लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०६४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ६३ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ६४
[[लेखकः :|]]
अध्यायः ६५ →

श्रीनारायणीश्रीरुवाच-
हरे नारायण कृष्ण परमेश सनातन ।
कस्यां तिथौ किंस्वरूपो भवान् पूज्यः प्रवेदय ।। १ ।।
श्रीपुरुषोत्तम उवाच-
प्रतिपद्धनदस्योक्ता तत्र पूज्योऽहमेव ह ।
कुबेरमूर्तिरूपो वै धनदोऽहं भवामि हि ।। २ ।।
लक्ष्म्यास्ते वै द्वितीयाऽस्ति त्वं पूज्या पुरुषोत्तमी ।
सर्वलक्ष्मीप्रदा त्वं स्या मदात्मिका नरायणी ।। ३ ।।
तृतीया पार्वतीदेव्यास्तिथिः प्रोक्ता शुभा प्रिये ।
तत्र पूज्या पार्वती तु सौभाग्यदा हि सा मता ।। ४ ।।
गणेशस्य चतुर्थी वै पूज्यो विघ्नहरो हि सः ।
कृष्णनारायणरूपो लाभादिसम्प्रदोऽपि सः ।। ५ ।।
चन्द्रस्य पञ्चमी प्रोक्ता पूजनीयः शशी ह्यहम् ।।
गोवृषवाटिकादाता भवामि चामृतान्नदः ।। ६ ।।
कार्तिकस्य तिथिः षष्ठी कार्तिकं पूजयेत्तदा ।
जयप्रदो ग्रहहर्ता भवामि कार्तिकाऽऽत्मकः ।। ७ ।।
सप्तमी तु रवेर्बोध्या सूर्यः पूज्यस्तदा प्रिये ।
सूर्यनारायणश्चाऽहं तेजो ददामि नैकधा ।। ८ ।।
दुर्गायास्त्वष्टमी बोध्या दुर्गा पूज्या शुभप्रदा ।
सर्वकष्टहरा सा च मम शक्तिः सनातनी ।। ९ ।।
नवमी चैव मातॄणां पूज्या वै मातरः शुभाः ।
रक्षाकर्यो भवन्त्येव क्षेमंकर्यो हि वंशिनाम् ।। 3.64.१० ।।
यमस्य दशमी बोध्या यमः पूज्यस्तदा शुभः ।
पापनिरयदुःखघ्नो यमोऽहं संभवामि वै ।। ११ ।।
एकादशी कमलायाः श्रीः पूज्या तत्र सर्वथा ।
श्रेयसां पदमाप्नोति ददामि श्रीं समर्चिने ।। १ २।।
द्वादशी मे माधवस्य पूजितोऽहं तदा प्रिये ।
मधु सर्वविधं श्रेष्ठं ददामि रससंभृतम् ।। १३ ।।
त्रयोदशी च कामस्य पूज्योऽहं तत्र सर्वदा ।
कामान् ददामि सम्पूर्णान् सर्वकामप्रपूरकः ।। १४।।
चतुर्दशी हरस्याऽस्ति महादेवमयो ह्यहम् ।
पूजनीयः स्मृद्धिदश्चैश्वर्यप्रदो हि शंकरः । । १५ ।।
पंचदशी वेधसोऽस्ति वेधाः पूज्यः शुभप्रदः ।
वंशवृद्धिप्रदश्चापि पितृवच्छ्रेयसांप्रदः ।। १ ६।।
अधिका तिथिराच्युती पुरुषोत्तमसंज्ञिका ।
अनादिश्रीकृष्णनारायणः पूज्योऽहमेव च ।। १७।।
सर्वेष्टसम्प्रदश्चास्मि परमेशः पुरातनः ।
अमावास्या तु देवानां तिथिः पूज्या हि देवताः ।। १८।।
आवाहनं समारभ्य विसर्जनावधि ध्रुवम् ।
सर्वोपचारशोभाढ्यं पूजनं सर्वदा मतम् ।। १९ ।।
स्नानमम्बरमाभूषा मन्त्रमालाऽऽर्द्रचन्दनम् ।
धूपदीपसुनैवेद्यवारिताम्बूलतोषणम् ।। 3.64.२० ।।
नमः क्षमा दक्षिणा चेत्यावश्यकं हि पूजने ।
अष्टोत्तरशतवस्तुकृतं प्रपूजनं भवेत् ।। २१ ।।
सर्वसम्पत्प्रदं लक्ष्मि सर्वसिद्धिप्रदं तथा ।
सर्वकामप्रदं चापि भुक्तिमुक्तिप्रदं भवेत् ।। २२।।
एवं मे महतीं पूजां कुर्याद् भक्ता प्रसादिनीम् ।
यया कृतया श्रीकृष्णः प्रसीदामि प्रियंकरः ।। २३ ।।
दीपमाला प्रदातव्या मम सौधे च मन्दिरे ।
चतुर्विधं च नैवेद्यमन्नं दद्यात् सुमिष्टकम् ।। २४।।
वस्त्राऽलंकारविधिनाऽभ्यर्च्य मां पूजयेद् गुरुम् ।
मन्त्रभक्तिविधिहीनं पूजितं पूर्णमस्तु ते ।। २५।।
धन्याऽहं कृतकृत्याऽहं सौभाग्या धरणिस्थिता ।
यां मामङ्गीकृत्य नाथः श्रीकृष्णो मुक्तिदोऽस्ति मे ।। २६ ।।
सर्ववासनानिर्मुक्ता दिव्या राघासमाऽद्य वै ।
जाताऽस्मि गौरवं प्राप्ता गुरोः प्रतापतो भुवि ।। २७ ।।
नमस्ते गुरवे कृष्णात्मकाय परमात्मने ।
प्रतिष्ठादिव्यमूर्तिस्त्वं गुरुः कृष्णो हि तारकः ।।२८।।
सर्वानन्दप्रदो मुक्तिप्रदस्त्वं मे गुरुर्हरिः ।
सर्वबन्धप्रहर्ता च पापतापविनाशकः ।।२९।।
ब्रह्मकैवल्यदाता मे परमाक्षरधामदः ।
परमात्मस्वरूपस्त्वं नमस्ते परमात्मने ।।3.64.३ ०।।
धन्याऽस्मि कृतकृत्याऽस्मि सफलं जीवितं च मे ।
मज्जन्मनि निदाने च धन्यौ तौ पितरौ मम ।।३१ ।।
यन्मयाऽनादिभगवान् वल्लभः समुपार्जितः ।
त्वया कृष्ण वियुक्ताऽहं यथा न स्यां तथा कुरु ।।३२।।
दानं तपो व्रतं भक्तिः सेवा पूर्वं कृता मया ।
ययाऽहं कृष्णकान्तं वै लब्धवत्यद्य भूतले ।। ३३ ।।
बहुपुण्यप्रतापेन लब्धवती हरिं गुरुम् ।
गुरौ सन्निहितो विष्णुः स्वभक्तेष्वेव सर्वथा ।।३४।।
गुरावास्ते हरिश्चेति महिमानं विभावयेत् ।
गुरुर्दृष्टः प्रणमितः स्नापितः पूजितस्तथा ।।३५।।
यज्ञकोटिसमं पुण्यं ददाति गुरुसेविने ।
दोषयुक्ताऽपि या नित्यं भक्तिभावान्विता सती ।।३६।।
गुर्वीमूर्तिं पूजयेत् साऽच्युता भवति धामनि ।
गुर्वीमूर्तिर्महाहत्यापापातिपातनाशिनी ।। ३७।।
स्मृता संकीर्तिता ध्याता पूजिता च नमस्कृता ।
गुर्वीदेवीप्रतिमा सा धामाऽक्षरप्रदायिनी ।।३८।।
आचार्याणीं सतीं गुर्वीं साध्वीं ब्राह्मीं पतिव्रताम् ।
हरिव्रतां योगिनीं च प्राप्याऽऽसेव्य प्रमुच्यते ।। ३९।।
सिंहीं वीक्ष्य यथा यान्ति मृग्यो भयात्तथा त्विह ।
मायाः सर्वाः पापमय्यो गुर्वीप्राप्त्या वियन्ति हि ।।3.64.४०।।
नमस्करोति या शिष्या गुरुस्त्रीं पावनीं सतीम् ।
भक्त्या वा यदि वाऽभक्त्या सा पुण्या मुक्तिगामिनी ।।४१।।
वैवस्वतभयं नास्ति तस्या मरणजन्मनोः ।
या करोति सती सेवां पूजनं गुरुयोषितः ।।४२।।
गन्धपाद्याऽर्घनैवेद्यैर्दीपैर्धूपैर्विलेपनैः ।
गीतैर्वाद्यैस्तथा स्तोत्रैर्गुवींं देवीं प्ररञ्जयेत् ।।४३।।
अर्चयते मानवी मां सतीभक्तिपरायणा ।
कल्पकोट्ययुतान्येषा रमते मम सद्मनि ।।४४।।
गुरुदेवनमस्कारो भावेनाऽपि यया कृतः ।
सा देवी मानुषे लोके ममाऽनुग्रहपात्रिका ।।४५।।
मद्भक्तिबलदर्पस्था मम साधुपरायणा ।
गुर्वीसेवापरा साध्वी मोदते मम धामनि ।।४६ ।।
गुरुदेवप्रतिमायां लक्ष्मि सदा वसाम्यहम् ।
पद्मकोटिसहस्रैस्तु विष्णुपूजाफलं तु यत् ।।४७।।
गुरुदेवस्य पूजायां फलं तल्लभते सती ।
न कृतं मर्त्यलोके यैर्गुरुदेवार्चनं जनैः ।।४८।।
ते मृता एव च मुहुर्जायन्ते कर्मभागिनः ।
गुरुदेवस्य निकटे सर्वं याति पवित्रताम् ।।४९।।
भुक्त्वा गुरोः प्रसादं च यज्ञकोटिफलं भवेत् ।
गुरोः पादोदकैः पीतैर्हत्याकोटिर्विनश्यति ।।3.64.५० ।।
काशीवासो युगान्यष्टौ दिनैकगुरुसेवनात् ।
तस्माद् गुरोः पूजनं वै कर्तव्यं मोक्षकाम्यया ।।५ १ ।।
गुरुदेवस्वरूपः श्रीपतिर्यत्र हि तिष्ठति ।
तत्र देवाः सुराः साध्व्यश्चेश्वराश्च वसन्ति वै ।।५२।।
सुराणां कीर्तनैः सर्वैः कोटिभिर्यत् फलं भवेत् ।
तत्फलं श्रीहरेश्चापि गुरोश्च कीर्तनाद् भवेत् ।।५३ ।।
गुरुदेवमुखे हुत्वा सकृत् पिण्डेन तर्पिताः ।
पितरस्तृप्तिमायान्ति शाश्वतीं चाऽमृतान्विताम् ।।५४।।
ये पिबन्ति जना वारि गुरोश्चरणपावितम् ।
पञ्चगव्यसहस्रैस्तु प्राशितैः किं प्रयोजनम् ।।५५।।
प्रायश्चित्ते समुत्पन्ने किं दानैः किमुपोषणैः ।
चान्द्रायणैश्च वा किं वै पीत्वा पादोदकं गुरोः ।।५६।।
यो ददाति गुरवेऽत्र घृतं दुग्धं च शर्कराम् ।
तेनेष्टं सर्वमिष्टान्नैस्तेनेष्टं क्रतुभिः शतैः ।।१७।।
गृहेऽपि वसतस्तस्य तीर्थस्नानं दिने दिने ।
दीक्षाऽस्य सर्वयज्ञेषु येन सन्तोषितो गुरुः ।।५८।।
स्वर्गे मर्त्ये च पाताले गुरवः सन्ति तारकाः ।
गुरुदेवसमं नास्ति त्रैलोक्ये पावनं परम् ।।५९।।
मानुषे सुभगे लोके सफलं जीवितं यतः ।
गुरोः प्राप्तिः कृता येन यया वा सेवनं गुरोः ।।3.64.६०।।
पत्रं पुष्पं फलं तोयं वस्त्रं द्रव्यं च भोजनम् ।
जायते मेरुणा तुल्यं गुरुदेवसमर्पणात् ।।६१।।
विधिहीनाऽपि या नारी क्रियामन्त्रादिवर्जिता ।
गुरुभक्ताऽर्चयेद् भक्त्या तस्याः शास्त्रोदितं फलम् ।।६२।।
निवसामि सदा तत्र देहे गुरोर्गुरौ सदा ।
स्कन्धे याने गुरुं कृत्वा योऽध्वानं वहते जनः ।।६३।।
तस्य मार्गो ह्यनिरुद्धो मम धाम्नोऽस्ति सर्वदा ।
गुरुदेवस्थितिर्यत्र तत्र सन्निहितो हरिः ।।६४।।
तत्र तीर्थं महादानं कुरुक्षेत्रं च नैमिषम् ।
पुष्करं च प्रयागं चाप्यश्वपट्टसरस्तथा ।।६५।।
बालकृष्णसरश्चापि विषतुर्यसरस्तथा ।
तत्र नारायणी चापि तत्रेरावतिका नदी ।।६६।।
मेनकांगा च तत्रैव ब्रह्मपुत्राऽपि तत्र च ।
यत्र गुरोर्निवासोऽस्ति सर्वतीर्थानि तत्र वै ।।६७।।
ब्रह्महत्यादिकं पापं यत्किंचिज्जायते जने ।
तत्सर्वं निर्दहत्याशु गुरुदेवप्रसेवनम् ।।६८।।
गुरोर्मूर्तिर्हरेर्मूतिर्यत्रोभयोर्हि संगमः ।
तत्र द्वारवती बोध्या मुक्तिदा भक्तिराच्युती ।।६९।।
गुर्वर्चने न मन्त्राश्च न जपो न च भावना ।
न द्रव्यं न हीरकादि नोपदा नेतरत्त्वपि ।।3.64.७०।।
न स्तुतिर्नापि दैन्यं च प्रेममात्रमपेक्षते ।
अकृत्यस्याऽप्यभक्ष्यस्याऽपेयस्य ग्रहणे कृते ।।७१ ।।
यत्पापं तद् विनश्येद्वै सन्तुष्टे श्रीगुरौ हरौ ।
पूजनं कुरुते गुर्व्या नित्यं शिष्या तु या सती ।।७२।।
सेवनं कुरुते गुर्व्याः पादसंवाहनादिकम् ।
अनन्तोत्तरकालं सा वैधव्यं विन्दते न वै ।।७३ ।।
कृष्णसौभाग्यमापन्ना पद्मिनी जायते रमा ।
गुरोः छायां समाश्रित्य दद्याद् दानानि वै सदा ।।७४।।
न जह्याच्च गुरोः पार्श्वं याम्यभीतो जनस्त्विह ।
गुरोरग्रे यमदूता न चाऽऽयान्ति कदाचन ।।७५।।
गुरोः सेवा हरेः सेवा पत्युः सेवा यया कृता ।
सफलं जीवितं तस्या यस्या गेहे त्रयं सदा ।।७६।।
सन्नियम्याऽन्यतो वृत्तीर्गुरुदेवस्य तोषणम् ।
या कुर्यान्मानवी साध्वी भक्त्या सेवां च पूजनम् ।।७७।।
यथायोग्यं वस्तूनामर्पणं निवेदनं जलम् ।
श्रद्धया गुरवे दत्ते पुष्पे पुष्पेऽश्वमेधजम् ।।७८।।
फलं सा विन्दते शिष्या साक्षाद् गुरुहरिश्रिता ।
जन्मदुःखजरारोगैर्मुक्ता सा मोक्षगा मता ।।७९।।
गवामयुतदानेन यत्फलं प्राप्यते त्विह ।
गुरवे पद्ममालां वै समर्प्येयाद्धि तत्फलम् ।।3.64.८०।।
दुर्लभं चापि दुष्प्रापं त्रैलोक्ये सचराचरे ।
तदपि प्रार्थितं लक्ष्मि गुरुसेवा ददाति वै ।।८ १।।
ऐश्वर्यं सन्ततिं ज्ञानं राज्यं च सुखसम्पदः ।
गुरुकृपा ददात्येव सेवालभ्या हि सा मता ।।८२।।
मेरुमन्दरतुल्यानि पापानि सर्वथा लयम् ।
यान्ति गुरोः सेवनाद्धि साक्षाद्धरिर्गुरुर्हि सः ।।८३।।
नमो नारायणायेति नमः श्रीगुरवे तथा ।
उक्त्वा नित्यं नमेद्देवं गुरुं हरिं पतिं प्रभुम् ।।८४।।
व्रजेत् सा परमात्मानं धामाऽक्षरनिवासिनम् ।
शाश्वताऽऽनन्ददातारं ह्यनामयपदस्थितम् ।।८५।।
गुरोर्नाम हरेर्नाम पठते या मुहुर्मुहुः ।
याति सा परमं धाम पुनर्जन्म न विन्दति ।।८६।।
कुले तस्याश्च ये जाताः शतशोऽथ सहस्रशः ।
तेऽपि यान्ति परं धाम यया सन्तोषितो गुरुः ।।८७।।
महोत्सवेषु सर्वेषु गुरुं सम्पूजयेत् सती ।
पूजयित्र्या गृहे नित्यं भवेयुर्वै महोत्सवाः ।।८८।।
आषाढे भावनाऽभिज्ञा पूर्णायां पूजयेद् गुरुम् ।
तत्फलं लभते नारी सौभाग्यं शाश्वतं सती ।।८९।।
स्नापयेदुष्णसलिलैर्गन्धद्रव्यैर्विलेपयेत् ।
मर्दयेद् गन्धतैलैश्च स्वच्छद्रव्यैः प्रमार्जयेत् ।।3.64.९० ।।
अभिषेकं कारयेच्च धारयेदम्बराणि च ।
शृंगारयेच्च शृंगारैरर्चयेदक्षतादिभिः ।। ९१ ।।
पुष्पचन्दनमाल्यैश्च समर्चयेद् गुरुं सती ।
विभूषा धारयेच्चापि धूपदीपादि कारयेत् ।।९२।।
फलामिष्टान्नपानादि दद्याच्छ्रीगुरवे ततः ।
दक्षिणां प्राऽर्पयेच्चापि यथावैभवमुत्तमम् ।।९३।।
पादामृतं पिबेच्चापि पादसंवाहनं चरेत् ।
गुर्व्याः सदाऽङ्गमर्दादि कुर्याच्छिष्या सती शुभम् ।।९४।।
याने कृत्वा वाटिकायां महोद्याने गृहे तथा ।
गुरुं गुर्वीं नयेद्वापि तोषयेद् भक्तिसंभृता ।।९५।।
अनादिश्रीकृष्णनारायणं मां परमं गुरुम् ।
एवं प्रसादयेत् साध्वी वधूर्या श्रीनरायणि! ।।९६।।
अन्या वा स्वपतिं कृष्णं प्रसादयेद्धि भावतः ।
तथा या स्वगुरुं प्रसादयेद्वै सेवया सती ।।९७।।
सर्वास्ता ब्रह्मरूपा वै मोक्षगाः सन्ति पद्मजे ।
दिव्या दिव्यस्वरूपाश्च पराया दिव्यताप्रदाः ।।९८।।
स्वस्याः समागमं प्राप्ता या या भवन्ति योषितः ।
तास्ता दिव्यास्तथा भूत्वा प्रयास्यन्ति परं पदम् ।।९९।।
हरिश्चाहं सदा दिव्यः शक्तिर्दिव्या च मे सदा ।
सा च त्वं श्रीस्तथा राधा रमा प्रज्ञा च माणिकी ।। 3.64.१ ००।।
लक्ष्मीर्गंगा च विरजा पद्मावती च माधवी ।
एवमाद्याः शक्तयो मे दिव्या ब्रह्मप्रिया हि ताः ।। १०१ ।।
हरिप्रिया न मे भिन्ना अभिन्नास्ताः सदा मम ।
वसन्ति शक्तयः सर्वा गुर्व्यां गुरौ सदा प्रियाः ।। १ ०२।।
अहं शक्तिसहितो वै निवसामि वधूजने ।
स्वामिजने निवसामि साधौ पत्यौ वसामि च ।। १ ०३।।
पूरयामि मनःकामान् तत्तद्गुरुत्वमास्थितः ।
एवं श्रीशिवराज्ञीश्रि मां प्रसेवय माधवम् ।। १ ०४।।
पठनाछ्रवणादस्य स्मरणाद् वन्दनादपि ।
भावग्राहादपि मुक्तिर्भवेदेव न संशयः ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां सर्वतिथिषु हरेर्भिन्नरूपस्य पूजा गुरुरूपस्य सदा पूजा चेत्यादिनिरूपणनामा चतुष्षष्टितमोऽध्यायः ।। ६४ ।।