लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ०११

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ९० लक्ष्मीनारायणसंहिता -लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः ११
[[लेखकः :|]]
अध्यायः १२ →

श्रीनरनारायण उवाच-
बद्रीप्रिये शृणु त्वं च ततो देवी सुरेश्वरी ।
पप्रच्छ दास्यं कन्यायै किंविधं तद् वदामि ते ।। १ ।।
दास्यं दानमयं सर्वमात्मदानं महत्तरम् ।
सुखदानं मनोदानं बुद्धिदानं तु शार्ङ्गिणे ।। २ ।।
चित्तदानं मानदानं सर्वेन्द्रियप्रदानकम् ।
प्राणदानं देहदानं दास्यं सर्वप्रदानकम् ।। ३ ।।
मातस्त्वेवं दासिका या ब्रह्मप्रिया तु सा मता ।
एतादृशीं परां दासीं मानवश्चाऽमरोऽपि वा ।। ४ ।।
चालयितुं समर्थो न कृष्णकान्तात् पथान्तरे ।
दास्याश्चैवंविधायास्तु भयं मनाङ् न विद्यते ।। ५ ।।
दासी सा देवदेवस्य श्रीपतेः पद्मिनीपतेः ।
यथा तथा सतां दासी प्रज्ञावद् बालयोगिनी ।। ६ ।।
धन्येयं या सतां योगं हरेर्योगं च विन्दते ।
नरं कान्तं बालकृष्णं सेवते बालयोगिनी ।। ७ ।।
सिद्धं कार्य भवेत्। तस्या मातर्दास्यं चिदम्बरे ।
यदत्रानुभूयमानं विकासतेऽक्षरे पदे ।। ८ ।।
तद्रूपं चैतदेवापि स्वसिद्धं परमात्मनः ।
श्रेयसे चोभयं रूपं तथाऽनन्तानि यान्यपि ।। ९ ।।
सच्चिदानन्दरूपाणि लावण्यसंभृतान्यपि ।
दिव्यैश्वर्यपूरितानि सर्वालंकारवन्ति च ।। 4.11.१ ०।।
कोटिकामसुरूपाणि चानन्ततैजसानि हि ।
नैकशक्तिकलावन्ति सर्वान्तर्यमनानि च ।। १ १।।
अनन्तकोटिराधाश्रीलक्ष्मीक्षासुखमुत्तमम् ।
अनादिश्रीकृष्णनारायणस्य दर्शनेस्ति वे ।। १२।।
स कार्यार्थं बहून्येव धत्ते रूपाणि माधवः ।
यथोपयोगं योजयित्वा तिरोधापयति प्रभुः ।। १३।।
इन्द्रियात्मा च देवात्मा विषयात्मा समीक्ष्यते ।
मायिकैर्न तु दिव्यैर्वै दास्यं प्राप्तैर्हि देहिभिः ।। १४।।
मायामयीच्छया लीला नारायणस्य साऽस्ति हि ।
सर्वा कल्याणरूपा सा दिव्यधामप्रदा हि सा ।। १५।।
नराकारे भावना सा दिव्या दासीत्वबोधिनी ।
नराकारेषु या सत्सु दिव्या सा भावनोत्तमा ।। १६।।
कृष्णवत् सर्वथा कार्या कृष्णदासित्वबोधिका ।
नारीष्वपि च साध्वीषु दिव्या सा भावनोत्तमा ।। १७।।
कर्तव्या सर्वदा मातर्दासित्वबोधिका तथा ।
ब्रह्मप्रियात्वं चाप्येत तया सर्वोर्ध्वया ततः ।। १८।।
एवं भावनया युक्तं दास्यं पूर्णं प्रकाशते ।
संसाध्यैवं परं कान्तं कृष्णं लभते नाऽन्यथा ।। १९।।
दास्याः कृष्ण इन्द्रियाणि दिव्यानि विदधाति वै ।
कृष्णयोगेन सौगन्ध्यं दिव्यं देहे प्रजायते ।।4.11.२०।।
कृष्णयोगेन च नित्यं निरावरणता भवेत् ।
कृष्णयोगेन चाऽऽनन्दपूर्णताऽहर्निशं भवेत् ।।२१।।
उत्तमाः सर्वविषयाः कृष्णयोगेन कृष्णवत् ।
जायन्ते शान्तये मातर्निरत्ययास्तथाऽव्ययाः ।।२२।।
असंख्यसृष्टिनाथस्य सुखोर्ध्वं त्वाक्षरं सुखम् ।
ततोऽनन्तगुणं कृष्णकान्तस्य सुखमुत्तमम् ।।२३।।
ब्रह्माद्या ईश्वरास्तस्याऽन्तिके रंकजना इव ।
भवन्ति सर्वथा मातस्तं कृष्णं हृदि धारयेत् ।।२४।।
पूर्णानन्दनिधेस्त्वेके सुखं सर्वं समाप्यते ।
न दूरे तादृशं चास्ते तस्मात् कृष्णेऽर्पिता भवेत् ।।२५।।
एवं श्रीमत्कृष्णमूर्तिभूर्यानन्दपरिप्लुता ।
जाताऽस्मि ते कृपयाऽत्र मातर्दास्यं भजामि च ।।२६।।
तादात्म्यानुभवेनैव कृष्णकान्तोऽधिभुज्यते ।
नैर्गुण्यभावमापन्ना सेवते या तु दासिका ।।२७।।
सेविनं कृष्णकान्तं तं लभते सा निजान्वितम् ।
महानन्दप्रदं सर्वभोगतृप्तिप्रदं प्रभुम् ।।२८।।
अल्पापि कृष्णकान्तार्था यस्या बुद्धिः क्रियाऽपि च ।
सा दिव्या ब्रह्मशक्त्याख्या सर्वसिद्धिप्रवर्षिणी ।।२९।।
निर्गुणा कृष्णसम्बन्धाद् दिव्याऽक्षयाऽक्षराऽभिधा ।
दर्शनं स्पर्शनं घ्राणं रसनं श्रवणादि च ।।4.11.३० ।।
स्वपनं रमणं दास्यमाश्लेषणं हरेः प्रभोः ।
कृष्णस्यैव सदा मातः कार्यं दास्या न चेतरत् ।।३१।।
नान्यत्र प्रेरणीयानि देहेन्द्रियाणि सर्वथा ।
विश्वस्तानि कृष्णयोगात् पातयन्ति हि योगिनीम् ।।३२।।
हरे कृष्ण प्रियाकृष्ण माधवीकृष्ण सेविकाम् ।
दासीं मां रक्षय चान्यात् प्रार्थयेत् परमेश्वरम् ।।३३।।
एवं सम्प्रार्थितः कृष्णकान्तो रक्षति दासिकाम् ।
ब्रह्माण्डे तादृशो नास्ति यादृशः कृष्णसद्वरः ।।३४।।
अक्षरे ब्रह्मणि स्वीये राजते योऽत्र विद्यते ।
दिव्याभिः शक्तिभिर्दिव्यपार्षदैः सेवितः प्रभुः ।।३५।।
राधारमादिभिर्भक्त्या सेव्यते पुरुषोत्तमः ।
ब्रह्माण्डाधिस्वामिभिश्च प्रार्थ्यतेऽण्डागमाय सः ।।३६।।
कृपया स बालकृष्णस्त्वाविर्भवति तत्र तु ।
देवमानवपश्वादौ करोति तन्मयीं क्रियाम् ।।३७।।
युगानुरूपं स्वाऽऽयुष्यं दधाति परमेश्वरः ।
बलं सामर्थ्यमेवापि देहं चापि यथायुगम् ।।३८।।
गुणा दोषाश्च दृश्यन्ते दिव्या एव हरौ तु ते ।
हितं भवेन्नृणां यद्वद् वर्तते स तथा भुवि ।।३९।।
सजातीयप्रसंगं स ददात्येव तथाभवन् ।
तेजः संकोचयित्वैव मानवः सन् प्रवर्तते ।।4.11.४०।।
दिव्ये तत्र नातिप्रीतिर्मानवानां यतो भवेत् ।
तेजसां चाऽसहा लोकाः सौमनस्यं न यन्ति हि ।।४१।।
क्वचित् कार्यवशान्मातर्महैश्वर्यं दधाति सः ।
प्रदर्शयति भक्तेभ्यः पुनर्लीनं करोति तत् ।।४२।।
अनादिश्रीकृष्णनारायणार्यः पुरुषोत्तमः ।
गोपालनन्दनो मातः सर्वावतारधृक् स हि ।।४३।।
तस्याश्रये भवेद् भक्तानिका सदाऽकुतोभया ।
शर्करारसमूर्तिर्वै यथैकतात्त्विकी भवेत् ।।४४।।
तथैकतत्त्वे श्रीकान्ते सच्चिदानन्दधामनि ।
परब्रह्मणि मे मातस्तादात्म्यं विद्यतेऽधुना ।।४५।।
यथा वह्निः प्रविष्टो वै त्वयोगोले विलोक्यते ।
न लोक्यतेऽयोगोलस्तु तथा मातर्मयि प्रभुः ।।४६।।
लोक्यते पश्य सर्वेशं नाऽहं दृष्टिपथाऽस्मि हि ।
ऐतदात्म्यमिदं सर्वं चाऽहं व्याप्ता महात्मना ।।४७।।
चिदानन्देन कृष्णेन यत्र त्याज्यं न विद्यते ।
एवंवेत्त्री पराब्राह्मी ज्ञेया सा ब्रह्मवित्तमा ।।४८।।
प्राप्ता निर्विकल्पभावं स्थितप्रज्ञाऽतिनिर्भया ।
ऐकान्तिकीं स्थितिं प्राप्ता कृष्णे निरोधितां गता ।।४९।।
नराकृतौ हरौ जाता दृढस्नेहानुबन्धिनी ।
स्नेहमयी सदा भक्ता निर्विकल्पा मता सखी ।।4.11.५०।।
मतिः कृष्णे दृढा यस्याः कार्ष्णी सा कृतमोक्षणा ।
विकल्पैः सह योद्धव्यं निर्विकल्पेच्छया सदा ।।५१।।
अयुध्यमाना विषयैराकृष्यते पतत्यपि ।
सर्वेश्वरं विदित्वापि येश्वरेशं त्यजत्यपि ।।५२।।
सा भवेद् द्रोहिणी पत्यौ कृष्णे कान्ते प्रभेश्वरे ।
एवं द्रोहविधात्र्यां वै कृष्णो नैव प्रसीदति ।।५३।।
कालं कर्म स्वभावं वा मायां वेत्ति तुकारणम् ।
कृष्णनारायणं हित्वा सा भवेद् द्रोहिणी हरेः ।।५४।।
कृष्णनारायणे मुक्ता ब्रह्म कृष्णनरायणे ।
कृष्णनारायणे सन्ति ह्यवतारा असंख्यकाः ।५५।।
कृष्णनारायणे सर्वाः शक्तयश्च तपांसि च ।
ऐश्वर्याणि मखाश्चमत्काराः कृष्णनरायणे ।।५६।।
देवा लोकाश्च गतयः सन्ति कृष्णनरायणे ।
सृष्टयश्च समस्ता वै सन्ति कृष्णनरायणे ।।५७।।
परं तत्त्वं प्रियं कान्तं विदुर्या ज्ञानसागरा ।
सा वेत्त्री श्रीकृष्णदासौ ब्रह्मी सा ब्रह्मवित्तमा ।।५८।।
एवंविधायां भक्तायां भवेत् कृष्णप्रसन्नता ।
स्नेहातिशयमाप्तायां गुणाः सर्वे वसन्ति हि ।।५९।।
माहात्म्यज्ञानयुग्भक्ता भवेदेकान्तिनी प्रभौ ।
सतां सेवाप्रसंगेन कृष्णे भक्तिः प्रजायते ।।4.11.६०।।
मनोवाक्तनुभिः सेव्याः सन्तः कृष्णस्वरूपिणः ।
सेवात्मकेन धर्मेण साधनेन कृतेन वै ।।६१ ।।
सर्वं कृतं भवेदत्र कर्तव्यं शिष्यते नहि ।
सतां योगेन भगवान् बहिश्चान्तः प्रकाशते ।।६२।।
पतंगवत् स्वयं कृष्णस्तस्या वृत्तिमयो भवेत् ।
आनन्दं परमं तेन याति मातर्हरेर्हि सा ।।६३ ।।
धृतस्य शुद्धकान्तस्य हृदि चात्मनि चाऽक्षरे ।
हरेर्माया स्नेहरूपा सुखयत्येव तां सतीम् ।।६४।।
प्रत्यक्षे भगवत्कान्ते रसलीना प्रजायते ।
कान्ता कान्तं समाश्लिष्य ब्रह्मानन्दे प्रमोदते ।।६५।।
निमज्जति महानन्दे परे ब्रह्मणि स्वामिनि ।
गुणातीते महानन्दे प्रेमरसं पिबत्यपि ।।६६।।
मायातीतं पतिं प्राप्य मायातीता प्रजायते ।
हरौ लग्ना हरिं याति मोचयत्येव तां हरिः ।।६७।।
एवं कृष्णं प्रपन्नायाः कमलात्वं प्रजायते ।
यद्यत् सुखमभीष्टं स्यादस्याः सर्वं प्रवर्षति ।।६८।।
प्रपन्नाया प्रपत्तिर्वै हरेर्मिथः प्रजायते ।
मिथश्चैकान्तिकताऽपि भक्तायाश्चाऽच्युतस्य च ।।६९।।
मुक्तवत् सर्वकर्माणि मिथस्तयोर्भवन्ति हि ।
एवंविधायां भक्तायां मातः सत्ययुगस्य तु ।।4.11.७०।।
सर्वे धर्माः प्रवर्तन्ते संकल्पाः सत्यसंभृताः ।
मानस्यस्तत्र सर्वा वै सृष्टयश्चेष्टदायिकाः ।।७१।।
भवन्ति कृतकृत्यायां कृष्णयोगेन कृष्णवत् ।
कृपालुर्भगवान् कृष्णश्चौदार्यं वितरत्यपि ।।७२।।
मया सर्ववर्ष्मवतां कर्तव्यं श्रेय उत्तमम् ।
एवं कृपां परां कृत्वा नरान्नारीर्नपुंसकान् ।।७३।।
पशून् द्रुमान् पक्षिणश्चोद्धारयत्येव योगदः ।
अपि शत्रून् राक्षसाँश्च दैत्यानुद्धारयत्यपि ।।७४।।
पापस्थान् स्त्रीसमुदायान् भोगेनोद्धारयत्यपि ।
पापाः प्रसंगमासाद्य दिव्या मुक्ता भवन्ति हि ।।७५।।
सर्वतत्त्वानि कृष्णस्य चानुप्रवेशतो द्रुतम् ।
ब्रह्मतां यान्ति मायाऽपि प्रयात्यक्षरभावताम् ।।७६।।
नेत्रवृत्तिः स्थूलभावा रश्मिरूपाऽपि तैजसी ।
भौतिक्यपि हरौ लग्ना ब्रह्मभावमुपैति सा ।।७७।।
अतः सा निर्गुणा भूत्वा ब्रह्मप्रकाशिका भवेत् ।
कृष्णाकारा महानन्दसुखमोदपरिप्लुता ।।७८।।
कृष्णे सा लीयते दिव्ये त्वात्माऽश्नुते सुखं तु तत् ।
एवं भूत्वा कृष्णरूपा कृष्णानन्दं समश्नुते ।।७९।।
महाभागवतं मातः सुखं कृष्णात् प्रपद्यते ।
समाधौ दिव्यनेत्राप्तं कृष्णस्य दर्शनं शुभम् ।।4.11.८०।।
क्षणं लब्धमपि स्यात्तत् सहस्राब्दकृतं यथा ।
अखण्डं निर्गुणं पूर्णब्रह्मानन्दभृतं सुखम् ।।८१ ।।
भक्ताभिः शाश्वतं व्यवस्थासु कृष्णेऽनुभूयते ।
नराकारे प्रभौ कृष्णे नृपे वा साधुरूपिणि ।।८२।।
अन्तःस्थे दिव्यरूपे वा तत् सुखं त्वनुभूयते ।
तस्य कृपालयाः सन्तो मिलेयुस्तेषु चान्वहम् ।।८३।।
स्नेहवृत्त्या सेवयापि तादृशं सुखमाप्यते ।
गुरोर्मूर्तेः परं दिव्यं सुखं तु सेवयाऽप्यते ।।८४।।
गुरोर्द्रोहः सतां द्रोहः कृष्णद्रोहो विनाशकृत् ।
गुरोः सेवा सतां सेवा कृष्णसेवाऽक्षरप्रदा ।।८५।।
द्रोग्धुर्भवेत् कृमिकीटशिलाकाष्ठाऽद्रिलोकता ।
यत्र मोक्षार्थयोगो न तस्माद् द्रोहं विवर्जयेत् ।।८६।।
मानं विवर्जयेच्चापि भक्ताग्रे कृष्णसन्निधौ ।
मानं हि कारणं चास्ति महाऽसुरपदस्य वै ।।८७।।
आसुरत्वं निरयाय जायते द्वेषकारितम् ।
तेन मानं नयत्येव निरयाध्वनि सर्वथा ।।८८।।
मानिनस्तु हरौ साधौ कल्पयन्त्यगुणान् मुहुः ।
आपकार्ष्ट्यख्यापनार्थं ततो यान्त्यधमां गतिम् ।।८९।।
मानद्वेषादिनाशार्थं सेवनीया हि साधवः ।
कृष्णाऽभिन्नाः साधवस्ते पावयन्त्यपि दूषितान् ।।4.11.९०।।
साधौ स्नेहः परः कार्यो येन दोषो न चोद्भवेत् ।
स्निग्धे दोषो भवेन्नैव गुणग्राहो भवेत् सदा ।।९ १ ।।
सतां गुणग्रहेणैव कृष्णगुणग्रहो भवेत् ।
ब्रह्मात्मदर्शनं तेन साक्षाद्धरेश्च दर्शनम् ।।९२।।
सर्वदा यौगलं भावं हरिणा सह विन्दते ।
नाऽस्या न्यूनं भवेत् सख्याः सख्युः पत्युः समर्जनात् ।।९३।।
अनन्तकोटिसूर्येन्दुवह्निविद्युत्समप्रभम् ।
अक्षरस्थं कृष्णनारायणं सा लभते सखी ।।९४।।
पृथ्व्यां स्थितं बालकृष्णं कान्तं सा लभते सखी ।
महावीर्यं महारूपं महाशक्तिप्रपूरितम् ।।९५।।
आनन्दानां महावार्धि कान्तं सा लभते सखी ।
मुक्तिबीजानि सर्वाणि लभते कृष्णकान्ततः ।।९६।।
दिव्योन्मत्ता वर्तते सा मनुते स्वकृतार्थताम् ।
तस्या दर्शनकर्तॄणां श्रोतॄणां वचसामपि ।।९७।।
मुक्तिर्दिव्याऽक्षरधाम्नि भवेद् यान्त्यक्षरं हि ते ।
मातश्चैवं बालकृष्णं कृष्णनारायणं पतिम् ।।९८।।
प्राप्ताऽस्मि सर्वहृदयं कृतकृत्याऽस्मि सर्वथा ।
न मे कृष्णादृते कश्चित् संसारो मानमर्हति ।।९९।।
मद्विधा श्रीपतिं नारायणं श्रीबदरीश्वरम् ।
या भजिष्यति भक्तानी मुक्तानी सा भविष्यति ।। 4.11.१ ००।।
एवमुक्त्वा विरराम क्षणं सा बालयोगिनी ।
बद्रीप्रिये पुनः सा च मातरं प्राह वच्मि तत् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने बालयोगिनीगीतायां दास्येन नारायणीस्वरूपताप्राप्त्यादिनिरूपणनामैकादशोऽध्यायः ः ।। ११ ।।