लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०९

विकिस्रोतः तः
← अध्यायः १०८ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०९
[[लेखकः :|]]
अध्यायः ११० →

श्रीनारयिणीश्रीरुवोच-
भगवन् प्राप्तमुत्कृष्टं स्तोत्रं ते भवपारदम् ।
बाधानाशकरं श्रेष्ठं भुक्तिमुक्तिप्रदं परम् ।। १ ।।
कर्मठाः स्तोत्रपाठेन कृतकर्मफलं प्रभो ।
भुक्त्वा यान्त्यथवा चाऽप्यभुक्त्वा मोक्षं प्रयान्ति ते ।। २ ।।
यदि भुक्त्वा प्रयान्त्येव क्व कीदृग् भुञ्जते फलम् ।
कस्य वा कर्मणः कीदृग् भुक्त्वा फलं प्रयान्ति ते ।। ३ ।।
सत्कर्मिणां तु ये लोकास्ताँश्चेद् भुक्त्वा प्रयन्ति वै ।
ब्रूहि ते कीदृशा यत्र मोहः पुनर्न जायते ।। ४ ।।
श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि! वक्ष्यामि सत्फलान्यपि ।
ज्ञातानि च पुनर्मोहं गन्तुर्नादधते परम् ।। ५ ।।
तपः कर्म हि मूर्धन्यं कर्मणां भवते सदा ।
स्वर्गः श्रेष्ठो हि तपसा लभ्यते कीर्तिसंभृतः ।। ६ ।।
दीर्घायुष्यं श्रेष्ठभोगा लभ्यन्ते च तपोबलात् ।
सम्पदो रूपमारोग्यं विद्या विज्ञानमुत्तमम् ।। ७ ।।
आधिपत्यं परं द्रव्यं सौभाग्यं वंशविस्तरः ।
लभ्यन्ते तपसा श्रेष्ठदेवत्वं तपसाऽऽप्यते ।। ८ ।।
तापसः सर्वमेतद्वै भुक्त्वा चिरं तपःफलम् ।
पश्चात् स्तोत्रफलं भुंक्ते ब्रह्मलोके हि शाश्वते ।। ९ ।।
मौनव्रतं तपः प्रोक्तं पालितं येन तस्य तु ।
वाक्सिद्धिर्जायते चाज्ञाप्रदत्वं जायते तथा ।। 3.109.१ ०।।
बहूनामुपदेष्टा स्याद् गुरुराचार्य इत्यपि ।
राजगुरुर्भवेच्चापि सेनापतिस्तथा भवेत् ।। ११ ।।
धर्मशास्ता भवेच्चापि नियामकस्तथा भवेत् ।
अत्र लोके स्वर्गलोके फलं भुक्त्वा स्तवस्य च ।। १२।।
फलं भोक्तुं प्रयात्येव धामाक्षरं परं हरेः ।
दानकर्ता भवेत् स्वर्गे देवेशो भूतले धनी ।। १३।।
राजा भवेदुपभोगान् भुक्त्वा स्तोत्रफलं लभेत् ।
परमेऽक्षरसंज्ञे वै राजते सर्वसौख्यभाग् ।। १४।।
ब्रह्मचर्यव्रतं श्रेष्ठं तप आनन्दवर्जनम् ।
चिरायुः स भवेल्लोके बली पुष्टो दृढो युवा ।। १५।।
अप्रधृष्योऽपराभाव्यो भवेद् ब्रह्मसमेश्वरः ।
फलं बहुसमा भुक्त्वा ततः स्तोत्रफलं लभेत् ।। १६।।
ब्रह्मलोकं प्रयात्येव मोदते ब्रह्मवेदिभिः ।
अहिंसाऽपि तपः श्रेष्ठं नियमाऽऽख्यं निगद्यते ।। १७।।
अदुःखं सुखमात्रं च लभते स्वरहिंसकः ।
सुखं तत्र परं भुक्त्वा ततः स्तोत्रफलं लभेत् ।। १८।।
याति धामाऽक्षरं श्रेष्ठं मोदते ब्रह्मवादिभिः ।
दीक्षा धर्मयुता तपोयुक्ता तपः परं मतम् ।। १९।।
दीक्षितो भक्तियुक्तश्च पारमेष्ठ्यपदं लभेत् ।
बार्हस्पत्यपदं चापि महाचार्यपदं लभेत् ।।3.109.२०।।
पूजनीयकुले जन्म सतां कुलेऽच्युतगृहे ।
लभते दीक्षितस्तत्र भुक्त्वा भोगान् ततः परम् ।।२१।।
स्तोत्रफलं सुखं भुंक्तेऽक्षरे मे धामसत्तमे ।
फलमूलाशनं चापि तपः श्रेष्ठं निगद्यते ।।२२।।
तत्फलं राज्यमासाद्य स्वर्गं श्रेष्ठं प्रविन्दति ।
पर्णाशनः पयोभक्षा यान्ति स्वर्गं समृद्धिदम् ।।२३।।
फलं भुक्त्वा ततो यान्ति स्तोत्रफलं मदक्षरम् ।
स्वर्णदानेन साम्राज्यं चक्रवर्तित्वमित्यपि ।। १४।।
यत्र क्वापि लभेल्लोके ततोऽक्षरं प्रयाति सः ।
स्तोत्रफलं तत्र भुंक्ते शाश्वतानन्दशेवधिम् ।।२५।।
गुरोः शुश्रूषणं सेवा तपः परं निगद्यते ।
सेवया लभ्यते विद्या प्रसन्नताऽऽशिषः शुभाः ।।२६।।
पुण्यं सर्वोत्तमं स्वर्गं यदिष्टं तद्धि लभ्यते ।
मातापित्रोश्च वृद्धानां पत्युः पत्न्याः कुटुम्बिनाम् ।।२७।।
गवां सतां सुराणां चातिथीनां परवासिनाम् ।
रुग्णानां चाप्यनाथानां दीनानां सेवनं शुभम् ।। २८।।
तपो वै परमं प्रोक्तं फलं सर्वोत्तमं सुखम् ।
यद्यदिष्टतमं लोके सर्वं विन्दति सेवया ।। २९।।
सार्वज्ञ्यं सेवया प्राप्य स्वर्गलोके महीयते ।
स्वर्गे सत्ये फलं भुक्त्वा स्तोत्रफलं प्रविदन्ति ।।3.109.३ ०।।
शाश्वतानन्दसम्पूर्णसुखानां सेविता भवेत् ।
अक्षरे परमे धाम्नि महामुक्तो भवेत् सदा ।।३ १ ।।
श्राद्धं कुर्यात्तु यश्चात्र दद्यात् पितृभ्य उत्तमम् ।
कव्यं हव्यं द्विजातिभ्यो भोजनं दक्षिणादिकम् ।।३२।।
फलं स्वर्गं चिरं भुक्त्वा पितृलोकं प्रगच्छति ।
तत्र चिरं फलं भुक्त्वा स्तोत्रफलं ततो लभेत् ।।३३।।
सत्यलोकं विहायैवाऽक्षरं लोकं प्रयाति सः ।
अत्र सन्ततिबाहुल्यं श्राद्धकर्तुर्भवत्यपि ।।३४।।
वैष्णवं तत्कुटुम्बं स्याद् भजित्वा परमेश्वरम् ।
नैवेद्यं ये समर्प्याऽपि नित्यं प्रपूज्य भावतः ।।३५।।
स्तोत्रस्याऽस्य प्रतापेनाक्षरं धाम प्रयाति च ।
एवं वंशप्रवंशा वै श्राद्धदातुः प्रजा रमे! ।।३६ ।।
प्रयान्ति चाक्षरं धाम स्तोत्रवक्ता प्रमोदते ।
प्रमोदन्ते वंशजाश्च सहवासाः सदाऽक्षरे ।।३७।।
गवां प्रसेवया याति स्वर्गं सत्यं ततः परम् ।
गोलोकं परमं याति स्तोत्रपुण्येन चाक्षरम् ।।३८।।
स्त्रियस्त्रिषवणं स्नात्वा लभन्ते चोत्तमान् वरान् ।
विप्राणीत्वं च देवीत्वं यान्ति स्तोत्रेण चाऽक्षरम् ।।३९।।
वाय्वाहारस्तपःकर्ता लभेद् यज्ञफलं दिवम् ।
स्तोत्रेण च ततो याति परमाक्षरमुत्तमम् ।।3.109.४०।।
नित्यस्नायी बुद्धिमान् स्यान्मेधावी स्फुर्तिमान् जनः ।
प्राणायामपरो याति स्वर्गं स्तोत्रेण चाक्षरम् ।।४१।।
स्थण्डिले शयनाढ्यस्तु लभते मन्दिराणि वै ।
राजयोग्यानि वै स्वर्गे स्तोत्रेण याति चाक्षरम् ।।४२।।
चीरवल्कलवस्त्राढ्यः प्रैति भूषाम्बराणि च ।
शय्यासनानि रम्याणि लभते च ततः परम् ।।४३।।
स्तोत्रेण याति मे धामाऽक्षरं मोदं प्रविन्दति ।
अग्निस्नातः प्रयात्येव सूर्यलोकं ततः परम् ।।४४।।
वह्निलोकं ततः स्तोत्रबलाद् यात्यक्षरं पदम् ।
रसानां नियमे याति सौभाग्यं स्वर्गमुत्तमम् ।।४५।।
अनामिषादः स्वर्याति चिरायुर्जायते दिवि ।
ततः स्तोत्रेण वै धामाऽक्षरं याति सुखास्पदम् ।।४६।।
उदवासी नृपः स्याच्च समुद्राधिपतिर्भवेत् ।
भूत्वा च वरुणः स्तोत्रबलाद् धामाऽक्षरं ततः ।।४७।।
सत्यव्रती प्रयात्येव स्वर्गं स्तोत्रेण चाऽक्षरम् ।
पानीयदानमात्रेण स्वर्गेऽमृतादनो भवेत् ।।४८।।
अन्नदोऽपि प्रयात्येव स्वर्गं भोगाढ्यमुत्तमम् ।
कामभोगान् प्रभुक्त्वा स्तोत्रेण यात्यक्षरं पदम् ।।४९।।
सान्त्वदः सर्वभूतानां याति सत्यं पदं शुभम् ।
देवशुश्रूषया याति सिद्धलोकं तु वैधसम् ।।3.109.५०।।
स्तोत्रेण च ततो यात्यक्षरं मत्परमं पदम् ।
दीपदाता दिव्यदृष्टिर्भवत्येव सुसिद्धिमान् ।।५१।।
सत्यलोके चिरं स्थित्वा स्तवेन याति चाक्षरम् ।
आदर्शादिप्रदाता च वैराज्यमेति सत्पदम् ।।५२।।
गन्धमाल्यादिदानेन गान्धर्वं चैति राजसम् ।
पञ्चकेशाऽक्षौरकर्मा वंशविस्तारवान् भवेत् ।।५३।।
कन्यादानविधाता तु स्वर्गं वैराजसत्पदम् ।
लभते चैश्वरं भावं दासीदाससहस्रकम् ।।५४।।
अलंकारान् महाभोगान् दिव्यान् प्रासादसत्तमान् ।
यज्ञैश्चानशनाद्यैश्च स्वर्गं पितृपदं तथा ।।५५।।
फलपुष्पादिदानेन तूद्यानादिपतिर्भवेत् ।
तिलधेनुप्रदाता तु वसुलोकं प्रयाति वै ।।५६।।
भूमिदाताऽव्याकृतं च धाम याति सुखास्पदम् ।
धुर्यदानेन च वसुलोकं याति सुखाश्रयम् ।।५७।।
छत्रदानेन चैशत्वं कैलासे लभते जनः ।
उपानहो प्रदानेन यानविमानवान् भवेत् ।।५८।।
गन्धदानेन सुरभिर्भवेदीश्वरकोटिकः ।
सपुष्पफलवृक्षस्य दाताऽमृतपदं व्रजेत् ।।५९।।
रसदाताऽमृतं धाम गच्छेदीश्वरकोटिकः ।
स्रग्धूपलेपदानेन वैकुण्ठं लभते परम् ।।3.109.६० ।।
शय्यादानविधाता वै गोलोकं याति भक्तराट् ।
तत्र तत्र महानन्दान् भुक्त्वा स्तोत्रेण चाऽक्षरम् ।।६ १ ।।
प्रयात्येव प्रतापान्मे लक्ष्मि धामोत्तमोत्तमम् ।
तडागस्य प्रदाता वै प्रयात्यमृतधाम सः ।।६२।।
तत्र भोगान्परान् भुक्त्वा स्तोत्रेण याति चाऽक्षरम् ।
धर्मार्थकाममोक्षाणां दातृ सरोवरार्पणम् ।।६३।।
तडागेन प्रदेशस्य श्रियो यान्ति विकासताम् ।
चतुर्दशस्तरवासाः संश्रयन्ति जलाशयम् ।।६४।।
अग्निहोत्रफलं स्वर्गगोदानस्य फलं तथा ।
अग्निष्टोमफलं चातिरात्रयज्ञफलं तथा ।।६५।।
वाजिमेधफलं चापि लभते सरसः प्रदः ।
गावः सन्तो जनाः पक्षिवराः प्राणप्रधारिणः ।।६६।।
पशवः पादपा वारि पिबन्ति जन्तवोऽपि च ।
विभ्रमन्ति तटे तत्र स्नान्ति च क्षालयन्ति च ।।६७।।
एवं तडागदातुर्वै फलं त्वनन्तकं भवेत् ।
सर्वदानेषु वै ज्येष्ठं पानीयं शान्तिदं परम् ।।६८।।
जलदाताऽमृतभोक्ता जायते चैश्वरे पदे ।
विरजायास्तटे स्थित्वा चिरं गोलोकमेति च ।।६९।।
भुक्त्वा भोगान् सुबहुधा ततः स्तोत्रेण चाऽक्षरम् ।
प्रयात्येव प्रभक्तो मे स्तोत्रफलं पराऽक्षरम् ।।3.109.७०।।
अथ वृक्षप्रदाता च दिव्यवृन्दावनं शुभम् ।
गोलोकस्थं समेत्येव गुल्मदाता लतार्पकः ।।७१ ।।
वल्लीप्रदो वंशदाता तृणदो याति तत्पदम् ।
देवलोकं शुभं भुक्त्वा पितृलोकं प्रयाति च ।।७२।।
वृक्षाः पुष्पैः सुरगणान् पितॄन् फलैः रसादिभिः ।
अतिथीन् छायया पत्रैः प्राणिनः पूजयन्ति वै ।।७३।।
ददत्याश्रयमुत्कृष्टं देहिभ्यो वृक्षजातयः ।
बृक्षदं पुत्रवद् वृक्षास्तारयन्ति परत्र तु ।।७४।।
वृक्षरोपी चेष्टयज्ञः सत्यवादी जितेन्द्रियः ।
स्वर्गे सत्ये च वैराजेऽमृतेऽव्याकृतधामनि ।।७५।।
वैकुण्ठे चापि गोलोके महीयन्तेऽतिमोदिनः ।
तेऽपि लक्ष्मि स्तवेनैव प्रयान्त्यक्षरमुत्तमम् ।।७६।।
अभयं सर्वभूतेभ्यो दत्वाऽभयं परेऽक्षरे ।
प्राप्नोत्येव स्तवेनाऽपि शाश्वतानन्दभाग् भवेत् ।।७७।।
व्यसनेष्वपि लोकानामनुग्रहः परो वृषः ।
दुःखहा व्यसनक्षेप्ता स्वर्गं याति सुखास्पदम् ।।७८।।
यच्चाऽभिलषितं दद्यात् तृषितायाऽभियाचते ।
दत्तं तूर्णमुपयुक्तं ग्रहीता तोषणं व्रजेत् ।।७९।।
श्रेष्ठं तद्दानमेवाऽत्र दातारमुपगच्छति ।
स्वर्णदानं धेनुदानं पृथिवीदानमुत्तमम् ।।3.109.८०।।
प्रासाददानं कन्याया दानं विद्याप्रदानकम् ।
अन्नवारिप्रदानं च भूषाम्बरप्रदानकम् ।।८१।।
गृहोपकरणानां च दानं शृंगारदानकम् ।
यानवाहनदानं चाऽभयदानं विशेषतः ।।८२।।
विश्वासदानं द्रव्याणां दानं कुमारदानकम् ।
वृषभाणां गजानां च वाजिनां दानमुत्तमम् ।।८३।।
छत्रासनादिदानं च वेत्रदानं परं मतम् ।
सिंहासनप्रदानं च गजासनप्रदानकम् ।।८४।।
ज्ञानदानं भक्तिदानं पुरुषार्थप्रदानकम् ।
कामदानानि चैतानि पवित्राण्युत्तमानि च ।।८५।।
साधुभ्यो दैवतवद्भ्यो दत्तान्येतानि पद्मजे ।
नित्यदा खलु दातारं पापात् प्रमोक्षयन्ति हि ।।८६।।
पुण्यपुञ्जैर्योजयन्ति नयन्ति दिवमुत्तमम् ।
सत्यलोकं च वैराजान् लोकान् नयन्ति तानि ह ।।८७।।
विष्णुलोकान् सदाशिवलोकान् नयन्ति तानि ह ।
मायालोकानीशलोकान् गोलोकान् प्रापयन्ति च ।।८८।।
लक्ष्मीलोकान् मुक्तलोकान् श्रीलोकान् प्रापयन्ति च ।
अव्याकृताऽमृतधामविशेषान् प्रापयन्ति च ।।८९।।
पार्षदानां महालोकान्नारीलोकान्नयन्ति च ।
साध्वीलोकान् सतीलोकान् दातारं प्रापयन्ति च ।।3.109.९०।।
वह्निलोकान् धर्मलोकान् चन्द्रलोकान्नयन्ति च ।
यद्यदिष्टतमं लोके यच्च स्याद् दयितं प्रियम् ।।९१ ।।
तत्तद् देयं सुपात्राय फलमक्षयदं हि तत् ।
प्रियकृल्लभते नित्यं प्रियं प्रियप्रदो भवेत् ।।९२।।
प्रियो भवति भूतानामिह चापि परत्र च ।
अमित्रमपि दीनं चेच्छरणैषिणमागतम् ।।९३।।
व्यसने योऽनुगृह्णाति स वै नारायणो मतः ।
कृशायाऽधीतविद्याय वृत्तिक्षीणाय सीदते ।।९४।।
दद्यात् कष्टं नाशयेच्च स वै नारायणो मतः ।
सत्कर्मपरमान् साधून् पुत्रदारकुटुम्बिनः ।।९५।।
अयाचमानान् दद्याच्च सर्वोपायैः प्रतुष्टये ।
लालसा नैव भोगेषु स्वर्गेष्वपि प्रकुर्वते ।।९६।।
नित्यतुष्टा निराशाश्च कृताऽवसथवासिनः ।
ब्रह्मपरा प्रदातव्याः सर्वस्मृद्धिभिरादरात् ।।९७।।
यदि ते प्रतिगृह्णीयुः श्रद्धापूतं प्रदापितम् ।
दत्तं तत् कोटिपुण्यानां प्रदं मोक्षप्रदं भवेत् ।।९८।।
धार्मिका भक्तिमन्तो वै विद्वांसो व्रतिनो जनाः ।
तापसाः शीलयोगाश्च दान्ताः पात्राणि साधवः ।।९९।।
तेषु दत्तं महायज्ञो नित्यं ब्रह्ममखो भवेत् ।
विशिष्टः सर्वयज्ञेभ्यश्चानृण्यसम्प्रदः सदा ।। 3.109.१० ०।।
कुप्यन्ति नैव चाऽलाभे लुभ्यन्ति न तृणेष्वपि ।
तुष्यन्ति सुखिनो दृष्ट्वा मोदन्ते वर्द्धयन्ति च ।। १० १।।
नारायणं च मां नित्यं स्मरन्ति कीर्तनैः सदा ।
साधवो ब्राह्मणा ब्रह्मधराश्च ऋत्विजोऽमलाः ।। १०२।।
पुरोहितास्तथाऽऽचार्यास्तादृश्यः साध्विकाः स्त्रियः ।
मातरः पुत्रकल्याणकर्त्र्यः पूज्यतमाश्च याः ।। १ ०३।।
वित्तादिना सदा पूज्या नमस्कार्या यथायथम् ।
दातव्याश्चर्द्धिभिर्नित्यं देवा देव्यो हि ता मताः ।।१ ०४।।
यथा स्वाम्याश्रयो धर्मः स्त्रीणां लोके सनातनः ।
तथा स्वाम्याश्रयो धर्मो दानात्मा देवताश्रयः ।। १ ०५।।
साधुभ्यः प्रथमं दद्याद् ब्रह्मविद्भ्यः शुभं मुहुः ।
अनाथेभ्यस्ततो दद्याद् भिक्षुकेभ्यस्ततः परम् ।। १ ०६।।
विप्रेभ्यश्च ततो दद्यान्नारीभ्यश्च ततः परम् ।
ब्राह्मणेभ्यस्ततो दद्यादन्येभ्यश्च ततः परम् ।। १ ०७।।
दासादिभ्यस्ततो दद्यादेवं दाता प्रमोदते ।
दानफलं च लोकेषु भुक्त्वा ब्रह्म प्रयात्यनु ।। १ ०८।।
पुरुषोत्तमसामाख्यस्तोत्रेणैत्यक्षरं पदम् ।
सर्वदानफलं सौख्यं मोदमानन्दमुत्सवम् ।। १ ०९।।
लभते शाश्वतमूर्तिर्ब्रह्मसायुज्यमास्थितः ।
पठनाच्छ्रवणादस्य ब्रह्मसायुज्यभाग् भवेत् ।। 3.109.११ ०।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने दानफलभोगोत्तरं पुरुषोत्तमसामजपफलमक्षरधामस्थशाश्वताऽऽनन्दात्मकं भुंक्ते दातेत्यादिनिरूपणनामा
नवाधिकशततमोऽध्यायः ।। १०९ ।।