लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १३९

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १३८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १३९
[[लेखकः :|]]
अध्यायः १४० →

श्रीनारायणीश्रीरुवाच-
आगतानां हि शोकानामपनोदार्थमेव यत् ।
व्रतं स्यात्तत्कथयाऽत्र दयया मे हरे प्रभो ।। १ ।।
श्रीपुरुषोत्तम उवाच-
पुण्ये चाश्वयुजे मासि शुक्ले द्वादशिकाव्रतम् ।
शोकनाशार्थमेवाऽस्ति विशोकद्वादशीव्रतम् ।। २ ।।
दशम्यां लघुभुग् भूत्वा पृथ्वीशयनमाचरेत् ।
ब्रह्मचारी भवेच्चापि प्रातरुत्थाय मां स्मरेत् ।। ३ ।।
स्नात्वा सम्पूजयेन्मां चैकादश्यां व्रतमाचरन् ।
निराहारः फलाहारश्चैकभोजी च वा भवेत् ।। ४ ।।
अशोकललितां स्वर्णमयीं श्रीकृष्णशोभिताम् ।
कारयित्वा पूजयित्वा भोजयित्वा गजासने ।। ५ ।।
स्वापयेज्जागरं कुर्यान्मण्डपे कदलीकृते ।
द्वादश्यां प्रातरुत्थाय स्नात्वा संपूजयेत्पुनः ।। ६ ।।
स्नानं सर्वौषधैः कुर्यात् पञ्चगव्यजलैरपि ।
पीताम्बरधरो लक्ष्मीं पूजयेच्छ्रीशमुत्पलैः ।। ७ ।।
विशोकायै नमः पादौ वरदायै तु जङ्घयोः ।
जान्वोः श्रियै नमश्चापि सक्थ्नोरब्धिजयोषिते ।। ८ ।।
गुप्ते विशोककर्त्र्यै च कट्यां मायै नमो नमः ।
उदरे पोषयित्र्यै च नमो भायै च पार्श्वयोः ।। ९ ।।
नाभौ नमः सर्वधर्त्र्यै हृदयेऽर्धाश्रियै नमः ।
कण्ठे वाण्यै नमो वक्षःस्थले कान्ताश्रियै नमः ।। 3.139.१० ।।
बाह्वोर्नमो रक्षयित्र्यै ललितायै तु हस्तयोः ।
चान्द्र्यै मुखे नमश्चापि कमलायै तु नेत्रयोः ।। ११ ।।
नासायां सुरभिदेव्यै ललाटे मोहिनीश्रियै ।
कर्णयोर्व्यापिकायै ते नमो मूर्ध्नि महाश्रियै ।। १२।।
मण्डले स्थण्डिले लक्ष्मीप्रतिमासन्निधौ हरिम् ।
स्वर्णमूर्तिं पूजयेच्च श्रीपतिं मां विशोकिनम् ।। १ ३।।
नमोऽनादिकृष्णनारायणाय पादयोर्नमः ।
नमः कृष्णाय कान्ताय जंघयोस्ते नमो नमः ।। १४।।
नमः श्रीवासुदेवाय जान्वोस्ते च नमो नमः ।
नमो नारायणायेति सक्थ्नोस्ते भगवन्नमः ।। १५।।
नमश्चानन्दरूपाय मेढ्रे ते च नमो नमः ।
नमः कट्यां नरनारायणाय ते नमो नमः ।।१६।।
उदरे ते नमो विश्वंभराय भगवन्नमः ।
पार्श्वयोः रामकृष्णाभ्यां नमो नमः नमो नमः ।। १७।।
नाभौ ते पद्मनाभाय हृदये हंसयोगिने ।
कण्ठे ते नीलकण्ठाय वक्षसि ब्रह्मणे नमः ।।१८।।
बाह्वोश्चक्रधरायाऽपि करयोः शंखधारिणे ।
मुखे रूपाभिरूपाय नेत्रयोः कमलाक्षिणे ।। १ ९।।
नासायां सर्वगन्धाय ललाटे गुरुरूपिणे ।
कर्णयोः श्रुतिकर्त्रे ते नमो मूर्ध्नि शिखावते ।।3.139.२० ।।
इत्यभ्यर्च्याऽपि गोविन्दं फलमाल्यानुलेपनैः ।
शूर्पं संस्थाप्य पुरतो लक्ष्मीं मां तत्र सन्न्यसेत् ।।२१ ।।
नमो मोक्षप्रमोदानां दातृभ्यां सर्वसम्पदाम् ।
नमः शोकपरिहारकर्तृभ्यां सर्वदा नमः ।।।२२।
विशोकौ दुःखनाशाय विशोकौ वरदौ च मे ।
विशोकौ मम सम्पत्त्यै विशोकौ सर्वसिद्धये ।।२३।।
भवतां मम शोकानां सर्वेषां नाशकौ प्रभू ।
शुक्लाम्बरैः समावेष्ट्य शूर्पं सम्पूजयेत् फलैः ।।२४।।
वस्त्रैर्नानाविधैस्तद्वत् सुवर्णकमलेन च ।
पूजयित्वा भोजयेच्च दुग्धपाकादिकं शुभम् ।।२५।।
त्रिकालं पूजयेच्चापि कमलैर्भोजयेदपि ।
रजन्यां च व्रती शीतं दर्भोदकं पिबेच्छुचि ।।२६।।
ततस्तु जागरं गीतनृत्यवाद्यान्वितं चरेत् ।
प्रातः प्रपूजयेल्लक्ष्मीमशोकां श्रीपतिं तथा ।।२७।।
दम्पतीं पूजयेच्चापि विप्राणां विधिना ततः ।
वस्त्रभूषाभोज्यपात्रशृंगारशाटिका दिशेत् ।।२८।।
धनदानानि रत्नानां धेनूनामर्पणानि च ।
यथाशक्ति प्रकुर्याच्च भोजयेद् बालबालिकाः ।।२९।।
साधून् साध्वीर्भोजयेच्च दद्यादन्नानि सर्वतः ।
परिहारं प्रकुर्याच्च दक्षिणः प्रदिशेत्तथा ।।3.139.३० ।।
अनेन विधिना कुर्याद् विशोकाललिताव्रतम् ।
विशोकाद्वादशीरूपं शोका नश्यन्ति तस्य वै ।।३१ ।।
धेनुदानं सोपधानशय्यादानं धनार्पणम् ।
प्रकुर्याच्च ललिताश्रीलक्ष्मीं स्तुवीत भावतः ।।३२।।
यथा न लक्ष्मीः सम्पच्च मां परित्यज्य गच्छति ।
तथा सुरूपताऽऽरोग्यमशोकः सन्तु मे सदा ।।३३ ।।
यथा भक्तिर्भवेदग्र्या श्रीकृष्णवल्लभे मम ।
यथा कृष्णो बालकृष्णः सलक्ष्मीको मम गृहे ।।३४।।
सदा वसेत्तथा शूर्पलक्ष्मीदानं करोमि च ।
सुवर्णकमलं रम्यं करवीरं च कुंकुमम् ।।३५।।
केतकीं सिन्दुवारं च मल्लिकां केसरं तथा ।
कज्जलं चाऽलक्तकं च चन्दनं च कदम्बकम् ।।३६।।
रञ्जनं गन्धितैलं च गन्धसारं ददामि च ।
सर्वशृंगारपुष्पाणि ददामि सौख्यहेतवे ।।३७।।
पठनाच्छ्रवणाच्चापि स्मरणात्करणादपि ।
भुक्तिर्मुक्तिर्भवेदेव विशोकललिताव्रतात् ।।३८।।
अथ कृष्णलालनाख्यं व्रतं वच्मि च ते रमे ।
विभूतयो भवन्त्येव कृष्णलालनसद्व्रतात् ।।३९।।
कार्तिके चैत्रके वैशाखके मार्गे च फाल्गुने ।
आषाढे शुक्लके दिनत्रयात्मकं व्रतं त्विदम् ।।3.139.४०।।
सुलघुभुग् दशम्यां तु रात्रौ शीलव्रती भवेत् ।
कृत्वा सायन्तनीं पूजां गृह्णीयान्नियमं व्रती ।।४१ ।।
एकादश्यां निराहारं करिष्येऽहं व्रतं त्विति ।
नमो नारायणायेति प्रातरुत्थाय चिन्तयेत् ।।४२।।
स्नात्वैकादशिकाप्रातर्मण्डपे पूजयेत् प्रभुम् ।
अनादिश्रीकृष्णनारायणं मां पुरुषोत्तमम् ।।४३।।
शुक्लपुष्पाक्षतवारिकुंकुमचन्दनादिभिः ।
नमो विभूतये पादौ नमोऽशोकाय जानुनी ।।४४।।
नमः कृष्णयेत्यूरू च विश्वमूर्ते नमः कटिम् ।
कन्दर्पाय नमो मेढ्रं फलं नारायणाय च ।।४५।।
दामोदरायेत्युदरं वासुदेवाय च स्तनौ ।
माधवायेत्युरो विष्णोः कण्ठमुत्कण्ठिने नमः ।।४६।।
श्रीधराय मुखं केशान् केशवायेति मस्तकम् ।
पृष्ठं शार्ङ्गधरायेति श्रवणौ श्रुतिवेदिने ।।४७।।
हरये शंखचक्रासिगदाजलजपाणये ।
शिरः सर्वात्मने तस्मै नम इत्यभिपूजनम् ।।४८।।
मत्स्यमुत्पलसंयुक्तं हैमं कृत्वा तु शक्तितः ।
उदकुंभे न्यसेत्तच्च दाने प्रपूज्य वै दिशेत् ।।४९।।।
गुडपात्रं तिलैर्युक्तं सितवस्त्राभिवेष्टितम् ।
फलानि विविधान्येव दाने प्रपूज्य चार्पयेत् ।।3.139.५०।।
आरार्त्रिकं प्रकुर्याच्च विभूतिश्रीश्रीकृष्णयोः ।
नैवेद्यानि विचित्राणि प्रातर्मध्ये निशामुखे ।।५१ ।।
दत्वा प्रस्वापयेच्चापि गीतवादित्रकोत्सवैः ।
जागरणं व्रती कुर्यात् प्रातः स्नात्वा प्रपूज्येत् ।।।५२।।
द्वादश्यां प्रार्थयेच्चापि पद्मं दद्याद् द्विजाय तु ।
उदकुंभं सरत्नं च गां दद्याद् गुरवे तथा ।।५३।।
यथा न मुच्यसे कृष्ण सदा सर्वविभूतिभिः ।
तथा मामुद्धराऽशेषदुःखसंसारसागरात् ।।५४।।
शय्यां दद्याद् धनं दद्याद् ग्रामं क्षेत्रं गृहादिकम् ।
गुरुं सम्पूज्य विधिवद् भूषावस्त्राणि चार्पयेत् ।।।५५।।
अधनः पूजयेत्पुष्पैर्भोजनान्नं दिशेद् व्रती ।
अनेन विधिना यस्तु कृष्णलालनसद्व्रतम् ।।५६।।
विभूतिसम्प्रदं कुर्यात्तस्यर्द्धयः पदे पदे ।
पापानि तस्य नश्यन्ति पितॄणां तारयेच्छतम् ।।५७।।
जन्मनां शतसाहस्रं न शोकफलभाग् भवेत् ।
न तु व्याधिर्भवेत्तस्य न दारिद्र्यं न बन्धनम् ।।५८ ।।
यावद् युगसहस्राणां शतमष्टोत्तरं भवेत् ।
तावत् स्वर्गे वसेच्चापि भूपतिः सः पुनर्भवेत् ।।५९।।
व्रतं कृत्वा हरेर्धाम प्रयात्येव न संशयः ।
सर्वान् कामानश्नुते च कृष्णेन हरिणा सह ।।3.139.६०।।
शृणु लक्ष्मि कल्पे रथन्तरेऽभूल्लुब्धको ह्यघी ।
परुषाख्यः स मांसदो दुर्गन्धश्चातिपापवान् ।।६१ ।।
भार्याऽप्यस्यातिदुष्टा च व्यभिचारपरायणा ।
जीवहिंसापरौ तौ त्वेकदा वने सरोवरात् ।।६२।।
पद्मान्यादाय बहूनि विक्रयार्थं तु वैदिशम् ।
नगरं ययतुश्चापि विक्रयो न व्यजायत ।।६३।।
निराशौ तावता रात्रौ क्षुधितौ श्रमितावुभौ ।
प्रासादसन्निधौ मार्गे सुप्तौ शुश्रुवतुः शनैः ।।६४।।
मण्डपे श्रीहरेः पूजाशब्दान् वेश्याकृतान् शुभान् ।
माघे रात्रौ शुक्लपक्षे चैकादश्यां वरांगना ।।६५६।।
गणिकाऽनंगवतीति जगौ तदा सुगीतिकाः ।
पूजयित्वा तदा रात्रौ दानं ददौ तु सा बहु ।।६६ ।।
गुरवे साधवे वेदविप्राय शयनादिकम् ।
लवणाचलमेवापि मूर्तिं विष्णोस्तु कानकीम् ।।६७।।
धनान्यपि बहूनि च धान्यानि विविधानि च ।
अलंकृत्य हृषीकेशं सौवर्णाम्बरपादपम् ।।६८।।
तां तु दृष्ट्वा ततस्ताभ्यामिदं हि परिनिश्चितम् ।
इमानि कमलान्यत्र पूजायां दद्व एव ह ।।६९।।
एवं भक्त्या दत्तवन्तौ वेश्यापि च धनं शतम् ।
दातुं समारभताऽपि तौ तु जग्रहतुर्न तत् ।।3.139.७०।।
दत्तमन्नं भोजनार्थं तौ तु जग्रहतुर्न तत् ।
प्रसंगादुपवासस्य माहात्म्यं संविदित्य वै ।।७१ ।।
जागरणं कृतवन्तौ प्रातर्द्वादशिकाऽभवत् ।
प्रभाते वेश्या दत्ता शय्या सलवणाचला ।।७२।।
गृहाणि गुरवे भक्त्या विप्रेभ्यो द्वादशाऽपि च ।
वस्त्रालंकारसंयुक्ता गावश्च वत्सिकायुताः ।।७३।।
भोजनं च सुहृन्मित्रदीनान्धकृपणैः समम् ।
लुब्धकेन तथा नार्या दृष्टमेतत्प्रपूजनम् ।।७४।।
श्रीहरेर्द्वादशिकायां प्रसादः शर्करात्मकः ।
चरणामृतसलिलं गृहीतं च ततः परम् ।।७५।।
ययतुः स्वगृहं तौ च वेश्यापि स्वगृहं गता ।
भक्तिमन्तस्त्रयस्ते वै कालेन निधनं गताः ।।७६।।
पुष्करप्रार्पणात्तत्र केशवार्पणसत्फलात् ।
विनष्टाशेषपापश्च पुण्यवान् लुब्धकः स तु ।।७७।।
पुष्करवाहनो राजाऽभवत् पुष्करखण्डके ।
राज्ञो नाम्ना महाखण्डः पुष्कराख्योऽभवत् पुरा ।।७८।।
भक्त्या तुष्टेन हरिणा कृष्णलालनसद्व्रतात् ।
व्रतसन्तुष्टया लक्ष्म्या विभूत्या भूभृतेऽर्पितम् ।।७९।।
कमलं काञ्चनं रम्यं कामदं कामगं परम् ।
लोकैः समस्तैर्नगरवासिभिः कमलेन सः ।।3.139.८०।।
विमानाख्येन नाकं सद्वीपानि व्यचरन्नृपः ।
सप्तमः पुष्करस्याऽस्य द्वीपः पुष्करनामकः ।।८१।।
पुष्पवाहननामाऽपि पुष्करासन इत्यपि ।
ख्यातिं प्राप तथा राज्ञी नारीसहस्रपूजिता ।।।८२।।
नाम्ना लावण्यवतीति बभूव कमलासमा ।
पुत्रास्तस्यामयुतं सम्बभूवुः पुष्करस्य वै ।।८३।।
या च वेश्या सापि जाता सपत्नी भूभृतो वधूः ।
देहान्ते नृपतिश्चापि लवण्या च प्रिया ह्युभौ ।।८४।।
ययतुश्चाक्षरं धाम मम लक्ष्मि परं पदम् ।
सपत्नी या तु वेश्याऽभूत् सा त्यक्त्वा योषितो वपुः ।।८५।।
कामदेवस्य वै पत्नी प्रीतिः रत्याः सपत्निका ।
लोकेष्वानन्दजननी व्यजायत सुरेश्वरी ।।८६।।
कृष्णलालनसंज्ञं च विभूतिद्वादशीव्रतम् ।
पुष्करपुष्पसंज्ञं वा व्रतमेतदुदीरितम् ।।८७।।
यथाकथञ्चित्कमले कमलैर्द्वादशी तिथिः ।
हरिं प्रपूज्य कर्तव्या देयं दानं च दक्षिणाः ।।८८।।
न वित्तशाठ्यं कुर्वीत भक्त्या दिशेद् यथाधनम् ।
सुवर्णकमलं यद्वा देयं पद्मं जलोद्भवम् ।।८९।।
देयं वा स्थलकमलं कमलेशः प्रसीदति ।
ददाति सार्वभौमं च राज्यं स्वर्गं दिवं परम् ।।3.139.९० ।।
सत्यं ददाति वा सौरं चान्द्रं ब्राह्मं पदं च वा ।
वैराजं वैष्णवं वापि पदं श्रीपुरमित्यपि ।।९१ ।।
वैकुण्ठं वापि गोलोकं चाव्याकृतं तथाऽमृतम् ।
अक्षरं परमं धाम ब्रह्मधाम ददात्यपि ।।९२।।
अहं विभूतिनाथोऽस्मि ददामि पूजकाय वै ।
अनन्तगुणकं लक्ष्मि विभूतिद्वादशीव्रतैः ।।९३।।
चक्रवर्तिनृपा लक्ष्मि ये ये भवन्ति भूतले ।
जाताः पूर्वेषु कल्पेषु विभूतिद्वादशीव्रतैः ।।९४।।
कमलं कमलास्थानं सौवर्णं तु मया सह ।
कमलस्य प्रदानेन कमलासहितस्त्वहम् ।।९५।।
वसामि दातरि चापि ममांऽशेन चिरायुषि ।
चक्रचिह्नं प्रददामि करे वै चक्रवर्तिनः ।।९६।।
मध्यांगुलिद्वयोः शंखौ शेषाणां चक्रकाष्टकम् ।
साक्षान्नारायणस्यैवं सन्ति चक्राणि पद्मजे! ।।९७।।
पद्मं करे पदे पद्मं चक्रं वा चक्रवर्तिनः ।
एवं करे ध्वजचिह्नं ध्वजदातुर्ददामि वै ।।९८।।
त्रिशूलार्पणकर्तुश्च त्रिशूलं प्रददामि च ।
धनुष्यदातुः सशरं धनुष्यं प्रददामि च ।।९९।।
मत्स्यदातुः करे मत्स्यं ददामि सर्वशोभनम् ।
स्वस्तिकस्य प्रदातुश्च स्वस्तिकं प्रददामि च ।। 3.139.१० ०।।
सुवर्णानां ध्वजादीनां दात्रे ददामि सर्वथा ।
ससागरां पृथिवीं वै चक्रवर्तित्वमित्यपि ।। १०१ ।।
यस्य दक्षकरे स्युश्च ध्वजः शूलो धनुः शरः ।
मीनः स्वस्तिक एते षट् सोऽहं नारायणः स्वयम् ।। १ ०२।।
लक्ष्मि साधुस्वरूपेण हृदये त्वां निधाय च ।
वामसक्थ्नि पाण्डुराभां धृत्वा वसामि भूतले ।। १ ०३।।
अदृश्या त्वं जनैर्लक्ष्मि मत्सेवाया विराजसे ।
तदा साधुस्वरूपे चाऽधुना त्वं पृथगेव या ।। १ ०४।।
त्वं विभूतिस्वरूपाऽसि व्रतैर्विभूतिदायिनी ।
वामहस्ते दण्डदीर्घरेखा मे। धर्मबोधिनी ।। १ ०५।।
पादयोरुभयोरुर्ध्वरेखे मे व्यापिके द्वयोः ।
धामसृष्ट्योरन्तरात्मबोधिन्यौ तेऽपि तद्विधे ।। १ ०६।।
मद्भक्तस्य कृपया मे चिह्नमेतद् भवेदपि ।
पठनाच्छ्रवणादस्य विभूतिफलमाप्नुयात् ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विशोकललिताद्वादशीव्रतस्य, विभूतिललिताकृष्णलालनव्रतस्य च निरूपणम् पुष्करवाहनाख्यस्य चक्रवर्तिनो
दृष्टान्तः चक्रवर्तिचिह्नानि चेति निरूपणनामा नवत्रिंशदधिकशततमोऽध्यायः ।। १३९ ।।