लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०५८

विकिस्रोतः तः
← अध्यायः ५७ लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः ५८
[[लेखकः :|]]
अध्यायः ५९ →

श्रीपुरुषोत्तम उवाच-
अहं ब्रह्म परं ज्योतिर्विष्णुरेवेति चिन्तयन् ।
नारायणि भवेदत्र जीवन्मुक्तो हि मानवः ।। १ ।।
आराधना बलं जीवे सञ्चितं वै प्रमोददम् ।
आराधनायुतश्चायं याति मुक्तिं न संशयः ।। २ ।।
विष्णौ सक्तं मनो यस्य विष्णुमेवाऽनुपश्यति ।
विष्णुं ध्यायेस्त्यजेत् प्राणान् याति तत्परमं पदम् ।। ३ ।।
आराधनेन नार्यश्च कृत्वा पापानि भस्मसात् ।
हरौ मग्ना ब्रह्मकान्ता लभन्ते परमां गतिम् ।। ४ ।।
मन्थनाद् दृश्यते ह्यग्निस्तद्वद् वै मननाद्धरिः ।
दृश्यते गोचरस्याऽग्रे मुक्तिश्चात्रैव सा मता ।। ५ ।।
वेदात्र तं पुरुषं यं चिद्रूपं तमसः परम् ।
अस्याऽहमितिमोक्षाय नान्यः पन्था विमुक्तये ।। ६ ।।
यदा सर्वे निजा भावाश्चार्प्यन्ते परमेश्वरे ।
तदाऽमृतत्वमाप्नोति जीवन्नेवाऽक्षरस्थितः ।। ७ ।।
अहं ब्रह्म परं ज्योतिर्मायापारेऽस्मि सर्वथा ।
मत्वैवं परमात्मानं त्वाश्रयेन्मुक्तिभाग् भवेत् ।। ८ ।।
स्मरणं पूजनं चैव प्रणामो भक्तिपूर्वकम् ।
प्रत्येकमश्वमेधस्य फलाधिकफलप्रदम् ।। ९ ।।
पुरा विप्रः कौशिको वै मम भक्तिपरायणः ।
सामगानरतो नित्यं करतालसमन्वितः ।। 3.58.१ ०।।
भोजनासनशय्यासु व्यवहारे विनोदने ।
ममैव चरितं शश्वद्गायमानोऽभवन्मुहुः ।। १ १।।
देवालयं समासाद्य परमेश्वरसन्निधौ ।
अगायत हरिं तत्र तालवर्णलयान्वितम् ।। १२।।
मूर्छनास्वरयोगेन श्रुतिभेदेन भेदितम् ।
तत्रैनं गायमानं च दृष्ट्वा पद्माख्यभूसुरः ।। १ ३।।
ददावन्नं हि भिक्षार्थं गायन्नास्ते च कौशिकः ।
शृण्वन्नास्ते स पद्माख्यो नित्यं भिक्षां ददाति च ।। १४।।
कौशिकस्य ततः शिष्या अभवन् बहवः खलु ।
सर्वे गायन्ति वै विष्णोश्चालये कौशिकान्विताः ।। १५।।
मन्दिरे मालवो नाम वैश्यस्तत्रैव भक्तिमान् ।
दीपमालां हरेर्नित्यं करोति भार्यया युतः ।। १६।।
गोमयेन समालिप्य हरेः क्षेत्रं समन्ततः ।
भर्त्रा सहास्ते सुप्रीता शृण्वती गानमुत्तमम् ।। १७।।
एवं पतिव्रता पूजाकरी भजति माधवम् ।
अन्ये गायनकुशला ब्राह्मणाश्च कुशस्थलात् ।। १८।।
पञ्चाशद्वै समापन्ना गानार्थं हरिमन्दिरम् ।
कौशिकस्येव गानस्य पुष्टिं कुर्वन्ति तेऽपि च ।। १९।।
गानविद्यार्थतत्त्वज्ञाः शृण्वन्तो ह्यवसँस्तु ते ।
एवं गायनतत्त्वज्ञाः समवेता हि मन्दिरे ।।3.58.२०।।
ख्यातमासीत् तत्र तस्य गानं वै कौशिकस्य तत् ।
श्रुत्वा राजा कलिंगोऽपि कीर्तिं गीतिविदां तदा ।।२१ ।।
समाययौ नमस्कारं चक्रे प्राह ततः परम् ।
मम सौधे समायान्तु सर्वे वै गीतिकोविदाः ।।२२।।
कौशिकोऽपि समायातु ममैव महदालयै ।
मम गीतिं प्रकुर्वन्तु कौशिकाद्या ममालये ।।२३ ।।
शृण्वन्तु का प्रजाश्चापि मम सर्वाः सुगीतिकाः ।
पारितोषिकवर्याणि दास्यामि वेतनान्यपि ।।२४।।
स्वर्णहीरकरौप्याणि पञ्चगुणानि वोऽधिकम् ।
तच्छ्रुत्वा कौशिकः प्राह कलिङ्गं भूभृतं शनैः ।।२५।।
न जिह्वा मे महाराज वाणी मेऽपि न मे मनः ।
हरेरन्यदपीन्द्रं वा स्तौति नैव च वक्ष्यति ।।२६।।
अन्ये च कौशिकस्यापि शिष्याः सर्वे तथाऽवदन् ।
वशिष्ठो गौतमश्चापि हरिः सारस्वतस्तथा ।।२७।।
चित्रश्च चित्रमाल्यश्च शिशुश्चोचुस्तथैव ते ।
न वयं भगवद्भिन्नं नरं वा देवतादिकम् ।।२८।।
गायामो नापि गास्यामो वयमेकान्तिनो हरेः ।
अथ ये श्रावकाश्चासन् वैष्णवास्तेऽपि वै तथा ।।२९।।
पार्थिवं जगदुस्तत्र राजन् वयं हि वैष्णवाः ।
देहेन्द्रियमनोबुद्ध्यहंकारात्मगुणा हि नः ।।3.58.३०।।
विष्णुपरा नान्यपरा वैष्णवस्यापि सेविनः ।
अवैष्णवस्य संगं न कुर्वन्ति विभ्रमादपि ।।३ १।।
विष्णोर्वैष्णवभक्तस्य शृण्वन्ति चरितानि वै ।
श्रोत्राणीमानि राजेन्द्र! तदन्यस्य न कर्हिचित् ।।३२।।
गानकीर्तिं वयं हरेः शृणुमोऽन्यां न च स्तुतिम् ।
अन्यैः सह व्यवहारमात्रं वच्म इव त्वया ।।३३।।
न स्पृशामो वैष्णवाऽन्यं जलं स्थलं जडं चितम् ।
न वदामो वैष्णवाऽन्यं पश्यामो नाप्यवैष्णवम् ।। ३४।।
जलान्नादि न गृह्णीमो वैष्णवाऽन्यस्य वै क्वचित् ।
यदि प्राप्तं भवेत् स्यात्तद् भुञ्जामो वैष्णवाऽर्पितम् ।।३५।।
तच्छ्रुत्वा पार्थिवो रुष्टस्त्वेते ममाऽवमानकाः ।
प्रसह्य गापनीया वै गायन्तामिति चाऽब्रवीत् ।।३६।।
मम भृत्यान् मम कीर्ति श्रावयन्तु हि कोविदाः ।
इत्याज्ञां वै समाकर्ण्य वैष्णवास्ते दृढव्रताः ।।३७।।
नैव जगुस्तदा राजा भृत्यानाज्ञापयन्निजान् ।
गातुं निजयशो भृत्या आरेभिरे नृपाज्ञया ।।३८।।
नृपश्चैव यशो गातुं तदा ते वैष्णवादयः ।
अङ्गुल्यादिभिरेव द्राक् श्रोत्राणि पिदधुस्तदा ।।३९।।
ततो राजा सुसंक्रुद्धः स्वदेशात् तान् विवासयत् ।
गायकास्तं परित्यज्य ययुर्वै दिशमुत्तराम् ।।3.58.४०।।
गायन्तः श्रीहरेर्नाम शृण्वन्तः परमेश्वरम् ।
श्रावयन्तश्च ते नारायणं कृष्णं हि मानुषान् ।।४१।।
हिमालयं ययुः शैत्ये कालधर्मं ततो गताः ।
विष्णुः प्राह समागत्य समागच्छन्तु मामनु ।।४२।।
भवन्तो मम भक्ता हि मदर्थं त्यक्तजीवनाः ।
इत्युक्त्वा भगवान् विष्णुरनयत्तान् दिवं परम् ।।४३।।
देवाद्यैः पूजितास्ते च. पितृभिश्चाभिवन्दिताः ।
ब्रह्मलोकं गताः शीघ्रं मुहूर्तेनैव ते द्विजाः ।।४४।।
कौशिकादींस्ततो दृष्ट्वा ब्रह्मा लोकपितामहः ।
प्रत्युद्गम्य यथायोग्यं स्वागतेनाऽभ्यपूजयत् ।।४५।।
ततो विष्णुर्हि भगवान् समादाय निजाश्रितान् ।
विष्णुलोकं ययौ शीघ्रं वासुदेवः परः प्रभुः ।।४६।।
वैकुण्ठे तत्र वै विष्णुर्नारायणः परेश्वरः ।
मुक्तैः सिद्धैर्विष्णुभक्तैः पार्षदैः परिसेवितः ।।४७।।
नारायणसमैर्दिव्यैश्चतुर्बाहुधरैः शुभैः ।
विष्णुचिह्नसमापन्नैर्दीप्यमानैरकल्मषैः ।।४८।।
सनकाद्यैर्नारदाद्यैर्दिव्यस्त्रीभिः समन्ततः ।
विराजते सेव्यमानः सहस्रद्वारसंवृते ।।४९।।
सहस्रयोजनायामे दिव्ये मणिमये शुभे ।
विमाने विमले चित्रे गजपीठासने हरिः ।।3.58.५० ।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
कौशिकादीन् विलोक्याऽथ हरिर्नारायणः प्रभुः ।।५१ ।।
एकरूपो ह्यभवच्च दिव्यगजासनस्थितः ।
कौशिकेत्याह सम्प्रीत्या स्वागतं कृतवाँस्तथा ।।५२।।।
जयघोषो हि भक्तानां तदासीद् धामगर्जनः ।
भगवानाह भक्ता मे वैकुण्ठे संवसन्त्विति ।।५३।।
मत्कीर्तिश्रवणे युक्ता गीतितत्त्वार्थकोविदाः ।
लक्ष्मीनारायणसंहितार्थकीर्तनगायिनः ।।५४।।
अनन्यदेवता भक्ता मत्समीपे वसन्त्विति ।
मम धाम्नि भवन्त्वत्र पार्षदा मम शाश्वताः ।।५५।।
कौशिको मालवश्चापि मालवी पद्मनेत्रकः ।
तथाऽन्ये गायकाः सर्वे मम गायनसेविनः ।।५६।।
मयैव सह नित्यं वै गायन्तु च वसन्तु च ।
कौशिको गायनं मे वै करोतु वाद्यसंयुतम् ।।५७।।
मालवोऽयं दीपमालां करोतु सह भार्यया ।
पद्माक्षोऽयं धनेशो मे भवत्वेवाऽन्नसम्प्रदः ।।५८।।
मम सान्निध्यमाप्ता वै सर्वे वै लोकपूजिताः ।
अथैवं वदति विष्णौ क्षणे तत्र समागताः ।।५९।।
विपञ्चीगुणतत्त्वज्ञा वाद्यविद्याविशारदा ।
मन्दं मन्दस्मिता देवी मधुराक्षरपेशला ।।3.58.६०।।
शृंगारिता गायमाना लक्ष्मीर्विष्णुपरिग्रहा ।
वृता सहस्रकोटिस्वांगनाभिर्वै समन्ततः ।।६१ ।।
तत्र स्मृता महासाध्वी सरस्वती तु शार्ङ्गिणा ।
समायाता सवाद्या च सर्वशृंगारशोभना ।।६२।।।
राधा रमा च कमला माणिकी श्रीः सती तथा ।
पद्मावती च हंसी च मंजुली सद्गुणा तथा ।।६३।।
आययुस्तत्र वै देव्यो गंगा दुर्गा सवाद्यकाः ।
सावित्री विरजा चाप्सरसो नारायणस्मृताः ।।६४।।
उर्वश्याद्यास्तदा गीतिनृत्यलीलाविशारदाः ।
मेनका सहजन्या च पर्णिनी पुञ्जिकस्थली ।।६५।।
कृतस्थली घृताची च विश्वाची पूर्वचित्तिका ।
अनुम्लोचा च प्रम्लोचा मनुवंती सुकेशिका ।।६६।।
अरूपा सुभगा भासी हंसा सूता सरोवती ।
कामली ह्यभया हंसपादी च सुमुखी दया ।।६७।।
अनपायाऽरुणा वरांबरा च विमनुष्यिका ।
असिपर्णा मिश्रकेशी शुचिकाऽलम्बुषा रमा ।। ६८।।
मारीचिश्चाद्रिका विद्युत्पर्णा तिलोत्तमा जया ।
क्षेमा रंभा लक्ष्मणा चाऽसिता मनोभवाऽम्बिका ।।६९।।
सुबाह्वी सुप्रिया पुण्डरीका च सुरसा प्रभा ।
अजगन्धा सुदती च सुभुजा शान्तिका हिमा ।।3.58.७०।।
मुक्ता देवी च हैमी च पुष्पा चम्पा सवित्रिका ।
आययुश्चापि गन्धर्वाः स्मृता नारायणेन वै ।
नारदः पर्वतश्चापि विश्वावसुर्वरेण्यकः ।।७१।।
वसुरुचिः सुरुचिश्च वरुथश्चापि दारुणः ।
हंसो ज्योतिष्टमो मध्य आचारस्तुम्बुरुस्तथा ।।७२।।
सुबाहुश्च हहा हूहूः पर्जन्यश्च कलिस्तथा ।
शालिशिराश्चित्ररथो भीमश्च प्रयुतस्तथा ।।७३।।
अर्कपर्णः पर्णवान् सूर्यवर्चा धृतराष्ट्रकः ।
गोमान् सुपर्णो वरुणश्चोग्रसेनश्च भीमकः ।।७४।।
एते चान्येऽपि वाद्याद्यैरन्वितास्तत्र चाययुः ।
तुम्बुरुस्तत्र गन्धर्वश्चाज्ञप्तो मम सन्निधौ ।।७५।।
लक्ष्मि! त्वां गायिकां पश्यन् नेमे त्वां मां ततः परम् ।
तत्रासीनो यथायोगं नानामूर्छासमन्वितम् ।।७६।।
जगौ कलपदं हृष्टो विपञ्चीं चाभ्यवादयत् ।
श्रेष्ठं गानं प्रगायैव प्रसादितः परेश्वरः ।।७७।।
ददौ रत्नानि दिव्यान्याभरणान्यम्बराणि च ।
तुम्बुरवे ह्यमूल्यानि हृष्टश्च तुम्बुरुस्ततः ।।७८।।।।
प्रशंसितः स हरिणा तुम्बुरुस्तत्र चाग्रगः ।
अन्ये जगुश्च गन्धर्वा बहवस्तद्यथाबलम् ।।७९।।
यथाज्ञानं यथाऽभ्यासं जगुर्वाद्यस्वरादिभिः ।
लेभिरे तेऽपि वै तत्र पारितोषिकमुत्तमम् ।।3.58.८०।।
तथापि तुम्बुरुतुल्यं न तद्वै पारितोषिकम् ।
अप्सरसस्ततः सर्वाः प्रजगुर्वाद्यसाधनाः ।।८ १।।
लक्ष्मीर्जगौ तथादेवी सरस्वती जगौ ततः ।
उत्तमं ते लब्धवत्यौ पारितोषिकमित्यपि ।।८२।।
उर्वशी प्रजगौ रम्यं सर्वरञ्जनकारकम् ।
अन्याश्चापि यथाशक्ति जगुर्नृत्यसमन्विताः ।।८३।।
भगवान् श्रीहरिश्चाहं प्रसन्नश्चाऽभवं तदा ।
दत्तवान् हीरकरत्नाम्बरभूषासुमालिकाः ।।८४।।
सर्वे सर्वाश्च सन्तुष्टास्ततो वै नारदो जगौ ।
दत्तवाँश्चोत्तमं तस्मै पारितोषिकमित्यपि ।। ८५।।
मनाङ्न्यूनं तुम्बुरोस्तु तेन तुष्टो न नारदः ।
गायनेऽपि न सम्पूर्णो यतस्तापमवाप्तवान् ।। ८६ । ।
चिन्तामापेदिवाँस्तत्र शोकाकुलान्तरोऽभवत् ।
कदाऽहं गायनं कृत्वा सर्वोत्तमोत्तमोत्तमम् । ।८७ । ।
लप्स्ये हरेः सकाशाद्वै पारितोषिकमुत्तमम् ।
श्रेष्ठं तुम्बुरुणा प्राप्तं धिङ्मां मूढं विचेतसम् ।। ८८ ।।
इति सञ्चिन्तयन् विप्रस्तप आस्थितवान् मुनिः ।
दिव्यं वर्षसहस्रं तु नारदः श्रीहरिं स्मरन् । ।८ ९ ।।
ततो गीतिं कलां सर्वां तुम्बुरोरप्यवागमत् ।
ज्ञात्वा सर्वं तुम्बुरोश्च जगौ नारायणं प्रति ।। 3.58.९० ।।
बहुमन्वन्तरे काले प्रसन्नः पुरुषोत्तमः ।
हरिर्नारायणो देवस्तस्मै सर्वं ददौ शुभम् ।। ९१ । ।
पारितोषिकमुत्कृष्टं समं चक्रे च तुम्बुरोः ।
एवं श्रीभगवद्दासी वधूर्नारायणस्य वै ।। ९२।।
लक्ष्मीर्यथा हरेरर्थे सर्वार्पणं चकार ह ।
यथा च तुम्बुरुश्चापि नारदश्च यथापि च ।। ९३ । ।
यथा च कौशिको विप्रो यथा पद्माक्षको द्विजः ।
यथा च मालवी पत्नी मालवश्च पतिस्तथा ।। ९४।।
यथाऽन्ये गायका विप्राः कृतवन्तोऽर्पणं हरौ ।
तथा सर्वार्पणं कार्यं परमेशे जनार्दने ।। ९५ ।।
इंद्रियाणां वृत्तयश्च व्यापाराश्च क्रियास्तथा ।
मदर्थमेव कर्तव्यास्तेन तुष्यामि सर्वदा ।। ९६ ।।
दर्शनं श्रवणं चापि स्पर्शनं गायनादिकम् ।
नृत्यं हास्यं मदर्थं वै भक्त्या कर्तव्यमेव ह ।। ९७ ।।
मद्भक्तेभ्यः प्रदातव्यं भोजनं वारि चाम्बरम् ।
गृहं शय्यासनं यानं वाहनं वाटिका स्थलम् ।। ९८ ।।
यथाशक्ति प्रदातव्यं जायते तोषणाय मे ।
भुक्तिमुक्तिफलं तच्च भवत्येव न संशयः ।। ९९ ।।
'लक्ष्मि संश्रवणाच्चापि मननाच्छ्रावणादपि ।
फलं नारदतुल्यं वै प्राप्येत नात्र संशयः ।। 3.58.१०० ।।
लक्ष्मीतुल्यं फलं नारी वधूः सरस्वतीसमम् ।
जना गायकतुल्यं च विन्देयुर्नात्र संशयः ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वधूगीतायां कौशिकादिगायकदृष्टान्तेन वैष्णवोत्तमत्वनिरूपणनामाऽष्टपञ्चाशत्तमोऽध्यायः ।। ५८ ।।