लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०६२
← अध्यायः ६१ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः) अध्यायः ६२ [[लेखकः :|]] |
अध्यायः ६३ → |
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि लुञ्चादस्य कथामपि ।
लालाखानपुरे विप्रोऽभवत् प्रधानधिष्ण्यपः ।। १ ।।
नाम्ना विलासदेवः स राष्ट्रे प्रधानकार्यकृत् ।
शर्करानृपतेराज्ञाकरो विवादमध्यगः ।। २ ।।
न्यायकर्ताऽभवच्चापि धर्मशास्त्रानुसारतः ।
कुटुम्बसहितश्चापि राज्यसत्ताधिकारवान् ।। ३ ।।
प्रजानां वादविषये श्रेयस्कृत् सुविचारवान् ।
कुशलो राज्यकरणे किन्तु लोभपरायणः ।। ४ ।।
द्वयोर्विवादे प्रच्छन्नां लुञ्चां गृह्णाति वै द्वयोः ।
द्वयोः कार्याणि योग्यानि निस्तारयति न्यायतः ।। ५ ।।
एवं जाते बहुकाले प्रतिष्ठामाप्तवानति ।
लुञ्चाधनैस्तु बहुलैः श्रेष्ठी धनपतिः स वै ।। ६ ।।
जातस्तथापि लोभाढ्यो दानं पुण्यं करोति न ।
न तीर्थं न मखं दानं साधुभ्यो वा करोत्यपि ।। ७ ।।
नाऽतिथीन्न सतीः साध्वीर्न देवान् पूजयत्यपि ।
नोत्सवान्न च वा श्राद्धं करोति कारयत्यपि ।। ८ ।।
न व्रतानि न भजनं श्रेयः किञ्चित् करोत्यपि ।
आत्महितं नाऽऽचरति बद्रिके स द्विजो ह्यपि ।। ९ ।।
नारकीव सदा चास्ते समृद्धोऽपि दरिद्रवत् ।
दीयते न न भुज्यते तत् तृतीयां विन्दते गतिम् ।।4.62.१ ०।।
एवमस्य भूदेवस्य विलासदेवनामिनः ।
धनं सञ्चयमापन्नं भूमौ चञ्चलतां गतम् ।। १ १।।
लुञ्चाजन्यं धनं सर्वं रक्तवृश्चिकतां गतम् ।
भूत्वा वृश्चिकरूपं तन्निर्गतं भूमिगर्ततः ।। १२।।
कोटिशो वृश्चिका रक्ता भवने निर्गता निशि ।
भयमासाद्य तत्पत्नी पुत्राः पुत्रश्च दासिकाः ।। १ ३।।
निर्ययुर्विह्वलाः सर्वे गृहाद्बहिर्द्रुतं तदा ।
विलासदेवो विप्रोऽपि परां विह्वलतां गतः ।। १४।।
शास्त्रदृष्ट्या विवेदाऽपि धनं वृश्चिकतां गतम् ।
शुशोच बहुधा तत्र श्रावयन् स्वकुटुम्बिनः ।। १५।।
अहो भार्ये सुताः पुत्र्यो धनं सर्वं गतं हि नः ।
दुर्भाग्यस्याऽर्जितं चापि प्रयाति वृश्चिकात्मकम् ।। १६।।
पश्यन्त्विमान् ताम्रकुंभान् रिक्तान् पूर्वप्रपूरितान् ।
लक्ष्मीर्मयाऽर्जिता सा न योजिता सत्सु कर्मसु ।। १७।।
नात्मार्थं नापि देवार्थं कुटुम्बार्थं न योजिता ।
सञ्चिता सर्वदा गर्ते मूर्छिता सा गता स्वयम् ।। १८।।
कदर्यस्य धनं लक्ष्मीर्भोगशून्या विजीर्यति ।
अभोक्तारं विहायाऽन्यं याति षण्डवधूरिव ।। १९।।
भोगात्मकं फलं नैव प्राप्तं मया कदाचन ।
प्रत्युताऽघं महत् प्राप्तं लुञ्चाजन्यं प्रलोभिना ।।4.62.२०।।
भोक्तव्यं परलोके तल्लुञ्चाकर्मफलं मया ।
उभयोर्लोकयोः कष्टं प्रत्यक्षं मम वर्तते ।।२१ ।।
पापमेतद्ब्राह्मणस्य ततोऽन्यच्चापि मेऽभवत् ।
द्रव्यार्जने प्रसक्तस्य सन्ध्याकर्मादिहीनता ।।।२२।।
सत्यं शौचं क्षमा शान्तिस्तृप्तिर्व्रतं सुरार्चनम् ।
सन्तोषश्चात्मवेदित्वं स्वाभाविकं द्विजस्य यत् ।।२३।।
मया तद्विहितं सर्वं लोभात्मना तु पापिना ।
पापस्य लोके पापानां मूलं लोभो निगद्यते ।।२४।।
अधर्मपुत्रो लोभोऽस्त्यधर्मो लोभात् प्रवर्धते ।
लक्ष्मीः रुष्टा हरेः पत्नी ममाऽधर्मस्थितस्य वै ।।२५।।
जडाऽपि सा गता चैत्या भूत्वा वृश्चिकरूपिणी ।
तस्याः प्रसन्नतार्थं तु साधनं हरिसेवनम् ।।२६।।
विना प्रसन्नतां लक्ष्म्या वैकुण्ठे वसतिर्न हि ।
तस्मात् प्रसादनीया सा नारायणस्य सेवनात् ।।२७।।
इत्येवं स शुशोचापि निर्धनः स्वजनैः सह ।
विचित्ततां गतश्चापि लुञ्चाधनलयात्तथा ।।२८।।
कुटुम्बं दुःखमापन्नं सुखशून्यं ततोऽभवत् ।
पदं प्रधानं कष्टाख्यं सर्वं तस्याऽप्यभासत ।।२९।।
अन्यायोपार्जितं द्रव्यं मूलमादाय निर्गतम् ।
तस्मात् प्रधानता दुष्टा लोभक्रोधादिसंभृता ।।4.62.३० ।।
स्वर्गमोक्षादिहन्त्र्येव विप्रस्य तु विशेषतः ।
विप्रस्य योग्यता दैवे सुखदा न तु राजके ।।३ १।।
सदा क्लेशमयं राज्यं सत्ता पापान्विता सदा ।
प्रधानता शाठ्ययुक्ता कथं विप्रस्य मोक्षणम् ।।३२।।
गायत्रीजापकालेऽपि राज्यकार्यविचिन्तनम् ।
श्रीकृष्णध्यानकालेऽपि शत्र्वादिध्यानमर्षणम् ।।३३।।
पूजाकाले महीमानसम्मानादिविधापनम् ।
देवदर्शनकालेऽपि चौरदुष्टादिचिन्तनम् ।।३४।।
आत्मसाधनकालेऽपि मायासाधनमन्वहम् ।
मोक्षसाधनसमये बन्धसाधनमुल्बणम् ।।३५६।।
पुण्यसाधनसमये पापसाधनमायतम् ।
अहो कष्टपदं नित्यं प्रधानपदमीदृशम् ।।३६।।
तस्मात् त्याज्यं प्रधानत्वं सुखनिद्रा न यत्र वै ।
शाश्वतश्च न कोशोऽस्ति सा वै त्याज्या प्रधानता ।।३७।।
भाग्यरेखा दरिद्रस्य दारिद्र्यमातनोति वै ।
यतमानस्य यत्नोऽपि निर्बलो रेखया कृतः ।।३८।।
जन्मरेखा बलवती चान्ते स्वस्यां नयत्यपि ।
तथा ममापि सम्पन्ना स्थितिः पूर्वेव तापसी ।।३९।।
तस्मात् त्यक्त्वा प्रधानत्वं यामि त्वन्यत्र यत् सुखम् ।
श्रूयते तु मया नित्यं शुभं लोकमुखादपि ।।4.62.४०।।
लक्ष्मीनारायणसंहितायाः पारायणं परम् ।
वार्षिकं वर्तते नातिदूरे वै शर्करापुरे ।।४१।।
विप्रास्तत्र समायाता राजानो राजयोगिनः ।
ऋषयः साधवो भक्ता वैष्णवा बहवो जनाः ।।४२।।
श्रेष्ठिनश्च नरा नार्यो लक्षाधिमानवाः सदा ।
शृण्वन्ति तु कथा दिव्याः पावनास्ते भवन्त्यपि ।।४३।।
लक्ष्मीः प्रसन्ना भवति प्रसन्नश्च नरायणः ।
पापिनां चाऽवीक्ष्य दोषान् करोति पावनाँस्तु तान् ।।४४।।
कृपयैव प्रभुः कृष्णो नारायणः परेश्वर ।
आगत्य दर्शनं दत्वाऽक्षरं धाम नयत्यपि ।।४५।।
विप्रोऽहं पापसम्पन्नो मे गतिर्नान्यथा शुभा ।
गत्वा तत्र कथां श्रुत्वा कृत्वा पापविधूननम् ।।४६।।
ब्रह्मगतिं प्रयास्यामि स्यात् साफल्यं जनेर्मम ।
असारः खलु संसारः कृतोऽप्यकृत एव सः ।।४७।।
विवेकेन तु तं त्यक्त्वा यास्यामि परमां गतिम् ।
यद्वा तद्वा कथां श्रुत्वा सद्गतिर्मे भविष्यति ।।४८।।
कुटुम्बेन सहितोऽहं ततो याम्यधुना कथाम् ।
धर्मकृत्ये चिरता वै विघ्नदा न तु साधिका ।।४९।।
धर्मकार्ये त्वात्मकार्ये प्रकुर्वीत द्रुतं मुदा ।
प्रातः कालो निवर्तेत न चागच्छेत् पुनः शुभः ।।4.62.५०।।
विचार्येत्थं बद्रिके स विप्रो विलासदेवकः ।
सज्जो भूत्वा कुटुम्बेन सहितः सुविचारवान् ।।५१ ।।
त्यक्त्वा प्रजासमक्षं वै पदं प्राधानिकं तु तत् ।
विरामं तु समासाद्य परिहारं विधाय च ।।५२।।
निर्ययौ नगरात्तस्माच्छर्करापुरमाययौ ।
महोद्याने निजावासं सभामण्डपसन्निधौ ।।।९३।।
अकरोद्भगवत्प्राप्त्यै मनो दधेऽतिशान्तये ।
सस्नौ तीर्थजलैश्चाप्यादायोपदास्ततः स्वयम् ।।५४।।।
कुटुम्बसहितो विप्रः कथामण्डपमाययौ ।
बद्रिके हृदये शान्तिर्विप्रस्य बहुधाऽभवत् ।।।९५।।।
मुक्तागौरी तु तत्पत्नी परां शान्तिमवाप ह ।
मण्डपदर्शनं कृत्वा पुत्र्यः पञ्च सुतास्त्रयः ।।५६।।
सर्वे शान्तिमगुस्तत्र कृत्वा व्यासस्य दर्शनम् ।
संहिताया दर्शनं च लोमशस्यापि दर्शनम् ।।५७।।
कृत्वा सतां दर्शनं च 'साध्वीनां दर्शनं तथा ।
वैष्णवानामृषीणां च भक्तानां दर्शनं ह्यपि ।।५८।।
एवं तेषां दर्शनेन संकल्पा विलयं गताः ।
हृदयान्यमलान्येव जातानि मानसान्यपि ।।९९।।
उद्वेगा विलयं प्राप्ताश्चिन्ता चित्तान्न्यवर्तत ।
दुःखं व्याधिराध्युपाधी सर्वं तद् विलयं गतम् ।।4.62.६ ०।।
ब्रह्मसुखं यथा स्याद्वा तथा कृष्णसुखं भवेत् ।
मुक्तिसुखं यथा वा स्यात् तथा शान्तिर्व्यवर्तत ।।६१।।
अहो स्थानस्य माहात्म्यं मायाजालं लयं गतम् ।
अहो दर्शनमाहात्म्यं मनोमलमलीयत ।।६२।।
अहो सतां प्रमाहात्म्यं वासना विलयं गता ।
दर्शनादेव विप्रस्य तापास्तत्र लयं गताः ।।६३।।
तत्र चागत्य पुरतो व्यासस्याऽर्हणमाचरत् ।
संहितायाः पूजनं च लोमशस्यापि पूजनम् ।।६४।।
सतां प्रपूजनं चापि नीराजनं व्यधादपि ।
धूपं दीपं दण्डवच्च नैवेद्यं च फलार्पणम् ।।६५।।
जलं पयः शर्करां च न्यधाच्छुभाऽक्षतानपि ।
तुलवीपत्रहाराँश्च कुन्दकुसुमहारकान् ।।६६।।
चन्दनं कैसरं चापि न्यधात् स संहितान्तिके ।
कम्बलान् दिव्यवस्त्राणि भूषाः सौवर्णजा न्यधात् ।।६७।।
वेधोपवेषान् रम्याँश्च राजार्हकटकानपि ।
न्यधात् कथायाः पुरतो दिव्यरत्नोपदास्तथा ।। ६८।।
प्रदक्षिणं ततः कृत्वा नत्वा नारायणं हरिम् ।
व्यासं सभां ततः कुटुम्बान्वितो मण्डपे द्विजः ।।६९।।
निषसाद पुरःस्थाने सभ्यसम्मानितो हि सः ।
तत्पत्नीपुत्रिकापुत्राः पुपूजुर्व्यासमुत्सुकाः ।।4.62.७०।।
नत्वा धृत्वा प्रसादाम्बु मुखे च मस्तकोपरि ।
निषेदुश्च सभायां वै श्रोतुं कथां हि पावनीम् ।।७१ ।।
श्रुत्वा जग्मुर्निजावासं त्वेवं निपेयमतन्द्रिताः ।
कथां शृण्वन्ति सेवन्ते साधून् महर्षिपुंगवान् ।।७२।।
कथाश्रवणतस्तेषां वैराग्यं समपद्यत ।
दीक्षां प्राप्तुं समीहाऽपि समजायत वै द्रुतम् ।।७३।।
मासान्ते श्रीलोमशो वै मन्त्रं तेभ्यो ददौ पुरा ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।७४।।
प्रभोनारायणस्वामिन् माधवीन्रायणप्रभो ।
जयाकृष्णललितान्रायणराधापते विभो ।।७५।।
एवं नामभजनं च ददौ तेभ्यो मुदाऽथ ते ।
चक्रुस्तन्नामभजनं नित्यं श्रीकृष्णवैष्णवाः ।।७६।।
अथ त्यागाश्रमे स्थातुं समैच्छन् ते कुटुम्बिनः ।
प्रार्थयन् वाचकं व्यासं स्वतःप्रकाशकायनम् ।।७७।।
व्यासस्तथास्त्विति प्राह चैत्रान्तैकादशीतिथौ ।
धवले पक्षके प्रातः प्रायश्चित्तमकारयत् ।।७८।।
पापविशोधनं श्राद्धं पितृकार्यमकारयत् ।
ऋणापाकरणं चापि ग्रहापाकरणं तथा ।।७९।।
कारयित्वा तीर्थविधिं रक्षामन्त्रं ददौ ततः ।
'कालमायापापकर्मशनुयाम्यकुहृद्भयात् ।।4.62.८०।।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव' ।
रक्षामन्त्रमिति दत्वा प्रपत्तिं प्रददौ ततः ।।८१।।
'शरणं श्राकृष्णनारायणोऽस्तु मम सर्वदा' ।
एवं शरणमन्त्रं च दत्वा ब्रह्ममनुं ददौ ।।८२।।
'ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे' ।।८३।।
ब्रह्मभावमनुं दत्वा चात्मनिवेदनं ददौ ।
'बालकृष्णः परब्रह्म मम वै शाश्वतः पतिः ।।८४।।
पिता बन्धुः सुहृन्मित्रं रक्षकः पालकोऽस्तु सः' ।
'ओं श्रीलक्ष्म्यै महालक्ष्म्यै दुःखमन्त्र्यै श्रियै नमः ।।८५।।
ओं मां श्रीबालकृष्णाय समर्पयामि ओं नमः' ।
एवं समर्पणं दत्वा काषायाम्बरधोत्रकम् ।।८६।।
उत्तरीयं शिरस्त्राणं तथा चाप्यंगरक्षकम् ।
गात्ररक्षकमेवापि काषायाम्बरमार्पयत् ।।८७।।
यज्ञोपवीतकं कण्ठीं तौलसीं चन्दनं तथा ।
मालिकां श्रीकृष्णनारायणमूर्तिं ददौ ततः ।।८८।।
एवं नरेभ्यो दत्वा श्रीकृष्णनारायणेति च ।
नामजपात्मकं दत्वा नारीभ्यो दीक्षणं ददौ ।।८९।।
मन्त्रान् दत्वा च काषायाम्बरशाटीं नवां शुभाम् ।
काषायघर्घरीं चापि काषायचोलिकां ददौ ।।4.62.९०।।
काषायकुचरक्षां च काषायमूर्धकेशलीम् ।
यज्ञोपवीतकं कण्ठीं तौलसीं कुंकुमं तथा ।।९१।।
मालिकां श्रीकृष्णनारायणमूर्तिं ततो ददौ ।
ज्ञानं विस्तारतश्चापि ददौ सर्वार्पणात्मकम् ।।९२।।
देहेन्द्रियाऽन्तःकरणैश्चात्मना गुणकर्मभिः ।
अर्पणं श्रीकृष्णनारायणे दानात्मकं हि तत् ।।९३।।
उपवासस्तपः श्रेष्ठं ब्रह्मचर्यं तपः परम् ।
कृष्णचर्या परा भक्तिः पराऽक्षरप्रदा मता ।।९४।।
उपवासेन नश्येद् वै कायेन्द्रियाऽघजातकम् ।
आन्तराणां भवेच्छुद्धिर्दोषाणां क्षपणं तथा ।।९५।।
ब्रह्मचर्येण कामानां निरोधो दोषनाशनम् ।
वासनाविलयश्चापि नारकित्वप्रमोक्षणम् ।।९६।।
श्रीकृष्णचर्यया सर्वं नैष्कर्म्यमभिजायते ।
श्रीकृष्णानुग्रहश्चापि श्रीकृष्णार्थसमस्तता ।।९७।।
तद्भक्त्या तद्धामगतिस्तन्मूर्तावभिवासिता ।
तदानन्दाशनमात्रं कृष्णतादात्म्यमित्यपि ।।९८।।
एवं समुपदिश्यैव प्रसादान्नजलामृतम् ।
ददौ तेभ्यश्च ते भक्ता महाभागवतोत्तमाः ।।९९।।
त्यागिसन्तो भावभक्त्या पुपूजुर्व्याससद्गुरुम् ।
एवं बद्रीप्रिये! लुञ्चादनोऽपि द्विजपुंगवः ।। 4.62.१० ०।।
कुटुम्बसहितो जातः साधुः प्रधानतां जहौ ।
दीक्षानामाऽभवत्तस्य दिव्यप्रकाशकायनः ।। १०१ ।।
त्रिपुत्राणां तु नामानि सुरप्रकाशकायनः ।
मुनिप्रकाशायनकः कृष्णप्रकाशकायनः ।। १ ०२।।
पत्नी साध्वी दधे नाम गौरीमुक्तायनीति वै ।
पञ्च पुत्र्यो नाम दध्युः-मौक्तिकायनिका तथा ।। १ ०३।।
श्रीसत्तायनिका चेति ब्रह्मधामायनी तथा ।
कृष्णकान्तायनी चापि विष्णुकान्तायनीति च ।। १ ०४।।
एवं बद्रीप्रिये त्यागाश्रमे तस्थुः सदा तु ते ।
कालान्तरे कृपां प्राप्य ययुर्धामाऽक्षरं हरेः ।। १ ०५।।
दीक्षां वीक्ष्य तदा नार्यो नराश्चापि सहस्रशः ।
जगृहुर्वैष्णवीं दीक्षां तत्र त्यागमयीं दिने ।। १ ०६।।
आतुरदीक्षितास्तत्र बहवोऽपि नराः स्त्रियः ।
चैत्रशुक्लैकादश्यां ते द्वादश्यामपि केचन ।। १ ०७।।
त्रयोदश्यां चतुर्दश्यां पूर्णायामपि केचन ।
दिव्यदेहा अभवँश्च तान्नेतुं श्रीनरायणः ।। १ ०८।।
विमानसहितस्तत्राऽऽययौ निनाय चाक्षरम् ।
एवं चाक्षरधाम्नस्तु मार्गं उद्धाटितस्तदा ।। १ ०९।।
अनादिश्रीकृष्णनारायणकान्तेन बद्रिके ।
सहस्रशश्चैत्रशुक्ले ययुर्धामाऽक्षरं हरेः ।। 4.62.११ ०।।
पठनाच्छ्रवणादस्य चमत्काराऽवबोधनात् ।
भुक्तिर्मुक्तिर्भवेच्चापि कृपया श्रीपतेः प्रभोः ।। १११।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने लुञ्चादनस्य विलासदेवविप्रस्य सकुटुम्बस्य राज्यप्रधानस्य कथाश्रवणेन साधुदीक्षाग्रहणमित्यादिनिरूपणनामा द्वाषष्टितमोऽध्याय ।। ६२ ।।