लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १६६

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १६५ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १६६
[[लेखकः :|]]
अध्यायः १६७ →

श्रीनारायणीश्रीरुवाच-
अमृतं च विषं चेति द्वयं लोके प्रवर्तते ।
सुधाऽमृतं गरं विषं रस्यं तद्द्वयमेव हि ।। १ ।।
अरस्य तद्भवेद्वा न भवेच्चेत् कीदृशं हरे ।
यज् ज्ञात्वाऽयं लोकजनो विरज्येत दधीत वा ।। २ ।।
श्रीपुरुषोत्तम उवाच-
समुद्रमथने पूर्वं समुत्पन्नं महाविषम् ।
पपौ श्रीशंकरो योगी तमस्तुवन् महर्षयः ।। ३ ।।
अत्युग्रं कालकूटाख्यं संहृतं भगवन् हर ।
त्वया सुरक्षितं सर्वं प्रतिष्ठितं कृपानिधे ।। ४ ।।
समर्थोऽसि महेशोऽसि रक्षकोऽसि विषादन ।
सदा जय सुयोगिँस्त्वं ब्रह्माऽसि संगवर्जितः ।। ५ ।।
श्रुत्वैवं प्रहसन् शंभुर्विषं प्राहेतरन्मुनीन् ।
न विषं कालकूटाख्यं संसारो विषमुल्बणम् ।। ६ ।।
संहरेत् तद्विषं यस्तु स समर्थो ह्यनेन किम् ।
योगी सर्वप्रयत्नेन संहरेन्मायिकं विषम् ।। ७ ।।
मायिकस्य ये विषस्य हर्तारस्ते हि शंकरा ।
शं कुर्वन्ति गुरवो वा देवाः सन्तोऽतिनिर्मलाः ।। ८ ।।
योगिनो वा महात्मानः शान्तिदा मोक्षदा हि ते ।
संसारविषहर्तारः समर्थास्ते हि साधवः ।। ९ ।।
सनकाद्याः साधवस्ते शुकाद्या योगिनस्तथा ।
सत्यश्च ब्रह्मचारिण्यो वासनाक्षयकारिकाः ।। 3.166.१ ०।।
संसारोऽयं द्विविधोऽस्ति मूर्तश्चाऽमूर्त इत्यपि ।
मूर्तो वै दम्पतीरूपोऽमूर्तस्तु वासनात्मकः ।। ११ ।।
मिथ्याज्ञानं वासनायाः कारणं वासनाबलात् ।
गार्हस्थ्यं विषयाणां च भोगवत्त्वं सरागिणाम् ।। १ २।।
रागे द्वेषः सखारूपः साहाय्यदोऽप्यनिष्टके ।
एतौ द्वौ भवतो दोषौ प्रवर्तकौ निवर्तकौ ।। १ ३।।
सगुणा सा प्रवृत्तिश्च निवृत्तिश्च क्रियाकरी ।
सक्रियस्य भवेदाद्यक्षणसम्बन्ध उद्भवः ।। १४।।
वृद्धिः पुष्टिर्दृढता च ह्रासः क्षयो लयादिकम् ।
पुनः कर्मानुसारेणोद्भवो लयान्तको भवेत् ।। १५।।
एवं संसारचक्रेऽत्रे भ्रमन्नपि विवेकवान् ।
रागद्वेषादिरहितो मुक्तो भवति बन्धनात् ।। १ ६।।
गराणि सन्ति बहूनि वदामि शृणु पद्मजे ।
मिष्टं गरं कुटुम्बस्याऽभिमानं जन्मतो भवेत् ।।१७।।
माता पिता सखा बन्धुश्चाभिमानं महद् गरम् ।
गृहं मे वाटिका मे च क्षेत्रं मे पेटिका च मे ।। १८।।
धनं मे च सुवर्णं मेऽम्बरं मे गरमुत्तमम् ।
मान्यं मम वचो नित्य मदुक्तं सत्यमेव तत् ।। १९।।
अग्र्यं वाक्यं चाऽप्रधृष्यं ममैव मान्यमेव तत् ।
विजयो मे निश्चयो मे मान्यो नान्यस्य कस्यचित् ।। 3.166.२० ।।
निर्णीतं च मया यत् तत् स्वीकार्यं सर्वथा जनैः ।
गरं चैतन्महत्प्रोक्तं यन्मदेन प्रपीड्यते ।।२१ ।।
बलं विषं परं प्रोक्तं क्लेशद युद्धकृद्धि तत् ।
कलाज्ञानं गरं चापि सम्पद्गरं नु नाशकृत् ।।२२।।
विषयास्तु गरं लक्ष्मि महानिरयपातिनः ।
विषया विषमेवाऽस्ति यदावेशोऽप्रतिक्रियः ।। २३ ।।
तृष्णा विषं परं लक्ष्मि रागो विषं महत्तरम् ।
द्वेषो विषं वह्निरूपं चिन्ता गरं तु नाशकृत् ।।२४।।
कामो गरं समस्तानां विषाणां विषमुल्बणम् ।
निरयोत्थं निरयाणां प्रदं निरयवासदम् ।। २५।।
मोहो विषं तथाऽनिष्टकरं दुःखप्रदं महत्। ।
मुग्धः कृत्यं न जानाति मोहदग्धो विनश्यति ।। २६ ।।
सत्ता विषं परं चास्ते राज्यं विषं तु मारकम् ।
जिह्वाशिश्नोदरगृध्ना विषं कालप्रकूटकम् ।।२७।।।
नास्तिकत्वं गुरोः पित्रोरवमानं विषं गुरु ।
हन्यते येन सहसाऽधोगतिं नाशमेति च ।। २८ ।।
शापो विषं दुःखितानां सतामस्निग्धता विषम् ।
अधर्मश्च विषं स्वर्गदाहकं भूतिनाशकम् ।। २९ ।।
निन्दा चौर्यं बलात्कारो विषाणीमानि मूलतः ।
निकृन्तनानि कर्तुर्वै विनाशकानि चाऽचिरात् ।। 3.166.३० ।।
मत्सरोऽसहनं चेर्ष्या नेत्रं हृन्मानसं तु तैः ।
निजं निजं तु भवनं कृतं च दह्यते पुमान् ।। ३१ ।।
एवं विषैरावृतोऽयं चाविद्यापरिवेष्टितः ।
नारकी सर्वथा चास्ते विषमेतद् दुरन्तकम् ।। ३१ ।।
उद्भिज्जः स्वेदजश्चापि तथाऽण्डजो जरायुजः ।
त्यागाभावाद् भ्रमन्त्येवाऽज्ञानवासनकर्मभिः ।। ३३ ।।
षाट्कौशिकं सगरं च भजत्येव कलेवरम् ।
प्रथमं पितृतो जन्म बीजदानात्मकं मतम् ।। ३४।।
गर्भाज्जन्म द्वितीयं च बालरूपं तु तन्मतम् ।
तृतीयं ब्रह्मसूत्राच्च विवाहाश्च चतुर्थकम् ।। ३४१।।
पञ्चमं सर्वसन्न्यासात् षष्ठं तु मरणोत्तरम् ।
सप्तमं मोक्षभाक्त्वं च ततो जन्म न विद्यते ।।३६।।
बैजिकं पाशवं चापि मानवं कर्मबन्धनम् ।
आच्युतं प्रैतकं चाप्यपुनर्भवं हि सप्तमम् ।। ३७।।
एवमेतानि जन्मानि विषाक्तानि भवन्ति हि ।
बीजमात्रस्य चाधानं बैजिकं जन्म चोच्यते ।। ३८ ।।
पशुवद् भ्रूणजन्माप्तं पाशवं बालजन्म तत् ।
मनुं मन्त्रं च गायत्रीं यज्ञोपवीतमित्यपि ।। ३९ ।।
मानवाँश्च वृषानेति मानवं जन्म चेति तत् ।
विवाहः कर्मबन्धश्च कारागारसमा स्थितिः ।।3.166.४० ।।
कर्मबन्धनरूपं तज्जन्म दाम्पत्यरूपकम् ।
सर्वं त्यक्त्वा विरागः सन् सन्यासं लभते तु यः ।।४१ ।।
तस्य जन्माऽऽच्युतं प्रोक्तं हरेः शरणयायिनः ।
देहत्यागे प्रेतभावे सूक्ष्मशरीरयोगकृत् ।।।४२।।।
धर्माधर्मयुतो देही भ्रमत्येवेति जन्म तत् ।
प्रैतकं प्रोच्यते पुनर्भवार्थं यत्र तत्र वा ।।४३।।
मोक्षार्थं निर्गुणां भक्तिं कृत्वा त्यक्त्वा ऋणानि च ।
छित्वा बन्धान् संविलीय विनाश्य गरलानि च ।।४४।।
यः प्रयाति हरेर्धामाऽपुनर्भवं हि जन्म तत् ।
अनुत्तरविषादः स महामृताद एव सः ।।४५।।
सप्तमं जन्म चासाद्य मरणं नाऽस्य विद्यते ।
एवं लक्ष्मि षड्विषाणि विशालानि भवन्ति वै ।।४६।।
क्रूराणि दाहकान्येव पाचकानि समन्ततः ।
गर्भे दुःखान्यनेकानि योनिमार्गेऽपि वै तथा ।।४७।।
भूतले चापि शय्यायां कौमारे यौवने ततः ।
भोगे योगे व्यवहारे वार्धके पारवश्यगे ।।४८।।
अशक्तौ निर्धने रोगे मरणे प्रेतके तथा ।
याम्ये खनौ विषाक्तानि दुःखान्येव विवेकिनः ।।४९।।
तिर्यक्षु मानवे याक्षे पैशाचे राक्षसे सुरे ।
पितृगणे भोगवत्सु गान्धर्वे चाप्सरोगणे ।।3.166.५०।।
ऐन्द्रे ब्राह्मे प्राकृते वैराजे प्रजापतिगृहे ।
पौरुषे कालकवले दुःखं विषं महत्तमम् ।।५१ ।।
पार्थिवं च तथाऽऽप्यं च तैजसं चापि मारुतम् ।
व्यौमं च मानसं चापि बौद्धं तथाऽऽभिमानिकम् ।।५२।।
प्राकृतं च विषं दुःखं चादौ मध्ये तथाऽन्तके ।
वर्तमानानि दुःखानि भविष्यन्ति गराणि च ।।५३।।
देशे काले क्रियायां च दुःखानि विविधानि च ।
छिन्नमूलतरुर्यद्वत् त्ववशः पतति क्षितौ ।।५४।।
पुण्यवृक्षक्षयाद् देवा गां पतन्ति परा अपि ।
पापजन्यं तथा दुःखं प्रसह्य दुःखमित्यपि ।।।५५।।।
नारकाणां नरकेऽपि राज्ञां चाऽप्राप्य मानसम् ।
विहिताऽकरणाच्चापि यतीनां वर्णिनां तथा ।।५६।।
संसारभयमग्नानां दुःखं विरागिणामपि ।
कीटपक्षिमृगाणां च पशूनां गजवाजिनाम् ।।५७।।
गरं दुःखं दुःखवच्चाऽत्यजतो दुःखमेव तत् ।
वैमानिकानां सर्वेषां दुःखं कल्पाधिकारिणाम् ।।५८।।
स्थानाभिमानिनां चापि मन्वादीनां विषं स्थलम् ।
देवानां चापि दैत्यानामन्योन्यविजिगीषया ।।५९।।
रक्षसां च नृपाणां च विषं दुःखं जगत्त्रये ।
श्रमार्थमाश्रमाः सन्ति विश्रामो विद्यया भवेत् ।।3.166.६०।।
विद्या दुःखमपात्रे च तस्मात् सत्पात्रतां लभेत् ।
साधुसंगेन सततं जायते सत्यपात्रता ।।६ १ ।।
तया धार्यं भवेद् ब्रह्म कृपयाऽपि सतां रमे ।
नेत्रे धार्यं परब्रह्म कर्णे धार्यो हरिस्तथा ।।६२।।
कृष्णो धार्यस्त्वचां योगे विष्णुर्धार्यो रसाश्रये ।
घ्राणे धार्यः परमेशः पदे धार्यः प्रभुः स्वयम् ।
पायौ लिङ्गे चान्तरात्मा धार्यो व्यापक ईश्वरः ।।६३।।
धार्यो मनसि मायेशो हृदि धार्यो नरायणः ।
बुद्धौ धार्यो माधवश्च ऋषीकेशस्तु चिन्तने ।।६४।।
पृथ्व्यां धार्यः परमात्मा जले धार्यो जलेशयः ।
धार्यस्तेजसि धामेशो वायौ धार्यो विराट्पतिः ।।६५।।
महाविष्णुश्चाऽम्बरे च धार्योऽहं तु निजात्मनि ।
द्रष्टव्योऽहं ततो लक्ष्मि श्रोतव्योऽहं तथा हरिः ।।६६।।
घ्रातव्यश्च रसितव्यः स्पर्शितव्योऽहमेव च ।
मन्तव्यश्चापि बोद्धव्योऽहंकर्तव्योऽप्यहं हरिः ।।६७।।
चेतयितव्य एवाऽहं वक्तव्योऽहं तथा प्रभुः ।
आदातव्यश्च गन्तव्यः सर्गायितव्य इत्यहम् ।।६८ ।।
आनन्दयितव्य एवाऽहं तत्त्वे तत्त्वे स्थितोऽस्म्यहम् ।
प्राणे प्रयाणे याने च पाने स्थैर्ये स्थितोऽस्म्यहम् ।।६९।।
सर्वात्मानं चरन्तं मां समुपासीत चात्मवान् ।
अन्नस्थं चापि वारिस्थं प्राणस्थं मानसे स्थितम् ।।3.166.७०।।
विज्ञानस्थमुपासीत मां हरिं पुरुषोत्तमम् ।
इन्द्रियस्थं च मात्रास्थं कालस्थं जीवसंस्थितम् ।।७१ ।।
सर्वस्थं मामुपासीत संसारविषछित्तये ।
अमृतं चाक्षरेशं मां परमात्मानमान्तरम् ।।७२।।
प्रसन्नं हरिमीशेशं सहस्थं सहजं प्रभुम् ।
अज्ञानं तु मलं क्ष्वेडं त्यक्त्वा मां ज्ञानगोचरम् ।।।७३ ।।
चाऽपरोक्षं विदित्वैवाऽमृतत्वं त्वाप्नुयाद् बृहत् ।
ज्ञानमेवाऽभ्यसेन्नित्यं मद्गोचरं प्रधानतः ।।७४।।
ज्ञानेनैकेन भायुक्तो भक्तिस्नेहानुयोजितः ।
त्यक्तसंगविषो मुक्तो मामुपैति न संशयः ।।७५।।
इह लोके परे वापि कर्तव्यं नाऽस्य विद्यते ।
जीवन्मुक्तो यतस्तस्य वासनाऽपि लयंगता ।।७६ ।।
ज्ञानभक्तिरतश्चाऽयं ब्रह्मवित्परमार्थतः ।
एवं स मुक्तः संसाराद् दुःखविषादिवर्जितः ।।७७।।
गुर्वाश्रये स्थितो याति धामाऽक्षरं परात्मनः ।
योगिनः सर्वपापानि जीर्यन्ते गरलानि च ।।७८।।
क्रीडन्नपि न लिप्येत गरैर्नानाविधैरपि ।
ध्यानं निर्विषमेवाऽऽस्ते श्रीहरेः सर्वदा रमे ।।७९।।
ब्रह्मशीलो मम ध्यानं कुर्याद् गुरोः प्रसंगमात् ।
मयि तत्तानताभावं प्रान्ते मल्लीनतामपि ।।3.166.८० ।।
विन्दत्येव हि मद्भक्तो गरं त्वस्याऽमृतं भवेत् ।
एवं गराणि सर्वाणि चामृतान्यस्य भान्ति ह ।।८ १ ।।
भूतानि सूक्ष्ममात्राणि विषया विषयोद्भवाः ।
अगुणाश्च गुणाश्चापि क्रिया गराणि यानि तु ।।।८२।।
तानि सर्वाण्यमृतानि कल्पितानि परे मयि ।
एवं वै विषपो भक्तः समर्थो नेतरः क्वचित्। ।।८३।।।
पृथ्वीं जलं च तेजश्च धर्तुं शक्तो ह्ययं भवेत् ।
वायुं व्योम तथा धर्तुं चाष्टावृत्तीस्तथेश्वरान् ।।८४।।
धर्तुं शक्तो भवेच्चाऽयं प्रकृतिं पुरुषं ह्यपि ।
कालं धर्तुं समर्थश्च भवेत् तदात्मको मम ।।८५।।
अक्षरात्मा भवेच्चापि मुक्तान् धर्तुं प्रभुर्ह्यपि ।
यथाऽहं तु तथा सोऽयं प्रारंभावननाशनम् ।।८६।।
कर्तुं जायेत शक्तो मदात्मकैश्वरभाववान् ।
पारमेशपदं प्राप्य सर्वं कर्तुं प्रभुर्भवेत् ।।८७।।
विषं विद्यादनुभूत्या परिहारं विचिन्तयेत् ।
अविषं वा चोग्रविषं भुक्त्वा विषं विनाशयेत् ।।८८।।
अविषाः साधवः प्रोक्ता उग्रविषो हरिस्त्वहम् ।
साधुसंगान्मम पानान्निर्विषो जायते विषी ।।८९।।
अविषस्य मम स्नेहाद्भक्त्या मम प्रसादनम् ।
प्रसादेन द्रुतं मुक्तिः प्रतिज्ञैषा रमे मम ।।3.166.९०।।
गर्भस्थो जायमानो वा बालो वा तरुणोऽपि वा ।
वृद्धो वा मुच्यते देही प्रसादात्परमात्मनः ।।९१ ।।
अण्डजश्चोद्भिज्ज उत स्वेदजोऽपि प्रमुच्यते ।
जराजो वा नरो नारी मुच्यते मे प्रसादवान् ।।९२।।
ममैवांशा देहिनोऽपि मम योगविशेषिणः ।
मम भावेन सम्पन्नाः प्रयान्ति परमां गतिम् ।।९३।।
मया निभालिता भक्ता ममांऽशा मत्पदाश्रिताः ।
कृपापात्राणि तरन्ति संसारविषसागरम् ।।९४।।
यथा तैलं जलयोगे तरत्येवोर्ध्वमुद्गतम् ।
तथा देही कृष्णयोगे तरत्येवोर्ध्वमुद्गतः ।।९५।।
यथा वह्निः स्वभावेन यात्यूर्ध्वमेधितो ह्यति ।
तथा देही सुभक्त्या मे यात्यूर्ध्वं वर्धितो ह्यति ।।९६।।
यथा योगी महैश्वर्यैर्ब्रह्मद्वारं प्रयाति वै ।
तथा सोऽयं ममैश्वर्यैः परब्रह्म प्रयाति हि ।।९७।।
यथा गोपी ह्यजं प्राप्य गायत्रीत्वमुपागमत् ।
तथा गोपो हरिं प्राप्य गोलोकं समवाप्नुयात् ।।९८।।
यथा लक्ष्मीर्हरिं प्राप्य हृदये वासमाप सा ।
तथा भक्तो हरिं प्राप्याऽक्षरे वासमवाप्नुयात् ।।९९।।
यथा माया हरिं प्राप्य हरौ सा प्रविलीयते ।
तथा भक्तो हरिं प्राप्य हरौ सम्प्रविलीयते ।। 3.166.१०० ।।
यथा पत्नी कान्तलग्ना पृथक्त्वे नैव वेत्ति सः ।
तथा भक्तो हरौ लग्नो भेदं नैजं न वेत्ति च ।।१ ०१ ।।
यथा तु शर्करा दुग्धे रसतामुपयाति च ।
तथा कृष्णे कृष्णकर्मा भक्तौ दुग्धत्वमृच्छति ।।१ ०२।।
यथा स्निग्धं मानसं वै स्नेहपात्रे मिलत्यपि ।
तथा स्निग्धो मम भक्तो मय्यपृथङ् मिलत्यपि ।। १ ०३।।
यथाऽऽनन्दः प्रमोदश्च सुखान्यात्मनि चाऽपृथक् ।
तथा भक्तो दिव्यरूपः परमात्मनि चाऽपृथक् ।। १ ०४।।
इत्येवं ते मया लक्ष्मि विषहारत्वमीरितम् ।
पठनाच्छ्रवणादस्य विषं सर्वं व्यपोहति ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने संसारविषाणां तद्धरणोपायानां च निरूपणनामा षट्षष्ट्यधिकशततमोऽध्यायः ।। १६६ ।।