लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०२२
← अध्यायः २१ | लक्ष्मीनारायणसंहिता -लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः) अध्यायः २२ [[लेखकः :|]] |
अध्यायः २३ → |
श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः सा बालयोगिनी ।
क्रियायोगं समग्रं वै हरौ चक्रेऽतितन्मयी ।। १ ।।
चतुरङ्गं महायोगं योजयामास माधवे ।
व्यापारान् कर्मरूपान् सा निदधे श्रीधवे धवे ।। २ ।।
तद्यथा निजदेहं श्रीकृष्णशय्यावशं व्यधात् ।
हस्तौ निजौ हरेः कण्ठाश्लेषणे समयोजयत् ।। ३ ।।
पादौ कृष्णाभिगमने कृष्णप्रदक्षिणादिषु ।
कृष्णार्थे सा व्यधाज्जिह्वां श्रीकृष्णकीर्तने व्यधात् ।। ४ ।।
कटिदानं च कृष्णार्थं कृष्णांके स्वासनं व्यधात् ।
रतिं प्रीतिं परासक्तिं कामनां हरयेऽकरोत् ।। ५ ।।
हावान् भावान् प्रमोदाँश्च चेष्टाश्च हरये व्यधात् ।
संकेतान् मौनिनिर्देशान् क्रियार्थान् हरयेऽकरोत् ।। ६ ।।
भोजनं शयनं पानं विहारं हरये व्यधात् ।
शृंगारं शोभनं रूपं दिव्यतां हरयेऽकरोत् ।। ७ ।।
कञ्जलं रञ्जनं सम्मार्जनं केशप्रसाधनम् ।
वेषं भूषाः सुगन्धं च रचनां हरये व्यधात् ।। ८ ।।
मालां हारं मणिं रत्नं तैलं स्नानं सुचन्दनम् ।
केसरं कुंकुमं चन्द्रं पत्रिकां हरये व्यधात् ।। ९ ।।
अलक्तकं केशवेषं धम्मिलं कबरीं लताम् ।
तिलं तिलकं तिलकीं चन्द्रिकां हरये व्यधात् ।। 4.22.१० ।।
हास्यं नृत्यं च गमनं लीलां रमणं खेलनम् ।
अंगस्वास्थ्यं सुशुद्धिं च नारायणाय सा व्यधात् ।। १ १।।
उद्गारं प्राणनं निषदनं देहांगभंजनम् ।
अंगुलिस्फोटनं तालीवादनं हरये व्यधात् ।। १२।।
गीतिं मिष्टस्वरं तालं वादनं चांगखर्जनम् ।
सन्धिवलयनं वार्यानयनं शाकरन्धनम् ।। १ ३।।
आस्तरणं तापशीतसहनं हरये व्यधात् ।
एवं सखीवयस्याभिर्बाल्यक्रीडनकादिकम् ।। १४।।
काष्ठसमित्फलपुष्पपत्राहरणमित्यपि ।
अनादिश्रीकृष्णनारायणकान्तार्थमानयत् ।। १५।।
सर्वाः कलाः श्रीहरयेऽकरोन्नात्मार्थमीश्वरी ।
एवं व्यापारयोगांगं श्रीकृष्णार्थं व्यधात् सदा ।। १६।।
अथ द्वितीयं योगांगमालोचनं हरौ व्यधात् ।
आलोचनानि ज्ञानानि सर्वाणि हरये व्यधात् ।। १७।।
दर्शनानि समस्तानि यावन्ति श्रवणानि च ।
स्पार्शनानि समस्तानि यावन्ति रासनानि च ।। १८।।
घ्राणजानि समस्तानि जाग्रत्स्वप्नकृतानि च ।
मूर्छासुषुप्तितुर्यादिप्रोद्भवानि व्यधाद्धरौ ।। १९।।
प्रत्यक्षादीनि सर्वाणि प्रत्यभिज्ञानकान्यपि ।
धार्याकाराणि सर्वाणि यावन्ति स्फुरणानि च ।।4.22.२०।।
अनुमानानुमित्यादीन्यपि सा हरये व्यधात् ।
उपमानं चोपमितिं सादृश्यं शाब्दमित्यपि ।।२१ ।।
आकांक्षावशसंसर्गज्ञानानि हरये व्यधात् ।
अर्थापादनमेवाऽपि तर्कं सिद्धिं च निर्णयम् ।।२२।।
अनुपलम्भमेवापि संभावनां कुतूहलम् ।
मानसं चिन्तनं प्रबोधनं तथाऽभिमाननम् ।।२३।।
गुणानां गणनां चापि भावनां शुभवासिनीम् ।
स्नेहं सुखं प्रमोदं च वाञ्च्छां यत्नं वृषं श्रुतिम् ।।२४।।
वेगं चोपासनां भक्तिं सेवां ध्यानं दयां कृतिम् ।
ग्रहणं स्मरणं हर्षं विह्वलतां प्रसञ्जनम् ।।२५।।
एवमालोचनान्यंस्या हर्यर्थ वै सदाऽभवन् ।
अथ तृतीयं योगांगं जीवार्पणं व्यधाद्धरौ ।।२६।।
आत्मा यश्चेतनो देहे प्राणयोगेन जीवति ।
जीवनं भोगसम्पत्तिर्भोगार्पणं व्यधाद्धरौ ।।२७।।
सुखमोदानुचैतन्यं प्रकाशश्चात्मरूपकः ।
प्रकाशस्याऽर्पणं कृष्णे व्यधाद्वै बालयोगिनी ।।२८।।
सच्चिदानन्दरूपो यो नित्यानन्दप्रपूरितः ।
सच्चिदानन्दतां कृष्णे प्रार्पयत्सा तु बालिका ।।२९।।
आत्मनिवेदितां कृष्णकान्ते व्यधात्तु योगिनी ।
सद्भावं सत्स्वरूपे वै चिद्भावं चित्सनातने ।।4.22.३०।।
आनन्दं शाश्वतानन्दे चात्मानं परमात्मनि ।
ब्रह्मतां पूर्णतां चापि ज्ञातृता चेन्द्रतां निजाम् ।।३ १।।
शास्तृत्व राजतां चापि कृष्णे बाला समार्पयत् ।
अथ तुर्यं परब्रह्मरसभोगात्मकं सुखम् ।। २ २।।
योगांगं कृष्णनिर्वाणं कृष्णानन्दरसाप्लवम् ।
परब्रह्मरसाऽऽभोगं कृष्णतादात्म्यसंभवम् ।।३३।।
अखण्डाऽसीमसंभोगाऽऽनन्दास्वादसुखोत्तमम् ।
स्वादैकतानतामूर्छातदात्मकसमाधिताम् ।। ३४।।
द्रवीभावं तददृश्यात्मकत्वं रसदिव्यताम् ।
लावण्याऽमृतमाधुर्यपीयूषपानतृप्तिजाम् ।।३५।।
सुधाशीतलशान्तिं सा प्रार्पयत् परमात्मनि ।
एवं सा बदरीदेवि कन्यका बालयोगिनी ।।३६।।
योगांगानि तु चत्वारि समार्पयत् परात्मनि ।
माता सुरेश्वरी वीक्ष्य विस्मयं याति नित्यदा ।।३७।।
नाऽस्याः कृष्णं विना तत्त्वं पार्थक्यं भजते क्वचित् ।
कृष्णः कार्ष्णी तथा कार्ष्णी कृष्णः सा बालयोगिनी ।।३८।।
वाचकेऽपि न वै भेदो लिङ्गभेदोऽप्यलीयत ।
मात्रा क्वचिद् दृश्यते सा कृष्णनारायणात्मिका ।।३९।।
कृष्णनारायणो भूत्वा दृश्यते बालयोगिनी ।
कृष्णनारायणी लक्ष्मीर्बदरीतिमुहुर्मुहुः ।।4.22.४०।।
व्यापारालोचनजीवब्रह्मरससमर्पणम् ।
चतुरंगमहायोगं योगीश्वरे ह्यवाप सा ।।४१।।
अथैवं वीक्ष्य तां कन्यां नारायणपरायणाम् ।
सुरेश्वरी सुतां प्राह पुत्रि संस्कारमन्तरा ।।४२।।
देहो ह्यशुद्धो भवति तस्माद् विवाह इष्यते ।
विवाहेन सदा शुद्धिः कन्यकानां प्रजायते ।।४३।।
दीर्घिकायाः कुमार्यास्तु स्वर्गे त्विन्द्रसभास्थले ।
सभायां वर्तमानाया यदा सभाविसर्जनम् ।।४४।।
भवत्येव ततः पश्चात् तस्या असनमुत्तमम् ।
इन्द्रो मत्वा ह्यशुद्धं वै कारयत्येव शोधनम् ।।४५।।
जलेन प्रोक्षणं कृत्वा शुद्धिं करोति देवराट् ।
तद् विज्ञाय ततः पृष्ठो दीर्घिकया सुरेश्वरः ।।४६।।
कथं मदासने चेन्द्र प्रोक्षणं क्रियतेऽन्वहम् ।
प्रत्युत्तरं जगादेन्द्रो भवती युवती ह्यसि ।।४७।।
अविवाहितकन्याऽसि ह्यशुद्धाऽसि ततो न्वहम् ।
अशुद्धमासनं तेऽत्र शोधयामि तु सिञ्चनैः ।।४८।।
यद्वा विवाहिता भूत्वा भव शुद्धिमती सुते ।
मानव्यसि रजोव्याप्ता पतिशून्या ह्यशुद्धिगा ।।४९।।
पतिं प्राप्य विवाहेन शुद्धा त्वं संभविष्यसि ।
विवाहाख्यस्तु संस्कारः पतिना च समागमः ।।।4.22.५०।।
कन्यानां देहशुद्ध्यर्थं ब्रह्मणा तु विनिर्मितः ।
तद् याहि कृतशुद्धिस्त्वं भव शुद्धासना सुते ।।५१ ।।
इत्युक्ता सा महेन्द्रेण कृत्वा विवाहमात्मनः ।
ऋषिणा स्वेष्टयोग्येन ततः शुद्धासनाऽभवत् ।।५२।।
तत् त्वं कन्ये बालिके त्वं वरं कृष्णं पतिं प्रभुम् ।
विधिना तु विवाहेन समासादय मद्गृहे ।।५१३।।
वह्निविप्रजनसाक्ष्ये शुद्धाऽपि शुद्धिमेष्यसि ।
मातुर्मे वचनं मत्वा विवाहोत्सवमाप्नुहि ।।६४।।
इत्युक्ता सा मातृभक्ता सर्वधर्मार्थवेदिनी ।
ओमित्याह प्रसू तत्र माता मोदमवाप ह ।।५५।।
दध्यौ सा कन्यका कृष्णनारायणं वरं हरिम् ।
कुंकुमवापिकावासं पार्वीबद्रीप्रियम्पतिम् ।।५६।।
गोपालबालकं श्रीमत्कंभरातनुजं प्रभुम् ।
नरनारायणरूपं स्वेष्टस्वामिपुमुत्तमम् ।।५७।।
मातुर्मानससिद्ध्यर्थं नितरां मग्नमानसा ।
सततं श्रीकृष्णनारायणं दध्यौ समाधिषु ।।५८।।
दिवारात्रं स्थिता ध्याने तावत् तैजसविग्रहः ।
पुष्टयुवाऽनादिकृष्णनारायणो हसन् हरिः ।।५९।।
श्रीकृष्णोवल्लभःस्वामी सर्वशृंगारभूषणः ।
रूपरूपानुरूपाढ्यमूर्तिः कन्यामनोहरः ।।4.22.६०।।
स्वर्णभासुरशोभांगः स्वयमेक उपागतः ।
उवाच तां निजपत्नीं वद किं कांक्षसि प्रिये ।।६१।।
या ते वाञ्च्छा करिष्ये तां पूर्णां ब्रूहि मनोगतम् ।
अथ शीघ्रं समुत्थाय हृष्टा सा बालयोगिनी ।।६२।।
पपात पादयोः प्राह गृहाण विधिना तु माम् ।
वरमालाभूषितश्च वह्रिमण्डपसत्कृतः ।।६३।।
विवाहनं देवतानां सन्निधौ मे कुरु प्रभो ।
मातुर्मे वचनं तथ्यं कुरु नारायण प्रभो ।।६४।।
श्रुत्वा बालोदितं चानुग्रहमूर्तिः स्वयं हरिः ।
अस्त्वेवं चेति जग्राह विवाहार्थं समुत्सुकः ।।६५।।
अथ बाला ददौ तस्मै मधुपर्कं प्रपूजनम् ।
जग्राह स ततो बाला निन्ये तं निजमातरम् ।।६६।।
प्राह तां मातरं कन्या मातः कृष्णनरायणः ।
आयातः कृपया चात्र तवेच्छयाऽर्थिमानकृत् ।।६७।।
कृतार्थं कुरु चात्मानं मातः प्रपूज्य केशवम् ।
मानवेन स्वरूपेण कृपया त्वामुपस्थितम् ।।६८।।
माता ससंभ्रमा तस्य चक्रे स्वागतमासनम् ।
अनर्घ्यं प्रददावर्घ्यं ददौ चक्रे प्रपूजनम् ।।६९।।
निकामदेवं सहसा जगादाऽऽगतमच्युतम् ।
सोऽपि वीक्ष्य हरिं पुत्रीप्राणेशं परमेश्वरम् ।।4.22.७०।।
सुप्रहृष्टः परं चक्रं सन्मानं पारमेश्वरम् ।
ननर्त स क्षणं दृष्ट्वा कन्याप्राणपतिं पतिम् ।।७१।।
सर्वपतिं कृपापारावारं मानवविग्रहम् ।
गृहातिथिं सौम्यवेषं सर्वाभरणभूषितम् ।।७२।।
अथ माता समियेष द्रष्टुं रूपं चतुर्भुजम् ।
दिव्यं श्रीस्वामिनं कृष्णं नारायणं परेश्वरम् ।।७३।।
विज्ञाय सहसा श्रीमद्बालकृष्णो हृदि स्थितम् ।
चतुर्भुजोऽभवत्तूर्णं शंखचक्रगदाधरः ।।७४।।
राधालक्ष्मीपूजितश्च पार्षदादिकृतार्हणः ।
दर्शयित्वा दिव्यरूपं पुनः स मानवोऽभवत् ।।७५।।
अर्चितो वन्दितः कृष्णो भोजितः सेवितस्ततः ।
तिलकेन सुचन्द्रेण पुष्पहारैः प्रशोभितः ।।७६।।
वाग्दानेन च कन्यायाः प्रहर्षितो विधानतः ।
विवाहविधिना कन्यां परिणेतुं ततोऽर्थितः ।।७७।।
प्रस्थापितश्च बहुधा शीघ्रागमाय चार्थितः ।
वर्धितश्चाशिषा तूर्णं तिरोऽभवत् तदाऽम्बरे ।।७८।।
अथ सर्वे प्रतीक्षन्ते पुनर्नारायणागमम् ।
बालयोगिनीरूपायाः श्रिया विवाहसूत्सवम् ।।७९।।
तावन्नारायणकृष्णः प्रेषयामास भूसुरम् ।
नाम्ना योगीश्वरदेवं वृत्तान्तकथनाय वै ।।4.22.८०।।
विप्रः शीघ्रं समागत्य निकामदेवमन्दिरम् ।
कृष्णोदितं तु वृत्तान्तं निकामदेवनामिने ।।८ १ ।।
कथयामास सर्वस्वं विवाहस्य क्षणोत्तमम् ।
आषाढधवले पक्षे चतुर्थ्यां प्रातरेव ह ।।८२।।
आगमिष्ये हि लग्नोक्तविवाहार्थं कुटुम्बयुक् ।
इत्युक्त्वा प्रययौ विप्रस्तिरोभूय निजालयम् ।।८३।।
सुरेश्वरी च तत्पुत्री निकामदेवभूसुरः ।
प्रसन्नाश्चाऽभवँस्तत्र कन्याविवाहमोदिनः ।।८४।।
अथ निकामदेवश्च लग्नपत्रं विलिख्य वै ।
प्रेषयामास शीघ्रं तद् विप्रद्वारा तु माधवम् ।।८५।।
कुंकुमवापिकाक्षेत्रं गत्वा विप्रो हरीश्वरः ।
अर्पयामास लग्नस्य पत्रं मंगलबोधकम् ।।८६।।
जग्राह भगवान् कृष्णनारायणो मुदा तु तत् ।
विप्रं पुपूज पुष्पाद्यैर्धनं रत्नानि सम्पदः ।।८७।।
विप्राय प्रददौ श्रीमद्गोपालकृष्ण आदरात् ।
माता श्रीकंभरालक्ष्मीर्मंगलानि ह्यगापयत् ।।८८।।
ददौ दानानि बहूनि रोपयामास मण्डपम् ।
कुटुम्बिभ्यः पत्रिकाश्च तद्बोधिका ह्यवासृजत् ।।८९।।
लोमशेन समं कृष्णनारायणो हरिः प्रभुः ।
अश्वपट्टसरस्तीर्थे स्नात्वा निजालये स्थितः ।।4.22.९०।।
पिष्टिकामर्दनं चक्रुर्नार्यस्तस्य हरिप्रियाः ।
स्नपयामासुरत्यर्थं चन्दनाद्यैः सुमर्दितैः ।।९ १ ।।
आषाढशुक्लतृतीयानिशाया परमेश्वरः ।
विभूषितो युवा पुष्टो राजाधिराजचिह्नितः ।।९२।।।
मातापितृकृतसर्वमंगलः सुमहर्षिभिः ।
आशीर्भिर्वर्धितः सर्वकुटुम्बिभिः प्रमोदितः ।।९३।।
तीर्थदेवैश्च मुक्तैश्च ब्रह्मप्रियादिभिर्युतः ।
सौराष्ट्रभक्तवर्गैश्च दिव्याश्वगजवाहनैः ।।९४।।
पारेसाहस्रनारीभिः समन्वितः शुभे क्षणे ।
सर्वैर्दिव्यसुशोभाढ्यैर्युतश्च साधुभिर्वरैः ।।९५।।
कुंकुमवापिकासर्वप्रजाभिः सहितो ययौ ।
प्रतस्थिरे कृताज्ञाश्च वरवाहिनिकायुजः ।।९६।।
बहूत्साहभवा नार्यो नराः सौभाग्यशालिनः ।
प्रातरेव ब्राह्मकाले प्रापुर्वरसमन्विताः ।।९७।।
धूनीग्रामं महोद्यानाभिव्याप्तं बहुशोभितम् ।
करुणावारिगातीरे महोद्याने निवासनम् ।।९८।।
विश्रान्तिं लेभिरे तत्र तावन्निकामदेवकः ।
कुटुम्बसहितो नारीगीतमंगलशोभितः ।।९९।।
विप्रादिसहितः पूजां कर्तुं तूर्णमुपाययौ ।
अनादिश्रीबालकृष्णं वरं कन्यार्थमागतम् ।। 4.22.१० ०।।
सर्वैश्वर्यपरिपूर्णं वीक्ष्य हर्षं जगाम ह ।
दिव्यो वरो वरवृद्धा दिव्याः कुटुम्बिनस्तथा ।। १०१ ।।
दिव्याश्च वरवाहिन्यागता नार्यो नरास्तदा ।
दिव्या वाहाश्च यानानि दिव्योपकरणान्यपि ।। १० २।।
दिव्या देवा देवताश्च देव्यो ब्रह्मप्रियास्तथा ।
हरिप्रियाः प्रजाश्चापि दिव्यतैजसविग्रहाः ।। १ ०३।।
सर्वं दिव्यं विलोक्यैव महाश्चर्यं ययौ मुधा ।
चिन्तयामास सर्वेषां दशसाहस्रदेहिनाम् ।। १ ०४।।
सत्कारार्थं मिष्टमन्नं मिष्टं जलं च मन्दिरम् ।
शय्यासनानि सर्वाणि भवनान्युत्तमानि च ।। १ ०५।।
भोज्यपात्राण्यनन्तानि द्रव्याऽन्नरसशर्कराः ।
पूजां चक्रे महाधैर्यः स्मरन्नारायणप्रभुम् ।। १०६ ।।
पुत्रीपतिं सर्वसिद्धिसेवितं चागतं हरिम् ।
चिन्तामणिं प्रभुं स्पृष्ट्वा चिन्तयामास वैभवान् ।। १०७।।
नारायणार्थपर्याप्तान् विवाहोत्सवशोभनान् ।
सर्वार्थान् कल्पयामास पूजयन् स्वसुतापतिम् ।। १ ०८।।
जामातारं प्रभुं प्राप्य भयं दारिद्र्यसंभवम् ।
नाऽभूत्तस्य तदा तत्र पुत्र्याः प्रतापतोऽपि च ।। १ ०९।।
महाराजाधिराजानां चिन्तयामास सम्पदः ।
तावत्तत्र वनोद्देशे महोद्यानानि सर्वतः ।। 4.22.११० ।।
फलपुष्पसुगन्धाढ्यजलाब्जपूरितानि वै ।
अभवन् तत्र सौवर्णसौधानि परितस्तदा ।। ११ १।।
दासा दास्योऽयुतान्यपि देवा देव्योऽभवन् द्रुतम् ।
निकामदेवपक्षस्य कार्यनिर्वर्तकास्तदा ।। १ १२।।
पाकशाला अश्वशाला राजशालाश्च वै शुभाः ।
नारीशाला मण्डपश्च सौवर्णनिर्मितास्तदा ।। ११ ३।।
महानसानि भोज्यानि रसाश्च मधुशर्करा ।
मिष्टान्नानि समस्तानि शाकानि द्रववन्ति च ।। १ १४।।
गन्धसाराणि सर्वाणि दुग्धसाराणि यानि च ।
भक्ष्याणि लेह्यचोश्यानि प्रत्यक्षाणि तदाऽभवन् ।। ११५ ।।
शय्यासनानि पर्यंका समस्तभोग्यकान्यपि ।
न न्यूनं विद्यते तत्र कल्पवल्ल्यो गृहे गृहे ।। १ १६।।
यथा स्वर्गं च वैकुण्ठं धूनीग्रामस्तथाऽभवत् ।
नार्यो नराश्च पशवो गृहाणि मृत्तिकास्थलम् ।। १ १७।।
सर्वं स्वर्गसमं तत्र जातं कृष्णकृपावशात् ।
पूजयित्वा वरं वृद्धान् सत्कृत्वा च प्रजास्तथा ।। १ १८।।
निकामदेवो वीक्ष्याऽपि वैकुण्ठाभं निजस्थलम् ।
मुमुदे कृष्णजं सर्वं दिव्यं मत्वा तु वैभवम् ।। १ १९।।
आवासान् कारयामास ददौ दासीश्च किंकरान् ।
वादयामास वाद्यानि वेदघोषान् व्यधापयत् ।। 4.22.१२०।।
गापयामास सर्वत्र मंगलानि तदा द्रुतम् ।
प्रेषयामास भोग्यानि रसान्नसलिलान्यपि ।। १२१ ।।
अपेक्षितातिवस्तूनि दिव्यमनोहराणि च ।
सेवयामास भावैश्च महीमानानशेषतः ।। १२२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिन्याश्चतुर्विधमहायोगवर्णनं मातृवचनेन विवाहविध्यर्थम् अनादिश्रीकृष्णनारायणस्य ध्यानोत्तरमागमनं तिरोभावश्च, विवाहार्थं
वाहिन्या सह धूनीग्राममागमनम्, दिव्यवैकुण्ठवत् सम्पत्करणं महीमानसत्कारादि चेतिनिरूपणनामा द्वाविंशोऽध्यायः ।। २२ ।।