लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः २०९

विकिस्रोतः तः
← अध्यायः २०८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २०९
[[लेखकः :|]]
अध्यायः २१० →

श्रीपुरुषोत्तम उवाच-
शृणु नारायणीश्रि त्वं हूणभक्तस्य सत्कथाम् ।
नाम्ना सारंगसंज्ञस्य भूधरीग्रामवासिनः ।। १ ।।
अरण्ये भूधरीग्रामे सौराष्ट्रे भक्तराण्मम ।
कुटुम्बसहितो हूणजातीयो वर्तते रमे ।। २ ।।
करोति स्नानमाद्यं च प्रपूज्य मां ततः परम् ।
महिषीमण्डलं नीत्वा चारणार्थं तु शाद्वले ।। ३ ।।
घासारण्ये प्रयात्येव सायं गृहं प्रयात्यपि ।
अरण्ये सन्ति सिंहाश्च व्याघ्राश्च भल्लुका अपि ।। ४ ।।
वृकाश्च द्वीपकाश्चापि हिंस्रा वै प्राणिनोऽपरे ।
व्याघ्राः सिंहा धर्षयन्ति क्वचिद् गोमहिषीवृषान् ।। ५ ।।
मारयित्वा भक्षयन्ति त्रासदा दुःखदा हि ते ।
हूणः सारंगनामा च पञ्चाशन्महिषीधनः ।। ६ ।।
घासेषूत्तममिष्टेषु महिषीश्चारयत्ययम् ।
अथ मध्याह्नसमये पार्श्वद्रुषण्डमध्यतः ।। ७ ।।
कर्मद्यरण्यमार्गेण सिंहाः पञ्च समाययुः ।
महिषीणां घासचारवृत्तीनां मण्डलोपरि ।। ८ ।।
निपेतुः सहसाऽकस्मात् सिंहाः पञ्चैव शब्दिताः ।
बलिनश्चातिपुष्टाश्चाऽप्रधृष्याः क्षुद्रुडन्विताः ।। ९ ।।
अकस्मात्ता महिष्योऽपि पृष्ठबिन्दुं विधाय च ।
परितो मुखचक्रं संरक्ष्याऽपत्यानि मध्यके ।। 3.209.१० ।।
क्रुधा प्राणप्ररक्षार्थं भयेन मण्डलीकृताः ।
संभूय ग्रामरचनां विधाय चक्रिरेऽवनम् ।। ११ ।।
सिंहा महिषीग्रामं वै दृष्ट्वा प्राप्य भयं द्रुतम् ।
पश्चाद् विवृत्य ते दूरे मुमुचुर्वै मुहुर्मुहुः ।। १२।।
कुगन्धिवातनिवहान् पशूनां भयहेतवे ।
येन स्वमण्डलाद् भूत्वा पृथक् चेद् विद्रवेत् तदा ।। १३ ।।
सिंहास्ता धर्षयेयुश्च मारयेयुः स्वभोजनम्।
तथा चक्रुर्गर्जनाश्च दर्शयामासुरुग्रताम् ।। १४।।
तथापि ता महिष्यस्तु सार्थाद् बहिर्न निर्ययुः ।
एवमेव स्थितौ सिंहा गर्जन्त्येव भयंकरम् ।। १५।।
श्रुत्वा चान्ये दश सिंहाश्चाययुर्भक्ष्यहेतवे ।
चक्रकं परितश्चक्रःु सिंहास्ते दशपञ्च च ।। १ ६।।
महिष्यस्तु समग्रास्ताः प्रतिचक्रे यथास्थिताः ।
न द्रवन्ति निस्सरन्ति नाप्नुवन्ति न ताश्च ते ।। १७।।
एवमेवाऽभवत् सायं सिंहा दूरे भवन्ति न ।
अथ सारंगहूणश्च प्रजज्वाल तदाऽनलम् ।।१८।।
महिषीणां परितश्च समिधां सञ्चये पृथक् ।
वह्निभयेन सिंहाश्चेद् दूरे यान्तीति चिन्तया ।। १९।।
तथापि क्रूरकालास्ते दूरे याता न सर्वथा ।
परितस्ते भ्रमन्त्येव मारणार्थं द्रवन्ति च ।।3.209.२०।।
निशामुखं समापन्नं साहाय्यस्तत्र नास्ति च ।
रात्रौ सिंहबलं चाति जायते तमसि वृते ।।२१ ।।
महिषीणां विनाशः स्यात् किं कर्तव्यं विपद्भुवि ।
विना नारायणं कृष्णं सहायदो न विद्यते ।।२२।।
रक्षको भगवानेव महापत्काल आगते ।
मत्वैवं तेन वै लब्धं मन्त्रं जजाप तन्मयः ।।२३।।
लोमशाद् यो मन्त्रवरः प्राप्तोऽश्वपट्टतीर्थिना ।
तेन पुरा च तं मन्त्रं जजाप हूणभक्तराट् ।।२४।।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।
अष्टोत्तरशतवारं जप्त्वा नेमेऽम्बरे हरिम् ।।२५।।
अनादिश्रीकृष्णनारायण विष्णो जगद्गुरो ।
बालकृष्ण हरेकृष्ण रक्ष रक्षय मामिह ।।२६।।
शरणागतसंत्रातः पाहि सिंहापदस्त्विह ।
अरण्ये त्वां विना कृष्ण रक्षकोऽन्यो न विद्यते ।।२७।।
हरेकृष्ण बालकृष्ण शीघ्रमायाहि रक्ष नः ।
अन्धकारे वर्धमाने मृत्युर्नः स्यान्न संशयः ।।२८।।
भक्तोऽस्मि चेत्तव कृष्णनरायण प्ररक्षय ।
प्राणिनां जायते मृत्युः क्वापि नैवाऽत्र संशयः ।।२९।।।
किन्तु कृष्ण प्रसह्याऽत्र देहानां नखभेदनैः ।
महिषीणां त्वकालेऽत्र मृत्युर्योग्यो न मे मतः ।।3.209.३ ०।।
यासां दुग्धं हि भगवन् पीयते प्रत्यहं त्वया ।
प्रातर्वै पूजने कृष्ण नैवेद्ये दिवसे निशि ।।३१।।
यद्घृतेन प्रदीपंते कारयामि निशामुखे ।
तासां त्वं रक्षणं चेन्न करोषि निर्दयो नु किम् ।।३२।।
यासां सुमधुरं चापि पिच्छलं दधि चोत्तमम् ।
आस्वादयसि कृष्ण त्वं कथं नैव प्ररक्षसि ।।३३।।
शीघ्रमायाहि रक्षार्थं नो चेद् भक्तस्तवाऽस्मि यः ।
स एव प्रथमं प्राणाँस्त्यक्ष्यामि पशुहेतवे ।।३४।।
आश्रितानां रक्षणं वै कार्यं प्राक् स्वामिना सदा ।
स्वामिनाशे ततो नाशः स्वामिदोषाय नेष्यते ।। ३५।।
इमा महिष्यो मां कृष्ण वीक्षन्ति रक्षकं प्रति ।
मयि कृष्ण हृदये त्वं स्थितः सन् किन्न पश्यसि ।।३६।।
पश्य पश्य हरे कृष्ण महापत्पतिता इमाः ।
भक्षको भक्षक एव मास्तु चास्त्वपि रक्षकः ।।३७।।
इत्युक्त्वाऽश्रूणि लक्ष्मि संमुमोच भक्तराण्मम ।
सारंगहूणो दीर्घं वै श्वासं मुमोच निस्पृहः ।।३८।।
मृत्युं गता वयं चेति मत्वा रुरोद वै क्षणम् ।
सिंहा बलं प्रकुर्वन्ति दूरे वह्निभयात् स्थिताः ।।३९।।
सारंगो वह्निबलवान् वह्निकाष्ठानि चाभितः ।
प्राज्वाल्याप्यभिप्राज्वाल्य निक्षिपति स्थले स्थले ।।3.209.४० ।।
यावद्बुद्धिबलं यत्नः कर्तव्यः प्राणरक्षणे ।
मत्वैवं कुरुते यत्नं विष्णोरिच्छा बलीयसी ।।४१ ।।
हस्ते कृत्वा ज्वलत्काष्ठं भ्रमँश्च परितस्तदा ।
रक्षार्थं स्वमहिषीणां भजनं कुरुते ह्यति ।।४२।।
 'हरे कृष्ण हरे कृष्ण बालकृष्ण श्रियः पते ।
हरे विष्णो हरे जिष्णो कृष्णकृष्ण रमापते' ।।४३।।
इत्येवं चोर्ध्वकण्ठेन चक्रे मे कीर्तनं रमे ।
अथाऽह तस्य रक्षार्थं महिषीरक्षणाय च ।।४४।।
द्रागेव सिंहराजस्य रूपं केसरिणो महत् ।
सशुण्ढं सन्दधारैव येन बिभ्यति वै द्रुतम् ।।४५।।
सिंहा व्याघ्रा गजाश्चापि शरभाः किमुत मृगाः ।
अतिक्रूरं विकरालं शुण्ढादण्डधरं नवम् ।।४६।।
महाकेसरिराजस्य रूपं धृत्वा गतोऽभवम् ।
गर्जनां मेघवत् कृत्वाऽरण्यं पशूनकम्पयम् ।।४७।।
सिंहास्ते मां महासिहं विद्युद्भाचक्षुषं नरम् ।
समस्तसिंहजातीनां राजानं च भयंकरम् ।।४८।।
शतोर्ध्वबलिनं श्रुत्वा भयं चापुर्महावने ।
अथाऽहं सहसाऽरण्यादुत्प्लुत्याऽऽकाशमेव तु ।।४९।।
शतहस्ताऽम्बरं विध्वा न्यपतं सिंहसन्निधौ ।
तावत् सिंहा महाभीतिनष्टधैर्या ममाऽग्रतः ।।3.209.५०।।
सहसा मृत्युरूपस्य मुखात्ते समुपाद्रवन् ।
अरण्ये विविशुः सर्वे मद्भयेन मृगाधिपाः ।।५१ ।।
सिंहाधिपोऽहं सहसा विद्राव्य तान् मृगाधिपान् ।
धृतमानववेषोऽहं तूर्णमभवं गोचरः ।।५२।।
प्रसन्नवदनः शान्तः शंखचक्रगदाब्जवान् ।
सान्त्वयन् भक्तमहिषीर्भक्तं च सान्त्वयन्नपि ।।५३।।
अन्तिकं प्रययौ सारंगोऽपि दृष्ट्वा हरिं च माम् ।
मुमुदे प्राप्तजीवश्च तुष्टाव परया मुदा ।।५४।।
पपात पादयोश्चापि महिषीर्निर्भयै रवैः ।
बोधयामास सर्वाश्च महिष्यो निर्भया अपि ।।५५।।
मुमुदुः सुखवत्यश्च जातास्तत्र नरद्वयात् ।
प्राप्तधैर्याः समभवन्नथ सारंगभक्तराट् ।।५६।।
लक्ष्मि दुग्धं प्रदुह्यैव पाययामास मे तदा ।
पपौ चाऽहं महिषीणां सर्वासां दुग्धमुत्तमम् ।।५७।।
ततः सारंगभक्तेन साकं महिषीभिस्तथा ।
शनैः शनैरगच्छं तद्धोषं भूधरीगोपुरे ।।५८।।
आप्रातस्तत्र मुदितो न्यवसं भक्तपूजितः ।
भक्तानिकया तत्पत्न्या सेवितोऽन्यैश्च हूणकैः ।।५९।।
नामसंकीर्तनाद्यैश्च पादसंवाहनादिभिः ।
जलार्पणैस्तथा चान्यमहोत्सवैः प्रतोषितः ।।3.209.६०।।
अथ प्रातः साधुरूपोऽभवं सूर्यप्रभागमे ।
सेवितस्तैः समस्तैश्च भोजनैः पुष्पगन्धिभिः ।।६१ ।।
पृष्टोऽहं हूणभक्तैश्च कल्याणाय तथा रमे ।
पापप्रणाशनार्थाय तेभ्यश्चोपादिदेश च ।।६२।।
शृण्वन्तु मम भक्ताः स्थ सर्वेऽपि स्थूलबुद्धयः ।
तथापि श्रेयसे यत्नं कुर्वन्तः सूक्ष्मबुद्धयः ।।६३।।
भवन्तः खलु विद्यन्ते मोक्षधीः सूक्ष्मधीर्हि सा ।
स्वश्रेयसे य उद्युक्तास्ते वै सुसूक्ष्मबुद्धयः ।।६४।।
लौकिकव्यवहारेषु निपुणाश्चेत् स्वश्रेयसे ।
सुप्ता यदि ते मूर्खा वै स्थूलधियो मताः सदा ।।६५।।
मायावृता जडा मूर्खाः कथ्यन्ते पशुसदृशाः ।
अपि राजा प्रधानो वा गुरुर्वा शिक्षकोऽपि वा ।।६६।।
अधीतविद्यो वा स्याच्चेद् यतते न स्वमुक्तये ।
स एव स्थूलबुद्धिर्वै मूर्खो याम्यं गमिष्यति ।।६७।।
मम भक्तौ वर्तमाना दिव्यास्ते मानवाः स्त्रियः ।
अभक्ता ये ते तु बोध्या निरयस्थाः पशुप्रभाः ।।६८।।
मम भक्ताः स्वनेत्राभ्यां लभन्ते दर्शनं मम ।
अप्राकृते हि तन्नेत्रे बाध्ये मद्योगतः सदा ।।६९।।
भक्तचित्ते हरिश्चाऽहं वसामि दिव्यमेव तत् ।
भक्तानां वर्ष्म दिव्यं चेन्द्रियाणि दिव्यकानि च ।।3.209.७०।।
अन्तःकरणं दिव्यं च क्रिया दिव्याः सदा तथा ।
अहमक्षरधामस्थो वसामि भूतले क्वचित् ।।७१ ।।
क्वचिदत्र समायातो भवामि भक्तसदृशः ।
तथापि दिव्य एवाऽस्मि भवन्तो दिव्यमूर्तयः ।।।७२।।
दिव्याश्च महिष्यः सर्वा भक्ता दिव्या नराः स्त्रियः ।
सर्वात्मात्मा स्वतन्त्रोऽहं सर्वशक्तिपतिः प्रभुः ।।७३।।
परात्परतरश्चास्मि राधालक्ष्मीपतिर्हरिः ।
सर्वकारणरूपश्च व्यतिरिक्तश्च धामनि ।।७४।।
स एवाऽहं साधुरूपो भवाम्यत्र सुगोचरः ।
मम योगेन वल्लव्यो हूण्यश्च दिव्यतां गताः ।।७५।।
वश्च बाह्यान्यान्तराणि करणान्यखिलान्यपि ।
तादात्म्यं प्राप्य मां साक्षात्पश्यन्ति दिव्यकानि तत् ।।७६।।
अमायिकेन दृश्योऽहं नान्यथा तु कदाचन ।
कृपया च स्वयं भक्ता ग्राह्योऽस्मि नेतरेण वै ।।७७।।
मायातत्त्वानि सर्वाणि दिव्यतां यान्ति मत्स्पृशेः ।
पञ्चविंशो हि जीवात्मा मुक्तो भवति मद्युजेः ।।७८।।
षड्विंशोऽहं च भगवान् पुरुषोत्तम एव यः ।
वशे भवामि भक्तस्य सर्वावतारकारणम् ।।७९।।
मायागुणरहितोऽस्मि दिव्यमद्गुणमण्डितः ।
ईश्वराद्यैः पूजितश्च भक्तमध्ये च तादृशः ।।3.209.८० ।।
मां भजित्वा सेवयित्वा मत्वा दिव्यं नरायणम् ।
यान्ति धामाऽक्षरं भक्ता दिव्यपार्षदसेवितम् ।।८ १।।
स्त्रियो मद्योगमापन्ना भवन्ति दिव्यविग्रहाः ।
गावो महिष्यो वृषभा मद्योगे दिव्यतां गताः ।।।८२।।
कन्यका मम योगेन ऋषयः साधवस्तथा ।
कुमारा अपि गोपाला दिव्यतां मत्समा गताः ।।८३।।
अपि ब्रह्मप्रियाः पत्न्यो वृक्षाश्च वल्लिकास्तथा ।
मम योगेन दिव्यास्ता मत्समाः परिवर्तिताः ।।८४।।
मां भजन्तु ततो नित्यं पाययन्तु जलं पयः ।
फलं मूलं च कन्दं च मिष्टान्नं पत्रमित्यपि ।।८५।।
प्रातर्भक्तिं प्रकुर्वन्तु मध्याह्ने सायमित्यपि ।
रात्रौ दिवा च मां कृष्णं स्मरन्तु सर्वकर्मसु ।।८६।।
साधूनां सेवनं नित्यं कुर्वन्तु चान्नवारिभिः ।
भजनं कीर्तनं मे च कुर्वन्तु नित्यमुत्सुका. ।।८७।।
मुक्तिमन्तेऽक्षरे लोके दास्ये गोपीपतिस्त्वहम् ।
स्वर्गभोगाँस्तु निपुणान् सकामेभ्यः सुखावहान् ।।८८।।
इत्युक्त्वा च महाशंखं दत्वा यद्धोषतः सदा ।
हिंस्रा दूरं प्रयास्यन्तीत्युक्त्वा लब्ध्वा प्रपूजनम् ।।८९।।
तिरोऽभवं वनाल्लक्ष्मि ते च सारंगहूणकाः ।
सुखिनश्चाऽभवँश्चान्ते धामाऽक्षरं प्रपेदिरे ।। 3.209.९० ।।
एवं ये वनवासा वा ग्रामवासाः पृथग्गृहाः ।
दीना वापि नरा नार्यो ये भजन्ते हरिं तु माम् ।। ९१ ।।
तानुद्धरामि कष्टाद्वै स्मृतमात्रः प्रभुस्त्वहम् ।
भुक्तिं मुक्तिं ददाम्येवाऽऽनन्दितां शाश्वतीं स्थितिम् ।। ९१।।
पठनाच्छ्रवणादस्य स्मरणादपि पापिनाम् ।
पापनाशो भवेन्मुक्तिर्भवेद् रक्षा च शाश्वती ।। ९२ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने सारंगनामकस्य हूणभक्तस्य महिषीपशुधनस्याऽरण्ये सिंहकृतापदः श्रीहरिणा रक्षणं कृतं मोक्षश्चेत्यादिनिरूपणनामा नवाधिकद्विशततमोऽध्यायः ।। २०९ ।।