सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १९५

विकिस्रोतः तः
← अध्यायः १९४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १९५
[[लेखकः :|]]
अध्यायः १९६ →

शृणु नारायणीश्रि! त्वं कथां पापविनाशिनीम् ।
सौराष्टे मायूरपुर्यां मत्स्यायाः सरितस्तटे ।। १ ।।
महोद्याने तदुद्यानपालो माली कुटुम्बवान् ।
हर्षुलाख्यो हरेर्भक्तो धर्मकर्मपरायणः ।। २ ।।
स्नानपूजनदानादितत्परोऽभूत् स्वशक्तितः ।
ह्रर्षुलस्याऽभवत् पत्नी नाम्ना विद्रुमवल्लकी ।। ३ ।।
साऽपि भक्ताऽभवत् किन्त्वनपत्या शोकशालिनी ।
ओषधीनां प्रयोगैश्च तथा मन्त्रादिभिः शुभैः ।। ४ ।।
बहुधा मानताभिश्च नाऽभूत् सा गर्भशोभना ।
निराशा सा सन्निहितवार्धक्या तु यदाऽभवत् ।। ५ ।।
तदा पतिस्तदाशां च विहायाऽन्यां स्त्रियं शुभाम् ।
अर्धावस्थगतां पत्नीं चाकरोद् विधिरीतितः ।। ६ ।।
सा तु गर्भवती जाता नाम्ना तु चित्रपल्लवा ।
हर्षुलो हर्षमापन्नो भाविपुत्रस्य चिन्तनैः ।। ७ ।।
दानं धर्मं व्रतं पुण्यं करोति पुत्रवाञ्च्छया ।
सतां प्रपूजनं चापि सत्कारं फलभोजनैः ।। ८ ।।
करोति सर्वथा चाभ्यागतानामपि पूजनम् ।
आशीर्वादान् प्रगृह्णाति पुत्रार्थी श्रद्धयाऽन्वितः ।। ९ ।।
फलादिकं निजोद्यानाद् देवालयाय नित्यदा ।
प्रापयत्येव भक्तात्मा सेवते मन्दिरादिकम् ।। 3.195.१ ०।।
विद्रुमवल्लकी यावत् तथैव चित्रपल्लवा ।
पतिभक्तिमती चापि पापभीतियुताऽपि च ।।१ १ ।।
विद्रुमवल्लकी नित्यं स्वापमानं हि नित्यदा ।
मनुते ह्यनपत्यत्वाद् वार्धक्याश्च विशेषतः ।। १२।।
सगर्भा चित्रपल्ली तु मानमर्हति सर्वतः ।
सापत्न्यं हि महद्दुःखं विद्रुमाया उपस्थितम् ।। १३ ।।
तत्रापि पुत्रवत्याश्च सपत्न्या दुःखमुल्बणम् ।
मत्वा नित्यं चिन्तयति गर्भपातो भवेदिति ।। १४।।
कटुतीक्ष्णोष्णभावानि भोजनानि नवानि सा ।
कृत्वा स्वादयुतान्येव गर्भवत्यै ददाति हि ।।१५।।
तथापि गर्भपातो नाऽभवत्ततश्च सा पुनः ।
गर्भपातौषधं तस्यै भोजने प्रददात्यपि ।।१६।।
गर्भपातो न वै जातो मासाः पूर्णाः प्रसूतये ।
पुत्रजन्माऽभवन्माली हर्षुलो हर्षमाप्तवान् ।। १७।।
चित्रपल्ली प्रसन्नाऽभूच्छुष्का विद्रुमवल्लकी ।
हर्षुलोऽपि यथाशक्ति दानं ददौ द्विजातये ।। १८।।
फलपुष्पाम्बरायां च स्वर्णरूप्यकमूलिनाम् ।
गोदानं भोजनं चापि ददौ योग्याय साधवे ।। १ ९।।
जातकर्मादिकं चक्रे पुत्रवान् प्रेमविह्वलः ।
उद्याने तत आरम्य चाऽभ्यागतस्य वै कुटीम् ।।3.195.२० ।।
अकरोद्धर्षुलस्तत्रागतं चाभ्यागतं तु सः ।
अतिथिं वा सतीं साधुं सेवतेऽन्नफलादिभिः ।।२१।।
सत्संगं प्रकरोत्येव वार्धक्ये पुत्रलाभवान् ।
मोदते कीर्तनं नित्यं गायत्यपि हरेस्तथा ।।२२।।
मूर्तिं मे फलपुष्पाद्यैः पूजयत्येव भावतः ।
एवं पुत्रस्य वर्षं वै व्यतीतं सर्वथा शुभम् ।।२३।।
विद्रुमवल्लकी रुष्टा शोकातुराऽतिदाहतः ।
व्यचिन्तयद् विषदानं सुतस्येर्ष्याभिसंभृता ।।२४।।
विषमूलं खनित्वेयं कृत्वा रसं मनागपि ।
दुग्धपाने ददौ सा तु बालनाशाय पापिनी ।।२५।।
अथ श्रीभगवाँश्चाऽहं भक्तरक्षाकरो यतः ।
साधुरूपधरस्तस्या महीमानोऽभवं तदा ।।२६।।
हर्षुलस्य गृहे तत्रोद्यानेऽगच्छं यथाऽतिथिः ।
हर्षुलो मां मधुपर्कैस्तथा फलजलादिभिः ।।२७।।
मिष्टैः सत्कारयामास शुभान्नैश्चासनादिभिः ।
चित्रपल्ली प्रसन्ना च सिषेवे मां मुदान्विता ।।२८।।
विद्रुमवल्लिका त्वेका जानाति दुग्धपानके ।
विषमूलरसं दत्तं तेन बालो मरिष्यति ।। २९।।
साऽपि प्रसन्नमनसा साधुसेवापराऽभवत् ।
प्रतीक्षते कदा मृत्युर्भवेद् बालस्य पापिनी ।।3.195.३०।।
बालः सुप्तो दुग्धपानोत्तरं शान्त्या तु तत्प्रसूः ।
जानाति तेन साधोः सा सेवायां चिरमावसत् ।।३१ ।।
बालो विषप्रवेगेण विप्राणः समजायत ।
पर्यंके ह्यव नैवाऽन्ये जानन्ति हरिमन्तरा ।। ३२।।
सर्वे वै साधुसेवायां तत्पराश्च यदाऽभवन् ।
नन्दा विद्रुमवल्ली सा ययौ शौचार्थमित्यपि ।। ३३।।
तत्रैकां मृतगोधां सा गृहीत्वा कलशे तदा ।
पुत्रपर्यंकपार्श्वे त्वानाय्याऽक्षिपद्धि भूतले ।।३४।।
अथाऽन्ये नैव जानीयुस्तथाऽक्षिपद्धि सा शनैः ।
अथ दण्डं समगृह्याऽऽक्रोशं व्यधाद् बलादति ।।३५।।
धावन्तु चात्र धावन्तु गोधादष्टः सुतस्त्वयम् ।
गोधेयं दण्डघातैश्च ताड्यतेऽत्र मया पते ।।।३६।।
भगिनि द्रुतमागच्छ पुत्रो दष्टोऽनया त्विह ।
एवं गोधां मृतां चापि यष्ट्या सा ताडयत्यपि ।।३५।।।
विदधाति महाऽऽक्रोशं यथा शृण्वन्ति चाऽपरे ।
कोलाहलं परं श्रुत्वा मृषा तद्द्रोहनं ह्यपि ।।३८।।
साधुना सहिताः सर्वे धावमानाः सुतालयम् ।
ययुः प्राणवशा यद्वच्छ्रुत्वा दृष्ट्वा मृतं सुतम् ।।३९।।
रुरुदुश्चापि सर्वे ते माता तु कुररी यथा ।
विना पुत्रं यथा शोकवती ततोऽपि चाऽधिका ।।3.195.४०।।
प्राप्तपुत्रविनाशेन शोकमग्नाऽभवत् सती ।
पिताऽपि शोकमापन्नो रुरोद मुक्तकण्ठतः ।।४१।।
उद्याने पार्श्वतस्तत्र बहवः कर्षुकादयः ।
समाययुर्हि शोकार्त्ताः श्रुत्वा पुत्रस्य दंशनम् ।।४२।।
मृत्युं विलोक्य सहसा शोकसागरमज्जिताः ।
कपटे वर्तमानां च वेद्मि विद्रुमवल्लकीम् ।।४३।।
सापि भयं गता तत्र साधुश्चायं प्रतापवान् ।
यदि वेत्स्यति गरलं दत्तं विद्रुमवल्लया ।।४४।।
तदा मे प्राणनाशं वै पतिर्मे संकरिष्यति ।
इत्येवं भयमापन्ना साधोः पादौ प्रगृह्य सा ।।४५ ।।
शनैर्मर्दनसंज्ञां च करोत्यथापि संज्ञया ।
अंगुलीस्पार्शनभावैर्मम दोषोऽयमित्यपि ।।४६।।
विज्ञापयति रक्षार्थं मा प्रकाशं विधेहि च ।
मयाऽपि सा तदोक्ता वै साधुर्हितकरोऽस्म्यहम् ।।४७।।
सर्वेषां हितमेवाऽत्र करिष्ये पापवर्जितम् ।
मा शोकं पुत्रमृत्योश्च कुर्वन्तु साधुसेवकाः ।।४८।।
अहं शोकापनोदं वै कर्तुं शक्तोऽस्मि सर्वथा ।
बालं मृतं विद्यया च सञ्जीवन्या सजीवितम् ।।४९ ।।
कर्तुं शक्तोऽस्मि तस्माद्वै मा रुदन्तु सतांप्रियाः ।
गोधां चापि जीवयिष्ये लभन्तामत्र वै सुखम् ।।3.195.५ ०।।
इत्युक्त्वा सहसा चाऽहं कृत्वा मम करे जलम् ।
मन्त्रयित्वा मम नाम्ना मृतबालमुखेऽददाम् ।।५ १ ।।
जलस्य स्पर्शमात्रेण प्राणयुक्तोऽभवद्धि सः ।
जीवितः सहसा बालो निर्विषः समजायत ।।५ २।।
गोधाऽपि जलसंस्पर्शात् क्षिप्तात् सजीवनाऽभवत् ।
अथ सा मां नमस्कृत्य स्वर्गाद् विमानमागतम् ।।५३।।
समारुह्य ययौ गोधा देवी भूत्वा दिवं शुभम् ।
विलोक्यैतन्महाश्चर्यं हर्बुलाद्याः प्रभुं च माम् ।।९४ ।
मत्वाऽऽश्रयं परं चक्रुर्भक्तिं मन्त्र च जगृहुः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।९५।
भेजुर्मां सर्वभावेन ह्ययाचन्त क्षमां तदा ।
उत्सवं परमं चक्रुः सर्वे ते साधुसन्निधौ ।।९६।।
अहोरात्रमहं साधुर्नाम्ना सञ्जीवनायनः ।
उवास तद्गृहे रम्ये महोद्याने प्रसेवितः ।।५७।।
हर्षुलः स सिषेवे मां पुत्रायुष्यविवृद्धये ।
मया लक्षप्रवर्षाणि जीवत्विति वचोऽर्पितम् ।।५८।।
लक्षवर्षाणि पुत्रोऽपि नाम्ना सञ्जीवनः कृतः ।
आयुष्यं प्राप्तवान्मत्तः कृपा भक्ते ह्यनन्तिका ।।५९।।
चित्रवल्ली च सन्तुष्टा सिषेवे मां पुनः पुनः ।
देहमर्दनसेवाभिः पुत्राऽऽयुष्याऽतिहर्षिणी ।।3.195.६०।।
दुष्टा विद्रुमवल्ली चाऽप्यर्धरात्रे गते तु माम् ।
आगत्योवाच रहसि मामुद्धर कृपां कुरु ।।६ १।।
बालहत्या महत्पापं कृतं मया हि योषिता ।
ईर्ष्यया सापत्न्यभावैः क्षमस्व मा बहिः कुरु ।।६२।।
अप्रकाशं च मे पापं विनाशय जगत्पते ।
इत्युक्त्वा पादसंवाहं चक्रे सा देहमर्दनम् ।।६३।।
भक्तायाश्चापि पापस्य नाशार्थं वै दया कृता ।
मया दिव्यस्वरूपेण दिव्यदृष्ट्या विलोकिता ।।६४।।
स्पृष्टा दोर्भ्यां शरीरे सा तावत्तस्याः शरीरतः ।
बालहत्या मूर्तिमती निष्क्रान्ता वेपथुभृता ।।६५ ।।
मया सा जलदानेन शीघ्रं दग्धा लयंगता ।
विद्रुमवल्लिका तूर्णं निर्भया समजायत ।।६६।।
लक्ष्मीत्येवं मम भक्ता चित्रिका विद्रुमा तथा ।
हर्षुलस्तत्सुतश्चापि गोधा समुद्धृता ह्यघात् ।।६७।।
अविता रक्षिताश्चापि पोषिताश्च प्रतोषिताः ।
अथ प्रातः समुत्थाय लब्ध्वा सत्कारभोजनम् ।।६८।।
गन्तुमिच्छामि यावद्वै तावद्भक्तस्तु हर्षुलः ।
पप्रच्छ किं विधेयं त्वत्कृते कृष्णनरायण ।।६९।।
उपादिदेश तस्मै च नारीभ्यां चापि तत्र ह ।
सतां समागमः कार्यः सेवनीयो हरिस्तथा ।।3.195.७०।।
देशे काले विपरीते रक्षत्येव जनार्दनः ।
अनादिश्रीबालकृष्णः कृष्णनारायणोऽस्म्यहम् ।।७१।।
रक्षां करोमि भक्तानां क्षतौ धर्मस्य वै क्वचित् ।
सदोषस्यापि भक्तस्य दोषं ते गणयाम्यहम् ।।७२।।
सतां प्रसंगमाप्तस्य मम माहात्म्यवेदिनः ।
सर्वथा सेवकस्यापि दोषं न गणयाम्यहम् ।।७३।।
सतां प्रसंगात् पुण्यं वै जायते पापनाशनम् ।
अतश्च सर्वदा कार्यः प्रसंगः श्रीहरेः सताम् ।।७४।।
अवतारा ममाऽप्येवं स्मर्तव्या सर्वदा जनैः ।
तल्लीला जन्मभूभागाः स्मर्तव्यः पापनुत्तये ।।७५।।
देहान्तसमये यद्वा वैषम्ये देशकालयोः ।
स्मरणं तु सदादीनां पापहं मोक्षदं भवेत् ।।७६।।
ईर्ष्या नैव हि कर्तव्या परोत्कर्षाऽसहिष्णुना ।
हिंसा पापं भवेत् सर्वमिर्ष्यया निन्दनं मृतिः ।।७७।।
ततो याम्यप्रदेशानां यात्राऽपि दुःखदायिनी ।
तस्माद्भक्तैश्च भक्ताभिरिर्ष्या त्याज्या प्रयत्नतः ।।७८।।
कार्या प्रसन्नता नित्यं परो कर्षे सुखप्रदा ।
प्रसन्नोऽहं भवाम्येव परोपकारकर्तरि ।।७९।।
सापत्न्यं सुखदं नेयं नेतव्यं सुखदं तथा ।
पत्युः प्रियं प्रकर्तव्यं तेनाहं तुष्ट एव ह ।।3.195.८०।।
तस्माद्भक्तिमता भक्तिमत्या त्याज्यः स दुर्गुणः ।
ध्यातव्या मम मूर्तिश्च राधालक्ष्म्यादिसेविता ।।८१।।
ध्यायमाना न दृश्येत तथापि श्रद्धया मुहुः ।
ध्यातव्या हृद्ये नित्यं कृपां करोमि तं प्रति ।।८२।।
वश्यो भवामि तस्यैव यथेष्टं प्रददामि च ।
विवेकः स तु मन्तव्यो भक्तानां गुणदर्शनम् ।।८३।।
स्वस्मिन्नगुणवीक्षा च गुणग्राहित्वमिप्यपि ।
साधुना हरिणा प्रोक्तं ग्रहीतव्यं हितं तु तत् ।।८४।।
एवमाज्ञांकितो भक्तः प्रतिष्ठां महतीं लभेत् ।
श्रीहरेश्च सतां सेवापरा इन्द्रियवृत्तयः ।।८५ ।।
वर्तेरन् यस्य तस्याऽशु प्रसन्नता हरेर्भवेत् ।
तस्य तत्त्वानि सर्वाणि श्रीहरेः सम्प्रसंगतः ।।८६।।
पवित्राणि प्रजायन्ते नश्यन्त्यघादिकोटयः ।
मम भक्तिः पुष्टिमेति ततः प्राप्नोति वाञ्च्छितम् ।।८७।।
तस्माद् योज्यानीन्द्रियाणि श्रीकृष्णे मयि सत्सु च ।
साधुसंगः सदा कार्यः पावित्र्यमुक्तिसिद्धये ।।८८।।
कुसंगो नैव कर्तव्यो हिंसाद्रोहात्मकः क्वचित् ।
निन्दा नैव प्रकर्तव्या वीक्ष्य देहक्रियां सताम् ।।८९।।
तेन दृष्टिर्भवेद् दिव्या कृष्णे प्रीतिश्च वर्धते ।
सत्सु स्नेहो वर्धते च पुण्यं मोक्षं च विन्दति ।।3.195.९०।।
साक्षाज्जाते हरेर्योगे ह्यपूर्णतां न चिन्तयेत् ।
नराकृतौ दृढनिष्ठा मयि कार्या हि गोचरे ।।९१ ।।
मद्दर्शनादिनाऽऽत्मा वै मन्तव्यः पूर्णकामनः ।
मम प्रसंगः कर्तव्यः सर्वथा भक्तिवृद्धये ।।९२।।
एवंविधस्य भक्तस्य पूरयामि मनोरथान् ।
अलौकिकं निजैश्वर्यं बलाद्ददाम्यनिच्छते ।।९३।।
अतः प्रत्यक्षमासाद्य कृष्णं कान्तं पतिं प्रभुम् ।
सेवयित्वा पुरुषार्थाः साधनीयास्ततो हरेः ।।९४।।
रागद्वेषक्षयो यावन्न स्यान्नो वासनाक्षयः ।
तावदेकान्तभक्तत्वं न स्यान्मे परमात्मनः ।।९५।।
इन्द्रियाणां प्रवेगेण सुखेच्छा वर्तते तु या ।
सा सदा नाशयितव्या श्रीकृष्णे वै समर्पणात् ।।९६।।
कृत्वा प्रसंगं महतां हन्तव्या वासना खलु ।
कृष्णेतरपदार्थेच्छा नष्टा यया प्रजायते ।।०१७।।
ब्रह्मरूपः स वै भक्तस्तमहं संवृणोमि वै ।
ऐकान्तिकः स मे भक्तोऽसंख्यदेहिप्रमोक्षकृत् ।।९८।।
अन्तर्यामितया चाऽहं सर्वेच्छापूरकोऽस्मि च ।
सर्वकर्मफलादीनां दाताऽहं सम्पदामपि ।। ९९।।
यस्माद्देहाद्यदुत्पत्तिर्यत्कर्मोत्था तु निर्मिता ।
तं तु तस्माच्छरीराद्धि समुत्पाद्य च सञ्चितम् ।। 3.195.१०० ।।
तस्यैव पूर्वतश्चाप्तं यथाकालं ददाम्यहम् ।
मत्सेवायाः फलं श्रेष्ठं ददामि चातिरेक्यपि ।। १०१ ।।
ततः श्रद्धायुक्तजनैः सेवा कार्या सदा मम ।
पूरयामि तदभीष्टं प्रारब्धवर्जितं ह्यपि ।। १ ०.।।
आपद्यपि सतां सेवा कर्तव्या तु यथा मम ।
कल्पलतासमा साऽस्ति शुभा सर्वेष्टपूरिका ।। १ ०३।।
कलत्रपुत्रवित्तादेरधिकं सेवनं मम ।
पत्युः पत्न्यास्तथा पित्रोः सेवनं ह्यधिकं मम ।। १ ०४।।
सेवया मे सुखं सर्वं देहेऽत्र याति देहवान् ।
प्राप्नोति मम धामाऽपि देहान्ते चाऽक्षरं परम् ।। १०५ ।।
आजीवनं मतिर्यस्य यादृशी मयि जायते ।
गतिमाप्नोति चान्ते तां तथारूपां ददाम्यहम् ।। १० ६।।
साक्षात्प्राप्तिर्मम यस्य सेवा साक्षात् कृता यया ।
तस्मै तस्यै ददाम्येव गतिं परां मदाश्रयाम् ।। १ ०७।।
सर्वथा रक्षणं तेषां यमादिभ्यः करोम्यहम् ।
नाऽपमृत्युभयं तस्य कालकर्मभयं न वै ।। १ ०८।।
जगन्नियन्तुः कृष्णस्य मम भक्तो हि निर्भयः ।
तं नयामि प्रसन्नः सन् मम धामाऽक्षराऽभिधम् ।।१ ०९।।
देहान्ते मम भक्तो वै याति मे धाम सर्वथा ।
स्मृत्या वा मूर्छया वाऽपि पीडया वा प्रयात्यपि ।।3.195.१ १० ।।
हरेः सतां तु सम्प्राप्त्या ज्ञातव्यं श्रेय एव ह ।
श्रेयस्तस्य परं स्याद्धि लोकेऽत्रापि परत्र च ।। १११ ।।
अतो भक्तिः प्रकर्तव्या ममैव च सतामपि ।
हित्वा स्नेहं मदन्यस्मिन् भक्तत्वं दुर्लभं यतः ।। ११२।।
भक्तस्य लक्षणं दास्यं हित्वा चाप्यात्मनः प्रियम् ।
कर्तव्यं स्वामिनो नित्यं प्रियं रुच्यनुसारि च ।। ११ ३।।
अनुवृत्तिः पालनीया भुक्तिमुक्तिप्रदायिनी ।
एवं भजन्तु मां भक्ता दास्ये सर्वं निजेप्सितम् ।।१ १४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने हर्षुलाख्यभक्तस्य पूर्वया भार्यया द्वितीयपत्नीजन्यपुत्रस्य नाशे भगवता साधुरूपेण पुत्रोज्जीवनं बालहत्यापापनाशनं कृतमित्यादिनिरूपणनामा पञ्चनवत्यधिकशततमोऽध्यायः ।। १९५ ।।