सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०२१

विकिस्रोतः तः
← अध्यायः २० लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)
अध्यायः २१
[[लेखकः :|]]
अध्यायः २२ →

श्रीपुरुषोत्तम उवाच-
शृणु त्वं शिवराज्ञीश्रि! प्राकट्यं चापरं मम ।
चतुर्विंशे वत्सरे च वेधसस्त्वार्षसंज्ञके ।। १ ।।
कल्पे शततमे षष्ठे मनौ यथाऽभवत् पुरा ।
तदानीं वेदविद्वांसो ब्राह्मणा यतयस्तथा ।। २ ।।
देवताः ऋषयश्चापि पितरश्चाऽजनिर्मिते ।
सर्वमेधात्मके यज्ञे मिमिलुर्मोक्षदातटे ।। ३ ।।
विचारास्तत्र सर्वेषामभवन् मत्परायणाः ।
कीदृशोऽयं हरिः सेव्यश्चैकलो वापि युग्मकः ।। ४ ।।
निर्गुणो वा सगुणो वा मूर्तो ह्यमूर्तं एव वा ।
अग्निरूपोऽथवाऽऽदित्यस्वरूपो वाऽप्यरूपकः ।। ५ ।।
अथ तत्र स्वयं ब्रह्मा जगाद युगलात्मकः ।
अन्ये महर्षयः प्राहुश्चैक एव परात्परः ।। ६ ।।
देवाः प्राहुः सगुणोऽयं यतयो निर्गुणः स्वयम् ।
सेवनीयो यथायोग्यो मूर्तिमानपरे जगुः ।। ७ ।।
कर्मठाः प्राहुरेवाऽयं सेवनीयो ह्यमूर्तकः ।
अग्निरूपो हरिः साक्षात् परे प्राहुर्हि भास्करः ।। ८ ।।
सेवनीयो ब्रह्ममूर्तिश्चेत्येवं वादमाचरन् ।
निर्णयो नैकरूपोऽभूत् तदा विष्णुर्जगाद ह ।। ९ ।।
शंभुश्चायं यथा त्वस्मान् वदेन्निर्णय एव सः ।
शंभुः श्रुत्वा हरेर्वाक्यं प्रजगाद सभाजनान् ।। 3.21.१० ।।
ध्यानं क्षणं प्रकुर्वन्तु स्वयं दास्यति निर्णयम् ।
इत्युक्तं शंकरवाक्यं सर्वमेधाऽध्वरे तदा ।। ११ ।।
ध्यानमग्ना अभवँश्च देवर्षिपितृमानवाः ।
तावद् व्योम्नो दिव्यतेजोमयोऽद्रिः समुपाययौ ।। १२।।
अव्याप्नोदम्बरं सर्वं दिवं भुवं दिगन्तरम् ।
तन्मध्ये सुविमानं चाऽक्षराऽभिधं मम प्रियम् ।। १ ३।।
अदृश्यत तदा लक्ष्मि! तत्राऽहं च त्वया सह ।
अनादिश्रीकृष्णनारायणोऽर्धकमलातनुः ।। १४।।
प्रत्यक्षः पुरतस्तेषां ध्याने ततश्च गोचरः ।
अर्धे शिखा शिरस्यास्तेऽर्धे श्रीकेशात्मधम्मिलः ।। १५।।
अर्धभाले सुतिलकं चार्धभाले सुचन्द्रकः ।
दक्षे कर्णे कुण्डलं च वामे कुण्डलिकैरिणी ।। १६।।
दक्षे तु निर्मलं चूर्णं वामे नेत्रे तु कज्जलम् ।
दक्षे श्मश्रुस्तथा रिक्ता नासा वामे सनित्थका ।। १७।।
दक्षं वक्षश्चोन्नतं च वामं स्तनसमन्वितम् ।
दक्षहस्तौ शंखचक्रयुतौ सुकटकान्वितौ ।। १८।।
वामहस्तौ पद्ममालाशृंखलाव्यजनान्वितौ ।
दक्षे श्रीवत्सचिह्नार्धं वामे मूर्त्यर्धकं च मे ।। १९।।
दक्षोदरेऽर्धत्रिवली वामे समोदरात्मता ।
दक्षेऽर्धं नरलिंगं च वामेऽर्धायोनिरित्यपि ।।3.21.२०।।
दक्षे त्वेको हि वृषणो वामे तु गुप्तग्रन्थिका ।
दक्षपादः सरोमा चाऽरोमा वामः समुज्ज्वलः ।
नरवद्दीर्घफणकः नारीवद्ध्रस्वसत्फणः ।।२१ ।।
दक्षार्धं श्यामसौन्दर्यं वामार्धं कनकोज्ज्वलम् ।
दक्षार्धं पीतधौत्रादिस्वर्णार्धमुकुटान्वितम् ।।२२।।
वामार्धं कञ्चुकीशाटीस्वर्णमुकुटिकान्वितम् ।
दक्षार्धं नरभूषाढ्यं वामं नारीविभूषणम् ।।२३।।
दक्षं पुंबलसंयुक्तं वामं नारीसुमार्दवम् ।
एवं भूत्वा चैक एव तथापि द्विस्वरूपवान् ।।२४।।
प्रत्यक्षः पुरतस्तेषामर्धश्रीशनरायणः ।
दध्युस्ते चान्तरे मां च तादृशं द्व्येकरूपिणम् ।।२५।।
पुपूजुर्मानवा देवाः ऋषयः पितरोऽपि माम् ।
ब्रह्माद्याः प्रार्थयामासुरत्र क्षितौ सदा वस ।।२६।।
एवमेवस्वरूपस्त्वं लोककल्याणहेतवे ।
ततोऽहं मोक्षदानद्यास्तटे मेरोस्तु पश्चिमे ।।२७।।
आध्वरे भूतले नित्यमवसं सर्वगोचरः ।
आकल्पान्तं परमेशः शिक्षयन् प्रतिमाऽर्हणम् ।।२८।।
अनादिश्रीमदर्धश्रीश्वरनारायणः प्रभुः ।
तथैव मन्दिरादौ च गृहे गृहे च सर्वथा ।। २९।।
मूर्तिश्चैकविधा मेऽभूदर्धश्रीशनरायणी ।
तथैवोपासना ध्यानं पूजनं वेषधारणम् ।।3.21.३ ०।।
सर्वं मे तादृशं ह्यासीद् भक्तैः संसेवितं वपुः ।
मदिच्छया मया लक्ष्मि! तत्र कल्पे तथा कृतम् ।।३ १।।
धृतं रूपं यथेष्टं वै यथाऽक्षरे विशिष्टकम् ।
अथ देवादयो मां च ततः परं तथाविधम् ।।३२।।
पूजयन्त्युपासयन्ति स्म च मुक्तिं व्रजन्ति च ।
इत्येवं मे तत्र कल्पे प्राकट्यमुदितं तव ।।३३।।
इत्येवं स्मर युग्मैक्यं निजप्राकट्यमीश्वरि! ।
सर्वं जानाम्यहं लक्ष्मि! तथा नैकाऽवतारकान् ।।३४।।
अथाऽग्रे चेतरन्मे च प्राकट्यं प्रवदामि ते ।
पञ्चविंशे वेधसश्च धर्माख्ये वत्सरे तदा ।। ३५।।
कल्पे पञ्चशते चाद्ये मनौ पितृगणाः पुरा ।
पृथ्व्यामागत्य वंशेभ्यो जगदुः श्राद्धभोजनम् ।।३६ ।।
तत्तद्वंशोद्भवा लोका विद्यावन्तो व्यधुश्च तत् ।
श्रद्धया पितृसंघानुद्दिश्य पिण्डादिकं ददुः ।।३७।।
ते सर्वे पितरश्चापि विनिर्गत्याऽर्धदेहिनः ।
प्रसारितकराभ्यां वै पिण्डान् प्रजगृहुर्मुदा ।। ३८।।
प्रसन्नवदनाश्चापि समुज्ज्वलकरास्तथा ।
नाभ्यूर्ध्वदृश्यदेहाश्च पिण्डान् प्राप्यैव तस्थिरे ।।३९।।
करस्थभोजनाः सर्वे एवमेव स्थिरास्तदा ।
अभुञ्जाना अभवँश्च मौनाः शान्ता निरुत्सुकाः ।।3.21.४० ।।
तदा वंशजविप्राद्यैरभुञ्जाना विलोकिताः ।
पृष्टाश्च पितरः सर्वे कथं भुङ्ध्वे न चार्पितम् ।।४१ ।।
ते प्राहुश्च हरेः प्रासादिकं नास्त्येतदेव यत् ।
तदभक्ष्यं सदास्माकं यतश्च वैष्णवा वयम् ।।४२।।
अथ वंश्याः पृष्टवन्तः कथं प्रासादिकं भवेत् ।
यदत्र दृश्यते नैव न चाऽस्ते च नरायणः ।।४३।।
तदा ते पितरः प्राहुर्हरिसूक्तं जपन्त्विह ।
हरिस्त्वागत्य पिण्डादि पायसान्नं ग्रहीष्यति ।।४४।।
अथ ते हरिसूक्तेनाऽऽराधयन्मां तदा क्षणे ।
अनादिश्रीकृष्णनारायणं श्रीपुरुषोत्तमम् ।।४५।।
अहं साकं त्वया लक्ष्मि! पितॄणां भक्तिरोधतः ।
प्रत्यक्षस्तत्र वंश्यानामग्रे नाभ्यूर्ध्वदेहकन् ।।४६।।
पितृभिः सह तत्रैव निषद्य भुक्तवान् पयः ।
पायसं चापि मिष्टान्नं फलं दलं च मूलकम् ।।४७।।
त्वं च नारायणीश्रि! स्वनाभ्यूर्ध्वदृश्यविग्रहा ।
शृंगारिता मया साकं भुक्तवती च पायसम् ।।४८।।
अथ ते पितरः सर्वे जलान्नादिकमेव तु ।
प्रासादिकं मया दत्तं भुक्तवन्तः सुखोत्सुकाः ।।४९।।
तृप्ताः सर्वे ययुर्भुक्त्वा पितृलोकान् निजालयान् ।
अहं सञ्जोऽभवं यावत्तावद् विप्रादिभिः क्षितौ ।।3.21.५०।।
प्रार्थितौ नित्यवासार्थं नान्यूर्ध्वदेहधारिणौ ।
अर्धदृश्यौ दिव्यरूपौ सुन्दरौ सौम्यविग्रहौ ।।५१।।
तथाऽस्त्वित्युचितं मत्वा स्थितवन्तौ सदा क्षितौ ।
आकल्पान्तं च नाभ्यूर्ध्वार्धमूर्तिधारिणौ सदा ।।५२।।
मूर्तयश्चापि तादृश्यो गृहे वने च मन्दिरे ।
ध्यानेऽर्हणे चोत्सवे चाऽभवँस्तथाऽर्धविग्रहाः ।।५३।।
अनादिश्रीकृष्णनारायणः श्रीपुरुषोत्तमः ।
अनाद्यर्धपितृनारायणाख्यः प्रथितोऽभवम् ।।५४।।
स्मर लक्ष्मि! त्वया साकं मम मूर्तिं तदाऽर्धिनीम् ।
अथाऽन्येऽप्यवतारा मेऽभवँस्तदाऽपि कोटिशः ।।५५।।
जानाम्यहं समस्तांस्तान्नान्ये जानन्ति वै गतान् ।
स्मरणाद्वन्दनाच्चापि भुक्तिमुक्तिप्रदान् शुभान् ।।५६।।
नाभ्यधो मायिको भागो नारको जन्मसम्प्रदः ।
नाभ्यूर्ध्वं पावनो भागो मोक्षदो दर्शितो मया ।।५७।।
अर्धोर्ध्वमूर्तिरूपेण तदा ज्ञानं तथाऽभवत् ।
एवं विज्ञाय सम्पूज्य याता धामाऽक्षरं जनाः ।।५८।।
अथ वक्ष्ये वेधसश्च षड्विंशेऽनङ्गवत्सरे ।
कल्पे सप्तशते मनौ सप्तमेऽहं परेश्वरः ।।५९।।
प्राविरासं प्लक्षमध्येऽनादिप्लक्षनरायणः ।
तत्र कल्पे महात्मानो ह्यात्मज्ञानपरायणाः ।।3.21.६० ।।
आसन् वै साधवो धीरा नारायणपरायणाः ।
जटावल्कलवस्त्राश्चाऽयाचितान्नादिकाऽशनाः ।।६१ ।।
यदृच्छालाभसन्तुष्टा लोककल्याणकारिणः ।
यज्ञोपवीतयुक्ताश्च तिलकान्वितविग्रहाः ।।६२।।
कण्ठीमालादिशोभाश्च ध्यानभजनकारिणः ।
एकदा मिलिताः सर्वे विष्णुनद्यास्तटे शुभे ।।६३।।
भक्त्यरण्ये तपोऽर्थं वै भक्त्यर्थं परमात्मनः ।
संवादं ते प्रचक्रुश्च परस्परं सुसंहताः ।।६४।।।
तपः श्रेयःप्रदं किं वा भक्तिः श्रेयःप्रदा द्विजाः ।
यद्वोभयं मतं श्रेयःप्रदं चेदुत्तमं नु किम् ।।६५।।
इत्येवं प्रश्नसारे च जाते कल्याणयोगिषु ।
एके प्राहुस्तपः श्रेष्ठं परे प्राहुर्न तत्तथा ।।६६।।
तपसा क्षीयते पापं पुण्यं प्रजायते शुभम् ।
तेन भोगोपलब्धिश्च स्वर्गं च मरणं क्षये ।।६७।।
ततो वै लौकिकं श्रेयस्तपश्चान्ते न तत्तथा ।
तस्माद् भक्तिः परा श्रेष्ठा श्रेयःप्रदा हि शाश्वती ।।६८।।
अन्ये प्राहुः सकामा सा नाऽत्यन्तश्रेयसः प्रदा ।
निष्कामा श्रेयसी श्रेष्ठा परश्रेयःप्रदा हि सा ।।६९।।
परे त्वाहुर्यदि भक्तिर्निष्कामा कामनां विना ।
फलहीना वृथा सा हि प्रयासमात्ररूपिणी ।।3.21.७०।।
तस्मात् सकामा सा कार्या स्वेष्टसत्फलदायिनी ।
इत्येवं वदमानेषु महर्षिषु तदा वृषः ।।७१ ।।
धर्मदेवो विप्ररूपः समाजस्थोऽब्रवीदिदम् ।
सर्वेषामन्तरात्मा यः सर्वसाक्षी विराजते ।।७२।।
स देवोऽत्र द्रुमे प्लक्षमये धर्म्ये विराजते ।
तस्य पूजां प्रकृत्वैव प्रश्नभारोऽत्र पिप्पले ।।७३।।
न्यसनीयश्चोत्तरं च तत्स्थः कृष्णः प्रदास्यति ।
इत्येवं त्वेकमत्यं वै कृत्वा महर्षयस्तदा ।।७४।।
पिप्पलं तत्र सम्पूज्याऽश्रावयन् परमेश्वरम् ।
किमत्यन्तं परं श्रेयस्तपो भक्तिश्च वा प्रभो ।।७५।।
इति संश्राव्य तस्थुश्च वर्षशतं तपोऽन्विताः ।
तथाऽपि लब्धवन्तो नोत्तरं प्लक्षात्तपोधनाः ।।७६ ।।
तावद् व्योमगिरा देवः परेश्वरो जगाद तान् ।
तपसा न भवेच्छ्रेय आत्यन्तिकं तपोधनाः ।।७७।।
आराधयन्तु मां ब्रह्मपरमं सर्वसाक्षिणम् ।
निष्कामभक्त्या तुष्टोऽहं भवामि सततं द्विजाः ।।७८।।
भक्त्या चात्यन्तिकं श्रेयश्चात्यन्तिकमवाप्स्यथ ।
इत्युक्तास्ते जगदुश्च कथं भक्तिर्विना हरिम् ।।७९।।
साक्षाद्धरिं विना भक्तिः प्रेमसेवा कथं भवेत् ।
वयं चेत् तपसा पूताः पात्रभूताः स्म माधव ।।3.21.८०।।
अस्मन्मध्ये समागत्य शश्वत्तिष्ठ कृपालय ।
भक्ताः प्रियाश्च ते नित्यं यदर्थं चाम्बरे स्थितः ।।८ १ ।।
अदृश्योऽपि भक्तपक्षी व्योमवाण्याऽपि वत्सलः ।
करोषि शासनं श्रेयःप्रदं मत्वा निजाञ्जनान् ।।८२।।
यथा शब्देन च तथा स्वरूपेणाऽपि शाधि नः ।
प्रत्यक्षेण निजानस्मान् समानन्दय माधव ।।८३ ।।
इत्युक्तोऽहमवदँस्तान् भावयन्तु समाहिताः ।
प्राप्ते चाराधनापाके भविष्यामि हि गोचरः ।।८४।।
अथ नारायणीश्रि! स्वभाग्यानि चोत्तमानि वै ।
मन्यमाना द्विजास्तत्र शतवर्षाणि संस्थिताः ।।८५।।
आराधयन्तो देवेशेश्वरेश्वरेश्वरेश्वरम् ।
साधवस्ते निराशाश्च ब्रह्माशामात्रतत्पराः ।।८६ ।।
ब्रह्मरूपा ब्रह्मभूताः प्लक्षछायामुपाश्रिताः ।
जेपुर्नारायणं मां च भेजुर्मां नामकीर्तनैः ।।८७।।
आनर्चुर्मां तुलस्याद्यैर्दध्युर्मां मानसे गृहे ।
गतेषु शतवर्षेषु सतामभ्यासिनां मम ।।८८।।
सन्निधावभवं साक्षात् प्लक्षमूलसमाश्रितः ।
त्वया लक्ष्म्या सहितः श्रीप्लक्षनारायणः स्वयम् ।।८९।।
प्लक्षस्तम्बे गर्भभागे दिव्ये तेजोऽभिमिश्रिते ।
सावकाशे चिदाकाशे प्लक्षब्रह्मणि संस्थितः ।।3.21.९ ०।।
वामे साकं त्वया पद्मे चतुर्भुजो नरायणः ।
अनादिश्रीकृष्णनारायणोऽहं पुरुषोत्तमः ।।९ १ ।।
स्वेच्छयैव समुद्भूतः साधुवाञ्च्छाप्रपूर्तये ।
शंखचक्रगदापद्मस्वस्तिकध्वजशूलवान् ।।९२।।
सर्वदिव्याभरणश्च स्वर्णमुकुटकुण्डलः ।
दिव्यचम्पकवर्णाभो दिव्याम्बरधरस्तथा ।।९३।।
दिव्यतेजोभिसंव्याप्तो युगलात्मा परेश्वरः ।
साध्विच्छापूरकस्तत्र प्रत्यक्षः श्रेयसां प्रदः ।।९४।।
अथ दिव्यनयनास्ते व्यपश्यन्मां द्रुमान्तरे ।
दिव्यगृहाम्बरे तत्र द्रुमाऽभिन्नं पुमुत्तमम् ।। ९५।।
नेमुश्चक्रुर्दण्डवच्च तुष्टुवुः परमेश्वरम् ।
पुपूजुस्तत्र मिलितैश्चोपचारादिभिस्तदा ।।९६।।
स्नेहभक्त्या सदा भेजुर्मां प्ररक्ष्य च मण्डले ।
इत्येवं सर्वलोकानां श्रेयःप्रदोऽभवं प्रिये ।।९७।।
अनादिश्रीकृष्णनारायणः स्वयं सनातनः ।
पुरुषोत्तम एवाऽहं स्वेच्छया साधुमण्डले ।।९८।।
अनादिश्रीप्लक्षनारायणात्मा चाऽभवं स्थितः ।
वेद्म्यहं सर्वमेवेति स्मर त्वं प्लक्षवासिनीम् ।।९९ ।।
तव मूर्तिं शुभां लक्ष्मीस्वरूपिणीं सनातनीम् ।
अन्येऽपि चावतारा मेऽभवन् शतसहस्रशः ।। 3.21.१ ००।।
ईश्वरा नापि जानन्ति कुतः सुराश्च मानवाः ।
पठनाच्छ्रवणादस्य श्रावणात्स्मरणादपि ।। १०१ ।।
सेवनात्प्लक्षवासिन्यास्ते च मे सेवनादपि ।
भुक्तिश्चापि भवेन्मुक्तिर्मुक्तिः श्रेष्ठा च वै भवेत् ।। १ ०२।।
पिप्पलश्रीं त्वर्चयेद् यः पिप्पले श्रीनरायणम् ।
तस्य लक्ष्म्या अनपायो मोक्षाऽवाप्तिर्ध्रुवा भवेत् ।। १० ३।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसश्चतुर्विंशे वत्सरेऽनादिश्रीमदर्धश्रीशनारायणस्य, पञ्चविंशे वत्सरेऽनादिश्रीमदर्धपितृनारायणस्य, षड्विंशे वत्सरे चाऽनादिश्रीप्लक्षनारायणस्य प्राकट्यमित्यादिनिरूपणनामैकविंशतितमोऽध्यायः ।। २१ ।।

टिप्पणी

३.२१.४५ हरिसूक्तम्