लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २२१

विकिस्रोतः तः
← अध्यायः २२० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २२१
[[लेखकः :|]]
अध्यायः २२२ →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं गृहकारस्य वै कथाम् ।
तक्षशिलायां पुर्यां वै नाम्ना शिवजयोऽभवत् ।। १ ।।
भक्तः प्रासादकुशलो मन्दिरगृहकृत्कलः ।
नगरीरचनाविज्ञो देवालयादिकारकः ।। २ ।।
शिल्पिवर्यः स्बबुद्ध्यैव कुरुते च कलोद्भवम् ।
राजप्रासादनिर्माताऽऽविष्कृतनवघट्टनः ।। ३ ।।
नवाकृतिकरश्चापि नवकक्षादिगोचरः ।
असंख्यनाणकैः सौधान् निर्माति दैवसदृशान् ।। ४ ।।
एकदा वृषपर्वाख्यः ऋषिस्तं समुपाययौ ।
महाभागवतो भक्तः साधुधर्मा सुसंयतः ।। ५ ।।
उत्थाय सहसा शिवजयः स्वागतमाचरत् ।
अर्घं च मधुपर्कं च ददावृषये भाववान् ।। ६ ।।
न्यषादयद् रम्यपूतासने जलं समार्पयत् ।
पादसंवाहनं चांगमर्दनं च व्यधादृषेः ।। ७ ।।
ऋषिस्तस्य तु कुशलं पप्रच्छ प्रीतमानसः ।
सोऽपि तवाऽऽगमादत्र कुशलं मे उवाच तम् ।। ८ ।।
यत्र साधोश्चरणौ वै पूज्येते श्रद्धया गृहे ।
तद्गृहं दिव्यवेति श्मसानं तु तदन्यकम् ।। ९ ।।
अद्य मे कुशलं सर्वं नष्टं त्वकुशलं मम ।
धन्योऽस्मि दैवपुरुषो राजते यद्गृहेऽद्य वै ।। 3.221.१ ०।।
इत्युक्त्वा मौनमास्थाय वृषपर्वाणमाह सः ।
कुशलं परमं यत्तच्छाधि मां शरणागतम् ।। १ १।।
अथ लक्ष्मि वृषपर्वा स्मृत्वाऽनादिनरायणम् ।
उपादिदेश बहुधा शिवजयाय मुक्तये ।। १ २।।
शिवजयाऽऽकर्णय त्वं स्नेहः कृष्णे तु मोक्षदः ।
अस्नेहश्चापि मायायां निकृष्टतादिबुद्धितः ।।१ ३ ।।
स्नेहः कृष्णे तु जायेत तदुत्कृष्टत्वबुद्धितः ।
तदुत्कर्षो यथा परब्रह्म श्रीभगवान् स्वयम् ।।१४।।
सवितारम् सर्वधामाधिपः सतां पतिः ।
सर्वमुक्तपतिः सर्वैश्वर्यपतिः रमापतिः ।। १५।।
यावद्भगवतां कृष्णो भगवान् भगवत्तमः ।
सर्वोपरि चान्तरात्मा सर्वकर्मफलप्रदः ।।१६।।
अन्तर्यामी यमन्तरा किञ्चित् स्वतन्त्रमेव न ।
यदिच्छामन्तरा शुष्के पर्णेऽपि पवनो बली ।। १७।।
प्रवर्तते न वै चालनार्थं प्रेरक एव सः ।
स एव भगवानत्र पृथ्व्यां साधुस्वरूपवान् ।। १८।।
यथेष्टरूपवानास्ते भक्तमानसपूरकः ।
दिव्यो दिव्यचरित्रश्च सर्वथा दिव्यविग्रहः ।। १९।।
मोक्षदा हि क्रियास्तस्य सकला देहजा अपि ।
एवं यस्य हि माहात्म्यं विद्यते हृदये हरेः ।।3.221.२०।।
तस्य भक्तस्य वंशीयाः कुटुम्बिनश्च प्राक्पराः ।
दश दश स्वश्चेत्येकविंशतिरुद्धरन्ति वै ।।२१ ।।
गृह्णीयुस्ते गुणं तस्य भक्तस्य यदि सर्वथा ।
अहो चाऽस्मत्कुले कृष्णभक्तो जातो हि पावनः ।। २२।।
अस्मद्भाग्यं महत्तेन समुद्धारो भविष्यति ।
तत्कृतभक्तेः पुण्यं नो भविष्यति कुटुम्बिनः ।।२३।।
इत्येवं गुणमन्तारस्तरन्ति नात्र संशयः ।
अन्येऽपि गुणमन्तारः पुण्यभाजो भवन्ति च ।।२४।।
तटन्त्येव च संसारं धामाऽक्षरं प्रयन्ति ते ।
ये यो गुणप्रवक्तारो गुणग्राहिण एव ते ।।।२५।।
धन्यवादग्रहितारो यान्ति कृष्णस्य धाम ते ।
भक्तकथा भक्तगुणगानं भक्तस्य वन्दनम् ।।।२६।।
भक्तप्रशंसनं भक्तप्रसादो मोक्षदा इमे ।
भक्तस्य द्वेषकर्तारः सम्बन्धिनस्तथेतरे ।।२७।।
ये वा के वा प्रयान्त्येव निरयं याम्यनोदिताः ।
क्रोधनानिर्ष्युको मानी कपटी कामवानपि ।।२८।।
द्वेषी च निन्दकश्चैते प्रयान्ति निरयं ध्रुवम् ।
तान् दोषान् सम्परित्यज्य ये भजन्ति जनार्दनम् ।।२९।।
ते प्रयान्ति हरेर्धाम कृष्णस्नेहपरायणाः ।
भगवत्स्नेहसम्पूर्णा भगवत्सेवने रताः ।।3.221.३ ०।।
भगवद्गुणतुल्यैः सद्गुणैर्युक्ता भवन्ति हि ।
भगवद्गुणवान् भक्तो भवेदाश्रितमोक्षकृत् ।।३१ ।।
स्वधर्मं पालयन् रागाभावं सम्पादयँस्तथा ।
आत्मनिष्ठो हरिनिष्ठः स्नेही याति परं पदम् ।।३२।।
शुभे देशे समये वा जाग्रदादौ शुभाश्रये ।
अशुभे वा विपरीते भक्तस्तु देहमुत्सृजन् ।।३३।।
प्रयात्येव परं धाम कृष्णकृपानुमोदितः ।
अभक्तो वा हरेर्द्वेषी सतां द्वेषी विनिन्दकः ।।३४।।
धर्मादिशून्यको यो वै शुभे देशादिकेऽपि च ।
देहं त्यक्त्वापि यात्येव घोरं यमालयं सदा ।।।३५।।।
अभ्यस्ता या मतिश्चान्ते गतिर्जायेत तादृशी ।
शोभनोऽशोभनो मृत्युर्न हेतुः सदसद्गतौ ।।३६।।
भक्तस्योर्ध्वगतिश्चास्ति तद्भिन्नस्य तु दुर्गतिः ।
सर्वदर्शी गुरुः कृष्णनरायणः कृपाप्रभुः ।।३७।।.
भक्तं निजं नयत्येव धामाऽक्षरं न संशयः ।
यद्वा भक्तो निजनारायणस्योपासनाबलात् ।।३८।।
भजन् कृष्णं स्वयं धामाऽक्षरं याति स्वतन्त्रकः ।
ईशवत् स समर्थोऽस्ति ब्रह्माण्डानां लयेऽलये ।।३९।।
किंमात्रमस्य देहस्य धारणं त्यजनं च वा ।
एतादृशश्च भक्तोऽत्र भूतले खलु दुर्लभः ।।3.221.४०।।
भाव्यं तादृशभक्तेन न्यूनता यत्र नो भवेत् ।
भाव्यं तादृशविज्ञेन स्नेहोऽन्यत्र न वै भवेत् ।।४१ ।।
भाव्यं तादृशव्रतिना पातिव्रत्यं हरौ भवेत् ।
भाव्यं तादृशगुणिनाऽक्षरब्रह्मगतिर्भवेत् ।।४२।।
भाव्यं तादृशदिव्येन मायालोकोर्ध्वदृष्टिना ।
मुक्तकोटौ भवेद्वासः शाश्वतानन्दवर्षणः ।।४३।। ।
तदेव कुशलं शिवजयाऽन्यत् कुशलेतरत् ।
शृणु सर्वकुशलानि श्रुत्वा तानि समाचर ।।।४४।।
समयो यस्य हर्यर्थः प्रातः सायं तथाऽपरः ।
पूजनं यत्र कृष्णस्य समयः कुशलो हि सः ।।४५।।
गृहे यस्य हरेर्मूर्तिश्चापणे मन्दिरे भुवि ।
क्षेत्रे वाट्यां समुद्योगे स देशः कुशलो मतः ।।४६।।
या क्रिया तु श्रीकृष्णार्था साध्यर्था च सुरार्थिका ।
आत्मार्था चापि मुक्त्यर्था सा क्रिया कुशला मता ।।४७।।
यः संगः खलु सत्संगो धर्मज्ञानसुखावहः ।
वासनानाशकृत् कृष्णे स्नेहकृत् कुशलो हि सः ।।४८।।
यो मन्त्रो मोहहा ज्ञप्तिप्रदः प्रकाशकृद्धृदि ।
कृष्णनामयुतो दिव्यः पापघ्नः कुशलो हि सः ।।४९।।
दीक्षा या ब्रह्मपददा पावनी पापनाशिनी ।
ज्ञानकरी कृष्णपातिव्रत्यदा कुशला हि सा ।।3.221.५०।।
ध्यानं यच्छान्तिदं मायादुःखोद्वेगादिनाशकम् ।
शाश्वतानन्ददं दिव्यभावदं कुशलं तु तत् ।।५१ ।।
यो गुरुर्दिव्यताधायकस्तथा दोषनाशकृत् ।
तारकः क्षालको मोक्षे हितकृत् कुशलो हि सः ।।५२।।
या माता श्रीकृष्णदुग्धामृतपानप्रकारिणी ।
भक्तिपुष्टिकरी मोक्षदर्शिनी कुशला तु सा ।।।५३।।
यः पिता धर्मकर्मादिपालनोद्योगशिक्षकः ।
ब्रह्मलोकमहामार्गपालकः कुशलो हि सः ।।५४।।
यो भ्राता मुक्तिदं कर्म बिभर्ति कारयत्यपि ।
ददाति भ्राजनं दिव्यं मोक्षदं कुशलोऽपि सः ।।५५।।
या स्वसा भोजनं भ्रात्रे ददाति ब्रह्मणेऽर्पितम् ।
ब्रह्ममुक्तिप्रदाऽऽशीर्वादप्रदा कुशला हि सा ।।५६।।
या पत्नी श्रीहरेर्योगप्रदायिनी तु सेविका ।
कृष्णबन्धनकर्त्री श्रीप्रदा सा कुशला मता ।।५७।।
यः पुत्रस्तारयेत् कृष्णभक्त्या स्वपितरं व्रतैः ।
प्रसन्नतामर्जयेच्च पितुः स कुशलो मतः ।।५८८।।
यः पतिः सम्प्रदद्याद्वै ब्रह्मानन्दं सुभक्तिमान् ।
ब्रह्मरसं पाययोन्निर्वाणदं कुशलो हि सः ।।५९।।
कुटुम्बिनस्तु ये मायां काटवीं दुःखदायिनीम् ।
त्याजयेयुर्दापयेयुर्मुक्तिं ते कुशलाः सदा ।।3.221.६०।।
प्रजाराजादयस्तद्वन्मोक्षे ये तु सहायिनः ।
अमोक्षणात्तु व्यावृत्ताः सर्वे ते कुशला मताः ।।६१ ।।
गुणा ये सुखदाः साधुसेवाप्रदा हरिप्रदाः ।
अन्यानन्दप्रदा मोक्षकरास्ते कुशला मताः ।।६२।।
याः सम्पदो हर्यर्थाः साध्वर्थाः पुण्ययोगदाः ।
परोपकारलाभार्था मोक्षदाः कुशला मताः ।।६३।।
स्मृद्धयो यास्तु यज्ञार्था देवार्था दानधर्मदा ५ ।
भक्तार्थाश्चापि गुर्वर्था दिव्यास्ताः कुशलाः सदा ।। ६४।।
गोमहिष्यो वृषभाश्वा गजा यानानि दासिकाः ।
कृष्णार्था यस्य साध्वर्था मोक्षदाः कुशलास्तु ताः ।।६५।।
यो देहश्च मनो वाणीन्द्रियाणि वैभवादयः ।
हर्यथा यस्य साध्वर्था मोक्षदाः कुशला हि ते ।।६६।।
याः शय्याः सुमृद्व्यश्चापि स्वर्णपात्राणि हीरकाः ।
रत्नरूप्यमणिर्द्रव्यं कृष्णार्थं कुशलं तु तत् ।।६७।।
यदानन्दाश्च संभोगा उत्सवाः सुप्रसंगकाः ।
हर्यर्था यस्य साध्वर्था मोक्षदाः कुशला हि ते ।।६८।।
येऽभ्यासाश्च कला विद्या विज्ञानं ज्ञातृतोत्तमा ।
आविष्काराश्च हर्यर्थाः साध्वर्थाः कुशलास्तु ते ।।६९।।
आयव्ययौ तु हर्यर्थौ साध्यर्थौ मोक्षमार्गिणौ ।
मायाबन्धक्षपणकौ दिव्यौ तौ कुशलौ मतौ ।।3.221.७०।।
दानं व्रतं च नियमा आचारो लोकसम्मतिः ।
आश्रमश्च पद्धतिश्च हर्यर्थाः कुशलास्तु ते ।।७१ ।।
धर्मार्थकाममोक्षाश्च हर्यर्पितास्तु ये सदा ।
यस्य पुमर्थरूपास्ते मोक्षदाः कुशलाः सदा ।।७२।।
शासनं दीनता दारिद्र्यं च वनेचरत्वकम् ।
महाप्रासादवसतिर्हर्यर्थाः कुशलास्तु ते ।।७३।।
व्यापारा यस्य कृष्णार्था जाग्रत्स्वप्नसुषुप्तिषु ।
तुर्यायां ब्रह्ममुक्तौ च मोक्षार्थाः कुशलास्तु ते ।।७४।।
अतिस्निग्धाः साधवश्च हरिश्च यस्य सन्ति वै ।
मोक्षार्थं च समारंभाः कुशलं तस्य सर्वथा ।।७५।।
भक्तिर्यस्य सदा गेहे हृदये च कुटुम्बिषु ।
हरौ साधौ मोक्षमार्गे कुशलं तस्य सर्वथा ।।७६।।
यस्य गेहे हरेः पूजा साधूनां स्वागतं तथा ।
देवानां च सतीनां च कुशलं तस्य सर्वथा ।।७७।।
यस्य गेहे हरेर्नित्यं प्रसादश्चैव भोजनम् ।
विघसाशित्वमुत्कृष्टं कुशलं तस्य सर्वथा ।।७८।।
हर्यर्थं कृतसर्वस्वं चात्मनिवेदितात्मकम् ।
निष्कामभक्तियोगश्च कुशलं तस्य सर्वथा ।।९५।।।
मायादृष्टिर्न वै यस्य दिव्यदृष्टिः शुभा सदा ।
सर्वथा गुणग्राहित्वं कुशलं तस्य सर्वथा ।।3.221.८०।।
साधुवाक्ये हरेर्वाक्ये विश्वासस्तस्य पालनम् ।
मोक्षार्थे सर्वयत्नश्च कुशलं तस्य सर्वथा ।।८ १ ।।
विश्वासो वरणं न्यासः कार्पण्यं स्थिरता हरौ ।
दास्यं रौच्यं भवेद् यस्य कुशलं तस्य सर्वथा ।।८२।।।
वच्म्यथाऽकुशलान्यत्र यानि हानिकराणि वै ।
नास्तिकत्वमधर्मित्वं भक्तिशून्यत्वमुद्व्रतम् ।।८३।।
निन्दनं द्रोहकरणं हिंसा चाऽकुशलानि वै ।
अभक्ष्यभक्षणपानं दिनवन्ध्यत्वयापनम् ।।८४।।
कुसंगपापिसंगश्च मोहाभिमानगर्वताः ।
परदुःखप्रदायित्वं सदैवाऽकुशलानि वै ।।८५।।
परस्त्रीलम्पटत्वं च परद्रव्याभिकांक्षिता ।
पैशुन्यं चापि कापट्यं सदैवाऽकुशलानि वै ।।८६।।
धर्मभक्तिविहीनत्वमात्मसाधनवर्जिता ।
अज्ञानं मायिको मोहः सदैवाऽकुशलानि वै ।।८७।।
तृष्णेर्ष्याभयलोभाश्च सत्क्रियावर्जनं तथा ।
कर्मानुबन्धिगमनं सदैवाऽकुशलानि वै ।।८८।।
एवं विदित्वा सततं विधेहि कुशलानि वै ।
त्यजाऽकुशलानि शिवजय यास्यसि मोक्षणम् ।।८९।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
जप मन्त्रं रट नाम हरेकृष्ण हरे हरे ।।3.221.९०।।
मायां तीर्त्वा ब्रह्मलोकं परं पदं प्रयास्यसि ।
इत्युक्त्या वृषपर्वा संगृह्य पूजां ययौ वनम् ।।९१ ।।
भेजे लक्ष्मि शिवजयोऽच्युतं मां पुरुषोत्तमम् ।
सर्वं व्यधात् कुशलं वै तत्याजाऽकुशलानि च ।।९२।।
महाभागवतो जातो ध्यानेऽर्पणे च पूजने ।
अन्ये शिल्पिवराश्चास्य गृहे भजन्ति माधवम् ।।९३।।
सत्संगं ते प्रकुर्वन्ति व्रतोत्सवान् महत्तमान् ।
अथैकदा तु द्वादश्यां .प्रातर्व्रतोत्तरं तु ते ।।९४।।
चक्रुर्मे पूजनं रात्रौ जागरणोत्तरं तथा ।
उद्यापनं प्रचक्रुश्च कीर्तनं नर्तनं तथा ।।९५।।
तत्राऽहं प्रादुरभवं दिव्यतेजाश्चतुर्भुजः ।
श्रीकान्तं मां हरिं वीक्ष्य जहृषुः परितोऽपि ते ।।९६।।
पुपूजुर्मां हृदयोत्थैः प्रेमाक्तवस्तुभिस्तदा ।
मोक्षं ते चार्थयामासुस्तथैत्युक्त्वा तिरोभवम् ।।९७।।
अथ कालान्तरे शिवजयो भक्तसमन्वितः ।
देहं त्यक्त्वा ययौ धामाऽक्षरं मत्पार्षदाहृतः ।।९८।।
एवं लक्ष्मि मम भक्ता यान्ति धामाऽक्षरं मम ।
भजनात् पूजनादात्मनिवेदनात् समागमात् ।।९९।।
सतां योगात् प्रयान्त्येव दिव्या दिव्यं परं पदम् ।
सुश्रवाः पाठकाश्चापि प्रयान्ति श्रेयसं परम् ।। 3.221.१००।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वृषपर्वनामर्षियोगेन प्रासादकारस्य शिवजयस्य मोक्षणमित्यादिनिरूपणनामैकविंशत्यधिकद्विशत-
तमोऽध्यायः ।। २२१ ।।