लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०५४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ५३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ५४
[[लेखकः :|]]
अध्यायः ५५ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कन्याघ्नस्य कथां तथा ।
युद्धपुरमहाराज्ये युद्धराजोऽभवन्नृपः ।। १ ।।
दानधर्मरतः पुण्यकरः साधुप्रपूजकः ।
प्रजारक्षाकरश्चापि गर्वमानभरोऽभवत् ।। २ ।।
तत्र प्रथाऽभवद् बद्रि कन्याहिंसामयी पुरा ।
कन्याया जन्म जायेत क्षत्रियस्य गृहे यदि ।। ३ ।।
कन्याभ्राता कस्यचित्तु शालकः स्याद् भविष्यति ।
कन्यापिता श्वशुरः स्यात् तदनिष्टं परं यतः ।। ४ ।।
क्षत्रियः शालको न स्याज्जामातृश्वशुरो न च ।
स्नुषाश्वशुरः स्यादेव कुत्रचित् सा प्रथाऽभवत् ।। ५ ।।
अतः कन्या प्रहन्तव्या क्षत्रियेण तु जन्मतः ।
मानिनो युद्धराजस्य राज्ञ्यां कन्या त्वजायत ।। ६ ।।
राज्ञीप्रसूतिकालेऽपि दास्यां पुत्रोऽप्यजायत ।
राज्ञीस्नेहेन सा दासी कन्यानाशभयेन च ।। ७ ।।
कन्यां जग्राह दत्वा स्वं पुत्रं राज्ञ्यै सुसुन्दरम् ।
पुत्रोऽभवन्नृपतेस्तु प्रकाशेऽप्रसरच्छुभम् ।। ८ ।।
अतिहर्षेण राज्ञा वै कृतः पुत्रोत्सवः शुभः ।
कन्याकुमारौ सदृशौ वृद्धिमाप्तौ शनैः शनैः ।। ९ ।।
कन्यामानं तु सा दासी राजकन्यावदाचरत् ।
राज्ञी चापि तथा मानं राजकन्यावदाचरत् ।। 4.54.१० ।।
न तादृशं कुमारस्य प्रकृतिर्हि बलीयसी ।
कुमारोऽपि महान् जातो दासीं स्वमातरं प्रति ।। ११ ।।
दासीं कृत्वा वर्तते सः किंकरीं मानवर्जिताम् ।
अथैकदा स्नेहमग्ना दासी रहः स्वपुत्रकम् ।। १२।।
अधीरा प्राह वृत्तान्तं सर्वं जातं यथातथम् ।
राजकन्याप्ररक्षार्थं विनिमयस्तु जन्मतः ।। १ ३।।
कृत एव मया पुत्र कन्या राज्ञ्याः सुतोऽसि मे ।
अतो मां मातरं गर्भधारिणीं जन्मदायिनीम् ।। १४।।
विद्धि वत्स प्रकाशं मां कुरु स्वं कुशलं कुरु ।
कन्यायाः कुशलं चापि प्रकाशे सति नैव ह ।। १५।।
अतो गोप्यं समस्तं तन्मां विद्धि तव मातरम् ।
बद्रिके स्त्रीहृदयं निष्ठुरं भिन्नकपाटकम् ।। १६।।
कदाचिद्भिद्यते क्रोधात् कदाचित् स्नेहतो ध्रुवम् ।
तेनाऽनिर्घारितं स्याद्वै व्यसनं दुःसहं ततः ।। १७।।
स्त्रीतो गोप्यं गोपनीयं प्रकाश्यं न स्त्रियाः पुरः ।
अथैवं राजमातुश्च पुत्र्यां स्नेहोऽतिवर्तते ।। १८।।
पुत्री विवाहयोग्या सा जाता राज्ञीसमा शुभा ।
तदा पुत्री प्रदेया क्व कस्मै चेति व्यचिन्तयत् ।। १९।।
राज्ञी स्वयं चातिचिन्तापराऽभवत् सुताकृते ।
न दासाय प्रदातव्या देया कुमारकाय वै ।। 4.54.२०।।
राजपुत्राय दातव्या नो चेद् रक्ष्या कुमारिका ।
एवं व्यचिन्तयद् राज्ञी कन्या वरं प्रतीक्षते ।। २१ ।।
कदा मे स्याद् विवाहो वै माता कथं न वक्ति तत् ।
इत्येवं चिन्तयाना सा पप्रच्छ मातरं त्विदम् ।। २२।।
कथं मातर्विवाहं मे नैव चिन्तयसि क्वचित् ।
तदा माता दासिका सा प्राह राज्ञी निषेधनम् ।। २३।।
करोत्येव सदा पुत्रि ततोऽहं न वदामि तत् ।
अथैकदा सुता राज्ञ्या देहसेवापरायणा ।। २४।।
रहः पप्रच्छ तां राज्ञीं मातर्नमामि ते मुहुः ।
पृच्छाम्यहं हृदयस्थं मा दोषं मयि कल्पय ।। २५।।
मद्रहस्यं तु पृच्छामि यथावद् वक्तुमर्हसि ।
कथं विवाहयोग्याया विवाहं मे शुभप्रदम् ।। २६।।
कर्तुं न मन्यसे निषिध्यसे कथं समुच्यताम् ।
श्रुत्वा माता राजमाता निजां पुत्रीं तु दासिकाम् ।। २७।।
आकृष्य बहुधा धृत्वा वक्षस्यश्रूण्यवासृजत् ।
ततो धैर्यं समालम्ब्य जगाद पुत्रिकां हितम् ।। १८।।
वत्से मत्कुक्षिजा चास्ते नृपस्यासि सुता शुभा ।
किन्तु निकृष्टभाग्या त्वं दास्यै मया पुराऽर्पिता ।। २९।।
दासीपुत्रो मया प्राप्तः त्वत्समक्षणजन्मवान् ।
करोम्येवं न चेद् राजा निहन्यात् त्वां तु जीवनः ।।4.54.३ ०।।
राजा कस्यापि न स्याद्वै शालकः श्वशुरोऽथवा ।
भ्राता ते त्वग्रजश्चान्यो वर्तते राजदायभाग् ।। ३ १।।
राज्याधिकारवाँश्चापि शालकः स कथं भवेत् ।
पिता ते च श्वशुरो वा कथं स्यात् कस्यचित् खलु ।। ३२।
त्वं कन्या मे यदा जाता मया गुप्ता कृता न चेत् ।
अशालकत्वरक्षार्थं चाऽश्वशुरत्वगुप्तये ।।३३।।
राजा त्वां नाशयेत्तूर्णं स्यां पुत्री रहिता त्वहम् ।
मया प्राप्ता त्वेकपुत्री मुखदर्शनदायिनी ।।३४।।
मारयितुं कथं दद्यां गतैः प्राणशतैरपि ।
वत्से तदा मया सम्यग् चिन्तितं श्रेयसे तव ।।३५।।
प्रसूतश्चाऽभवद् दास्यां पुत्रोऽयं यः कुमारकः ।
स मया स्नेहबद्धाया दास्याः प्राप्तो द्रुतं गृहे ।।३६।।
तस्यै त्वं चार्पिता वत्से प्राणरक्षणहेतवे ।
सा त्वं मत्कुक्षिजा पुत्रि वर्तसे मम सन्निधौ ।।३७।।
तां त्वां राजकुमारीं वै श्रेष्ठां मदंगसंभवाम् ।
यस्मै कस्मै तु दासाय दातुं कथं समुत्सहे ।।३८।।
ततः पुत्रि मया दासी निषिध्यते प्रदानके ।
दासे दानं निकृष्टं यद् राजपुत्रे प्रशस्तकम् ।।३९।।
वद वत्से रहः प्रोक्तं त्वत्कृते किं करोम्यहम् ।
त्वया पृष्टं ततः सर्वं मयोक्तं मम पुत्रिके ।।4.54.४०।।
विना राजकुमारं तु कौमार्यं ते वरं सदा ।
तथाप्यहं यतिष्ये वै पुत्रिके यच्छुभं भवेत् ।।४१ ।।
मा प्रकाशय वृत्तान्तं हानिस्तेन भविष्यति ।
मम नाशस्तव नाशो राजद्वारा भविष्यति ।।४२।।
इत्येवं शयने राज्ञी जगाद निजबालिकाम् ।
पुत्री ज्ञात्वा समस्तं तन्मातृसेवापरायणा ।।४३।।
विशेषतः प्रजाता वै कुमारोऽपि प्रसूं प्रति ।
एवं स्वाभाविकस्नेहे विनिमयोऽप्यजायत ।।४४।।
वचने हृदये देहे क्रियास्वपि समन्ततः ।
स्वस्वमातृस्नेहभावो व्यवर्धत तयोस्तदा ।।४५।।
अथैकदा नृपो नैजे शयने निद्रितोऽभवत् ।
मध्यरात्रौ नृपनिद्रा नष्टा जागरितो नृपः ।।४६।।
राज्ञी नृपस्य शय्यायां सुप्ताऽऽसीत् स्वप्ननिद्रिता ।
स्वप्ने जजल्प नृपतेः शृण्वतो दैवनोदिता ।।४७।।
अहो पुत्रि मम पुत्रि मा राज्ञे त्वं निवेदय ।
राज्ञीपुत्रीति चैवाऽसि कुमारो दासिकासुतः ।।४८।।
अहो दासि ह्यहो दासि मा कस्मैचिन्निवेदय ।
कुमारो दासिकापुत्रः कुमारी नृपपुत्रिका ।।४९।।
राजा श्रुत्वा महाश्चर्यं गतः सत्यार्थविस्मितः ।
मोहितो वाक्यबोधेन ऋतार्थं समचिन्तयत् ।।4.54.५०।।
निर्णयार्थं त्वेकदा तु दास्यै सौवर्णशृंखलाम् ।
ददौ पप्रच्छ दासीं स वद चान्यदभीप्सितम् ।।५१।।
प्रसन्नोऽस्मि सेवया ते किं ददाम्यपरं धनम् ।
प्रासादं वाटिकां क्षेत्रं ग्रामं वा किं ददामि ते ।।५२।।
दासी प्रसन्नवदना बद्रिके ह्रस्वबुद्धितः ।
ययाचे नैव वाटीं वा क्षेत्रं ग्रामं धनं गृहम् ।।।५३।।
न मे सर्वं रोचते वै राजँस्तृप्तास्मि सर्वथा ।
यदि देयो वरो मह्यं ययाचे तु कुमारयोः ।।५४।।
द्वितीयाय कुमाराय राज्यं देहि समस्तकम् ।
यद्वाऽर्धं देहि नृपते ज्येष्ठायाऽर्धं प्रदेह्यपि ।।५५।।
राजा श्रुत्वा पक्षवाक्यं पप्रच्छ कारणं तदा ।
प्रलोभ्य बहुरत्नाद्यैर्दासी जगाद कारणम् ।।५६।।
पुत्रो मद्गर्भसंभूतो वर्तते स कुमारकः ।
पुत्री त्वत्पत्निकाजन्या वर्तते सा कुमारिका ।।५७।।
देहि राज्यं चार्धमपि राजन् पुत्राय मे शुभम् ।
बद्रिके साऽभवद् दासी क्षत्रिया भृत्यकर्मिणी ।।५८।।
नाम्ना प्रभावती देवी पुत्रस्तस्यास्तु भूपजः ।
क्षत्रियोऽभूद् द्वितीयः सः साऽतो राज्यमयाचत ।।५९।।
अकथ्यं कथितं सर्वं लोभवृत्त्या भुजिष्यया ।
स्नेहवृत्त्या सुते नैजे कथितं रह उत्तमम् ।।4.54.६०।।
अथ राजा विदित्वैव कुमारं दासिकासुतम् ।
कुमारीं निजपुत्रीं च ख्यातां तां दासिकासुताम् ।।६१।।
किंकर्तव्यप्रमूढोऽतिविह्वलः सोऽभवत् सदा ।
शालकेन न वै भाव्य ज्येष्ठकुमारकेण वै ।।६२।।
श्वशुरेण न वै भाव्यं मया चान्यनृपस्य वै ।
वार्ता प्रसिद्धिमापन्नाऽवश्यं प्रकाशमेष्यति ।।६३।।
राज्याधिकारी ज्येष्ठोऽस्ति चार्धस्य यावतोऽपि वा ।
दासीपुत्राय दास्ये चेद् राज्येऽनिष्टं भविष्यति ।।६४।।
ममाऽनिष्टं भवेच्चापि ततस्तत् कार्यमेव न ।
कन्याकुमारयोः प्राणप्रलयोऽत्र शुभो मतः ।।६५।।
विषादिसंप्रयोगेण तूर्णं द्वयोः परेतता ।
भविष्यति न सन्देहः कर्तव्यं श्रेष्ठमत्र तत् ।।६६।।
विचार्येत्थं युद्धराजो विषं मारकमुल्बणम् ।
दापयामास कन्यायै कुमाराय च गुप्तितः ।।६७।।
गुप्तिस्तत्राऽभवन्नाम्ना घटमालाऽभिधाऽनुगा ।
दासी राज्ञः कर्मकर्त्री खसजातिसमुद्भवा ।।६८।।
तथा भोजनवेलायां विषं प्रयोजितं तयोः ।
राज्ञी दासी मातरौ ते जानीतो न विषार्पणम् ।।६९।।
मरणं यन्निमित्तेन लिखितं तद्भवत्यपि ।
जीवनं यन्निमित्तेन लिखितं तद्भवत्यपि ।।4.54.७०।।
भुक्तवन्तौ सुतापुत्रौ भोजनं विषमिश्रितम् ।
व्यसू जातौ च तौ तत्र तावदभ्यागतो द्विजः ।।७१ ।।
साधुर्यतिश्चमत्कारी विषहौषधिबोधवान् ।
तदोषधिरसगूटीयुतो भ्रमन् समाययौ ।।७२।।
दैवेन प्रेरितो नाम्ना जीवनायनसंज्ञकः ।
अतिथिर्भोजनमात्रवाञ्च्छया तत्र चागतः ।।७३।।
तावत् स श्रुतवान् राज्ये प्रकाशं मरणं द्वयोः ।
राजा तूर्णं दहनाय प्रेषयामास तौ तदा ।।७४।।
तथा जाते यतिः साधुर्ज्ञात्वा मृतौ सुतासुतौ ।
राजश्मशानपार्श्वेण निर्गतोऽयं तु वैष्णवः ।।७५।।
ज्ञात्वा देहौ नीलवर्णौ तूर्णमोषधगूटिकाम् ।
निष्कास्य सन्ददौ तयोरोष्ठयोश्च जलं ददौ ।।७६।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
मन्त्रमेनं ददौ ताभ्यां श्मशाने तावदेव तु ।।७७।।
उत्थितौ शान्तगरलौ स्वस्थौ रोगविवर्जितौ ।
'प्रभोनारायणस्वामिन् कृष्णनारायण प्रभो ।।७८।।
नामधुन्यं ददौ ताभ्यामाजीवयद् दयानिधिः ।
अथ राज्ञः क्रूरकर्म ज्ञात्वा ययौ नृपं प्रति ।।७९।।
राजन्नैतत् त्वया दुष्टं क्रूरं कृतं तु पापकम् ।
कन्याहत्या कुमारस्य हत्या प्रकारिता त्वया ।।4.54.८०।।
यतिश्चाहं विनिर्भीकस्त्वां दण्डयितुमीश्वरः ।
हाहाकारो वर्ततेऽद्य राज्ञा विषेण मारितौ ।।८१ ।।
किं राज्येन तव राजन् पापातिपापकारिणः ।
योग्यो नाऽसि सदा राजन् तवाऽऽयुः क्षीणतां गतम् ।।८२।।
याम्यलोके तव वासश्चिरं कष्टो भविष्यति ।
पश्य कन्याकुमाराभ्यां दत्तं शापं तु गोचरम् ।।८३।।
म्रियतां युद्धराजोऽयं मारको नौ विषेण वै ।
शापोऽयं मूर्तिमानास्ते तव प्राणहरस्त्विह ।।८४।।
इदानीं ते गतिर्नास्ति विना मृत्युं परा भुवि ।
हत्यापापं तव जातं मृत्युस्तेऽयमुपागतः ।।८५।।
इत्युक्ते तत्र चायातो यमदूतो भयंकरः ।
पाशहस्तो विकरालो वह्निं समुद्गिरन् मुखात् ।।८६।।
यतिं तं वैष्णवं नत्वा कन्याकुमाररक्षकम् ।
पाशेन पापिनं दुष्टं बबन्ध नृपतिं तु सः ।।८७।।
राजा पराधीनदेहो व्यजायत तदाऽबुधः ।
मूर्छामवाप सहसाऽऽक्रुशन् मुद्गरमारितः ।।८८।।
विषपाशैर्निबद्धश्च वियोजयितुं वर्ष्मणः ।
तावद्राजा हृदयेन यतिं तं शरणं गतः ।।८९।।
नारायणं तथा स्मृत्वा श्रीकृष्णशरणं गतः ।
क्षमामयाचत तत्र मूर्छितोऽपि निजात्मनि ।।4.54.९०।।
शोकं चकार बहुधा याम्यबद्धो वशंगतः ।
लोकैर्दृष्टस्तथा दूतो विकरालोऽद्रिसन्निभः ।।९१।।
प्रजाश्च राजवर्गाश्च संहितास्तत्र वै द्रुतम् ।
श्रुत्वा ज्ञात्वा परं कष्टं कन्याकुमारभूभृताम् ।।९२।।
अनिष्टं परमं ज्ञात्वा शोकं सर्वे प्रचक्रिरे ।
साधुमैश्वर्ययुक्तं तं ज्ञात्वा राज्ञी तु पादयोः ।।९३।।
नाम्ना नारायणीदेवी तुष्टाव साधुमीश्वरम् ।
कृपानाथ कृपामूर्ते दयालो हितकृत् सदा ।।९४।।
हरितुल्य महायोगिन् मत्पतिं स्वस्थमावह ।
पुत्रिका रक्षिता चापि कुमारो रक्षितस्त्वया ।।९५।।
कृपयैनं पतिं मेऽपि प्ररक्षयाऽपि पापिनम् ।
पापाः पापं प्रकुर्वन्ति पुण्याः पुण्यं ददत्यपि ।।९६।।
पापं मत्स्वामिनश्चात्राऽगणयित्वाऽवनं कुरु ।
पापनाशो भवेद्येन मोक्षणं च तथा भवेत् ।।९७।।
तथा त्वं भगवन्नत्र कुर्वस्माकं हितावहम् ।
एषाऽहं तव दास्यस्मि वाक्यं मे प्रतिपालय ।।९८।।
इत्युक्त्वा चरणौ धृत्वा साधोः राज्ञी जडाऽभवत् ।
जीवनायनसाधुः स कृत्वा हस्ते जलं तदा ।।९९।।
राज्ञ्या मुखे ददौ राज्ञी स्वस्थाऽभवत् सुखस्थिता ।
ततो गत्वा नृपस्यापि मुखे जलं ददौ स हि ।।4.54.१ ००।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा। ।
प्रभोनारायण श्रीशर्वरीनारायण प्रभो ।।१०१ ।।
अनादिश्रीकृष्णनारायण श्रीकान्त सद्विभो ।
एवं मन्त्रं नामधुन्यं ददौ वारियुतं तदा ।। १ ०२।।
याम्यदूतश्च तं तूर्णं नृपं त्यक्त्वा ययौ ततः ।
राजा बुबोध सहसा यतिं नेमे तु रक्षकम् ।।१०३।।
कन्याघ्नं च कुमारघ्नं साधुर्याम्याद् ररक्ष तम् ।
बद्रिके च तदा सर्वे शोकं विहाय सर्वथा ।। १ ०४।।
प्रसन्नमानसा जाता जगृहिरे मनुं सतः ।
नामधुन्यं जगृहिरे सहस्रशो नराः स्त्रियः ।।१०५।।
वार्ता सा युद्धनगरे प्रासरद् वायुवेगिनी ।
हाहाकारसमा शान्तिस्तदा पुनरजायत ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने युद्धपतनराज्ञो युद्धराजस्यविषप्रयोगात् कन्याकुमारयोर्व्यसुत्वेऽपि जीवनायनसाधुयौगेन पुनर्जीवितता, शापेन युद्धराजस्याऽऽयुर्विनाशेन याम्यदूतागमो मृत्युश्च पापफलं, साधुकृतं रक्षणं चेत्यादिनिरूपणनामा चतुष्पञ्चाशत्तमोऽध्यायः ।। ५४ ।।