लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०१६

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १६
[[लेखकः :|]]
अध्यायः १७ →

श्रीनरनारायण उवाच-
शृणु बद्रीप्रिये त्वं यत्प्राह श्रीबालयोगिनी ।
नर्मकर्त्रीसमाख्यानं मातरं ब्रह्मरासनम् ।। १ ।।
तत्ते वक्ष्यामि कृष्णस्य ब्रह्मरसाशनप्रदम् ।
यच्छ्रुत्वाऽपि नरा नार्यस्तद्रीत्या यान्ति मोक्षणम् ।। २ ।।
आसीद् ग्रामे कामयाने नाम्ना देवलको जनः ।
तस्य भार्याऽभवत् साध्वी नर्मकार्यविचक्षणा ।। ३ ।।
औदासीन्यगतस्याऽपि महादुःखगतस्य च ।
हास्यविनोदशून्यस्य हास्यं जनयते तु सा ।। ४ ।।
तत्कालोचितलावण्यपूर्णवाक्यैस्तथेतरैः ।
यावद्रसप्रयोगैश्च नर्म जनयते द्रुतम् ।। ५ ।।
गृहे समागता लोकाः प्रसन्नमानसा ह्यति ।
जायन्ते वार्तया तस्याः समर्पयन्ति चोपदाः ।। ६ ।।
धनं भूषा अम्बराणि मिष्टान्नानि शुभानि च ।
धान्यानि चोपकरणान्यपि सर्वेऽर्पयन्ति च ।। ७ ।।
राजा राजसभायां च महोत्सवे निजोत्सवे ।
सूरिकाव्योत्तरं तस्या हास्यरसं युनक्त्यपि ।। ८ ।।
सभा प्रसन्ना भवति मोदन्ते मानवा ह्यति ।
राजा तस्यै महापारितोषिकं प्रददात्यपि ।। ९ ।।
एवं सा देवलभार्या नाम्ना विनोदिनी सती ।
सौराष्ट्रे सुभगे देशे प्रसिद्धा संव्यजायत ।। 4.16.१ ०।।
हास्यकलाभ्यसनार्थं त्वायान्ति योषितो नराः ।
तान् सा यथायथं सर्वान् शिक्षयत्यपि सर्वथा ।। १ १।।
अथैकदाऽगमत्तस्या गृहे सतां सुमण्डलम् ।
साध्वीनां मण्डलं चापि भगवद्भक्तिकारकम् ।। १२।।
भोजिता वन्दिताः सर्वे गृहे स्वागतकर्मभिः ।
तया प्रसेविताश्चापि रात्रौ चक्रुः सुकीर्तनम् ।। १ ३।।
साधूनां कीर्तनं श्रुत्वा साध्वीनां गीतिकास्तथा ।
परमेशमतिर्जाता भक्तिधर्मपरायणा ।। १४।।
विनोदिन्या विचारोऽभूद् विनोदेन हरिः स्वयम् ।
यथा सतां च साध्वीनां कीतनैः सुप्रसादवान् ।। १५।।
सन्तुष्टो जायते कृष्णनारायणः परप्रभुः ।
तथा भवेत् सुसन्तुष्टो नित्यं तथा करोम्यहम् ।। १६।।
विचार्येत्थं ब्रह्मरसायनाख्यसाधुतस्तु सा ।
जग्राह वैष्णवं मन्त्रं मोक्षदं तूलसीस्रजम् ।। १७।।
 'ओं नमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
जजाप परमं मन्त्रं मूर्तिं जग्राह चित्रजाम् ।। १८।।
पुपूज तां हरेर्मूर्तिं नित्यं प्रसेवते मुदा ।
भक्ता जाता हरेः शुद्धा विनोदिनी विलासिनी ।। १९।।
सा पप्रच्छ गुरुं साधुं ब्रह्मरसायनाऽभिधम् ।
ब्रह्मानन्दमहामिष्टानन्दरसाप्तिसाधनम् ।।4.16.२०।।
अत्यादरेण तां शिष्यां प्राह ब्रह्मरसायनः ।
सर्वे रसा यत्र चैकीभवन्ति परमे रसे ।।२१।।
श्रीमत्स्वामिबालकृष्णनारायणाऽवतारिणि ।
तदाप्तिस्तद्रसाप्तेस्तु साधनं भगवान् स्वयम् ।।२२।।
प्रेमभक्त्यात्मसर्वस्वनिवेदिता हरेःप्रिया ।
आत्मनिवेदनेनाऽयं श्रीकृष्णः समवाप्यते ।।२३।।
आत्मनिवेदनं स्नेहप्रेमानुरागसंभृतम् ।
प्रातिकूल्याऽलसत्वाऽश्रद्धादिदोषविवर्जितम् ।।२४।।
अन्यवृत्त्यप्रतिहतं सततस्फूर्तिगोचरम् ।
दिव्याऽपरोक्षभानाढ्यश्रीकृष्णकान्तसंश्रितम् ।।२५।।
पञ्चभूतशरीरेऽस्याऽऽवेशः कृष्णस्य सर्वथा ।
इन्द्रियाणां गोचरेषु मूर्तिस्तस्यैव तद्गुणाः ।।२६।।
तद्विषयास्तन्माधुर्यं तत्सुखं तत्प्रमोदिता ।।
तद्रसस्तस्य संस्पर्शस्तद्रूपं तच्छ्रवस्तथा ।।२७।।
तद्गन्धस्तस्य चादानं तद्विहारस्तत्सर्जनम् ।
तदानन्दश्च मननं तस्य सञ्चिन्तनं मतिः ।।२८।।
तन्मानं तन्निर्णयश्च तत्प्रमा तत्स्मृतिस्तथा ।
तत्संस्कारास्तदिच्छा च स ज्ञेयो ज्ञप्तिसंग्रहे ।।२९।।
स्फूर्तौ भाने विरामे च स एव गोचरः सदा ।
अन्तर्बहिश्च स एव कृष्णनारायणः प्रभुः ।।4.16.३० ।।
गुप्ते प्रकाशे हृदये निर्जने सजनेऽपि सः ।
क्रियायां निजचेष्टायां हास्ये प्रमोदने च सः ।।३ १ ।।
सर्वथाऽऽभूषणादौ च शृंगारेऽपि हरिर्हि सः ।
स्नाने स्वपने धूल्यादौ विनोदे च व्रतेऽपि सः ।।३२।।
स्वत्वे पारक्यरूपे च समर्पणे ग्रहेऽपि च ।
आदाने च प्रतिदाने विनिमयेऽपि मापतिः ।।३३।।
परितः सन्मुखे पृष्ठे मध्येऽधश्चार्धकेऽपि सः ।
अनुयोगी प्रतियोगी संसर्गेऽपि हरिर्हि सः ।।३४।।
आस्वाद्ये रस्यविकृतौ तृप्तौ पेयेऽतिशीतले ।
काम्ये चाकर्षणे गोष्ठौ विनोदेऽपि च माधवः ।।३५।।
गृहे वने चत्वरे च वितर्दौ मंचकेऽपि सः ।
दोलायां च विमाने च याने च वाहनेऽपि सः ।।३६।।
इष्यमाणे च तद्भिन्ने महानन्दात्मको हरिः ।
आनुकूल्यप्रवाहे च प्रच्छाद्येऽपि प्रभुर्हि सः ।।३७।।
एवं सर्वत्र भगवान् यस्याः श्रीकृष्ण एव हि ।
तस्या भक्तिः प्रेमपूर्णा साधनं कृष्णलब्धिकृत् ।।३८।।
कृष्णाप्तौ तद्रसाप्तिश्च शाश्वती चाऽनिवर्तिनी ।
तद्योगजा भवेद् दिव्या चात्मार्पणरसादिजा ।।३९।।
अन्यथा नाऽऽप्यते कृष्णो नाऽऽप्यते तद्रसोऽपि च ।
नाप्यते शाश्वतानन्दो विनोदिनि! कृपां विना ।।4.16.४०।।
सेवया त्वर्जयेत्तस्य कृपां स्नेहेन तन्मनः ।
अर्पणेनाऽर्जयेत् कृष्णं कृष्णेन तन्महारसम् ।।४१।।
फलं ब्रह्मरसं प्राप्य प्राप्तव्यं नाऽवशिष्यते ।
इत्युक्ता गुरुणा साध्वी विनोदिनी तु देवली ।।४२।।
गुरोः सेवां तथा चक्रे यथा शिक्षा समर्जिता ।
नारायणः स्वयं कृष्णो गुरुर्नारायणः स्वयम् ।।४३।।
प्रत्यक्षः सर्वफलदो यथाभक्तानुवर्तनः ।
गुरुर्ब्रह्म गुरुः कृष्णो गुरुर्जीवहरिः प्रभुः ।।४४।।
स एव तोषितः सम्यक् सर्वमानुषनाटनः ।
तया प्रतोषितो देवेश्वराधिपनरायणः ।।४५।।
मत्वैवं सा गुरुं भक्त्या तोषयामास सुन्दरी ।
ब्रह्मचर्यपरा धर्मपरा सेवापरायणा ।।४६।।
गुरुस्तस्या गृहे वासं चिरं चकार शान्तिमान् ।
अथैकदा दधाराऽसौ रूपं देवलकस्य वै ।।४७।।
अथ तं सुन्दरं कान्तं पतिं गुरुं विबुध्य सा ।
उवाच परया प्रीत्या धन्याऽस्म्यनुग्रहाऽर्थिनी ।।४८।।
यथेष्टं गुरुदेव त्वं मम स्वामिस्वरूपधृक् ।
प्रसेवस्व निजां मत्वा ब्रह्मरसं प्रपायय ४४९।।
पातिव्रत्यं स्वाम्यधीनं स्वामी त्वं वर्तसेऽधुना ।
नारायणस्वरूपस्त्वं स्वामिरूपोऽसि गृह्ण माम् ।।4.16.५०।।
अथ प्रसन्नो गुरुराड् वीक्ष्य सर्वां सुभावनाम् ।
अगृह्य तां ततश्चाशीर्वादं ददौ हृदा मुदा ।।५१।।
भव दासी हरेः पत्नी भक्ता चैकान्तिनी परा ।
दिव्यलक्ष्मीसमा शिष्या नारायणी नरोत्तमी ।।।५२।।
अहं त्वत्सेवया तुष्टो ददामि तेऽतिवैभवम् ।
चमत्कारं दिव्यरूपधारिणी सुखिनी भव ।।५३।।
इत्युक्त्वा श्रीगुरुर्ब्रह्मरसायनो विनोदिनीम् ।
पस्पर्श करमात्रेण पाययामास वारि च ।।५४।।
तावद् दिव्या पररूपा राधालक्ष्मीसमा सती ।
निरावरणदेहा च सम्बभूव विनोदिनी ।।५५।।
एवं जाता दिव्यदेवी दिव्यक्रियाऽतिमानुषी ।
गुरुः पूजां गृहीत्वा च कृष्णपूजां समर्प्य च ।।५६।।
तिरोबभूव सहसा विद्युल्लतेव चाम्बरे ।
वीक्ष्यैवं परमं श्रेष्ठं चमत्कारं गुरावपि ।।५७।।
विनोदिनी महाश्चर्यपरा स्तब्धाऽभवत् क्षणम् ।
तर्कयामास बहुधा कोऽयं गुरुस्वरूपधृक् ।।५८।।
साक्षान्नारायणः किंवा नरो नारायणाऽनुजः ।
ईश्वरो वाऽन्तरात्मा वा परब्रह्म प्रभुश्च वा ।।५९।।
दिव्यतां संगता यस्य कृपया स्पर्शनेन च ।
तथापि दिव्यदृष्ट्याऽयं गुरुर्मया न वीक्ष्यते ।।4.16.६०।।
अतोऽतिदिव्यलोकस्थो भवेन्नारायणो गुरुः ।
मायालोकास्तु मे दृष्टेर्गोचराः सन्ति चाऽधुना ।।६१।।
दृश्यते न गुरुस्तत्र ततो ब्रह्म भवेदयम् ।
अहो प्राप्तो विनोदिन्या विनोदेन विनोदकृत् ।।६२।।।
अथापि धन्यभाग्याऽस्मि गुर्वर्पिताममायिकीम् ।
कृष्णमूर्तिं भजिष्येऽहं यतिष्ये लब्धये पुनः ।।६३।।
इत्येवं सा महाशान्तिं मत्वा ध्यायति चाच्युतम् ।
तावदन्ये साधवश्च साध्व्यश्चापि तिरोऽभवन् ।।६४।।
सर्वे ते श्रीकृष्णनारायणमूर्तौ लयं गताः ।
अथ प्राप्ता निश्चयं सा गुरुर्मूर्तिरियं यतः ।।६५।।
साक्षान्नारायणे कृष्णे सर्वेऽत्र विलयं गताः ।
गुरुर्मूर्तिं च मे दत्वा तिरोऽभवन्न लोक्यते ।।६६।।
ततः सोऽयं वर्ततेऽद्य स्वामिकृष्णनरायणः ।
एवं त्वतिप्रसन्तुष्टा प्राह देवलकं पतिम् ।।६७।।
मूर्तिश्चाऽयं स्वयं साधुर्ब्रह्मरसायनात्मकः ।
चेतनोऽपि प्रतिमाऽऽस्ते धन्यः स्वामिन् भवस्यपि ।।६८।।
आवयोः परमं भाग्यं विनोदेन च देहिनाम् ।
अन्तरात्मा प्रतुष्टः सन्नस्मद्गृहमपाययौ ।।६९।।
विनोदयिष्ये सततं तं साक्षात्पुरुषोत्तमम् ।
सेवां करोतु भगवन् भवान् स्वामिन् सदाऽस्य वै ।।4.16.७०।।
अथ मूर्तिं सजीवां तां सेवेते तौ मुदान्वितौ ।
यथोक्तरीत्या देवेशं यथासत्कारमाननम् ।।७१।।
देवलको नित्यमेवाऽर्चयत्यच्युतमुत्सुकः ।
किन्तु विनोदिनी भेजे प्रभुं प्रत्यक्षवत् पतिम् ।।७२।।
तथापि श्रीकृष्णनारायणश्चेतनरूपवान् ।
नाऽऽविर्भवति मूर्तेस्तु भावाभिज्ञश्चिरं क्वचित् ।।७३।।
अस्थैर्यं तु विनोदिन्याः परीक्षितुं समिच्छति ।
विनोदिनी गते वर्षे मूर्तेः सेवनतस्ततः ।।७४।।
व्रतं जग्राह मूर्त्यग्रेऽनशनं दर्शनेच्छया ।
मासं व्रतं चकारैव मूर्त्यग्रे कमलासने ।।७५।।
सन्निषक्ता करे मालां धृत्वा जजाप केशवम् ।
नेत्राभ्यां तन्मूर्तिरूपं मनसा मननं हरेः ।।७६।।
आत्मना स्फुरणं तस्य स्वप्नादौ प्रतिमां हरेः ।
आलोचयति नान्यद्वै पूजायां स्पर्शनं व्यधात् ।।७७।।
यावदिन्द्रियवृत्तीः सा नियुयोजान्तरे हरौ ।
बाह्ये हरौ नियुयोज बाह्यभानाऽपि सुन्दरी ।।७८।।
बाह्यान्तरैक्यमापन्ना चैकतानपरायणा ।
अभवत् सा सती भक्ता विनोदिनी वरेऽच्युते ।।।७९।।।
अथ श्रीभगवानस्या हास्यरसाभिलालसः ।
नाविर्भवति व्यक्तात्मा प्रतीक्षते विनोदनम् ।।4.16.८०।।
मासोत्तरो व्यतीयाय समयस्त्वेककाऽऽसने ।
ततो मूर्तेर्विनोदं सा कर्तुमारब्धवत्यपि ।।८ १।।
दृश्यसे त्वं चैकमुखो तथापि विमुखो ह्यसि ।
द्विमुख्याः पञ्जरे न्यस्तो भविष्यस्यमुखोऽन्तरे ।।८२।।
प्रस्रवणप्रशून्यस्त्वं चाऽव्यक्तस्रवणे धृतः ।
भविष्यस्यस्रवो नित्यं सस्रवो भव मत्कृते ।।८३।।
एवं विनोदवाक्यानि मूर्तेर्हास्याय मानिनी ।
मुक्तकण्ठेन सततं जगाद कृष्णसन्निधौ ।।८४।।
अथाऽप्याह हरिं सा च नर्मवाक्यं ततः परम् ।
महद्रूपोऽसि सततं वितस्तिमूर्तितां गतः ।।८५।।
प्रवेष्टुं च हिरण्गर्भं किमिच्छसि तथा कुरु ।
एवमाभाष्यासनात् सा समुत्थाय ननर्त ह ।।८६।।
तावत्प्रसन्नतां प्राप्तः स्वामिकृष्णनरायणः ।
मूर्तिं विवृत्य सहसा तेजसा व्याप्तविग्रहः ।।८७।।
युवा किशोरः समभूद्धास्यं कृत्वा पुरःस्थितः ।
समाश्लिष्यत् सतीं भक्तामपाययद् रसं निजम् ।।८८।।
मूर्तेः सुखं ददौ तस्यै सर्वेन्द्रियादिगोचरम् ।
ततो विनोदिनीं मूर्तौ लीनीभूतां चकार सः ।।८९।।
यावत् स्वस्य सुखं दिव्यं सर्वं तस्यै ददौ प्रभुः ।
तृप्ताऽभवत्तु सा दिव्या दिव्यमुक्तानिका द्रुतम् ।।4.16.९०।।
अभवन्मायया हीना ब्रह्मलोके स्थिता यथा ।
तावत् तत्र महापुण्यैर्देवलोऽपि समाययौ ।।९१।।
वीक्ष्य कान्तेन कृष्णेन कार्ष्णीं विनोदिनीं सतीम् ।
निजं चापि तथैच्छत् सः कृष्णे द्रवमवाप्तवान् ।।९२।।
श्रीकृष्णोऽपि परं भावं ज्ञात्वा देवलकान्तरे ।
सखीरूपं विनोदिन्या इव तं योषितं व्यधात् ।।९३।। ।
नररूपं विहायैव सखी देवलिकाऽभवत् ।
विनोदिनीसमा रूपे सर्वथा कृपया हरेः ।।९४।।
यथा लक्ष्मीःप्रिया राधा तथा देवलिकाऽभवत् ।
उभे मुक्तानिके जाते दिव्ये दिव्यविभूषिते ।।९५।।
दिव्यब्रह्मरसाढ्ये च दिव्यकृष्णस्वरूपिके ।
लीने जाते कृष्णनारायणे तद्देहसंस्थिते ।।९६।।
एवं श्रीकृष्णकान्तस्ते ह्युभे धाम निनाय वै ।
शाश्वते ब्रह्मपरमानन्दसुखे ममज्जतुः ।।९७।।
मातश्चैवं ब्रह्ममहारसपानाशनं सदा ।
जायते कृष्णभक्तायास्तथा मे विद्यतेऽधुना ।।९८।।
न मेऽन्यत्राऽस्ति भवनं भावना श्रीहरिं विना ।
ब्रह्मरसो हरावस्तीत्युक्त्वा मौनं समादधत् ।।९९।।
इत्येवं बदरीदेवि परब्रह्मरसोऽव्ययः ।
यथाऽऽप्यते तयाऽऽप्तश्चोभाभ्यामाप्तस्तथोदितः ।। 4.16.१० ०।।
या चाऽन्या वाऽन्य एवापि सर्वस्वभावनार्पणात् ।
उक्तरीत्या परब्रह्मानन्दरसमवाऽप्नुयात् ।। १०१ ।।
परब्रह्मरसाऽवाप्तौ परब्रह्माऽस्ति कारणम् ।
साधुरूपस्य सेवाऽपि परब्रह्माऽऽप्तिकारणम् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां परब्रह्मरसाशनाप्तये विनोदिन्या देवलकपत्न्या विनोदेन प्रसादितभगवतो ब्रह्मरसायनसाधुरूपेण साक्षात्प्राप्तिर्मोक्षणं देवलकस्य सखीत्वं चेत्यादिनिरूपणनामा षोडशोऽध्यायः ।। १६ ।।