरोग्यवाँस्तथा श्रीमान् वर्चस्ववान् जनेष्वपि ।।९८।।
आयुष्यवान् भोगवाँश्च वंशविस्तारवान् भव ।
स्वर्गवान् सुरसम्पद्वान् मोक्षवान् भव चोत्तरे ।।९९।।
वंशे ते गोप्रदातारो जायन्तां मोक्षभागिनः ।
धार्मिका देवभक्ताश्च प्रजोद्धारपरायणाः ।। 4.90.१० ०।।
साधुसेवापराः सन्तु नार्यः सन्तु पतिव्रताः ।
सत्य सन्तु च ते वंशे राधालक्ष्मीसमाः स्त्रियः ।।१ ०१ ।।
स्वस्ति तेऽस्तु सदा लोके परलोकेऽपि तेऽस्तु तत् ।
गौरियं सर्वथा स्वस्ति करोत्वग्रे गता तव । । १० २।।
ओं नमः श्रीगोपतये राधायाः पतये नमः ।
गवात्मनि स्थितश्चाहं साक्षी कृष्णनरायणः । । १०३ ।।
मां संस्मृत्य प्रिये पद्मावति कुर्याद्गवार्पणम् ।
कृष्णार्पणमिदं दानं चाऽस्त्वित्युक्त्वा विसर्जयेत् । । १ ०४।।
इत्येवं सुप्रिये! श्रेष्ठं साधनं वां मयोदितम् ।
पठनाच्छ्रवणादस्य धेनुदानफलं भवेत् । । १०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने गृहगीतायां सर्वधर्मादिवर्जितगृहिणोऽपि मोक्षादिसाधनं गोदानं गोस्थदेवादि चेत्यादिनिरूपणनामा नवतितमोऽध्यायः ।। ९० ।।