लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १५५

विकिस्रोतः तः
← अध्यायः १५४ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १५५
[[लेखकः :|]]
अध्यायः १५६ →

श्रीनारायणीश्रीरुवाच-
मनवो ये भवतोक्ताः किमेशा लोकपूजिताः ।
चतुर्दशेति तेषां चोत्पत्तिं कृष्ण वदात्र मे ।। १ ।।
श्रीपुरुषोत्तम उवाच-
मनवो वै मदंशास्ते कल्पे कल्पे चतुर्दश ।
भवन्ति सर्वराज्येशा धर्मप्रवर्तका अपि ।। २ ।।
न्यायप्रवर्तकाश्चापि चतुर्दशस्तराधिपाः ।
मयैव कल्पिताः सर्वे वर्तन्ते निजकर्मसु ।। ३ ।।
स्वायंभुवः स्वारोचिष औत्तमस्तामसस्तथा ।
रैवतश्चाक्षुषश्चापि वैवस्वतस्तु सप्तमः ।। ४ ।।
सावर्णिर्दक्षसावर्णिर्ब्रह्मसावर्णिरित्यपि ।
धर्मसावर्णिश्च रुद्रसावर्णिर्द्वादशः स्मृतः ।। ५ ।।
देवसावर्णिस्तथेन्द्रसावर्णिवैं चतुर्दशः ।
प्रत्येकस्य मनोरायुः साधिकास्त्वेकसप्ततिः ।। ६ ।।
चतुर्दशमनूनां तु सहस्रसाधिका स्थितिः ।
सहस्रसाधिकाश्चापि दिनमेकं तु वेधसः ।। ७ ।।
सहस्रसाधिकाश्चान्या रात्रिरेका च वेधसः ।
साधिकाद्वयसाहस्रान्ते प्रातः सृष्टिदानवा ।। ८ ।।
पातालात् स्वर्गपर्यन्ता दशलोकात्मिकी भवेत् ।
पूर्वे बहुसभा देवनद्यास्तटे तु वैष्णवम् ।। ९ ।।
यागं चकार धर्मात्मा धर्मतपा महानृषिः ।
नाम्ना धर्मतपास्तस्य प्रसन्नोऽहं नरायणः ।। 3.155.१० ।।
वरदानं ददौ तस्य वाञ्च्छानुसारमुत्तमम् ।
प्रवृत्तावपि निवृत्तिं वाञ्छितां तेन शोभनाम् ।। ११ ।।
मया तपःफलं यज्ञफलं मन्वन्तरस्थलम् ।
प्रथमं दत्तमस्मै वै सोऽयं स्वायंभुवोऽभवत् ।। १२।।
ब्रह्मणो मानसः पुत्रः प्रजापालनतत्परः ।
शतरूपां सतीं नारीं पत्नीत्वे जगृहे स च ।। १३।।
प्रियव्रतोत्तानपादौ तयोः पुत्रौ बभूवतुः ।
अथ विप्रो वारणाख्यो वरणासरितस्तटे ।। १४।।
तस्य बुद्धिरियं त्वासीद् द्रक्ष्याम्यहं वसुन्धराम् ।
तावत्तस्य गृहे साधुर्व्योमगोऽतिथिराययौ ।। १५।।
नाम्ना खाखपदस्तस्मै भोजनं प्रददौ द्विजः ।
यात्रार्थं च मनश्चक्रे तदा साधुरुवाच तम् ।। १ ६।।
मन्त्रौषधीलिप्तपादो भूत्वा विहर गोलकम् ।
इत्युक्त्वा पिष्टमेवास्यौषधं पादद्वये ददौ ।। १७।।
सहस्रं योजनानां हि दिनार्धेनाम्बरे द्विजः ।
ययौ तुषारभूम्यद्रौ जलपृथ्व्यामवातरत् ।। १८।।
क्षालितोऽभूत्पादलेपः परमौषधिकोद्भवः ।
गन्तुं चाकाशमार्गेणाऽसमर्थो भूतले स्थितः ।। १९।।
तं ददर्शाऽप्सरोवर्या वरूथिनीतिनामतः ।
मुमोह चिन्तयामास सेवां कर्तुं हृदन्तरे ।।3.155.२०।।
पुरो गत्वा चातिभक्त्या धर्मेण च व्रतेन च ।
शीलेनापि सतीरीत्या सेवयामास तं हि सा ।।२१ ।।
द्विजस्तुष्टो वरदानं ददौ तस्यै प्रजावती ।
भव पुत्रवती पौत्रवती त्रैलोक्यपूजिता ।।।२२।।
इत्याशिषं प्रदत्वैव द्विजः सस्मार मां तथा ।
वह्निं प्राह प्रणिपत्य गार्हपत्यमुपांशुना ।।२३।।
ब्रह्मरूपः कृष्णरूपो रक्षको भव चानल ।
यथाऽहमद्य स्वं गेहं पश्येयं सति भास्करे ।।२४।।
यथा वै साधवः सन्तश्चाभ्यागताः प्रसेविताः ।
यथा च वैदिकं कर्म स्वकाले नोज्झितं मया ।।२५।।
यथा च न परद्रव्ये परदारासु मे मतिः ।
यया नारायणो नित्यं पूजितः परमेश्वरः ।।२६।।
तेन सत्येन मां वह्ने स्वं गृहं प्रापयाऽथ वै ।
एवं तु वदतस्तस्य गार्हपत्यानलः स्वयम् ।।२७।।
आययौ पुरतो मेषात्मकः पक्षान्वितस्ततः ।
द्विजश्चारुह्य तत्पृष्ठे प्राप नैजं गृहं द्रुतम् ।।२८।।
वरूथिन्यपि तं विप्रं नत्वाऽऽशीर्वादसंयुता ।
प्राप दिव्यं सुगन्धर्वं देवकेलिं तु नामतः ।।२९।।
तस्माद् गर्भं दधाराऽपि विप्राशीर्वादवर्चसम् ।
जज्ञे स बालो द्युतिमान् ज्वलन्निव विभावसुः ।।3.155.३० ।।
स्वरोचिभिर्यतो भाति स्वरोचिर्नामतोऽभवत् ।
स्वरोचिश्च विमानेनाऽम्बरे विनिर्जगाम ह ।।३ १ ।।
मनोरमा सरिद् याऽभूत् कन्यकेन्दीवरस्य वै ।
गन्धर्वस्य पुरा देवी वैष्णवी तपसाऽभवत् ।।३२।।
साप्तसारस्वते क्षेत्रे सरस्वती मनोरमा ।
सरयूसंगमा साध्वी चकमे सा स्वरोचिषम् ।।३३।।
प्रार्थयामास पत्न्यर्थं धर्मेण विनयेन तम् ।
पतिं कृत्वा तेन साकं तद्गृहं प्रययौ सरित् ।।३४।।
तया साकं विमानेन वनेषूपवनेषु च ।
विचरन्नैकदाऽरण्ये मृगीं ददर्श शोभनाम् ।।३५।।
दिव्यां दिव्यगुणोपेतां निर्भयां निश्चलस्थिताम् ।
समीपे चागतां तां च पस्पर्श दक्षपाणिना ।।३६।।
मृगी सा तु तिरोभूय जाता दिव्या हि देवता ।
ततः स विस्मयाविष्टः का त्वमित्यभ्यभाषत ।।३७।।
सा चाऽस्मै कथयामास वनस्याऽस्याऽस्मि देवता ।
अहं च प्रार्थिता देवैः प्रेषिता त्वां प्रति स्थिता ।। ३८।।
उत्पादनीयो हि मनुस्त्वया मयि महामते ।
इत्युक्तः स्वरोचिरेव जग्राह तां निजप्रियाम् ।।३९।।
तस्यां च जनयामास पुत्रं तेजस्विनं तदा ।
तत्क्षणाज्जातमात्रस्य देववाद्यानि सस्वनुः ।।3.155.४० ।।
जगुर्गन्धर्वपतयो ननृतुश्चाप्सरोगणाः ।
पिता बालस्य स्वनाम्ना नाम स्वारोचिषं व्यधात् ।।४१।।
स्वारोचिषो मनुर्लक्ष्मि भविता द्वितीयो मनुः ।
पद्मिनी नाम या विद्या लक्ष्मीर्यस्यास्तु देवता ।।४२।।
यदाधाराश्च निधयस्तामध्यगात् समस्ततः ।
यया तु ज्ञायते भूमौ पद्मादिनिधयः स्फुटाः ।।४३।।
देवतानां प्रसादेन साधुसंसेवनेन च ।
निधिभिश्चार्पितं वित्तं मानुष्येऽपि विवर्धते ।।४४।।
पद्मश्चापि महापद्मो मकरः कच्छपस्तथा ।
मुकुन्दो नन्दकश्चापि नीलः शंखश्च ते मनोः ।।४५।।
गृहे एवाऽभवन्नित्यं सर्वेच्छापरिपूरकाः ।
द्रव्यं रत्नानि शस्त्राणि रसा वाद्यं च धातवः ।।४६।।
धान्यानि भोगशृंगारा मनोर्दिव्याः सदाऽभवन् ।
अथ लक्ष्मि मनुं चापि तृतीयं शृणु शोभनम् ।।४७।।
उत्तानपादपुत्रोऽभूदुत्तमो नाम नामतः ।
सुरुच्यास्तनयः ख्यातो बभौ भानुपराक्रमः ।।४८।।
बाभ्रव्यां बहुलां नाम चोपयेमे स धर्मवित् ।
विष्णुभक्तिपरः सोऽपि तया साकं तु संययौ ।।४९।।
शेषनारायणं द्रष्टुं पुपूज श्रीनरायणम् ।
शेषं चापि पुपूजाऽसौ शेषपुत्रीं पुपूज ह ।।3.155.५० ।।
ददावाभूषणान्यस्यै कल्याण्यै सा तुतोष ह ।
कल्याणी शेषपुत्री च ददावाशीर्वचः शुभम् ।।५१ ।।
तव पुत्रो महावीर्यो पत्न्यामस्यां भविष्यति ।
मन्वन्तरेश्वरो धीमानव्याहतसुचक्रकः ।५२।।
ततो राज्ञोऽभवत् काले प्राप्ते पुत्रोत्तमः सुतः ।
देवदुन्दुभयो नेदुः पुष्पवृष्टिः पपात ह ।।५३।।
औत्तमश्चेति मुनयो नाम चक्रुः समागताः ।
उत्तमस्य सुतः सोऽयं नाम्ना ख्यातः सदौत्तमः ।।५४।।
मनुत्वे स्थापयिष्यन्ति तमेनमृषयः सुराः ।
अथ लक्ष्मि चतुर्थं तु मनुं वक्ष्यामि तं शृणु ।।५५।।
राजाऽभूद् भुवि विख्यातः स्वराष्ट्रो नाम वीर्यवान् ।
तपस्तेपे बहुकालं वितस्तापुलिने हि सः ।।५६।।
तस्य भार्या सती राज्ञी योगिनी रूपधारिणी ।
मृगी भूत्वा वने चास्ते नित्यं राज्ञस्तु सन्निधौ ।।५७।।
ब्रह्मचर्यपरो राजा शुश्राव व्योमशारदाम् ।
राजँस्तपोबलेनाऽस्यामुत्पलायां स्त्रियां तव ।।५८।।
पुत्रो दिव्यो हि भविता मनुर्नाम्ना हि तामसः ।
ततश्चाऽस्यै देहि बीजं लोकोपकारकारणात् ।।५९।।
श्रुत्वैवं च ऋतुमत्यै चोत्पलायै नृपो ददौ ।
संगमं स्पर्शमात्रं वै गर्भमापोत्पलावती ।।3.155.६० ।।
ततः सा सुषुवे पुत्रं मृगीदेहोत्पलावती ।
ततस्तस्यर्षयः सर्वे समेत्य कानने तदा ।।६१ ।।
अवेक्ष्य मातरं तां तु तामसीं हरिणीं खलु ।
तामसोऽयं भवत्वेव नाम्ना मनुश्चतुर्थकः ।।६२।।
सोऽयं पुत्रोऽपि सहसा समाराध्य हि भास्करम् ।
अवाप्य दिव्यान्यस्त्राणि ससंहाराण्यशेषतः ।।६३।।
राजिष्यते मनुर्भूत्वा तामसाख्यो मनुः रमे! ।
अथ लक्ष्मि मनुं चापि पञ्चमं शृणु वच्मि ते ।।६४।।
ऋषिरासीन्महाभागः ऋतवागिति नामतः ।
रेवत्यन्तेऽभवत्तस्य दुर्भाग्यो रोगवर्धनः ।।६५।।
पुत्रो तेनापि ऋषिराड् दीर्घरोगमवाप ह ।
ऋतवाग् रेवतीं प्राह तव योगेन मे सुतः ।।६६।।
दुःशीलो रोगदा जातः पतस्वाऽऽशु हि रेवति! ।
तेनैवं व्याहृते शापे रेवत्यृक्षं पपात ह ।।६७।।
सौराष्ट्रे कुमुदाद्रौ वै वस्त्रापथे मम स्थले ।
कुमुदाद्रिश्च तत्पातात् ख्यातो रैवतकोऽभवत् ।।६८।।
रैवताद्रौ रेवती सा कन्या जाता सरोवरे ।
प्रमुचो नाम मुनिराट् कन्यां चाश्रमसन्निधौ ।।६९।।
नवोत्पन्नां हि जग्राह पोषयामास पुत्रिकाम् ।
अथ कालान्तरे तत्र दुर्गमो नाम भूपतिः ।।3.155.७०।।
आययौ चाह्वयामास प्रियां चेति हि रेवतीम् ।
प्रमुचो निजपुत्रीं तां दुर्गमाय ददौ तदा ।।७१ ।।
तत्र तपःप्रभावेण रेवत्यृक्षं यथाऽम्बरे ।
सोमयोगि व्यधात् प्राग्वज्जामातरमथाऽब्रवीत् ।।७२।।
औद्वाहिकं ते भूपाल कथ्यतां किं ददाम्यहम् ।
राजाऽऽहर्षे प्रसादात्ते मनुं पुत्रं वृणोम्यहम् ।।७३।।
ऋषिः प्राह तथाऽस्त्वेवं मनुस्ते तनयो भवेत् ।
तामादाय ययौ राजा चाश्वपट्टसरोवरम् ।।७४।।
स्नात्वा मां संप्रपूज्यैव नत्वा च लोमशं मुनिम् ।
दुर्गमो दुर्गनगरं ययौ गंगावतीतटे ।।७५।।
ततश्चाऽजायत पुत्रो रेवत्यां रैवतो मनुः ।
कल्पान्तरे सूर्यपुत्रो रेवन्तोऽपि भविष्यति ।।७६।।
एवं लक्ष्मि रैवतोऽयं भविता पञ्चमो मनुः ।
कथितस्ते ततः षष्ठं मनुं शृणु वदाम्यहम् ।।७७।।
पूर्वजन्मनि जातोऽसौ चक्षुषः परमेष्ठिनः ।
चाक्षुषत्वमतस्तस्य जन्मन्यस्मिन्नपि प्रिये ।।७८।।
जातिस्मरः स जातोऽत्र मातुरुत्संगमास्थितः ।
अवनीन्द्रक्षत्रियस्य गिरिभद्राख्ययोषितः ।।७९।।
गिरिभद्राशयनात्तमाददे जातहारिणी ।
राज्ञो विक्रान्तनाम्नश्च हैमिनियोषितो गृहे ।।3.155.८०।।
न्यस्य तं तत्रजन्मानं बालं चादाय निर्ययौ ।
राजबालं बोधविप्रगृहे न्यस्य तदर्भकम् ।।८ १ ।।
विप्रबालं जहाराऽपि भक्षयामास राक्षसी ।
एवं राजगृहे राज्ञीपर्यंके वर्धितोऽपि सः ।।८२।।
आनन्दनाम्ना विख्यातोऽभवत्तथोऽर्थमानसः ।
तपस्तेपे चातितीव्रं ब्रह्मा त्वागत्य सन्निधौ ।।८३।।
चाक्षुषेत्याह तं ब्रह्मा तपसो विनिवर्तयन् ।
मनुं षष्ठं व्यधात् सोऽयं भविता षष्ठको मनुः ।।८४।।
अथ लक्ष्मि सप्तकं ते मनुं वदामि संशृणु ।
सूर्यभार्या विश्वकर्मसुता संज्ञेति विश्रुता ।।८५।।
वैवस्वतं शुभं पुत्रं तस्यामजनयत् रविः ।
वैवस्वतो ह्ययं लक्ष्मि भविता सप्तमो मनुः ।।८६।।
पूर्वसवर्णजातत्वात् सावर्णिरिति विश्रुतः ।
अथाऽष्टमं मनुं वच्मि शृणु नारायणि प्रिये ।।८७।।
स्वारोचिषेऽन्तरे पूर्वे राजाऽभूत् सुरथाभिधः ।
जगाम स वनं दुःखी शत्रुभिः समरे जितः ।।८८।।
अथाऽऽययौ तत्र दुःखी वैश्यः समाधिनामकः ।
राजा तं दुःखितं दृष्ट्वा पप्रच्छ किन्नु शोचसि ।।८९।।
उवाच नृपतिं वैश्यस्तव राज्येऽभवं सुखी ।
पुत्रदारैर्निरस्तोऽध धनलोभादसाधुभिः ।।3.155.९०।।
विहीनश्च धनैर्दारैः पुत्रैरादाय मे धनम् ।
वयमभ्यागतो दुःखी निरस्तश्चाप्तबन्धुभिः ।।९१।।
सोऽहं न वेद्मि पुत्राणां कुशलाकुशलास्थितिम् ।
नारीणां स्वजनानां 'च कन्यानां च कुटुम्बिनाम् ।।।९२।।
किन्नु तेषां गृहे क्षेममक्षेमं किन्नु साम्प्रतम् ।
कथन्ते किन्नु सद्वृत्ता दुर्वृत्ताः किन्नु मे सुताः ।।९२।।
राजा प्राह निरस्तो यैर्भवान् दारसुतादिभिः ।
तेषु किं भवतः स्नेहमनुबध्नाति मानसम् ।।९४।।
वैश्य आह एवमेतत् तथापि दुःखदं मनः ।
किं करोमि हि मायापि मनस्तेषु प्रधावति ।।९५।।
यैः सन्त्यज्य पितृस्नेहं धनलुब्धैर्निराकृतः ।
पतिस्वजनहार्दं च हार्दितेष्वपि मे मनः ।।९६।।
जानामि विपरीताँस्तान् जानन्नपि त्यजामि न ।
यत्प्रेमप्रवणं चित्तं विगुणेष्वपि बन्धुषु ।।९७।।
तेषां कृते मे निःश्वासा दौर्मनस्यं च जायते ।
करोमि किं यन्न मनस्तेष्वप्रीतिषु निष्ठुरम् ।।९८।।
दिवान्धाः प्राणिनः केचिद् रात्रावन्धास्तथाऽपरे ।
केचिद्दिवा तथा रात्रौ प्राणिनस्तुल्यदृष्टयः ।।९९।।
ज्ञानवन्तोऽपि जायन्ते मोहान्धा दुःखदुःखिनः ।
निःस्वार्थाः पशवश्चापि पक्षिणोऽपि तथाविधाः ।।3.155.१ ० ०।।
क्लिश्यन्ति दारपुत्रार्थं तुल्या मृगाश्च मानवाः ।
मायया ममतागर्ते मोहावर्त्ते भ्रमन्ति वै ।। १०१ ।।
सैषा तु विष्णुभक्तानां वरदा मुक्तये मता ।
सा विद्या परमा मुक्तेर्हेतुभूता सनातनी ।।१ ०२।।
संसारबन्धहेतुः सा ह्यभक्तानां विमोहिनी ।
नित्या सा जगदम्बा वै जगदात्मा भविष्यति ।। १ ०३।।
योगनिद्रात्मिका चापि विष्णुक्षेत्रे प्रवर्तते ।
तपसा साध्यते माया मोक्षदात्री भवत्यपि ।। १ ०४।।
इत्येवं नृप वैश्यौ तौ सह वै ज्ञानकारिणौ ।
तेपतुर्वै तपस्तीव्रं लक्ष्मीं स्मृत्वा नरायणम् ।। १ ०५।।
दर्शनं च ददौ ताभ्यां लक्ष्मीर्नारायणान्विता ।
वरदानं ददौ राज्ञे मृत्वा जन्म लभिष्यसि ।। १ ०६।।
सूर्यात् सावर्णिको नाम मनुर्भवान् भविष्यसि ।
वैश्योऽयं ज्ञानवान् सम्पत्सुखवाँश्च भविष्यति ।। १ ०७।।
इति दत्वा तयोर्लक्ष्मीर्यथाभिलषितं वरम् ।
बभूवान्तर्हिता सद्यो भक्त्या ताभ्यामभिष्टुता ।।१ ०८।।
एवं लक्ष्म्या वरं प्राप्य सुरथः क्षत्रियोत्तमः ।
सूर्यपुत्रः स सावर्णिर्भविता मनुरष्टमः ।।१ ०९।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने ऽष्टमनूनां जन्मादिवर्णननामा पञ्चपञ्चाशदधिक शततमोऽध्यायः ।। १५५ ।।