लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०८२

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ८१ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ८२
[[लेखकः :|]]
अध्यायः ८३ →

श्रीबद्रीप्रियोवाच-
नागविक्रमसैन्यानां कतिवाजिगजादयः ।
कीदृशं च ततो युद्धं कृष्णस्य वद मे प्रभो ।। १ ।।
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि सहस्राणि तु विंशतिः ।
नागविक्रमसैन्यस्याऽऽसन् योद्धारस्तु मानवाः ।। २ ।।
सहस्रं हस्तिनां तत्र पञ्चसाहस्रवाजिनः ।
उष्ट्रास्त्रीणि सहस्राणि विमानानि तु विंशतिः ।। ३ ।।
अश्वतरास्तथा पञ्चसहस्राण्यभवन् मृधे ।
सर्वे कृष्णप्रतापास्ते कृष्णदत्तबलाधिकाः ।। ४ ।।
महारथिनः प्रबलाः सर्वरथिन इत्यपि ।
वज्रदेहाः कृष्णनारायणाऽऽवेशात्तदाऽभवन् ।। ५ । ।
सैन्ययोरुभयोस्तत्र साक्षान् गोचरताऽभवत् ।
अनादिश्रीकृष्णनारायणस्य शाश्वतं रथम् ।। ६ ।।
रणाग्रे वीक्ष्य सहसा नन्दिभिल्लं तु तद्गुरुः ।
अग्निरातऋषिः सर्वशस्त्रास्त्रकुशलोऽपि सन् ।। ७ ।।
सन्दिह्य विजये शिष्यं समुवाच हितावहम् ।
सर्वसृष्टिमयं कृष्णं नन्दिऽभिल्ल विलोकय ।। ८ ।।
योद्धुकामः पुरश्चास्ते प्रतिसैन्ये जनार्दनः ।
यत्संकल्पे जगत् सर्वं जायते लीयतेऽपि च ।। ९ ।।
सोऽयं शस्त्रधरः कृष्णः सैन्याग्रे त्वभितिष्ठति ।
तस्य पार्श्वे जयश्चास्ते तथाऽऽस्ते विजयोऽपि च ।। 4.82.१० ।।
मा वृथा त्वं प्रयासं वै विधेहि विजयेच्छया ।
नारायणस्य जेता न न तं जेष्यति कश्चन ।। ११ ।।
राजन् राज्यं विपुलं ते कथं क्षिपसि भस्मनि ।
भुंक्ष्व भोगान् विहायैव मत्सरं युद्धभूभृता ।। १२।।
त्वमास्से नागराज्याद्वै श्रेष्ठो दशगुणोऽधिकः ।
महतां जायते हानिर्नीचैः सह तु धर्षणम् ।। १ ३।।
नीचस्य विजये कीर्तिः शतधा जायते द्रुतम् ।
महतां विजये सैव यथा साऽस्ति तथैव सा ।। १४।।
स्वरूपस्य न मानस्य हानिः पराजयेऽधिका ।
विचार्येत्थं विहायैव युद्धं भुंक्ष्व क्षितिं निजाम् ।। १५।।
न भाति मे विजयोऽद्य तवाऽपशकुनादिभिः ।
मद्वाक्यं कुरु राजेन्द्र मा जुहुध्यनले प्रजाः ।। १६।।
सुखं राज्यं सम्पदश्च मा जुहुध्यनले विदन् ।
गुरोर्वाक्यं सुखदं वै लंघने तस्य चापदः ।। १७।।
एह्यागच्छ प्रणम्यैनं श्रीकृष्णं भक्तिभावतः ।
आशीर्वादान् शुभान् प्राप्य कृतकृत्यः सुखी भव ।। १८।।
गुर्वग्रे मानहानिर्न कृष्णाग्रे सुतरां तु न ।
सर्वनाशाभिसम्प्राप्तौ त्यक्त्वा किञ्चित् प्ररक्षयेत् ।। १९।।
युवां शिष्यौ समौ तस्य विनीतौ भवतां यदि ।
द्वयोः श्रेयोविधाता स्यात् कृष्णो दयापरः प्रभुः ।।4.82.२०।।
मानं रक्ष्यं समानाग्रे नाऽधिकाग्रे कदाचन ।
तत्रापि गुरुदेवाऽग्रे मानं रक्ष्यं न सर्वथा ।।२१।।।
पूर्वेषां पूर्वपूर्वेषां गुरुः शास्ता हि माधवः ।
गुर्वग्रे मनसा वाचा कर्मणाऽऽर्प्यं निजं वपुः ।।२२।।
समस्तं चार्पणीयं वै गुर्वग्रे सर्वसिद्धये ।
माता गुरुः पिता वृद्धो गुरुर्ज्ञानप्रदो गुरुः ।।२३।।
हितकृद्धितदश्चापि गुरुर्मोहविनाशकः ।
त्रिकालज्ञो गुरुश्चापि दण्डदोऽपि गुरुर्मतः ।।२४।।
शास्तारो गुरवः सर्वे ऐहिकाऽमुत्ररक्षकाः ।
बहुश्रुतानां मन्तव्यं गुरूणां वाक्यमैश्वरम् ।।२५।।
त्रिसन्ध्यं खलु कर्तव्या गुरोः पूजा हितेच्छुना ।
यो गुरुः स हरिः प्रोक्तो यो हरिः स गुरुर्मतः ।।।२६ ।।
यथा हरिस्तथा शर्वो यथा शर्वस्तथा गुरुः ।
हरविद्या हरेर्विद्या गुरोर्विद्या हि मोक्षदा ।।२७।।
सर्वदेवमयः सर्वशक्तिमयो गुरुर्यतः ।
सगुणो निर्गुणो वापि तस्याऽऽज्ञां पालयेत् सदा ।। २८।।
श्रेयोर्थी यस्तु गुर्वाज्ञां मनसाऽपि न लंघयेत् ।
गच्छेस्तिष्ठन् स्वपन् भुञ्जन् गायन् यद्यत् समाचरन् ।। २९।।
समक्षं वा परोक्षं वा स लभेतात्मसम्पदः ।
गुरोर्देवस्य सान्निध्ये न यथेष्टासनो भवेत् ।।4.82.३ ०।।
गुरुर्देवो यतः साक्षात् तद्गृहं देवमन्दिरम् ।
गुरोः प्रसेवया भक्त्या तद्धर्मफलभाग् भवेत् ।।३ १।।
यथैवानलसंसर्गान्मलं त्यजति काञ्चनम् ।
तथैव गुरुसम्पर्कात्पापं त्यजति सेवकः ।।३२।।
यथा वह्निसमीपस्थो घृतकुम्भो विलीयते ।
तथा पापं विलीयेत गुरोर्देवस्य सन्निधौ ।।३३।।
यथा प्रज्वलितो वह्निः कच्चरादि विनिर्दहेत् ।
गुरुः प्रसेवितस्तद्वत्पापं दहति सर्वथा ।।३४।।
ब्रह्मा हरिश्च शंभुश्च देवा देव्यो महर्षयः ।
कुर्वन्त्यनुग्रहं तुष्टा गुरौ तुष्टे सुखप्रदाः ।।३५।।
कर्मणा मनसा वाचा गुरोः क्रोधं न कारयेत् ।
तस्य क्रोधेन दह्यन्ति पुण्याऽऽयुर्ज्ञानश्रीक्रियाः ।।३६।।
गुरोः क्रोधप्रकर्तॄणां कृता यज्ञा हि निष्फलाः ।
निष्फलाः सम्पदः सर्वा निष्फला नियमा यमाः ।।३७।।
गुरोर्विरोधकृद्वाक्यं वदेन्नैव कदाचन ।
वदेच्चेन्मूर्खतायोगाद् रौरवं स व्रजेद् ध्रुवम् ।।३८।।
हृदा चित्तेन वित्तेन वाचा देहेन कर्मणा ।
परोक्षं वा समक्षं वा मिथ्या न कारयेद् गुरोः ।।३९।।
दुर्गुणे स्थापिते तस्य दौर्गुण्यशतभाग् भवेत् ।
सद्गुणे स्थापिते तस्य सर्वसाद्गुण्यभाग् भवेत् ।।4.82.४०।।
गुरोर्हितं प्रियं कुर्यादादिष्टो वा न वा सदा ।
असमक्षं समक्षं वा गुरोः कार्यं समाचरेत् ।।४१।।
गुरोर्हितं प्रियं कुर्यान्मनोवाक्कायकर्मभिः ।
अधः पतन्नपि राजन् हितं कुर्यात् स वर्धते ।।४२।।
गुरुर्नारायणकृष्णस्त्वया राजन्निजालये ।
पूजितो वन्दितः सोऽयं सङ्गरेऽभ्यधिसङ्गतः ।।४३।।
अहं राजन् गुरुस्तेऽस्मि विप्रो राज्यगुरुः सदा ।
मत्वा मे शोभनं वाक्यं निवर्तस्व रणांगणात् ।।४४।।
मा वैधव्यं दिलावर्या राज्ञ्या पुर्याश्च मन्त्रय ।
नन्दिभिल्ल्याः सभाया मा नूत्नेशत्वं च मन्त्रय ।।४५।।
मा रोषं कुरु .राजेन्द्र सत्यं ते निगदाम्यहम् ।
मा स्वहस्ते स्थितं राष्ट्रं परहस्ते निपातय ।।४६।।
शूराणां मा विनाशं वै शूरतरैर्विधापय ।
योद्धव्यं मायया साकं मायाविना समं तथा ।।४७।।
तथापि नैव कृष्णेन योद्धव्यं परमात्मना ।
यत्र सर्वं यतः सर्वं यः सर्वात्मा विराजते ।।४८।।
यं सर्वः सेवते श्र्यर्थं तं कथं योधयेद् रणे ।
सेवनीयो विजयार्थं तोषणीयः प्रमुक्तये ।।४९।।
प्रसादनीयः क्षेयोऽर्थं प्रस्तोतव्यः प्रशान्तये ।
लब्धव्यः शरणं गत्वा तं कथं योधयेद् बुधः ।।4.82.५ ०।।
पृथ्वी हसति राजँस्त्वां यमुनाजलफेनकैः ।
सस्यपुष्पमयैर्हास्यैः पृतनाशस्त्रजैः करैः ।।५१ ।।
लूनीवारिप्रवाहोत्थनादफेनबकादिभिः ।
निमन्त्रयति मृत्युं यन्नन्दिभिल्लो दिलापतिः ।।५२।।
राजन् काले यथायोग्यं मयोक्तमौषधप्रभम् ।
स्वतन्त्रोऽसि निजे कार्ये यथायोग्यं समाचर ।।५३।।
इत्युक्त्वा तं गुरुश्चाग्निरातर्षिर्नन्दिभिल्लकम् ।
बद्रिके स्वस्ति स्वस्त्यस्तु व्याजहार पुनः पुनः ।।५४।।
प्रत्युत्तरं गुरुं नत्वा नन्दिभिल्लो ददौ ततः ।
धृतमूर्द्धा धृतकेशो महाकालेन मृत्युना ।।५५।।
जानाम्यहं समस्तं तद् गुरो भवता नोदितम् ।
सर्वं तत् साधुभावेऽस्ति राज्यवादे न युज्यते ।।५६।।
गुरुर्वा जनको वापि भ्राता सुहृत् सुतोऽपि वा ।
सङ्गरे प्रतिसम्पन्नः स योद्धव्यो नृपेण ह ।।५७।।
तृप्तिस्तु यतिसाधूनां स्वल्पे भवति योगिनाम् ।
राज्ञां तृप्तिः पृथिव्याश्चेद् राजधर्मः कमाश्रयेत् । ।५८।।
जयश्च विजयश्चैतौ सामर्थ्यबलकिंकरौ ।
नैकान्तकृष्णपार्श्वस्थौ सर्वगौ हि मतौ मम ।।५९।।
नारायणः सदा जय्यः सर्वैरिव मुमुक्षुभिः ।
स्वार्थिभक्ता जयन्त्येव नारायणं मुहुर्मुहुः ।।4.82.६०।।
अग्निर्नारायणः साक्षात्तस्मिन् होमोऽपि मोक्षदः ।
नारायणेन महता नीचस्य योधने मम ।।६१ ।।
कीर्तिर्वा बहुला स्यान्मे मोक्षगो वा भवाम्यहम् ।
न मे हानिः कृष्णहस्तहतस्य मम काचन ।।।६२।।
सुखं राज्यं सम्पदश्च वह्नौ जुह्वति मोक्षिणः ।
कृष्णे जुहोमि तत्सर्वं वृथा होमो न मे गुरो ।।६३।।
गुरोर्वाक्ये हितं लोके जीवनं चिरमेव यत् ।
अवाक्ये योधनं कृष्णे वासश्च शाश्वते पदे ।।६४।
देहपृथिवीनाशेऽपि लप्स्ये लाभं तु शाश्वतम् ।
निर्णीतं तु मया कृष्णे सर्वार्पणं तु भावतः ।।।६५।।
ऐहिकाऽमुत्रसिद्धिर्मे कृष्णयोगाद् भविष्यति ।
नृपधर्मैः पूजयिष्ये रणांगणे हरिं प्रभुम् ।।६६।।
कालहस्तेन मृत्योस्तु कृष्णहस्ताद्वरो हि सः ।
गुरोः सेवां रणयोग्यां करिष्ये पादयोः पतन् ।।६७।।
करिष्ये वा हरेर्मूर्ध्नि शस्त्रपुष्पाऽक्षताऽर्पणम् ।
त्यक्ष्ये मलं हरेः शस्त्रानलसङ्गाद् दृढं द्रुतम् ।।६८।।
यदि तुष्टो भवेत् कृष्णो मयि शस्त्रनिपातनैः ।
तदा मे पितरस्तुष्टास्तुष्टाः सुरा महर्षयः ।।६० ।।
गुरौ नारायणे कृष्णे क्रोधदोषो न विद्यते ।
परोक्षं वा समक्षं वा करिष्ये नृपधर्मतः ।।4.82.७०।।
गुरो प्रसन्नो भगवान् यन्मां युद्धे विलोकितुम् ।
आगतोऽस्ति हरिः साक्षात्ततो भाग्यं कियन्महत् ।।७१ ।।
गुर्वग्रे मूर्खशिष्योऽपि तरत्येव न संशयः ।
परोक्षं वा समक्षं वा क्षात्रं मिथ्या न कारयेत् ।।।७२।।
क्षात्रधर्मेण गन्तुर्मे दिलावर्या अनाथता ।
भाविनी नैव विप्रर्षे ततो धर्मो हतो भवेत् ।।७३।।
करोमि धर्मसंग्रामं संग्रामे शत्रुवद्गुरुः ।
आगच्छेच्छरसन्धानैः पूजार्हः स गुरुस्तदा ।।७४।।
ब्रह्मा विष्णुर्महेशो वा महाविष्णुर्नरायणः ।
यमः कालो महाकालः पुराणपुरुषोत्तमः ।।७५।।
यो वा को वा समागच्छेच्छरपूजार्ह एव सः ।
धर्मे स्थितस्य विजयो न त्वधर्मे स्थितस्य वै ।।७६।।
युद्धं राज्ञां परो धर्मो युद्धस्था वधगोचराः ।
क्षात्रधर्माण एवैते गुरुधर्मास्तदा न ते ।।७७।।
न पूज्यधर्मा न शिष्यधर्मा न मित्रधर्मिणः ।
न पुत्रधर्मा न च वा कुटुम्बधर्मिणोऽपि ते ।।७८।।
न स्वधर्माण एवापि परधर्मिण एव ते ।
साकं तैः खलु योद्धव्यं क्षात्रधर्मः स शाश्वतः ।।७९।।
युद्धे चेत् कृष्णहस्तेन गमिष्यामि पराभवम् ।
कृष्णहस्ते विजयः स न वै स नागविक्रमे ।।4.82.८० ।।
कृष्णं हित्वा जयेन्मां स तदा मन्ये पराक्रमम् ।
कृष्णयुक्तं जगत्सर्वं बलवद्भाति मे गुरो ।।८ १ ।।
स धाता च विधाता च स मेरुर्मेदिनी च सः ।
स जेता च विजेता च पराभावयिता च सः ।।८२।।
स्रष्टा पोष्टा पोषयिता रक्षयिताऽविताऽपि सः ।
तं शरण्यं च कारुण्यपूर्णं प्राप्य समक्षगम् ।।८३।।
अत्र वापि परत्रापि जयं लप्स्ये न दुर्जयम् ।
द्वयोस्तु कार्ययोः प्राप्तौ निर्बलं तत्र बाध्यते ।।८४।।
गुरोर्वाक्यं निर्बलं वै कृष्णाप्तिर्या बलान्विता ।
कृष्णाप्तौ पुरुषार्थास्तु निवर्तन्ते तदन्तिमाः ।।८५।।
ग्रामं त्यजेत् कुलस्याऽर्थे स्वस्याऽर्थे तु कुलं त्यजेत् ।
स्वं त्यजेच्चापि गुर्वर्थे कृष्णार्थं सकलं त्यजेत् ।।८६।।
जानाति भगवान् मां च जानाति नागविक्रमम् ।
नागक्रमः सकामोऽस्ति न मे कामो हरिं विना ।।८७।।
हरिर्युद्धप्रसंगेन निष्कामं समनेष्यति ।
सकामं निरये लोके प्रतिष्ठाप्य प्रयास्यति ।।८८।।
यथा विप्रो गुरुश्चास्ते तथा धर्मोऽपि सद्गुरुः ।
धर्मो वक्ति सदा युद्धं क्षत्रस्य त्वपलायनम् ।।८९।।
आरब्धात् कर्मणश्चेत् स्यात् पश्चपादो जनो यदि ।
हास्यपात्रं भवत्येव धर्महन्ता स एव ह ।।4.82.९० ।।
विचार्याऽऽरम्भणीयानि पारं नेयानि तानि वै ।
फलं वा विफलं वापि सयत्नदैवसात्कृतम् ।।९ १ ।।
तस्माद् योत्स्ये नमस्कृत्वा धृत्वा हृदम्बरे हरिम् ।
तव योगबलं तत्राऽऽकांक्षेऽग्निरात सद्गुरो ।।।९२।।
इत्युक्त्वा तूर्णमेवाऽसौ दध्मौ शंखं मृधार्थकम् ।
तावत्तूर्णमवाद्यन्त रणभेर्यः पृथक् पृथक् ।।९३।।
विगुलानि समन्ताच्च पटहाऽऽनकगोमुखाः ।
योद्धृणां गर्जना व्योमवाण्यो युद्धाभिदर्शिकाः ।।९४।।
अभवन् मेघमार्गेऽपि विमानानां प्रगर्जनाः ।
युद्धार्थं विजयार्थं च गजानां बृंहितानि च ।।९५।।
ह्रेषाश्च वाजिनां तत्र वृषाणां रंभणानि च ।
उष्ट्राणां गांगणनाश्च समन्ततोऽभवन् मृधे ।।९६।।
महाकालस्तथा रुद्रो यमो विश्वेश्वरो हरः ।
आकाशे देवतास्तत्र महर्षयश्च पार्षदाः ।।९७।।
व्यापृतं श्रीकृष्णनारायणं ज्ञात्वा समाययुः ।
चक्रं सुदर्शनं नैजम् आजगत्कलनं धनुः ।।९८।।
दधार भगवान् शीघ्रं शरं च ग्रसनाह्वयम् ।
नागविक्रम एवापि सर्वास्त्राणि दधार ह ।।९९।।
सेनानीर्नन्दकुबरो रथस्थोऽग्रे स्थितोऽभवत् ।
एवं ब नन्दिभिल्लोऽपि सेनापेन्द्रव्रजोऽपि च ।। 4.82.१० ०।।
स्वस्वरथौ पुरः कृत्वाऽतिष्ठतां सज्यकार्मुकौ ।
प्रतीक्षन्ते च सैन्यानि शस्त्रमोचनसूचकम् ।। १० १।।
महामहाध्वनिं शांखं स्वस्वसेनापसंभवम् ।
इत्येवं बद्रिके तत्र सन्नाहोऽभवदाच्युतः ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने कृष्णेन सह न योद्धव्यमिति गुरोरग्निरात्तस्योपदेशं स्वानुकूलं योधने नन्दिभिल्लो मत्वा युद्धक्षणसूचकशंखध्वानमाचरत्, उभयसैन्यध्वानानीत्यादिनिरूपणनामा द्व्यशीतितमोऽध्यायः ।। ८२ ।।