लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०२०

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९९ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः २०
[[लेखकः :|]]
अध्यायः २१ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये देवि ततः श्रीबालयोगिनी ।
पुनः स्वमातरं प्राह यत्तद्वदामि ते तथा ।। १ ।।
उपासनां परब्रह्मरसास्वादनदायिनीम् ।
आत्मनः किरणं यद्वन्मनोऽन्तःकरणं तथा ।। २ ।।
मानसीं प्रतिमां कृत्वोपासीत मनसि प्रभुम् ।
अविकृतं मनस्तद्वै यत्कृष्णे चानुसंहितम् ।। ३ ।।
तदेव बोध्यं परमभागवतसतां मनः ।
आसक्तं यद्धरौ नित्यं शीतोष्णभाववर्जितम् ।। ४ ।।
साधु मनस्तद्विज्ञेयं कृष्णे निश्चलनिष्ठितम् ।
अखण्डस्नेहधाराढ्यं कृष्णे विश्राममेति यत्। ५ ।।
सिद्धवद् यदिवद्योगिजनवन्मुक्तवन्मनः ।
वधूवत् कान्तवद्यच्च निजेष्टतमवत्तथा ।। ६ ।।
यन्मनो वर्तते कृष्णे यत्स्फूर्तिं विदधाति यत् ।
यन्मग्न यत्स्मृतेर्हेतुस्तदश्नुते हरेः रसम् ।। ७ ।।
निर्वासनं मनो नित्यं निर्वासनहरिस्थितम् ।
हरेः सतां सेवया च वासना लीयते द्रुतम् ।। ८ ।।
सेवायां किंकरी भूत्वा राज्ञ्यपि वर्तते तु या ।
दानाधीनसमा दासी प्रसादं विन्दति प्रभोः ।। ९ ।।
भगवतः सतां चापि रुचेरविषयं तु यत् ।
न कर्तव्यं भवेद् यस्याः कर्तव्यं कृष्णरोचकम् ।। 4.20.१ ०।।
अन्तरायकरं कृष्णसेवायामिष्टमित्यपि ।
त्यक्तव्यं च भवेद् यस्या हरेः प्रसादमृच्छति ।। १ १।।
गुरुवत्पितृवन्मातृवद्भूमिपालवत्तथा ।
हरिः प्रसन्नतामेति शिष्यायां या हि रोचिका ।। १ २।।
श्रेयसे या सतां प्रसन्नतार्थं यतते सदा ।
दयात्यागौ कृष्णसेवोपासनायां क्षतिप्रदौ ।। १३।।
दयात्यागौ ततो मन्दीकृत्याऽपि माधवं भजेत् ।
पुष्पशृंगारहाराद्यः प्रसादयेत् प्रियम्पतिम् ।। १४।।
शय्याभोजनपानाद्यैः तोषयेन्माधवीपतिम् ।
सर्वस्वार्पणदानाद्यैः रामयेल्ललितापतिम् ।। १५।।
सर्वेन्द्रियान्तःकरणैरुपासीत श्रियाः पतिम् ।
देहेन गुणधर्माद्यैः प्रसादयेज्जयापतिम् ।। १६।।
भक्तान् प्रसादयेच्चापि सेवया चानुसेवया ।
भक्तानामपि भक्ता स्याद् या सा ब्रह्मरसाशना ।। १७।।
हरेः प्रसन्नताहेतुर्भक्तसेवाऽपि चोत्तमा ।
भक्तसंपप्रसादौ च भक्तसेवा रसप्रदा ।। १८।।
भूस्थापि साधुसेवायां रक्ता या साऽक्षरे स्थिता ।
न रोगाः श्रीहरेः संगे विघ्नं कुर्वन्ति सेवने ।। १९।।
सावधाना हरेर्नाम्नां वृत्तान्तस्य श्रवेऽपि च ।
दृढासक्त्या दृढसंस्कारैश्च कृष्णमयी भवेत् ।।4.20.२०।।
ब्राह्मी भूत्वा भजेत् कृष्णं वल्लभं स्वामिनं प्रभुम् ।
अक्षरातीतपुरुषोत्तमं कारणकारणम् ।।२१ ।।
वासुदेवं भगवन्तं महापुरुषपूरुषम् ।
पितरं सर्वसृष्टीनां पतिं सर्वशरीरिणाम् ।।२२।।
साक्षिणं कर्मिणां चान्तःप्रकाशकं गुणात्मनाम् ।
उत्तमं च विशेषं च पुंसां सर्वावतारिणम् ।।२३।।
स्वामिनं ब्रह्मपुरुषैरुपासितपदाम्बुजम् ।
सेवेत कम्भरानन्दं बालकृष्णं नरायणम् ।।२४।।
कृष्णे सम्बन्धमुत्कृष्टं कुर्यात् सञ्जीवनी लता ।
अमृतावल्लिका यद्वच्छिन्ना सक्ताऽपि जीवति ।।२५।।
वटद्रुवत् प्रकुर्याच्च स्नेहं श्रीमतिवल्लभे ।
जटां स्वस्मात् समुद्भाव्य शाखामूलोऽपि जीवति ।।२६।।
तथेन्द्रियादिविषयैः स्नेहं कृत्वाऽपि माधवे ।
या जीवेत् प्राणमर्पय्य सा कृष्णरसमश्नुते ।।२७।।
कृष्णं कुटुम्बिनं नैजं स्निग्धं सर्वार्थपूरकम् ।
ज्ञात्वा धृत्वाऽग्रगं कृत्वा विहरेद् ब्रह्मभूमिषु ।।२८।।
ध्यात्वा साक्षाद् बालकृष्णं संकीर्त्य गुणगायनैः ।
आसेव्य हृदये कान्तं रहोरसं समर्जयेत् ।।२९।।
स्मृतिं सदाऽन्तःकरणे कुर्याच्छ्रीकृष्णचक्रिणः ।
प्रसन्नतां हरेः श्रेष्ठामासादयेत् प्रसेवया ।।4.20.३०।।
निष्कामतां प्रालयेच्च कृष्णार्थकृतनिश्चया ।
सर्वस्वार्पणरूपा सा श्रीकृष्णे सर्वकामना ।।३१ ।।
एवं नैष्कर्म्यमासाद्य निष्कामं कृष्णमर्जयेत् ।
उपासीत पतिं कृष्णं क्रियया सेवयेहया ।।।३२।।
स्नेहभक्त्या भावनया निजार्पणविधानया ।
आसक्त्या प्रज्ञया वासनयाऽऽत्मार्पणचिन्तया ।।३३।।
प्राणार्पणप्रकारेण रसेच्छाचिन्तनेन च ।
साध्वीधर्मविशेषेण तथाऽभ्यासेन चाऽर्जयेत् ।।३४।।
कृष्णं कृष्णरसं कृष्णसतां सत्संगसद्रसम् ।
कार्ष्णीना च समस्तानां रसं दिव्यं समर्जयेत् ।।३५।।
सञ्चितानि समस्तानि प्रभौकान्ते विनिक्षिपेत् ।
देहेन्द्रियादि कर्माणि श्रीकृष्णे निक्षिपेत् सती ।।३६।।
आत्मदर्शनकर्त्री स्यात् परमात्मविलोकिनी ।
हरेश्चरित्रगीत्याद्यैश्चोपासनादिभिस्तथा ।।३७।।
स्मृत्या सन्ततया चापि कृष्णरसं समर्जयेत् ।
उपासीत हरिं साक्षात्तच्चरित्राणि कीर्तयेत् ।।३८।।
नामाभिभजनं कुर्यात् कृष्णधर्मं प्रपालयेत् ।
कृष्णलीलामयी भूत्वा कृष्णब्रह्मरसं पिबेत् ।।३९।।
अखण्डवृत्तिं श्रीकृष्णे समाधिना प्रवर्तयेत् ।
शूरवीरा भवेत् कृष्णे स्निग्धा माहात्म्यवेदिनी ।।4.20.४०।।
कृपापात्रं भवेच्चापि सेवया सा रसं पिबेत् ।
कृष्णं विनाऽन्यतुच्छार्थे स्नेहो माया हि तां जयेत् ।।४१।।
कृष्णाज्ञां संवहेन्मूर्ध्ना माया तस्या लयं व्रजेत् ।
धनदे पुत्रदे लोके प्रतीतिर्जायते द्रुतम् ।।४२।।
सा प्रतीतिर्हरौ कृष्णे यस्याः सा प्रकृतिं जयेत् ।
स्वभावं स्वं च सा त्यक्त्वा श्रीकृष्णे प्रविशेत् सदा ।।४३।।
जीवात्मनो हरौ तत्र तादात्म्यं स्नेहसंभृतम् ।
दिव्यं वै बन्धनं कृष्णे प्रवेशो रटनात्मकः ।।४४।।
कृष्णं विना महादुःखविपन्नदिवसान् नयेत् ।
कृष्णेऽनादौ परे नारायणे तादात्म्यमाप्नुयात् ।।४५।।
देहान्ते वा सदेहे वा कृष्णकान्तेतिभावयेत् ।
अन्तर्दृष्ट्या हरौ कान्तेऽपरोक्षानुभवो भवेत् ।।४६।।
तेन ब्रह्मरसश्रेष्ठसुखचैतन्यमापतेत् ।
कृष्णनारायणः साक्षात् स्वरसं वै समर्पयेत् ।।४७।।
सदा सा कृष्णवामांगी रहस्यं परमं लभेत् ।
जगत्स्थित्यै भक्ततृप्त्यै वर्तते भुवि माधवः ।।४८।।
अनादिवासुदेवोऽपि कृष्णो नारायणः प्रभुः ।
धर्मार्थकामनाचेष्टाः कृतवान् प्रकरोत्यपि ।।४९।।
जीवा गायन्ति शृण्वन्ति तास्ते मुच्यन्त एव ह ।
मायाया बन्धनात् पापात् प्राप्नुवन्ति परं पदम् ।।4.20.५०।।
जन्म कर्म रतिः कामो मूर्तिश्चेष्टा क्रिया हरेः ।
मूर्तिर्दिव्या मोक्षदा च सर्वं कृष्णस्य मोक्षकृत् ।।९१ ।।
श्रीकृष्णपरमब्रह्मोपासनां विदधति या ।
दृढप्रतीतियुक्ता सा वधूटीः स्यात् परेश्वरी ।।५२।।
सतां सेवापरा साध्वी भवेत् कार्ष्णी जनार्दनी ।
भक्तापराधनिरपेक्षिणी कृष्णाद्यपेक्षिणी ।।५३।।
सतां सेवाऽपेक्षिणी च श्रीकृष्णरसभागिनी ।
महासुखाब्धिमग्ना सा सम्मानार्हा रमा यथा ।।५४।।
भवत्येव सदा सेवागुणग्राह्यर्थनावती ।
दण्डवत्प्रप्रणामादिपरा साध्वादरान्विता ।।५५।।
अज्ञातद्रोहशान्त्यर्थं दीनवत्प्रार्थनापरा ।
कृष्णप्रेमातिमग्ना च साध्वाशीर्वादपात्रिणी ।।।९६।।
भाग्यं महत्तमं नैजं सेवायां मन्यते सताम् ।
हरेः प्रसन्नतार्थं सा निजकल्याणहेतवे ।।।५७।।।
सर्वस्वं संप्रदायैव ब्रह्मरसं समश्नुते ।
प्रतिगोपिसमरूपो ददाति स्वं रसं परम् ।।५८।।
कोट्यर्बुदाब्जपत्नीनां प्रतिरूपो बभूव यः ।
विवाहे च रतौ वासे रहस्ये रससम्प्रदः ।।५५९।।
अनादिश्रीकृष्णनारायणो गोपालनन्दनः ।
अक्षराधिपतिः स्वामी कान्तः श्रीकम्भरात्मजः ।।4.20.६०।।
स्वामिनीश्रीमहालक्ष्मीलालितो माधवीपतिः ।
कोटिमुक्तानिकास्वामी प्रत्यात्मान्तरतत्पतिः ।।६१ ।।
सर्वकामप्रदस्तस्य योगस्था रसमश्नुते ।
स्निग्धां मुग्धां वियुक्तां न कदाचित् कुरुते प्रभुः ।।६२।।
गुणातीता निजसत्तामात्ररूपां समुत्थिताम् ।
निर्गुणां ब्रह्मरूपात्मप्रीतिं सा माधवेऽश्नुते ।।६३।।
यस्याः सतां भगवतः संगो वा दर्शनं पुरा ।
जातं तस्या दिव्यभावो ब्रह्मभावः सदा भवेत् ।।६४।।
नाऽस्या माया नैव रागो वासना न हरीतरा ।
बदरीनाथरमणे सर्वथा वर्तनं भवेत् ।।६५।।
निरन्नभुक्तातुल्या सा हरेः प्रसन्नतापरा ।
भक्तप्रसादमापन्ना तत्परा परमे पदे ।।६६।।
कृष्णनारायणमूर्तिसच्चिदानन्दभोगिनी ।
सतां प्रसादमासाद्य भुंक्ते धामाऽक्षरे सुखम् ।।६७।।
अग्निचन्द्रार्कविद्युद्भिः प्रसादिता हि साधवः ।
ततस्ते संप्रकाशन्ते सदैव सुखिनो दिवि ।।६८।।
शुभैः सन्तस्तोषणीया ब्रह्मरसाप्तिहेतवे ।
ते सन्ति ब्रह्मचैतन्यरसपूर्णा हरौ स्थिताः ।।६९।।
आत्मकल्याणपरमब्रह्मानन्दसुखैषिणी ।
हरेः सतां प्रसादं वै सेवया सर्वथाऽर्जयेत् ।।4.20.७०।।
हानिं वृद्धिं हि लोकानां दृष्ट्वा यो न विशोचति ।
भजते श्रीहरिं दिव्यं सत्पुरुषः स कृष्णवत् ।।७१ ।।
एकान्तिकं महाभागवतं धर्मं समाश्रितः ।
अभावस्तादृशानां तु यस्याः सा मृतसदृशी ।।९२।।
विन्दत्यत्र न सौख्यं स्वं कथं ब्रह्मसुखं लभेत् ।
महापापाऽपि या नारी सतां गुणं प्रसन्नताम् ।।७३।।
सेवां चाज्ञां प्रगृह्णाति सा पूताऽप्यक्षरं व्रजेत् ।
सतां योगेन पापानि प्रणश्यन्ति द्रुतं त्विह ।।७४।।
इन्द्रियाणि शरीरं च मन आत्मा मतिस्तथा ।
दिव्यान्यत्र प्रजायन्ते परमोक्षकराण्यपि ।।७५।।
अखण्डं शाश्वतं कृष्णस्वरूपं सत्समागमे ।
स्थित्वाऽर्ज्यं परमब्रह्मरसावाप्त्यै स्त्रिया ततः ।।७६।।
कृष्णवत् कृष्णभक्तानां मिथो भक्तैः सुमाननम् ।
कर्तव्यं चापि बोद्धव्यं माहात्म्यं सेवनं तथा ।।७७।।
कृष्णनारायणसङ्गाद् भक्ता भक्तानिकास्त्विह ।
दिव्यास्ते आक्षराः सन्ति मुक्ता निर्गुणभावनाः ।।७८।।
पावनाः सर्वलोकानां सेवनीया यतो मिथः ।
मोक्षदास्ते प्रसन्नाः स्युः कृष्णस्तेषु विराजते ।।७९।।
राधारमाद्या भक्तासु विराजन्ते सदा स्त्रिषु ।
अनादिश्रीकृष्णनारायणो नरेषु राजते ।।4.20.८०।।
प्रसादनीयाः सततं कृष्णवच्छ्रीर्यथा मिथः ।
प्रसादेन हि लभ्यन्ते परब्रह्मरसाब्धयः ।।८ १।।
उपासना हरेर्यद्वत् तथा सतां सदा शुभा ।
भक्तानां चापि कर्तव्या ब्रह्मानन्दस्ततो भवेत् ।।८२।।
निजानन्दरसं भुंक्ते सहजानन्दसद्रसम् ।
कृष्णनारायणस्वामिरसं कार्ष्णी वधूः सदा ।।८३।।
कृष्णमूर्त्यखण्डचिन्तावती साध्वी सखी प्रिया ।
प्रेमपूर्णा बालकृष्णस्वरूपैक्यगता सती ।।८४।।
या कृष्णरससम्पूर्णा तस्यां कृष्णोऽपि सर्वदा ।
प्रसह्य वसति प्रेम्णा दातुं नैजं रसं परम् ।।८५।।
साध्वीमध्ये रमा चास्ते रमायां भगवानपि ।
महानन्दरसस्तत्र कृष्णे नित्यं विराजते ।।८६।।
रसे प्रेमसखी चास्ते प्रेमसख्यां तथा हरिः ।
एवमैकात्म्यमेवाऽस्ति सखीकृष्णरसात्मनाम् ।।८७।।
साध्वी कृष्णमयी यत्र जन्म गृह्णाति सुन्दरी ।
तत्प्रसूस्तद्गृहं तस्या धन्याः कुटुम्बिबान्धवाः ।।८८।।
ब्रह्मवित्साधुसंगेन वार्तेयं ज्ञायते परा ।
अनादिश्रीकृष्णनारायणसाक्षात्प्रदर्शनम् ।।८९।।
चिन्तनं स्फुरणं ब्रह्मवित्सतां संगमाद् भवेत् ।
लाभो मानुषदेहस्य नान्यो हर्याप्तिमन्तरा ।।4.20.९०।।
सर्वेन्द्रियाणि साधूनां हरेः सेवार्थकानि च ।
तत्पराणि सदा यस्याश्चैकान्तिकी हि सा भवेत् ।।९१।।
मुख्या सा हरिभक्तासु राधा लक्ष्मीः प्रभौ यथा ।
एकान्तं कृष्णकान्तस्य यस्या रसाय रोचते ।।९२।।
यस्याः कृष्णस्वरूपस्याऽऽकारस्य दिव्यता मता ।
सतां च दिव्यता यस्याः साऽश्नुते कृष्णसद्रसम् ।।९३।।
यथा नद्यः समुद्रेषु यथाऽग्नौ तु पतंगकाः ।
शूरा रणेषु सत्यश्च पत्यौ कृष्णे तु गोपिकाः ।।९४।।
लीनाः सर्वस्वहोमाश्च भवन्ति हि तथा हरौ ।
एकरसे परिपूर्णे ब्रह्मात्मनि परेश्वरे ।।९५।।
लीना या चाक्षरी भक्ता दिव्या स्त्री पुरुषोत्तमी ।
अखण्डिताऽतिस्नेहा च निःसीमप्रीतियोजिका ।।९६।।
सर्वद्रवाभियोगा च सर्वथा कृष्णसंश्रिता ।
लभते चाश्नुते कृष्णकान्तरसं तु शाश्वतम् ।।९७।।
आत्मसत्तास्वरूपेण वर्तमाना प्रभापतौ ।
मर्यादयाऽतितादात्म्यमापन्ना लभते रसम् ।।९८।।
इत्युक्त्वा बद्रिके तावद्विरराम हि सा क्षणम् ।
माताऽप्युपासनायोगाद् ब्रह्मरसेच्छुकी ह्यभूत् ।।९९।।
बालयोगिनी बालेशं बालकृष्णं बलीश्वरम् ।
बालरसात्मकं प्राप्य मोदते मातृसन्निधौ ।। 4.20.१० ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां श्रीकृष्णकान्तोपासनया तद्रसावाप्तिरितिनिरूपणनामा विंशोऽध्यायः ।। २० ।।