लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०३९

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ३८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ३९
[[लेखकः :|]]
अध्यायः ४० →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि कथां धूर्ताविमोक्षिणीम् ।
धुतारपुरवास्तव्या चामठाजातिजा ह्यपि ।। १ ।।
नारायणपरा नारी नाम्नाऽभूत् कनकांगदा ।
पतिपुत्रवती पुत्रीमती भ्रातृकुटुम्बिनी ।। २ ।।
नगराभ्याशवासा च शकटच्छायवर्तिनी ।
वृषभाणां च वत्सानां क्रयविक्रयकारिणी ।। ३ ।।
जीर्णोपकरणानां च संस्कारोद्धारतत्परा ।
क्रयविक्रयकार्याढ्या तथा निर्वाहयोगिनी ।। ४ ।।
हरेर्भक्ताऽपि वै जातिस्वभावा धूर्तताऽन्विता ।
अनृतकपटाऽसत्यशाठ्याद्युक्ता हि वर्तते ।। ५ ।।
वाण्यां क्रियायां मनसि प्रतारणपरायणा ।
यथाकथञ्चिद् व्यामोह्य प्रदर्श्याऽपि फलं बहु ।। ६ ।।
विश्वासं बहुधोत्पाद्य करोति वञ्चनां ततः ।
लब्धं वञ्चनया यत्तद्धनं रौप्यं च काञ्चनम् ।। ७ ।।
शीघ्रं नीत्वा प्रयात्येव ग्रामान्तरमनोयुता ।
अनसा सौमभागेषु क्षेत्रेषु वाटिकास्वपि ।। ८ ।।
अन्नानां हरणं चौर्यं करोति कर्मसन्धिनी ।
एवंविधाऽपि मार्गेषु चतुःसंगेषु वै निशि ।। ९ ।।
शकटच्छायया कालं निर्यापयति सीमनि ।
तत्र कश्चित् समायाच्चेद् भिक्षुको भिक्षुकी तु वा ।। 4.39.१ ०।।
तस्मै दत्वा यथायोग्यं भक्ष्यं भुंक्ते ततस्तु सा ।
एवमभ्यागतपरा भिक्षुके कृष्णमानिनी ।। १ १।।
नारायणं भिक्षुकं तु मत्वाऽर्हणां करोत्यपि ।
पादसंवाहनं रात्रौ दिवा देहप्रसेवनम् ।।१२।।
जलपुष्पाद्यर्पणं च कृत्वा भुंक्ते ततः परम् ।
एवं सेवापरा चास्ते नियमे भिक्षुकार्चने ।। १ ३।।
वर्तमाना भिक्षुकाय निर्दंभा धूर्ततां निजाम् ।
निवेदयति विज्ञा सा निष्पापत्वाय सर्वथा ।।१४।।
सा तु जानाति गुरुतो नाम्ना चार्वंकराधनात् ।
साधवे निजकृत्यं वै निवेदनीयमादरात् ।।१५।।
सत्यं वाच्यं यच्च तच्च गुह्यं वापि प्रकाशजम् ।
अन्याय्यं वा न्याययुक्तं पापं पुण्यं प्रतारणाम् ।।१६।।
धूर्तता शुभता चाप्यनिष्टता क्लेशता तथा ।
चौर्यं चापहरणं च वाच्यं श्रीगुरवे सदा ।। १७।।
गर्हितं वा प्रशस्तं वा वाच्यं चाऽवाच्यमित्यपि ।
सर्वं श्रीगुरवे निवेदनीयं शुद्धिहेतवे ।।१८।।
इत्येवं जायते कर्तुर्निष्पापत्वं पवित्रता ।
बन्धनं जायते नैव पापफलं न जायते ।।१ ९।।
उपार्जितात् तथा न्यायाऽन्यायाभ्यामपि सर्वदा ।
दातव्यं गुरवे चाभ्यागताय भिक्षुकाय च ।।4.39.२०।।
निर्दोषत्वं जायते च तेन पापं व्यपोहति ।
अनिवेदितभोक्तैव पापेन परिलिप्यते ।।२१ ।।
निवेदितान्नभोक्ता तु पापेन नोपलिप्यते ।
उदरार्थं कुटुम्बार्थं दस्यूनां दस्युकर्मसु ।।२२।।
दूषणं जायते नैव जातं चेद् गुरवेऽर्पणात् ।
निर्दोषं जायते तस्माद् गुरुः सेव्यः प्रमोक्षदः ।।२३।।
गुरुरेव परब्रह्म गुरुरेव जनार्दनः ।
गुरुरेव विधाता च गुरुरेव परागतिः ।।२४।।
गुरुरेवाऽनलः सूर्यो गुरुरेव प्रकाशदः ।
गुरुरेव परं पुण्यं गुरुर्धर्मः सुखं धनम् ।।२५।।
गुरुः स्वर्गं गुरुर्विष्णुर्गुरुः शंभुर्गुरुर्व्रतम् ।
गुर्वर्पणं परं पुण्यं तस्माच्छ्रीगुरवेऽर्पयेत् ।।२६।।
अन्यत्र वै कृतं पापं गुर्वेग्रे संविनश्यति ।
गुरौ पापं न कर्तव्यं गुरुर्वै परमा गतिः ।।२७।।
न वै नारायणो भूमौ शङ्खधारी मिलत्यपि ।
गुरुर्नारायणः सत्यधारी मिलति भूतले ।।२८।।
सतां समागमात् तेन निष्पापता प्रजायते ।
सन्तः श्रीगुरवस्तस्मात् सेवनीया विशुद्धये ।।२९।।
अशुद्धः खलुः संसारः शुद्धस्तत्र गुरुर्हरिः ।
अशुद्धिर्लीयते सर्वा गुरोर्योगेन दैहिकी ।।4.39.३०।।
मानसी लीयते चाप्यशुद्धिर्भक्त्या गुरोः सदा ।
गुरोर्नामस्मरणेन चात्मा पावनतां व्रजेत् ।।३ १ ।।
गुरवे त्वर्पणात् सर्ववस्तूनां स्यात् पवित्रता ।
नरा नार्यः प्रशुद्ध्यन्ति गुरुयोगेन भूतले ।।३२।।
गुरोर्मूर्तिर्हरेर्मूतिः पावनी पापिनामिह ।
तस्मात् सत्संगतिः कार्या पापिभिः पापहानये ।।३३।।
एवंविधं परं ज्ञानं गुरुतः सा ह्यवाप तु ।
तेन साधुजनसेवां करोति दंभवर्जिता ।।३४।।
समस्तं तत्कुटुम्बं वै सतां करोति सेवनम् ।
चार्वंकराधनः साधुर्ददौ तस्यै मनुं हरेः ।।३५।।
'ॐनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
ददौ मूर्तिं ददौ ज्ञानं गुरुसेवात्मकं तथा ।।३६।।
एवं गुर्वाज्ञया नित्यं वर्तते कनकांगदा ।
गुरुसेवापरा श्रीमद्बालकृष्णपराऽन्वहम् ।।३७।।
धूर्ततापापनाशार्थं सेवते श्रीहरिं गुरुम् ।
भावेन नित्यमेवैषा क्षुधां तृषा च सेवते ।।३८।।
अकृत्वा सा गुरोः पूजां चाऽनिवेद्याऽन्नमित्यपि ।
वारि पुष्पं फलं शाकं न भुंक्ते सा क्वचित् खलु ।।३९।।
एवं नियममासाद्य वर्तते गुरुतत्परा ।
अथैकदा तु सप्ताहं गुरुर्वनान्तरं ययौ ।।4.39.४०।।
अभ्यागतश्च वा साधुः कश्चिद् गृहं च नागतः ।
हरिं प्रपूज्य सा साध्वी वाटं पश्यति चोत्सुका ।।४१ ।।
क्षुधिना तृषिता रात्रिन्दिवं पश्यति वाटिनम् ।
सप्ताहं नागतः साधुरभ्यागतोऽपि नागतः ।।४२।।
अदत्त्वा साधवे साध्वी न भुंक्तेऽन्नं प्रसादजम् ।
अन्यान्यस्य तु का वार्ता बद्रिके दृढभक्तिगा ।।४३।।
नापि पपौ च सा वारि त्वनिवेद्य हि साधवे ।
तदाऽनादिकृष्णनारायणः श्री कृष्णगोपजः ।।४४।।
अन्तर्यामी सर्वविज्ञः साधुर्भूत्वा समाययौ ।
धृतकाषायवसनो धृतकन्थाकमण्डलुः ।।४५।।
धृतपावटिकाकुक्षिर्धृतभस्मादिजोलिकः ।
नारायणहरे विष्णो कृष्णश्रीभगवानिति ।।४६।।
रटन्नुच्चैर्वदद् श्रीमद्बालकृष्णो जयत्यपि ।
हरे कृष्ण प्रभोकृष्ण पद्मावतीपते प्रभो ।।४७।।
धर्मिनियमिरक्षक त्वं भक्षरक्षकरप्रभो ।
एवं नारायणकृष्णं जपन् शकटीमाययौ ।।४८।।
आसनं पावटीं जोलीं न्यस्य भूमौ हरे हरे ।
कथयित्वा निषसाद जयो भवतु चक्रिणः ।।४९।।
सुखिनी स्याः कानकांगि चार्वंकराधनोऽपि च ।
सुखिनस्ते कुटुम्बं च पुत्राः पुत्र्यो भवन्त्वपि ।।4.39.५०।।
इत्येवं समचित्तश्च ह्याशीर्वादपरायणः ।
साधुरयं दैवयोगादागतो मद्गृहं त्विति ।।५१ ।।
मत्वोत्थाय द्रुत साध्वी कनकांगी शुभासनम् ।
ददौ नत्वा जलं शुद्धं ददौ फलानि वै तदा ।।५२।।
अन्नं नवं ददौ तस्मै पवनं व्यजनेन च ।
पुष्पाणि तुलसीपत्राण्यपि ददौ तु भावतः ।।५३।।
भोजनं कुरु साधो त्वं मधुपर्कं गृहाण च ।
स्नानमाचमनं भक्ष्यं भोज्यं वारि गृहाण च ।।५४।।
आशीर्वादं देहि साधो पापं मे नाशमाप्नुयात् ।
मम भाग्यवशात् प्राप्तो नारायणस्वरूपवान् ।।५५।।
वासं गृहे मम साधो कुरु सेवां गृहाण च ।
'ओं नमोऽनादिश्रीकृष्णनारायणाय साधवे ।।।५६।।
योगिने सर्वविज्ञाय भक्तरक्षाकराय च ।
अधमोद्धारणकर्त्रे दीनानाथदयालये ।।५७।।
नमः साधुस्वरूपाय बालकृष्णाय ते नमः ।
कंभरानन्दबालाय गोपालबालकाय ते ।।।६८।।
नमो राधाविहाराय कमलापतये नमः ।
नमोऽन्तर्यामिणे भक्तभावुकाय सते नमः ।।९९।।
अन्तरात्मा परमात्मा प्रसन्नो भव सर्वदा ।
साधुसेवा तव सेवा नारायण गृहाण ताम् ।।4.39.६०।।
इत्येवं भावभिन्ना सा ददौ तत् कनकांगदा ।
पुत्राः पुत्र्यः समस्तास्ता ददुर्यथेष्टवस्तुकम् ।।६१ ।।
चार्वंकराधनश्चापि साधुसेवां तदाऽकरोत् ।
मिष्टवाण्या चरणयोः संवाहनं व्यधान्मुदा ।।६२।।
एवं सर्वं कुटुम्बं वै चामठाजातिजं तदा ।
सेवापरायणं जातं सप्ताहाऽनशनान्वितम् ।।६३।।
साधुं संभोजयित्वैव पाययित्वा जलं तथा ।
सेवयित्वा यथायोग्यमाज्ञया च ततः परम् ।।६४।।
प्रसादान्नं जलं सर्वे जगृहुर्भावतः खलु ।
शयने चापि सर्वे ते चक्रुः साधोः प्रसेवनम् ।।६५।।
आप्रातः सेवनं चक्रुः पादसंवाहनादिकम् ।
प्रातः साधुस्ततः प्राह वर वृणुत चामठाः! ।।६६।।
प्रसन्नोऽस्मि नियमेन भक्त्या सतां प्रसेवया ।
भाबेनाऽहं प्रसन्नोऽस्मि गणयामि न दूषणम् ।।६७।।
महापापातिपापानि शाठ्यानि विविधान्यपि ।
प्रतारणानि सर्वाणि नाशयामि कृपावशः ।।६८।।
धूर्ततां सर्वथा चापि विश्वासघातनं ह्यपि ।
चौर्यपापं तथा द्रव्यापहरणोद्भवं त्वघम् ।।६९।।
सर्वं प्रसन्नभावोऽहं नाशयामि कृपावशः ।
उक्त्वेत्थं साधुरूपोऽपि मूर्तिरूपोऽभवत् क्षणम् ।।4.39.७०।।
नारायणस्वरूपश्च चतुर्भुजोऽभवत् क्षणम् ।
अनादिश्रीकृष्णनारायणश्रीकान्तवल्लभः ।।।७१।।।
श्रीप्रियामाधवीराधामाणिकीललितापतिः ।
अभवत्तूर्णमेवाऽसौ सर्वदिव्यविभूषणः ।।।७२।।
दिव्यतेजोऽभिसंव्याप्तो दिव्यसौन्दर्यभाजनः ।
अथ तूर्णं सम्प्रदर्श्य रूपं दिव्यमनोहरम् ।।७३।।
तिरोऽभवत्ततो मूर्तौ ततः साधुस्वरूपवान् ।
व्यदृश्यत स्वयं कृष्णनारायणः कृपावशः ।।७४।।
अथ सर्वे क्षणं मुग्धा निष्पापा दिव्यदृष्टयः ।
जाता भक्तिवशाः कृष्णवशा गद्गदसुस्वराः ।।७५।।
भवपारं समस्तास्ते ह्ययाचन् दुःखनाशनम् ।
श्रीहरेः शरणं मुक्तिमयाचन् त्वक्षरे पदे ।।७६।।
धूतपापानि सर्वाणि क्षमापयेति चार्थयन् ।
पापजातेः समुद्धारं कुरु कृष्णेति चार्थयन् ।।७७।।
अथ बद्रीप्रिये स्वामी स्वयं श्रीहरिवल्लभः ।
पादजलं पाययित्वा दिव्यदेहान् व्यधाद्धि तान् ।।।७८।।।
विमानं त्वागतं तत्र दिव्यं वैकुण्ठवासिनाम् ।
पार्षदानां तत्र सर्वेऽध्यरोहन् प्रमुदान्विताः ।।७९।।
ययुर्धामाऽक्षरं ते वै प्राप्य वैकुण्ठमुत्तमम् ।
श्रीहरेः पादवासं ते प्रापुर्भक्त्याऽतिभावया ।।4.39.८ ०।।
साधुरूपो हरिस्तत्र तूर्णं तिरोभवत् क्षणात् ।
एवं श्रीबद्रिके भक्ता कनकांगी तु चामठी ।।८ १ ।।
सकुटुम्बा ययौ मोक्षं धूर्ताऽपि भक्तिपावना ।
श्रवणात्पठनादस्य भुक्तिर्मुक्तिर्भवेत्तथा ।।।८२।।
पापनाशो भवेच्चापि स्वर्गर्द्धिः संभवेदपि ।
साधुसेवाफलं साक्षात् कृष्णप्राप्तिर्भवेदपि ।।८३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने चामठीजातीयायाः कनकांगदायाः सकुटुम्बायाः साधुसमागमेन परमभक्त्या साधुरूपेण भगवत्प्राप्तिमोक्षणं चेत्यादिनिरूपणनामा नवाऽधिकत्रिंशोऽध्यायः ।। ३९ ।।