लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०१४

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १४
[[लेखकः :|]]
अध्यायः १५ →

श्रीनरनारायण उवाच-
ततो बद्रीप्रिये देवि मात्रे श्रीबालयोगिनी ।
परमं वैष्णवयोगं प्राह ते कथयाम्यपि ।। १ ।।
वैष्णवा विष्णुवन्मान्या मातः सर्वप्रवैष्णवैः ।
वैष्णवीभिर्विशेषेण कृष्णवत् कृष्णमूर्तयः ।। २ ।।
सर्वथा विष्णुसम्बन्धिक्रियास्वेव हि ते रताः ।
आत्मनां च वशे येषामिन्द्रियाण्यान्तराण्यपि ।। ३ ।।
ब्रह्मचर्यं हरौ येषां ब्रह्मता च प्रभौ पतौ ।
कृष्णैकचेतसो भक्ता मान्याः पूज्या हरिर्यथा ।। ४ ।।
नैते मानवतुल्या वा सुरतुल्या न चापि ते ।
भक्तानिका न मानव्यः कमलास्ता हि सर्वथा ।। ५ ।।
वैष्णव्यः सर्वथा सेव्या योषिद्भिर्योषितस्तु ताः ।
धर्मांशे पारगामिन्यः कृष्णांशे सर्ववर्तनाः ।। ६ ।।
हर्यर्थं लोकलज्जाद्यावरणादिविवर्जिताः ।
कृष्णेतरोपभोगादौ दोषभीतिसमवृताः ।। ७ ।।
कार्ष्णवैष्णवसेवायां कृष्णवन्महिमान्विताः ।
मायाबन्धनहीनाश्च दिव्यतामोदभोजनाः ।। ८ ।।
कृष्णार्थदेहदानाश्च वैष्णवार्थप्रवर्तनाः ।
कार्ष्णकुटुम्बमोदिन्यो वैष्णवीस्त्रीजनाभिगाः ।। ९ ।।
वैष्णवीमण्डलशोभा वैष्णवीरुचिरञ्जिताः ।
वैष्णव्यो हृदये यासां सेव्यास्ताः कृष्णवत् सदा ।। 4.14.१ ०।।
राधावत् कमलावत्ताः सेव्याश्च माणिकी यथा ।
बद्रिकावत् प्रसेव्याश्च श्रीर्भूलीला सती यथा ।। ११ ।।
लक्ष्मीवत् पद्मावतीवत् सेव्यास्ताश्च प्रभुः यथा ।
ललितावन्महालक्ष्मीवत् सेव्यास्ता हरिप्रियाः ।। १२।।
तास्तु शुभाऽशुभाश्चेष्टाः क्रियाः स्पृशन्ति नैव ह ।
श्रेयसे देहिनां दोषविलयाय विमुक्तये ।। १३।।
हरिः प्रजायते लोके तद्योगात्ता विबन्धनाः ।
कृष्णवत् कार्ष्णवच्चापि कार्ष्णीवच्चापि ताः सदा ।। १४।।
दिव्याः सेव्यास्तोषणीयाः सेवाभिश्चान्तरार्पणैः ।
असंकुचितभावैश्चाऽनावरणाऽनुवर्तनैः ।। १५।।
सेवायां नैव मानं वा गर्वं चाहंकृतिं गुणम् ।
लज्जां चावरणं कुर्याद् या सा सखी हरिप्रिया ।। १६।।
ब्रह्मप्रिया सदा ब्राह्मीमण्डलं मनुते हृदि ।
कृष्णवत् सेवते चापि सर्वस्वदानसत्कृतैः ।। १७।।
विनीता वैष्णवीनां तु सन्निधौ सर्वथाऽमला ।
आत्मप्रौढिविहीना च ब्रह्मप्रिया सदोत्तमा ।। १८।।
आनन्दमूर्तौ श्रीकृष्णे दिव्या आनन्दवार्धयः ।
रोम्णि रोम्णि भवन्त्येव चाणौ चाऽणौ समस्तशः ।। १ ९।।
मानं विहाय संसेव्या आनन्दा दिव्यचक्रिणः ।
अन्याऽऽनन्दाः शेषभूता सर्वशोऽस्य परात्मनः ।। 4.14.२०।।
सेवया सम्प्रसन्नस्य प्रसीदन्ति हि साधवः ।
सत्येवं सर्वकामाश्च पूर्णा भवन्ति सेविनाम् ।।२१ ।।
कामयेत् सुसतां प्रसन्नतां कृष्णस्य सर्वदा ।
तदप्रियं प्रजह्याच्च प्रसन्नताऽवरोधकृत् ।।२२।।
प्रभुं कृष्णं विना बन्धनीया न ग्रन्थयोऽपराः ।
कृष्णप्रसन्नतासाधिकास्तु धार्यास्तदाप्तये ।।२३।।
कृष्णनारायणग्रन्थिः परा ग्रन्थिर्विवाहिनी ।
तया तु ग्रथिता बद्धा ब्रह्मर्षिणी समुच्यते ।।२४।।
सैव प्रिया सैव पत्नी सैव भार्या सधर्मिणी ।.
सैव स्वस्वामिनी कान्ता भगवद्ग्रन्थियोगिनी ।। २५।।
प्रेमाम्बरप्रान्तजां तु ग्रन्थिं प्राप्य परात्मनः ।
वरेण्यस्य वरारोहा जायते ब्रह्मरोहिणी ।।२६।।
कृष्णारोहा कृष्णपार्श्वा श्रीकृष्णहृदया सखी ।
कृष्णे शयनमापन्ना कृष्णानन्दे प्रमज्जति ।।२७।।
तस्याः सम्बन्धतश्चान्याः सख्योऽपि स्वामिनः सुखम् ।
प्राप्नुवन्ति स्पृहाभक्त्या ततस्तथा भवन्त्यपि ।।२८।।
कार्ष्ण्याः संसर्गयोगेन कार्ष्ण्यो भवन्ति कृष्णगाः ।
विना यत्नं प्रजायन्ते मातस्ता ब्रह्मयोगगाः ।। २९।।
तत एव हरेर्योगाद् बालयोगिन्य एव ताः ।
नारायण्यः प्रजायन्ते नारायणार्धविग्रहाः ।।4.14.३० ।।
कृपया सहयोगेन प्रजायन्ते हरिप्रियाः ।
आत्मार्पणेन जायन्ते ब्रह्मप्रियाः सदा प्रियाः ।।३ १ ।।
शुष्कचित्ता दोषदृश्यो न जायन्ते हरेः प्रियाः ।
पूर्णकामो हि भगवान् पूर्णानन्दभरः सदा ।।३२।।
भक्तानां सुखदाः कृष्णकान्तचेष्टा हि मोक्षदाः ।
पूर्णानन्दस्य मात्राभिश्चान्यसृष्टिः सुखान्विता ।। ३३।।
स्वात्मारामस्य कृष्णस्याऽऽरामो नाऽपरपेक्षकः ।
अन्याऽऽरामाः कृष्णकान्ताऽऽपेक्षकाः शाश्वतांऽशकाः ।। ३४।।
एवंमत्यवहीनानां भवेदज्ञानमुल्बणम् ।
मम भोगेन कृष्णोऽयं सुखमानन्दमश्नुते ।।३५।।
इतिदोषवती मातर्नैव स्यात् माधवप्रिया ।
सर्वावतारधर्तृत्वं वेद या स्वामिनः सती ।।३६।।
सर्वसौख्यप्रदातृत्वं वेद कृष्णस्य भामिनी ।
सा तदग्रे मानदोषहीना जायेत तत्प्रिया ।।३७।।
एवंविधायाः सततं साहचर्यं तु शार्ङ्गिणा ।
किंकर्यां सर्वदा स्याच्च हरेर्भूरिप्रसन्नता ।।३८।।
मत्स्यस्य जीवनं वार्षु किंकर्या जीवनं हरौ ।
सुखं दिव्यं भागवतं किंकर्या जीवनेऽस्ति वै ।।३९।।
जीवनं प्राणदे कान्ते सुखं चापि च माधवे ।
आकर्षणं तैजसं च कान्ते प्राणप्रदे प्रभौ ।।4.14.४० ।।
किंकर्याः सर्वथा चास्ति मातः श्रीमाधवीश्वरे ।
सर्वं स्वत्वं हरौ तस्यास्तस्यां स्वत्वं हरेस्तथा ।।४१ ।।
त्यागिनी वा गृहिणी वा कृष्णे तैक्ष्ण्यं परं परम् ।
यस्या आस्वादस्य तस्या ब्राह्मीत्वं श्रीत्वमित्यपि ।।।४२।।।
शीलव्रतं ब्रह्मचर्यं तस्या एवाऽस्त्यखण्डितम् ।
वैराग्यं चात्मनिष्ठत्वं तस्याः साध्वीत्वमित्यपि ।।४३।।
न्यासिनीत्वं च मुक्तत्वं तस्या दिव्यात्वमित्यपि ।
नारायणीत्वं कमलास्थानं तस्याः सदाऽक्षरे ।।४४।।
यस्याः प्रथमं श्रवणं माहात्म्यस्य हरेरथ ।
ततः स्नेहोद्भवः प्रीतिस्ततो मेलनवृत्तयः ।।४५।।
आकर्षणं स्फुरणं च तदाकारात्मवर्तनम् ।
सुरवानन्दप्रमोदादिवाञ्च्छा ततोऽभियोजनम् ।।४६।।
ततः प्राप्तिः परोक्षस्य स्वप्ने वा साधुरूपिणः ।
ततः साक्षाद्भवेत् प्राप्तिर्महानन्दस्य शेवधेः ।।४७।।
आश्लेषणं चैकतानानन्दस्पर्शादिजं सुखम् ।
सर्वविषयसौख्यं च स्वामिनाथात् तदाऽऽप्यते ।।४८।।
एवं भवेत् कृष्णरतिः कृष्णप्रिया क्रमात्पुरा ।
सतां प्रसेवया कृष्णे भक्त्या तादात्म्यमाप्नुयात्। ।।४९।।
सत्सेवया त्वतिप्रीत्या सर्वं सम्पद्यते स्त्रियाः ।
अतिप्रीत्यैव कृष्णे ता भवन्ति रुचिवर्तनाः ।।4.14.५०।।
वर्तनं त्यागरूपं तद् दिव्यं नारायणेऽर्पितम् ।
देहक्रियासु सर्वासु देहभानविवर्जितम् ।।५१ ।।
साध्यो नारायणः कृष्णः कान्तः पतिर्मयाऽर्जितः ।
भावनाः श्रीहरौ कान्ते सर्वा मे सन्ति नाऽपराः ।।५२।।
मदाश्रयस्थितानां च तथैव सन्ति भावनाः ।
तास्वेव वासतो मोदोऽन्यत्र दैन्यं प्रसज्यते ।।५३।।
एतादृशीं स्थितिं प्राप्य मनो मे मोदतेतराम् ।
योऽक्षरे राजते स्वामी श्रीकान्तः कान्त एव मे ।।५४।।
अवतारा भवन्त्यस्य श्रेयसे बहवोऽपि हि ।
स एव भगवान् साक्षात् कृष्णनारायणः प्रभुः ।।५५।।
आक्षरीभिर्हि मुक्ताभिः सेव्यमानपदाम्बुजः ।
कुंकुमवापिकाक्षेत्रेऽस्मद्दृष्टिगोचरोऽस्ति सः ।।५६।।
अत्यन्तकरुणापूर्णः श्रीमद्गोपालनन्दनः ।
कंभराश्रीसुतः कृष्णो बालकृष्णः प्रभुः पतिः ।।५७।।
सदा किशोररूपश्च सर्वकामातिकामनः ।
सर्वेच्छापूरकः कान्तः सर्वासां पावनः पतिः ।।५८।।
तं प्रभुं शुद्धहृदया पश्यत्येव हृदम्बरे ।
वर्णेन वयसा कान्त्या पुष्ट्या शान्त्या बलेन च ।।५९।।
योग्योऽस्ति सर्वकान्तानां समर्थः माधवीपतिः ।
अनुभवित्री जानाति करपाशाधिशायिनी ।।4.14.६० ।।
दिव्यं कृष्णस्य कान्तस्य सुखं वाचामगोचरम् ।
अपरोक्षं वधूर्वेत्ति वक्षआश्लेषपिण्डिता ।।६१ ।।
वध्वो भवन्ति मातर्वै कान्ते विविधवृत्तयः ।
काश्चित् कान्तस्य हास्ये स्युः प्रसन्ना लग्नवृत्तयः ।।६२।।
काश्चित् कान्तस्य वै नर्मवाक्येषु मिष्टवृत्तयः ।
काश्चित् कान्तस्य वै प्रेमपूर्णनेत्रेऽतिवृत्तयः ।।६३।।
काश्चित् कान्तस्य सौन्दर्ये शृगारे यौवनेऽतिगाः ।
काश्चिद् भावेषु हावेषु प्रशंसायां च केलिषु ।।६४।।
काश्चिदेकान्तरमणे काश्चिद् विहरणे बहिः ।
काश्चित् प्रसन्ना जायन्ते द्यूतजयपराजये ।।६५ ।।
काश्चिन्मानप्रदाने च काश्चित् स्पर्शे सहादने ।
काश्चित् सहासने काश्चिदाज्ञायां वर्तने तथा ।।६६।।
काश्चित्तु जलकेल्यादौ काश्चित् पुष्पावभूषणे ।
काश्चित् प्रसन्ना जायन्ते वारं वारं विलोकने ।।६७।।
काश्चिद् याने विमाने च शय्यायां च निकुञ्जके ।
काश्चिद् विजने सजने भवन्त्याकृष्टवृत्तयः ।।६८।।
काश्चिद्वक्षःसमाश्लेषे काश्चित् केशादिवेशने ।
काश्चित् पाने सुगन्धे च काश्चित् ताम्बुलके प्रियाः ।।६९।।
एवं काश्चित्तु कलहे वैमनस्येऽतिवृत्तयः ।
राजस्यो वापि तामस्यो भवन्त्याकृष्टवृत्तयः ।।4.14.७०।।
एवं भाववशा वध्वो भवन्ति कान्तवृत्तयः ।
कान्तोऽपि भगवान् भावान् विज्ञायाऽऽनन्दयत्यपि ।।७१ ।।
आन्तरस्थो बहिस्तिष्ठन् यथाभावं निजप्रियाम् ।
समाकर्षयति स्वस्मिन् महानन्दं ददात्यपि ।।७२।।
दिव्यानन्दभराकारः सर्वानन्दपयोदधिः ।
प्रत्यक्षकान्तरूपः श्रीकृष्णनारायणोऽवति ।।७३।।
तन्मर्यादां महामुक्ता महामुक्तानिकाः स्त्रियः ।
अवतारास्तथा व्यूहा ईश्वरा ईशनीस्त्रियः ।।७४।।
सुराः सिद्धाः सतीवर्गाः साध्व्यश्च साधवोऽमलाः ।
योगिन्यो यतयः सर्वे पालयन्ति महेश्वराः ।।७५।।
तन्मर्यादा मया पाल्या तत्प्रीतये सदा शुभा ।
स एव लोकजीवानां तारकोऽक्षरनायकः ।।७६।।
अधमोद्धारकः कृष्णस्वामी पतितपावनः ।
आश्रिताया मनोवृत्तेः पूरणार्थं तथाविधः ।।७७।।
स्वस्य रीतिं तिरोभाव्याऽऽश्रितवृत्तिं दधाति वै ।
अहो कृपालुता तस्याऽऽश्रिताऽऽश्रयित्वमिच्छति ।।७८।।
निजाया अपि नैजत्वं संविभाव्य प्रमोदते ।
धन्या मातर्हि सा नारी या तथा विन्दति प्रभुम् ।।७९।।
यस्या नान्यत्र वै श्रद्धा रुचिर्वा कान्तमन्तरा ।
पुंपुत्ररसवित्तादिमायिकाऽहतमानसा ।।4.14.८०।।
पत्यर्थं चान्यमन्त्रादौ श्रद्धा यस्या न विद्यते ।
प्रभुं कृष्णं विना यस्या रजनी रञ्जनी न वै ।।८१ ।।
अलौकिकेन्द्रजालादिप्रदर्शयितृमानवे ।
यस्या न गौरवं श्रद्धा जायते हरिमन्तरा ।।।८२।।
मयि सच्चित्स्वरूपे स्वात्मन्येव राजते हरिः ।
तत्रैव तु चमत्काराः सिद्धयः सन्ति मत्कृते ।।८३।।
लब्धव्यार्थाः समस्ता मे प्रभौ कान्ते भवन्ति हि ।
भ्रमो येन भवेदन्योऽन्यत्र नारायणेतरे ।।८४।।
एवंविधाऽतिमतिमत्पत्न्यां प्रसन्नतां व्रजेत् ।
प्रभुश्च प्रभुवत्पुण्याः सन्तो महान्त उत्तमाः ।।८५।।
सत्पथस्था हरेर्भक्ता यासु प्रसन्नवृत्तयः ।
तासां भाग्यं महद्दिव्यं ताभिः सारः समर्जितः ।।८६।।
अथैवं श्रीकृष्णकान्तस्वाम्यंके संनिषद्य च ।
श्रीकृष्णेतरकोट्यब्धेश्वरमानं न वाञ्च्छति ।।८७।।
अनादिश्रीकृष्णनारायणभिन्ने न मोहनम् ।
नरनारायणस्येव मोहनं न स्त्रियां नरे ।।८८।।
पतिः ऋषिर्नरनारायणो मे तापसः प्रभुः ।
शीलव्रतो महामायापारवर्ती हिमालये ।।८९।।
निर्मोहो वर्तते मातर्बदरीवनभूतले ।
तथाऽहं तापसी मातर्बदरीनाथबद्रिका ।।4.14.९०।।
वर्तेऽहं मोक्षशून्याऽत्र गृहे ते बालयोगिनी ।
सदा शीलव्रता कन्या लोककल्याणकारिणी ।।९ १।।
मत्फलैः ऋषयो यान्ति विनिर्धूताऽघकोटयः ।
मदक्षरं परं धाम स्वामिनो मेऽक्षरं पदम् ।।९२।।
व्यसनं मे हरेर्जातं तद्विना न क्षणं मम ।
केवलं विद्यते मातर्विशिष्टं तेन विद्यते ।।९३ ।।
स्नेहतादात्म्यतन्वा मे लीनता स्वामिनि प्रभौ ।
सदाऽस्ति तद्विना मातर्नाहं भवामि साकृतिः ।।९४।।
सर्वावस्थासु सुखदं सर्वलोकेषु रक्षकम् ।
प्रभुं कृष्णं प्रियं कान्तं कथं मुञ्चाम्यसुस्थितम् ।।९५।।
आधारमात्मनः कृष्णनारायणं सुखास्पदम् ।
श्रीलक्ष्मीमाणिकीसेव्यं ललितावरमुत्तमम् ।।९६।।
प्रभुं नाथं बदरीशं पाशवतीपतिं हरिम ।
सर्वदा श्रीमहालक्ष्मीसेवितं पूजितं तथा ।।९७।।
कम्भराश्रीश्वरीध्यातं लालितं पालितां तया ।
प्राप्तं कथं विमुञ्चामि वद मातर्मनीषया ।।९८।।
न शैथिल्यं हरौ मेऽस्ति न मायायां प्रवर्तना ।
नाऽन्यदेहे रतिर्मेऽस्ति वदाऽन्यं चिन्तयामि किम् ।।९९।।
इत्युक्त्वा विररामाऽसौ बद्रीशि बालयोगिनी ।
माता भाग्यं निजं मेने धन्यं सुरेश्वरी सती ।। 4.14.१ ००।।
व्यचिन्तयद्धरेः प्राप्त्यै पुत्रीतः साधनान्यपि ।
आशीर्वादान् ददौ पुत्र्यै ज्ञात्वा तां बदरीश्वरीम् ।। १० १।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां परमवैष्णवीयोगविवेचननामा चतुर्दशोऽध्यायः. ।। १४ ।।