लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)/अध्यायः ००१

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ४ (तिष्यसन्तानः)
अध्यायः १
[[लेखकः :|]]
अध्यायः २ →

अनादिश्रीकृष्णनारायणाय नमः
  श्रीगणेशाय नमः
ॐ श्रीलक्ष्मीनारायणसंहिता
चतुर्थः-
।। तिष्यसन्तानः ।।

श्रीश्वेतायनव्यास उवाच-
ओं नमो युगरूपाय नमस्तिष्यादिमोक्षिणे ।
बालयोगिनीनाथाय नमस्ते बालयोगिने ।। १ ।।
नमोऽसंख्यचरित्राय नमश्चानन्दवार्धये ।
नमस्ते बालकृष्णाय बालान्तरात्मने नमः ।। २ ।।
चिदचिद्वपुषेऽनादिश्रीकृष्णाय नमोनमः ।
बद्रिकापतये नरनारायणात्मने नमः ।। ३ ।।
सर्वसौख्यविधात्रे ते सर्वधर्माधिकारिणे ।
यावल्लीलादिवास्याय नमस्ते साधुरूपिणे ।। ४ ।।
साध्वीशक्तिसुमिश्राय स्वर्णरेखाजटाधृगे ।
एकरसस्वरूपाय सरोजनीजुषे नमः ।। ५ ।।
एकधा दशधा सहस्रधा कोट्यर्बुदाब्जधा ।
कान्ताकान्तोऽन्वितश्चास्ते पृथक् चापि च ते नमः ।। ६ ।।
यो दधार तु राधायाः कृते कृष्णं निजं वपुः ।
यश्च श्रियः कृते नारायणो नारायणेश्वरः ।। ७ ।।
यश्च रम्यं वासुदेवं व्यूहं दधार सृष्टये ।
यश्च हिरण्मयं रूपं विष्णुरूपं दधार च ।। ८ ।।
तथा तिष्याऽर्दितानां तूद्धाराय तापसां वपुः ।
धर्माद् दधार भगवान् नरनारायणात्मकम् ।। ९ ।।
सर्वथा करुणापूर्णं साधुशीलसमन्वितम् ।
मुक्तर्षिसेवितं शान्तं तं नमामि परेश्वरम् ।। 4.1.१ ०।।
नरनारायणं रूपं वीक्ष्य कान्तस्य चक्रिणः ।
या माणिक्या चाऽक्षरश्रीस्तापसी शीलयोगिनी ।। ११ ।।
या दिव्या दिव्यशक्तिश्च ब्रह्मचर्यपरायणा ।
मनाक् स्पर्शं न सहते याऽन्यस्य श्रीहरिं विना ।। १ २।।
सा कान्तं तापसं संसेवितुं बदरिकाऽभवत् ।
बद्रीश्वरी माणिकी सुप्रज्ञा पार्वतिकात्मिका ।।१३।।
राधारमादिसंपूज्या राजते नन्दसच्चितिः ।
त्र्यात्मिकाऽप्येकरूपाऽस्ति छत्ररूपा हरेः सदा ।। १४।।
यस्याः पत्रेषु देव्यश्च मुक्तानिका वसन्त्यपि ।
यस्या मुक्ता बदरेषु वसन्ति मधुरात्मकाः ।। १२।।
अक्षरं ब्रह्म परमं साकारं बदरीति तत् ।
तेजोमयं धामरूपं तत् द्रुमात्मकमत्र वै ।। १६।।
सेवाऽक्षरकृता मूर्तिमती यावाहनं हरेः ।
ब्रह्मचर्यं हरेरत्र नररूपं विराजते ।। १७।।
ऋषयो भगवत्केशाः सर्वे तपन्ति यत्र च ।
अन्याश्चात्र बदर्यो वै हरेः शक्तय एव ताः ।। १८।।
गंगा चिद्बुद्धिरूपाऽत्र वर्तते न्रायणांगना ।
आनन्दैश्वर्यरूपाश्च भूमयो बदरीवने ।। १९।।
सत्स्वरूपिण्य उपला धवला दावनाशिकाः ।
पर्णकुट्योऽत्र धामानि सभा ब्रह्मव्रतात्मिका ।।4.1.२०।।
समाधिर्धारणा ध्यानं वितानेषु वसन्ति हि ।
राजते मुनिभालेषु मुनिभालेषु तूर्ध्वस्रोतस्त्वमुत्तमम् ।।२१ ।।
जितेन्द्रियत्वं चिह्नेषु धातुस्राववियोगिषु ।
जितात्मत्वं हृदयेषु राजते बद्रिकाश्रमे ।।२२।।
यत्र नास्ति कलेर्वासः सत्यं वसति सर्वदा ।
सत्यधर्मा सत्यसन्तो विद्यन्ते कृतधर्मिणः ।।२३।।
यावत्स्थास्यति भूदेवी यावद्धिमगिरिस्तथा ।
तावच्छ्रीमत्कृष्णनारायणः स्थास्यति तापसः ।।२४।।
नरनारायणनाम्ना बद्रीश्वरपरप्रभुः ।
तावत् कृतस्य धर्मा वै स्थास्यन्ति बदरीवने ।।२५।।
धन्योऽयं मानवो लोको यदर्थं पुरुषोत्तमः ।
कुंकुमवापिकानाथो नरनारायणात्मना ।।२६।।
बदरीनाथ एवाऽयं भूत्वा शश्वद्विराजते ।
माणिक्यायाऽश्विनी दिव्या वाहा चेयं द्रुरूपिणी ।।२७।।
बद्री भूत्वा ब्राह्मतन्वी तेन साकं विराजते ।
नारायणी हि सा लक्ष्मीर्बालकृष्णं निषेवते ।।२८।।
यैर्जनैः समनुध्याता वन्दिता विदिता तथा ।
याभिश्च कृतसेवा ताः कृष्णयोगं प्रयच्छति ।।२९।।
ते नरा योषितः सर्वे माणिक्यानुग्रहाद् भुवि ।
सगुणा अपि जायन्ते निर्गुणा मोक्षभागिनः ।।4.1.३ ०।।
अहो भाग्यं भुवनानां यन्मध्ये बदरीवनम् ।
'अहो भाग्यं मानवानां ये वसन्ति वनाऽभितः' ।। ३१ ।।
बदर्याः शीतला वाता यान् स्पृशन्ति जनास्पदान् ।
ते देशाः पावनाः पुण्या जायन्ते बदरीसमाः ।।३२।।
धन्येयं बदरीदेवी पारिजाताऽवहासिनी ।
पारिजातस्तु वै वर्षमुवास कृष्णमन्दिरे ।।३३।।
इयं तु बदरीदेवी ह्याकल्पं छत्रवद्धरेः ।
राजते नित्ययोगेन मुक्तानी शीलयोगिनी ।।३४।।
कल्पद्रुमोऽपि यस्याऽग्रे नोत्कृष्टत्वं प्रसेवते ।
सकामः स हि सेयं तु निष्कामा श्रीनरायणी ।।३५।।
तुलसी भाग्यशीलाऽपि वने वने विना हरिम् ।
साक्षात् पतिमृते त्वास्ते ततो न बदरीसमा ।।३६।।
बद्रिकेयं तु भगवद्गृहिणी गृहरूपिणी ।
यन्नाम्ना श्रीनारायणालयः प्रसिद्ध्यति ।।३७।।
वृन्दां त्यक्त्वा ययौ वृन्दावने कृष्णस्तु पश्चिमाम् ।
द्वारिकां तेन सा वृन्दा वृक्षरूपा वियोगिनी ।।३८।।
नैनां बदरीं भगवाँस्त्यजत्येव क्वचित् प्रभुः ।
वृन्दायां च तुलस्यां च निरोधो राजसो मतः ।।३९।।
बदर्यां ब्रह्मसत्त्वं वै सदा सात्त्विकतां गतम् ।
केतकी च तपः कृत्वा ययावम्बरमूर्ध्वगम् ।।4.1.४० ।।
सा तु कापट्यदोषेण प्रक्षिप्ताऽधोजगाम ह ।
मिथ्यासाक्ष्यं वेधसश्च कृत्वा ह्यपूज्यतां गता ।।४१।।
बदरीयं महामुक्तानिका चाज्ञाकरी हरेः ।
महामाणिक्यवर्णा सा मुक्तानिका च दासिका ।।।४२।।।
अनादिश्रीकृष्णनारायणस्य विरहाऽसहा ।
नरनारायणं कान्तं तापसं चाऽनुतापसी ।।४३।।
भूत्वा नारायणीदेवी बालकृष्णमनुसृता ।
सदा बालस्वभावा वै बदरी बालयोगिनी ।।४४।।
सर्वश्रेष्ठा विद्यतेऽत्र नित्यकृष्णसुयोगिनी ।
कामदुघाः समस्ता वै गत्वा श्रीबदरीवनम् ।।४५।।
नत्वा नारायणीं बद्रीं छायायां ताः समासते ।
नारायणं पयः पाययित्वा यान्त्यनु तद्दिवम् ।।४६।।
ता मन्वते धन्यभाग्यं बदर्याः कृष्णयोजितम् ।
कल्पलताः स्वर्गवल्ल्यः शोचन्ते विरहं हरेः ।।४७।।
प्रशंसन्ति महद्भाग्यं बदर्या नित्ययोजितम् ।
फलामृतं क्वचित् प्राप्य देवा गंगाप्लवार्थिनः ।।४८।।
प्रमोदन्ते फलरसे तिरस्कुर्वन्ति चामृतम् ।
अमृतस्य सदा पाने तृप्ता देवा भवन्ति न ।।४९।।
बदरीफलमासाद्य वर्षं तृप्ता महर्षयः ।
बोधिवृक्षो वने त्यक्तो नारायणेन साधुना ।4.1.५०।।
सोऽपि नाऽभ्युदयं धत्ते धत्ते बद्री तु यादृशम् ।
यष्टिका श्रीवामनस्य कृतकार्ये लयं गता ।।५१ ।।
विना सेवां वर्तते सा ब्रह्मलोके वियोगिनी ।
बदरीयं भाग्यवती महती यष्टिकादितः ।।५२।।
यज्ञनारायणः कृष्णः समिधार्थं द्रुमान् शुभान् ।
व्यरचयत्तथा यज्ञे जुहाव तान् पुरा स्वयम् ।।५३।।
तथापि ते न बदरीसमा भाग्ययुजो यतः ।
यज्ञान्ते ते वने त्यक्ता नारायणेन यज्ञिना ।।५४।।
बदरीयं सदा नारायणेन शिरसि कृता ।
धन्या त्वं माणिकीदेवि धन्या त्वं बदरीश्वरि ।।५५।।
या त्वं कृष्णेन न त्यक्ता चान्ते सत्यादिका यथा ।
धन्या वै कोटिशो नार्यः कृष्णयोगमुपागताः ।।५६।।
शश्वद्धन्या यथा त्वं वै तथा ता न कदाचन ।
सर्वालयं गताः पश्चाद् राजसे त्वं तु बद्रिके ।।५७।।
त्वन्मूलात् खलु तीर्थानि नद्यो भवन्ति बद्रिके ।
त्वं लक्ष्मीस्त्वं रमा श्रीश्च कमला त्वं हरिप्रिया ।।५८।।
त्वं नारायणवासेन नारायणी नरायणी ।
राधा विरजा हरिणी सरस्वती त्वदाश्रयाः ।।५९।।
सर्वास्त्वां वीक्षितुं यान्ति नित्यं नारायणाज्ञया ।
गंगा त्वत्पादमाप्लाव्य ततो याति स्थलान्तरम् ।।4.1.६०।।
नर्मदा सप्तकल्पा वै गोदा तु दशकल्पिका ।
सर्वकल्पा बदरीति नारायणेन निर्मिता ।।६१ ।।
यावच्छेषः क्षीरनिधौ रमा श्वेतनिवासिनी ।
लक्ष्मीर्यावच्च वैकुण्ठे तावद् बद्री हि शाश्वती ।।६२।।
यावतीनां द्रुजातीनां पादपानां च मूलिनाम् ।
पावनी बदरीदेवी नारायणी परेश्वरी ।।६३।।
प्लक्षद्वीपे प्लक्षदेवालये प्लक्षमहोत्सवे ।
द्वीपान्तरेभ्यश्चोद्भिज्जा जातयः समुपाययुः ।।६४।।
कल्पोद्भिज्जास्तु वै स्वर्गात् पुण्योद्भिज्जास्तु सत्यतः ।
श्राद्धोद्भिज्जा जनादिभ्यो भूमेस्तु दैविपादपाः ।।६५।।
चैत्यवृक्षाः समिद्वृक्षा अंकुरा दर्भजातयः ।
रसिणः शाकिनश्चापि फलिनः पुष्पिणस्तथा ।।६६।।
द्वीपनामकरा जम्बुप्रभृतयश्च चाययुः ।
ओषधयो विषहन्त्र्यो जीवदाश्चाययुस्तथा ।।६७।।
गर्भिण्यः प्रसविण्यश्च वंशिन्यश्च समाययुः ।
सन्धिन्यो ब्रह्मचारिण्यो युगलाश्च समाययुः ।।६८।।
प्लक्षपूजोत्तरं कोट्योषधीनां मण्डपे तदा ।
कल्पद्रुमो जगादैतान् पादपान् दैवसंज्ञकान् ।।६९।।
प्लक्षोत्सवोऽयं सम्पन्नः पुण्यकृत् सर्वशाखिनाम् ।
जिज्ञासैका वर्तते मे प्रकाशयामि वः पुरः ।।4.1.७०।।
वयं तु पादपाः सर्वे कराग्रफलशालिनः ।
भुञ्जन्तेऽन्ये नः फलानि वयं तु तापसाः सदा ।।७१।।
पृथिवीगर्भभोक्तारो देवार्पणविवर्जिताः ।
पापभुजस्ततः स्यामो वृत्रहत्याऽघयोगिनः ।।७२।।
क्लेद्यखाद्यप्रभोक्तारः पूजाधर्मादिवर्जिताः ।
तीर्थकार्यविधुराश्च तामसा ज्ञानवर्जिताः ।।७३।।
कथं दुरितनाशो नः संभवेद् बद्धशाखिनाम् ।
प्लक्षद्रुमो महान् विप्र उद्धारं नः प्रवक्ष्यति ।।७४।।
इत्येवं तथ्यजिज्ञासां श्रुत्वा प्लक्षेश्वरो द्रुमः ।
विचार्य बहुधा सर्वपादपानां विशुद्धये ।।७५।।
सामर्थ्यं परमं यत्र वर्तते श्रीहरेः समम् ।
अव्याहतं शाश्वतं च मनाक् ह्रासविवर्जितम् ।।७६।।
तं शरण्यं मोक्षदं च पापघ्नं शान्तिदं तथा ।
मायाशान्तिकरं नारायणमूर्त्यात्मकं द्रुमम् ।।७७।।
सत्सभासंगतं नित्यं बदरीद्रुममाह तान् ।
शृण्वन्तु शाखिनः सर्वे सर्वपापविनाशकम् ।।७८।।
कृष्णतुल्यं मोक्षदं च नरनारायणाश्रमे ।
बदरीवनमध्ये वै त्वास्ते या बालयोगिनी ।।७९।।
बालबदरीदेवी या माणिक्या पारमेश्वरी ।
बद्रीश्वरी शीलगुप्ता सदैव ब्रह्मचारिणी ।।4.1.८०।।
महामुक्तानिका कोटिमुक्तमण्डलधारिणी ।
सा बद्रिका पादपानां जात्युद्धारकरी शुभा ।।८१।।
दर्शनात् स्पर्शनान्नाम्ना नमस्काराद् विचिन्तनात् ।
आश्रयाद्योगतश्चापि वर्तते पापनाशिनी ।।८२।।
यानि वै वृक्षजातीनां पापानि सहजानि च ।
आगन्तुकानि चान्यानि सा बद्री नाशयिष्यति ।।८३।।
यत्र नारायणः साक्षाद् ब्रह्मचर्यार्थतापसः ।
यदर्थं सा बद्रिकाऽपि ब्रह्मशीला च तापसी ।।८४।।
सर्वपापहरा दिव्या सर्वकल्मषनाशिनी ।
वर्तते सर्वसामर्थ्यान्वितोर्ध्वा पारमेश्वरी ।।८५।।
तत्र पापविनाशार्थं गन्तव्यं तु यथायथम् ।
शाखिभिः पादपैः सर्वैर्यात्रार्थं प्रतिवत्सरम् ।।८६।।
नारायणं नमस्कृत्य नरं च योगिनस्तथा ।
फलपुष्परसाद्यैश्च सम्पूज्य बदरीं नमेत् ।।८७।।
स्पृशेद् बदरीं दिव्यां तां वसेत्तच्छायिके स्थले ।
मिलेच्च वक्षसा बद्रीं मकरन्दं ग्रसेत्तथा ।।८८।।
तद्वायुं चापि गृह्णीयात् प्रदक्षिणं चरेत्तथा ।
धूपं दीपं च नैवेद्यं समर्पयेत् क्षमां स्तुतिम् ।।८९।।
प्रकुर्यात् परमेशि त्वं पापजालं विनाशय ।
वृक्षयोनेर्महाकष्टान्मोचयाऽस्मान् प्रमोक्षय ।।4.1.९०।।
एवं सम्प्रार्थ्य तां देवीं नत्वा स्वं स्वं वनं व्रजेत् ।
संस्मरेद् बदरीं नारायणं मोक्षमवाप्नुयात् ।।९१ ।।
वृक्षाणां मोक्षदा देवी बद्रिका त्वेकजन्मनि ।
एवं यात्राकृतो वृक्षा यास्यन्ति परमां गतिम् ।।९२।।
ततो वृक्षैरर्थिता वै यात्रार्थं चलता निजा ।
श्वेतद्वीपे हरेरग्रे हरिस्तानाह सर्वदा ।।९३।।
स्थिरा भवन्तो वृक्षा वै तथापि मोक्षलब्धये ।
सूक्ष्मदेहेन गन्तारो यात्रार्थिनो भविष्यथ ।।९४।।
पादस्यैकस्य सूक्ष्मस्य भूगर्भे वस्तु लग्नता ।
भविष्यति तु यावद्वै तावज्जीवनमस्तु वः ।।९५।।
सूक्ष्मे देहे गते चापि बदर्यां यात्रया पुनः ।
स्वदेहे स्थूलसंज्ञे त्वागत्य वासं विधास्यथ ।।९६।।
बदरीयात्रिकाः सर्वे पादपा धाममोक्षणम् ।
प्रयास्यथो वदाम्येषः श्वेतनारायणः स्वयम् ।।९७।।
एवं प्राप्य हरेरनुग्रहं ते पादपास्ततः ।
बदरीयात्रिणो भूत्वा पूजयित्वा नरायणीम् ।।९८।।
प्रज्वाल्य निजपापानि बद्रीप्रतापतो द्रुमाः ।
ययुर्वै मोक्षणं त्वेकजन्मना यान्ति वै तथा ।।९९।।
यास्यन्त्येव पदं दिव्यं बदरीशीप्रसेवनात् ।
बदरीनाथयोगेन प्लक्षोक्ता मोक्षदायिनी ।। 4.1.१० ०।।
सर्वमोक्षकरी दिव्या साक्षान्नारायणाश्रयात् ।
जयते बदरीदेवी माणिक्या बालयोगिनी ।। १०१ ।।
सा पप्रच्छ कथा दिव्यास्तिष्येऽपि मोक्षकारिणीः ।
नरनारायणं कान्तं बदर्याश्रम उत्तमे ।। १ ०२।।
या या बद्र्याः कथाः पृष्टा नरनारायणं प्रति ।
उत्तरिता नरनारायणेन स्वामिना च याः ।। १ ०३।।
तास्तादिव्यास्तिष्यखण्डे विद्यन्ते मोक्षदायिकाः ।
अनादिश्रीकृष्णनारायणश्रीवल्लभाश्रिताः ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां चतुर्थे तिष्यसन्ताने श्रीनरनारायणस्य श्रीमाणिक्यात्मकबदर्याः स्वरूपवर्तनं माहात्म्यकथनं कथाप्रस्तावश्चेत्यादिनिरूपणनामा प्रथमोऽध्यायः ।। १ ।।