सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः १०३

विकिस्रोतः तः
← अध्यायः १०२ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः १०३
[[लेखकः :|]]
अध्यायः १०४ →

श्रीनारायणीश्रीरुवाच-
कदा काले प्रदानेन स्वर्णगोभूमयः फलम् ।
कीदृशं समददति तन्मे बोधय केशव ।। १ ।।
श्रीपुरुषोत्तम उवाच-
दत्वा दानानि प्रथमे दिने शुक्लस्य पद्मजे ।
श्राद्धभोजनयुक्तानि प्राप्नुयात् सुभगाः प्रियाः ।। २ ।।
द्वितीयायां तथा दत्वा लभते कन्यकाः सुतान् ।
तृतीयायां तथा दत्वा लभते श्रेष्ठवाजिनः ।। ३ ।।
चतुर्थ्यां तु तदा दत्वा लभते पशुगोधनम् ।
पञ्चम्यां तु तथा दत्वा लभते सद्गुणान् सुतान् ।। ४ ।।
षष्ठ्यां तु च तथा दत्वा लभते सद्यशो बलम् ।
सप्तम्यां तु तथा दत्वा लभते क्षेत्रवाटिकाम् ।। ५ ।।
अष्टम्यां तु तथा दत्वा लभते द्रव्यमुत्तमम् ।
नवम्यां तु तथा दत्वा हस्त्युष्ट्राऽश्वादिकान् लभेत् ।। ६ ।।
दशम्यां तु तथा दत्वा कामधेनुयुतो भवेत् ।
एकादश्यां तथा दत्वा रूप्यशेवधिमान् भवेत् ।। ७ ।।
द्वादश्यां तु तथा दत्वा स्वर्णरत्नादिमान् भवेत् ।
त्रयोदश्यां तथा दत्वा लोकराजस्तथा भवेत् ।। ८ ।।
चतुर्दश्यां तथा दत्वा साम्राज्यं समवाप्नुयात् ।
पूर्णमास्यां तथा दत्वा चमत्कारी जनो भवेत् ।। ९ ।।
अमायां तु तथा दत्वा सर्वान् कामानवाप्नुयात् ।
मे जयन्त्यां तथा दत्वा मोक्षं परममाप्नुयात् ।। 3.103.१ ०।।
नक्षत्रेषु विशेषेण दानफलं वदामि च ।
कृत्तिकायां प्रदानेन भवेद्वै विगतज्वरः ।। १ १।।
रोहिण्यां सम्प्रदानेन चापत्यवान् भवेज्जनः ।
दानेन मृगशिरसि तेजस्वी मानवान् भवेत् ।। १२।।
आर्द्रायां तु प्रदानेन जयवान् सर्वदा भवेत्। ।
पुनर्वसौ प्रदानेन धनवान् ऋद्धिमान् भवेत् ।। १ ३।।
पुष्ये दानप्रदाता तु सर्वथा पुष्टिमान् भवेत् ।
आश्लेषायां प्रदानेन धीरान् पुत्रानवाप्नुयात् ।। १४।।
मघायां तु प्रदानेन प्रजाप्राधान्यमाप्नुयात् ।
पूर्वाफाल्गुनिकादानाच्छ्रेष्ठभाग्ययुतो भवेत् ।। १५।।
उत्तराफाल्गुनीदानाद्बह्वपत्यो भवेज्जनः ।
हस्ते दानप्रकर्ता तु कार्यफलानि चाप्नुयात् ।। १६।।
चित्रायां तु प्रदानेन लभेद् रूपवतः सुतान् ।
स्वातौ दानप्रदाता तु वाणिज्यरत्नवान् भवेत् ।।१७।।
विशाखायां प्रदाता तु सुपुत्रो बहुपुत्रवान् ।
अनुराधासु दाता स्याच्चक्रवर्ती प्रधानकः ।। १८।।
ज्येष्ठायां सम्प्रदाता वै चाधिपत्यं लभेदिह ।
मूले दानप्रकर्ता तु लभेदारोग्यमुत्तमम् ।। १ ९।।
पूर्वाषाढाप्रदानेन यशोभाङ्मानवान् भवेत् ।
उत्तराषाढिकादानाद् वीतशोको भवेत् सदा ।।3.103.२०।।
दानं त्वभिजिति कुर्वन् भिषक्सिद्धिमवाप्नुयात् ।
श्रवणे दानकर्ता तु लभेत्सुपरमां गतिम् ।।२१ ।।
धनिष्ठायां प्रदाता स्यादाचार्यो गुरुराण्नृपः ।
शतभिषाप्रदानेन धातुसिद्धिमवाप्नुयात् ।।२२।।
पूर्वभाद्रपदादानफलं चाजाविकादिकम् ।
उत्तरप्रोष्ठपदादो गोवाजिगजवान् भवेत् ।।२३।।
रेवत्यां तु प्रदानेन स्वर्णरूप्यादिमान् भवेत् ।
अश्विनीदानकर्ता स्यान्महिष्यश्वादिमान् जनः ।।२४।।
भरण्यां दानदो दीर्घजीवी भवेन्न संशयः ।
गोभूस्वर्णप्रदाता वै सर्वफलान्यवाप्नुयात् ।।२५।।।
परीक्षेत न वै दानपात्राणि दानधर्मवित् ।
दैवे पैत्र्ये च साधव्ये परीक्षेत न वै क्वचित् ।।२६।।
विद्यावन्तो भक्तिमन्तो ब्रह्मिष्ठाः सर्वपावनाः ।
सदाचारपरा ब्रह्मदेयाश्च सामगा द्विजाः ।।२७।।
मातापितृसेवकाश्च देवानां सेवकास्तथा ।
ब्रह्मचर्यपराः शुद्धा यतयः सर्वपावनाः ।।२८।।
सत्यधर्मव्रतशीलाः पुण्यतीर्थनिषेविणः ।
मखाभिषेकवन्तश्चाऽवभृथस्नानकारिणः ।।२९।।
पारायणप्रवक्तारस्तापसाः कीर्तने रताः ।
मोक्षमार्गपराः कथावाचका धर्मदेशकाः ।।3.103.३० ।।
गुरुमन्त्रप्रदा वृद्धादरा गोसेवकाश्च ये ।
साधवः साधुसेवाढ्याः पात्राणि सर्वपावनाः ।।३ १।।
अग्र्या धर्मप्रलेखेषु मोक्षलेखेषु चाग्रगाः ।
विद्याश्रया ज्ञानशीलाः शान्ता वै पंक्तिपावानाः ।।३२।।
यावदेते प्रपश्यन्ति पंक्तिं पुनन्ति तत्क्षणात् ।
ध्यानज्ञानपरा भक्तिपरास्तपःपरास्तथा ।।३३।।
निर्गुणक्रियया युक्ताः साधवः पंक्तिपावनाः ।
प्रेतानां मुक्तिदाः सन्तो भोजिताः पूजिता नताः ।। ३४।।
भक्तिमन्तस्तापसाश्च सन्तो ब्रह्माण्डपावनाः ।
तपश्चैषामिन्द्रियाणां निग्रहः परमं मतम् ।।३५।।
मनसो निग्रहश्चापि श्रीहरेर्धारणं सदा ।
त्यागस्य चापि सम्पत्तिस्तप उत्तममेव तत् ।।३६।।।
उपवासो ब्रह्मचर्यं मौनं क्षमा तपः परम् ।
तितिक्षा तुष्टिरौदार्यं सहनं तप उत्तमम् । । ३७ ।।
ऋतवादित्वमेवाऽपि विघसाशित्वमित्यपि ।
अमृताशित्वमेवापि परमं तप उच्यते ।। ३८ ।।
एकभुक्तो भवेदेव सदोपवासिवत् खलु ।
एकपत्नीव्रतश्चापि ब्रह्मचारी सदा भवेत् ।। ३९ ।।
ऋतुमात्रप्रसंगी च साधुरेव भवेद्धि सः ।
स्त्रीमात्रसंगरहितो मुक्तो भूमौ न संशयः ।। 3.103.४० ।।
स्वर्णस्त्रीपाशरहितो द्विभुजः परमेश्वरः ।
तादृशी स्त्री धर्मयुक्ता साक्षान्नारायणी मता । ।४ १ । ।
साध्वी सा दानपात्रं च सती पात्रं तथोत्तमम् ।
विधवा दानपात्रं चाऽप्यनाथा दानपात्रकम् । ।४२।।
कन्यका दानपात्रं च वृद्धा दानस्य पात्रकम् ।
निराश्रया दानपात्रं यदि भक्तिवृषान्विता । ।४३ ।।
दानदाता पवित्रो वै सदा भवति भक्तिमान् ।
विभज्य च ततो भुंक्तेऽमृतभोजी भवेद्धि सः । । ४४।।
देवेभ्यः सन्निवेद्याऽत्ता विघसाशी भवेद्धि सः ।
एतादृशस्य भवने ह्यदृश्या अपि ऋद्धयः ।। ४५ ।।
मूर्तरूपं परं प्राप्य मोदन्ते मोदयन्ति तम् ।
देवताः पितरः सिद्धा योगिनो यतयस्तथा । ।४६ । ।
सन्त ईशा ईश्वराण्यो रमन्ते दातृमन्दिरे ।
अप्सरसश्च गन्धर्वाः सुरा देव्यश्च साधवः ।।४७ ।।
सत्यश्च भाग्यवत्यश्च तथा च कामधेनवः ।
पुत्राः पौत्राः सुताः पुत्र्यो गावश्चास्य भवन्ति हि ।।४८ ।।
एवं दातुः कुटुम्बं वै सर्वं देवकुलं भवेत् ।
पशवो देवपशवः सस्यानि दैवतान्यपि ।।४९ ।।
स्वर्णरूप्यादिकं सर्वं लक्ष्मीरूपं सुदैवतम् ।
भाग्यान्यपि च सर्वाणि रूपं भूषाश्च दैवतम् । । 3.103.५० ।।
एवं दातुर्भवेदेव दिव्यं दैवं कुटुम्बकम् ।
तस्माल्लक्ष्मि प्रदातव्यं स्वर्णं गौः पृथिवी शुभा । । ५१ ।।
यदि पाचनशक्तिः स्याद् ग्रहीतव्यं न चान्यथा ।
अल्पशक्तेः पुण्यनाशो भवत्येव प्रतिग्रहात् ।। ५२ ।।
सप्तर्षिभ्यः पुरा राजा वृषादर्भिः समुत्सुकः ।
रत्नान्यदर्शयद् दातुं नाऽगृह्णन् ऋषयस्तदा । ।५३ । ।
वृषादर्भिः स्वयं प्राह समर्थाः स्थ प्रतिग्रहे ।
प्रतिग्रहस्तारयति वृणुध्वं वित्तमुत्तमम् ।। ५४।।
सुवर्णानि रूप्यकाणि मौक्तिकानि च हीरकान् ।
मणीन् श्वेतगजानश्वान् श्वेतान् गोवृषभाँस्तथा ।।५५ ।।
गृष्टीश्चाग्न्याः कामधेनूर्ग्रामान् क्षेत्राणि चार्पये ।
राज्यं राज्ञीर्दासवर्गान् दासीदास्ये महासभाः ।।५६ ।।
प्रासादान् सरितश्चाद्रीन् दास्ये वनानि सर्वशः ।
गृह्णन्तु ब्राह्मणा मेऽद्य विप्राश्च साधवो मम ।।५७।।
अदेयं मे विद्यते न मोक्षार्थं प्रयते यतः ।
दत्वा पात्रेभ्य एवाऽत्र लप्स्येऽहं शाश्वतं फलम् ।।५८।।
इत्येवं त्वर्थयन्तं वै दानं दातुं ह्युपस्थितम् ।
ऋषयः प्राहुरव्यग्रा धीराः शान्ताः प्रतोषिणः ।।५९।।
राजन् प्रतिग्रहो राज्ञां मध्वास्वादो विषोपमः ।
तद् दाव इव निर्दह्यात् प्राप्तो राजपरिग्रहः ।।3.103.६०।।
अप्रतिग्राह्यमेवाऽतः प्रेत्येह च सुखेप्सुना ।
राजधनं प्रतीच्छन् वै पापिष्ठां लभते गतिम् ।।६१।।
यत् पृथिव्यां व्रीहियवं हिरण्यं पशवः स्त्रियः ।
सर्वं तन्नाऽलमेकस्य तस्माद् विद्वान् शमे वसेत् ।।६२।।
उत्पन्नस्य रुरोः अंगं वर्धमानस्य वर्धते ।
पुरुषस्य स्त्रियाश्चापि तथेच्छा वर्धते सदा ।।६३।।
न तल्लोके द्रव्यमस्ति यल्लोकान् परितर्पयेत् ।
समुद्रतृष्णः पुरुषो न कदापि प्रतुष्यति ।।६४।।
कामं कामयमानस्य कामो यदोपयुज्यते ।
प्रकामः स प्रवर्धेत सतृष्णश्चाति विध्यति ।।६५।।
प्रतिग्रहे संयमो वै तपो धारयते ध्रुवम् ।
परिग्रहे तपः सर्वं नश्यत्येव न संशयः ।।६६।।
तपःसंचय एवेह विशिष्टो द्रव्यसञ्चयात् ।
तस्माद् राजान् धनं तेऽस्तु मा विषं सेचय द्विजे ।।६७।।
दावं राजधनं नैवेच्छामः शान्ता महर्षयः ।
स्वस्ति तेऽस्तु महाराज! यामो वयं दिवं पुनः ।।६८।।
इत्युक्त्वा प्रययुः सर्वर्षयो दानग्रहं विना ।
वृषादर्भिस्ततः सम्यज्ज्ञातवान् दानघोरताम् ।।६९।।
अपात्रेऽर्पितदानस्याऽपथ्यत्वं सुतरां खलु ।
तस्मात् पात्रं हि दानानां पुण्याश्रया द्विजास्तथा ।।3.103.७० ।।
सन्तोऽपि भगद्भक्तास्तेभ्यो देयं विशेषतः ।
विप्रा अपि हरेर्भक्तास्तेभ्यो देयं विशेषतः ।।७१ ।।
ये लोभं नैव कुर्वन्ति स्वार्थमात्रविवर्जिताः ।
श्रीहरेः पूजकास्तेभ्यो देयं दानं विशेषतः ।।७२ ।।
पात्रजनः सर्वरीत्या लोभं सदा विवर्जयेत् ।
हरये चाऽर्पणं मत्वा गृह्णीयान्नान्यथा क्वचित् ।।७३ ।।
वृषादर्भिस्ततो लक्ष्मि प्रयागे कुंभयोगके ।
ददौ दानानि गत्वैव साधुभ्यस्तानि भाववान् ।।७४।।
अथाऽऽगतं विमानं च वैकुण्ठाद् यामुने तटे ।
गंगायाः संगमे विष्णुपार्षदैः शोभितं तदा ।।७५।।
राजानं पार्षदा नीत्वा ययुर्विकुण्ठधाम ह ।
एवं साधुजनानां वै सेवया मोक्षणं रमे! ।।७६।।
भवत्येव न सन्देहस्तस्मात् पात्रं समर्जयेत् ।
दद्याद्भावेन तस्मै च हरयेऽर्पणमस्त्विति ।।७७।।
अथ दद्याच्छत्रदानं चोपानद्दानमित्यपि ।
धोत्रकञ्चुकदानं च शिरस्त्राणसमर्पणम् ।।७८।।
भवेच्छत्रपतिस्तेन भवेद्विमानगस्तथा ।
दद्यात् सिंहासनदानं राज्याधिपो भवेत्ततः ।।७९।।
दद्याच्चामरदानं च वेत्रदानं तथाऽर्पयेत् ।
ध्वजदानं प्रकुर्याच्च रथदानं चरेत्तथा ।।3.103.८०।।
कोशदानं प्रकुर्याच्च कणसञ्चयदानकम् ।
इक्षुक्षेत्रप्रदानं च सस्यक्षेत्रप्रदानकम् ।।८ १।।
सरोवराऽर्पणं चापि शाकवाटीप्रदानकम् ।
उद्यानपुष्पवाट्यादेर्दानं कुर्यात्प्रयत्नतः ।।८२।।
शाटीभूषाकञ्चुकीन कुर्याद् दानानि वै तथा ।
खद्वाशय्याप्रदानानि कुर्यात् प्रेतस्य मुक्तये ।।८३।।
पात्रगर्गरिकादानं कलशस्थालिकाऽर्पणम् ।
शृंगारवस्तुदानानि दद्यात् प्रेतस्य मुक्तये ।।८४।।
उदकुंभीदुग्धकुंभीदधिकुंभीप्रदानकम् ।
जलद्रोणीघृतकुंभीकण्डन्यादिसमर्पणम् ।।८५।।
मुशलस्य प्रदानं च मार्जनीसम्प्रदानकम् ।
व्यजनादेः प्रदानं च दीपपेटीप्रदानकम् ।।८६।।
शय्याध्रीसम्प्रदानं च पात्रध्रीसम्प्रदानकम् ।
चुल्लिकापेषणीदानं दर्वीचीपिटिकाऽर्पणम् ।।८७।।
सन्दंशदानं कांगकेशीदानं दर्पणदानकम् ।
रशनारज्जुदानानि कारयेत् प्रेतमुक्तये ।।८८।।
जलदानं रन्धितान्नप्रदानं च फलार्पणम् ।
पयःपाकादिदानं च मिष्टान्नानां प्रदानकम् ।।८९।।
गोधूमशालितिलानां दानानि विविधानि च ।
कुर्याद् रसमधुक्षारार्पणं प्रेतस्य मुक्तये ।।3.103.९०।।
महाकम्बलदानानि महाम्बरप्रदानकम् ।
महाशृंगारदानानि कुर्यात् प्रेतस्य मुक्तये ।।९१ ।।
एकादश्यादिपुण्यानां दानं कुर्यात् प्रयत्नतः ।
व्रतदानं तपोदानं भक्तिदानं कथाऽर्पणम् ।।९२।।
जपदानं धर्मदानं कुर्यात् प्रेतस्य मुक्तये ।
वायुवाहनदानं च वह्निवाहनदानकम् ।। ९३।।
जलवाहनदानं च भूवाहनप्रदानकम् ।
नरयानप्रदानं च यन्त्रवाहनदानकम् ।।९४।।
सौधदानं मन्दिरस्य दानं प्रासाददानकम् ।
ग्रामदानं वर्मदानं कुर्यात् प्रेतस्य मुक्तये ।।९५।।
शृणु लक्ष्मि पुरा नैजे चाश्रमे संवसन् ऋषिः ।
क्रीडन् वै धनुषा बाणान् जमदग्निर्मुमोच ह ।।९६।।
तानानीय शरान् पत्नी रेणुकाऽदात् पुनः पुनः ।
मध्याह्ने विषतापश्च सूर्यस्योग्रोऽभवत्तदा ।।९७।।
दग्धपादा तु सा पत्नी शनैरायात् पतिं प्रति ।
मुनिः प्राह कथं कान्ते! चिरायते शराऽऽहृतौ ।।९८।।
पत्नी प्राहाऽर्कतापेन दग्धापादा भवामि वै ।
मुनिस्तूर्णं समाकर्ण्य शरान्मुमोच भास्करम् ।।९९।।
सूर्यस्त्रस्तश्चाययौ च विप्ररूपो मुनिं प्रति ।
उवाचर्षे हत मा मां प्रसादये क्षमस्व माम् ।। 3.103.१००।।
मुनिः प्राह मम पत्न्याः पन्थाः सुखगमो यथा ।
भवेत् तापविहीनो वै तथा सूर्य विधापय ।।१० १।।
श्रुत्वा सूर्यो ददावस्मै छत्रोपानहमाशु वै ।
स्वल्पं यानं कामगं च भूषाम्बराणि वै तथा ।। १ ०२।।
पात्रमक्षयमेवाऽपि कल्पछायां वितानजाम् ।
हारं तापहारं चापि तृप्तिदं चामृतं तथा ।।१ ०३।।
उपकरणान्यन्यानि ददौ सूर्यः सुखानि च ।
ययौ नत्वा दिवं चाऽर्को रेणुकाऽभूत् सुखाश्रया ।।१ ०४।।
अपाददग्धा मृदुला ऋषिः प्रसन्नतां गतः ।
एवं छत्रादिदानं वै प्रवृत्तं सूर्यमूलकम् ।।१ ०५।।
तत्तद्दानप्रदानेन जीवतां प्रेतदेहिनाम् ।
दुःखशान्तिर्भवत्येव पुण्येन मोक्षणं भवेत् ।। १०६।।
पठनाच्छ्रवणादस्य सर्वदानफलं भवेत् ।
लक्ष्मि! दानफलं सर्वं पुनरायाति दातरि ।। १ ०७।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने विविधदानैः प्रेतोद्धारो भवति, दानपात्रं श्रेष्ठं साधुजनश्चेत्यादौ वृषादर्भेः सूर्यस्य च निदर्शनमित्यादिनिरूपणनामा त्र्यधिकशततमोऽध्यायः ।। १०३ ।।