लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः)/अध्यायः ०१३
← अध्यायः १२ | लक्ष्मीनारायणसंहिता - लक्ष्मीनारायणसंहिता/खण्डः ३ (द्वापरयुगसन्तानः) अध्यायः १३ [[लेखकः :|]] |
अध्यायः १४ → |
श्रीपुरुषोत्तम उवाच-
शृणु लक्ष्मि! ततश्चापि प्रज्ञाताख्ये तु षोडशे ।
वेधसो वत्सरे चैकादशे तु कल्पके तथा ।। १ ।।
नवमे च मनौ तत्र प्राकट्यं तु यथा मम ।
पृथ्व्यामासीत्तदा धर्मो ब्रह्मकुमारयोगिनः ।। २ ।।
ब्रह्मणश्चाऽभवत्पुत्रो ब्रह्मकुमारसंज्ञकः ।
आबाल्याद् ब्रह्मचार्येव सत्यलोके पुराऽभवत् ।। ३ ।।
तस्य शिष्या नैष्ठिकाश्च सत्यलोकेऽभवंस्तदा ।
स्वर्गे पृथ्व्यां विचरन्ति स्मोपदेशपरायणाः ।। ४ ।।
आर्षकुमारसंज्ञश्च शिष्यः पृथ्व्यामुपादिशत् ।
मनुष्येभ्यः शीलधर्मं नैष्ठिकं ब्रह्मचर्यकम् ।। ५ ।।
नरा नार्यश्च ये देहधारिणः पुण्यशालिनः ।
पापा वा ब्रह्मचर्यस्था वर्तन्ते नैष्ठिका यदि ।। ६ ।।
ते तु मुक्ता भवन्त्येव मायापाशविवर्जिताः ।
ब्रह्मचर्यं कामदाहः कामजयो हि देहिना ।। ७ ।।
शीलव्रतेन कर्तव्यो मोक्षदं साधनं परम् ।
नार्या चाऽक्षतया स्थेयं नरेणाऽस्खलितेन च ।। ८ ।।
एवं शीलव्रतिनाऽत्र भाव्यमाजीवनं सदा ।
ब्रह्मचर्यं ब्रह्मरूपं परब्रह्माप्तिकारणम् ।। ९ ।।
परब्रह्मणि सम्प्राप्ते ऋणं पापं न विद्यते ।
अशुद्धिस्तत्र नास्त्येव साध्व्यां साधौ च नैष्ठिके ।। 3.13.१० ।।
ब्रह्मचर्यं महादीक्षा ब्रह्मचर्यं परं बलम् ।
ब्रह्मचर्यं मोक्षमार्गो ब्रह्मचर्यं परं पदम् ।। ११ ।।
यज्ञदानवतां लोके जन्मानि तु बहून्यपि ।
जायन्ते च ततो ब्रह्मव्रतेन मोक्षणं भवेत्। ।। १ २।।
ब्रह्मव्रतस्य मोक्षः स्यादेकेनैव तु जन्मना ।
ब्रह्मव्रतस्य तु सदा प्रसन्नः परमेश्वरः ।। १३ ।।
अग्नयो देवताद्याश्चाऽभियन्ति ब्रह्मचारिणः ।
अव्याहता गतिर्मोक्षेऽन्यत्राऽपि ब्रह्मचारिणः ।। १ ४।।
ब्रह्मचारी महापापान् पवित्रयति तत्क्षणात्। ।
ब्रह्मचारिस्नातवारि पिबन्ति पितरोऽपि च ।। १५। ।
ब्रह्मचारी स्वयं देवो देवता ब्रह्मचारिणी ।
हर्यंशा अवतारा वै ब्रह्मचर्यपरा जनाः ।। १६ ।।
ब्रह्मचारिप्रसंगेन ब्रह्मभूया भवन्ति वै ।
दर्शनं स्पर्शनं चापि वन्दनं सेवनादिकम् ।। १ ७।।
पादजलं माननं च स्वागतं भोजनादिकम् ।
तत्क्षणात् पावयत्येव कृतं यद् ब्रह्मचारिणः ।। १८ ।।
गुरवो बहवो लोके ज्ञानदा शुष्कयत्निनः ।
गुरवः शीलयुक्ता ये सत्यास्ते तारकाः पराः । । १९ ।।
नारी शीलव्रता साक्षाद् बोध्या नारायणी सती ।
नरः शीलव्रती साक्षाद् बोध्यो नारायणः प्रभुः ।। 3.13.२० ।।
एवमार्षकुमारेण सम्प्रदायो हि नैष्ठिकः ।
आसीत्पृथ्व्यां तदानीं वै स्थापितो ब्रह्मचारिणः । । २१ ।।
कोटिशो वै नरा नार्यो ब्रह्मचर्यपरायणाः ।
नैष्ठिकाश्च बभूवुर्वै तदा पृथङ्निवासिनः ।। २२ ।।
साध्व्यः पृथङ्निवसन्ति स्त्रीणामेवाऽऽश्रमेषु ताः ।
नराः पृथङ् निवसन्ति नराणामाश्रमेषु ते ।। २३ । ।
परस्पराश्रमान्नैव प्रविशन्ति स्त्रियो नराः ।
परस्परं न स्पृशन्ति नरान्नारीश्च शीलिनः ।। २४।।
शृणु त्वं शिवराज्ञिश्रि! त्वेवं शीलप्रतापिनाम् ।
देवाश्च पितरश्चापि दर्शनार्थं प्रयान्ति हि ।। २५ । ।
ब्रह्मशीलाश्च ताः साध्व्यः प्रकाशन्ते च चन्द्रवत् ।
सूर्यवच्च प्रकाशन्ते तेजोभिः शीलजैस्तदा ।। २६ । ।
एवं तेजोमयान् देहान् दृष्ट्वा देवा नरास्तथा ।
दूरादाश्रमतोऽप्येवाऽम्बराद् वा च वनादपि ।। २७ ।।
मोहं प्रयान्ति बहवः सतीषु धैर्यवर्जिताः ।
अथ दैत्या दानवाश्च राक्षसाश्च सुरा नराः! ।। २८ ।।
मानवा नृपवर्गाश्च सत्तावन्तो नरा अपि ।
सतीवर्गान् ब्रह्ममग्नान् ब्रह्मशीलान् स्थले स्थले ।।२९।।
वनेऽरण्ये नदीतीरे विलोक्य तीर्थवासगान् ।
मुग्धा मोहं परं गत्वा चक्रुर्वै धर्षणं क्वचित् ।।3.13.३ ०।।
उद्धता नियमं भंक्त्वा प्रविशन्त्याश्रमाँस्तथा ।
शीलसाध्वीर्धर्षयन्ति चापहरन्ति वाऽऽश्रमात् ।।३ १ ।।
ब्रह्मव्रतात् पातयन्ति ह्यसुरा नृपिशाचकाः ।
नृपाश्च नृपभृत्याश्च स्तेनाश्च योधिनस्तथा ।।३२।।।
प्रसह्याऽऽविश्याऽऽश्रमाँश्च भ्रंशयन्ति सतीः व्रतात् ।
एवं वै बहुधा जाते त्वेकदा शुक्रकोऽसुरः ।।३ ३ ।।
दैत्यैः साकं समायातो मन्दाकिन्यास्तटे तदा ।
आश्रमे तत्र वै ब्रहाचारिणीनां सुरक्षिते ।।३४।।
व्योममार्गेण सहसाऽवतीर्णो योगिनीगणे ।
नार्यश्चाश्रमवासिन्यो ब्रह्मचर्यपरायणाः ।।३५।।।
सशुक्रकाँस्तदा दैत्यान् विलोक्य दुद्रुवुर्भयात् ।
इतस्ततोऽप्यधावँश्चाश्रमवृक्षेषु भीवशाः ।।३६।।
साध्व्यस्त्रासं ययुस्तत्र धर्षिता व्रतखण्डिताः ।
तत्र चैकाऽभवत् साध्वी नाम्ना सुदर्शिनी सती ।। ३७।।
अखण्डिताऽक्षता ब्रह्मचर्यपरोर्ध्वराजसी ।
वाक्सिद्धा दिव्यरूपा च कल्पलतेव योगिनी ।।३८।।
चमत्कारपरा वाचा सर्वभस्मविधायिनी ।
सूर्योज्ज्वला सुपुष्टा च युवती ब्रह्मचारिणी ।।३९।।
अग्निः सूर्यस्तथा वायुः यत्स्पर्शे भयमेति च ।
तां वृक्षाधो ध्यानमग्नां ब्रह्मलग्नामवस्थिताम् ।।3.13.४० ।।
विलोक्य शुक्रकः शीघ्रं धर्षितुं समुपागतः ।
स्पृष्टवाँस्तां बलाद् यावत् तावत् साध्वी विलोक्य तम् ।।४१ ।।
शशाप व्रतविघ्नोऽसौ भस्मीभवतु तत्क्षणम् ।
शुक्रको दैत्यपूज्योऽपि तत्क्षणाद् भस्मतां गतः ।।४२।।
अथाऽन्या ब्रह्मचारिण्यो न्यवेदयन् व्रतक्षतिम् ।
तदा क्रुद्धा पुनः साध्वी सुदर्शनी शशाप ह ।।४३।।
अद्यावधि सतीनां ये प्रधर्षणप्रकारिणः ।
भूतले वा तथा स्वर्गेऽन्यत्र ये संवसन्त्यपि ।।४४।।
तत्र ते द्रुतमेवाऽद्य भवन्तु भस्मसात् क्षणात् ।
इत्युक्त्वा सा सती हस्तगतं वारि मुमोच ह ।।४५।।
तावत् सर्वे ब्रह्मव्रतविनाशकास्तु येऽभवन् ।
यत्र यत्र तु लोकेषु दग्धास्तत्र च तत्र च ।।४६।।
अथापि रोषमापन्ना सुदर्शनी महासती ।
विचारमकरोत् तत्र नरेभ्यो विघ्नशान्तये ।।४७।।
नराः पृथ्व्यां समागत्य स्वर्गादिलोकवासिनः ।
प्रधर्षयन्ति ये साध्वीः प्रधर्षणेच्छुका अपि ।।४८ ।।
नार्यो भवन्तु ते चात्र सर्वदा न नराः पुनः ।
ये तु भूतलवासाश्च नरा नृपादयोऽपि च ।।४९ । ।
धर्षयन्ति सतीः साध्वीर्बलात् तेऽपि सदा भुवि ।
नार्यो भवन्तु सततं न वै ते तु नराः पुनः । । 3.13.५० । ।
पृथिव्यां नरवर्गोऽयं मानवो व्रतभंगकृत् ।
मास्तु सर्वे भवन्त्वेव नार्यो मा सन्तु ते नराः । । ५ १ ।।
बालका अपि वृद्धा वा युवानो वा नरा जनाः ।
सर्वे भवन्तु नार्यो वै सतीव्रतभयाऽप्रदाः । ।५ २ ।।
इत्युक्त्वा हस्तगं वारि मुमोच सा सुदर्शिनी ।
तावत् सत्याः प्रभावाद्वै भूलोकोऽयं समन्ततः । ।५ ३ । ।
नारीमात्रोऽभवत्तूर्णं नराः सर्वे स्त्रियोऽभवन् ।
एकोऽपि मानवो वर्गो नररूपो न शिष्यते । । ५४। ।
बालकाः कन्यकारूपा वृद्धा वृद्धस्त्रियोऽभवन् ।
युवानश्च युवत्यो वै तदाऽभवन् गृहे गृहे । । ५५ ।।
नगरे नगरे खण्डे खण्डे चावार्धि सर्वथा ।
नौकास्वपि स्थिता नार्योऽभवँस्तदा प्रवासिनः । । ५६ । ।
हाहाकारो महानासीदाश्चर्यं परमं च तत् ।
चतुर्दशसु लोकेषु पृथ्व्यां तत्तु विशेषतः ।।५७ । ।
सर्वे नराः प्रपश्यन्ति निजचिह्नानि वै रहः ।
देहांगानां विवृत्तिं वै नारीचिह्नमयी तदा । । ५८ ।।
लज्जामवापुः परमां मुखं न दर्शयन्ति ते ।
अश्मश्रुलाः सकेशाश्च सस्तनाः सभगास्तथा ।। ५९ ।।
सर्वे नरा अभवँश्च क्षितौ नारीस्वरूपिणः ।
जातिस्मराश्च ते सर्वेऽवापुर्दुःखं परं तदा । । 3.13.६० ।।
अन्यलोकेषु दैत्याद्याः स्वस्वबान्धवमण्डले ।
परां लज्जामवापुश्च ययुस्ते हास्यतां तदा ।। ६१ । ।
सुरा अपि तथाकार्या विघ्नकर्तार एव ते ।
स्त्रीरूपा अभवँश्चापि देवेषु हास्यतां गताः । । ६२ । ।
स्वस्वपत्नीसन्निधौ ते चावमानं गतास्तदा ।
धिक्कारतां गताश्चापि शीलधर्षणकारिणः । । ६३ ।।
चमत्कारो महाञ्जातस्त्रिलोक्यां नरयोषिताम् ।
नरा नैव हि विद्यन्ते भूतले कोपपात्रकाः ।। ६४।।
नारीराज्यं समस्तं वै भूतलं सर्वतोऽभवत् ।
नारीप्रजात्मकं सर्वं भूतलं वै तदाऽभवत् ।। ६५ ।।
अथ वै वेधसः पुत्रः कामदेवो नरोऽपि च ।
नारीरूपस्तदा जातः साध्वीदेहस्थितो हि यः ।।६६ ।।
स च पत्नीं रतिं प्रीतिं त्यक्त्वा नारीस्वरूपवान् ।
सत्यलोकं ययौ तूर्णं पश्यन् स्वर्गेऽपि सदृशीम् ।।६७।।
नार्यापत्तिमयीं देवस्थितिं सत्येऽपि तादृशीम् ।
शुक्रस्य दग्धतां चापि शुश्राव तत्र वै पथि ।।६८।।
सुदर्शन्याः प्रकोपस्य कारणं सर्वसृष्टिषु ।
धर्षणं च सतीनां यत् तन्मूलं नरनाशनम् ।।६९।।
स्थले स्थले तथा सर्वलोके वार्ता च साऽभवत् ।
सुदर्शिन्या महाकोपान्नरा नार्योऽभवन् भुवि ।।3.13.७० ।।
कामदेवो ब्रह्मणे तु गत्वा सभाजनेषु वै ।
ब्रह्मकुमारकायाऽपि न्यवेदयद् यथायथम् ।।७ १ ।।
स्त्रीरूपं चाऽप्यनङ्गं च वीक्ष्यते जहसुस्तदा ।
आश्चर्यचकिताः सर्वेऽप्यहो सत्या बलं त्विति ।। ७२।।।
ब्रहाचर्यबलं श्रेष्ठं बलेभ्यो बलवत्तमम् ।
ब्रह्मचर्याद्बलं श्रेष्ठं समं वाऽन्यन्न विद्यते ।।७३ ।।
साधनानि समस्तानि समस्तानि तपांसि च ।
व्रतान्यपि समस्तानि तिष्ठन्ति ब्रह्मचर्यके ।।७४।।
मोक्षस्य साधनं चैतद् रक्षायाः साधनं परम् ।
ऐश्वर्यसाधनं श्रेष्ठं ब्रह्मचर्यं विशिष्यते ।।७५।।
अथ नारायणीश्रि! त्वं शृणु पश्चात् स्त्रियो भुवि ।
विना पतिं च ताः सर्वा ममाराधनमाव्यधुः ।।७६।।
दुःखिताः प्रमदाः सर्वा गर्भवत्योऽपि बालिकाः ।
असूयन्त न वै बालान् ततश्चाऽभ्यधिदुःखिताः ।।७७।।
वंशबीजानि नष्टानि कथं कुलप्रवाहणम् ।
भविष्यतीति ताः सर्वा जातिस्मरा नरास्तथा ।।७८।।
मां समाराधयामासुः श्रीहरिं पुरुषोत्तमम् ।
एतादृशस्य शापस्य वारयिता न चापरः ।।७९।।
सुरा अपि तथा प्राहुर्विना मां पुरुषोत्तमम् ।
ततो ब्रह्मा हरश्चापि तथा प्राहतुरेव ह ।।3.13.८०।।
विना नारायणं ब्रह्मपरं श्रीपरमेश्वरम् ।
नास्य शापस्य शान्तेस्तु कर्ताऽन्यो विद्यते प्रभुः ।।८ १ ।।
भक्ताया ब्रह्मचारिण्याः सत्याः शापो दुरन्तकः ।
नित्यनैष्ठिकधर्मात्मा समर्थोऽत्र पुमुत्तमः ।।८२।।।
इति निर्णीय सर्वेषु लोकेषु प्रमदागणाः ।
भक्त्या चाराधयामासुर्मां हरिं पुरुषोत्तमम् ।।८३।।
स्त्रीराज्यं केवलं भूमौ स्त्रीप्रजाः सन्ति तास्तथा ।
ये चागच्छन्ति वा भूमौ ते भवन्ति हि योषितः ।।८४।।
ते सर्वे वै प्रचक्रुश्च भक्त्या त्वाराधनं मम ।
शतवर्षाणि वै भूमौ स्त्रीसृष्टिरेव केवला ।।८५।।
न वा सृष्टिर्न जाता च प्राचीना वर्तते हि सा ।
चतुर्दशनिवासाश्च स्त्रीभावभयतस्तदा ।।८६।।
पृथ्व्यां केऽपि नचाऽऽयान्ति पूजायामपि देवताः ।
गणेशो न समायाति नायान्ति ऋषयोऽपि तु ।।८७।।
पूजने च व्रतोद्याने सुरा नायान्ति वै भयात् ।
शापोऽयं दारुणश्चाति विष्णुश्चापि बिभेति यत् ।।८८।।
नारीभवनभीत्या तु ब्रह्मा नायाति वै तथा ।
ब्रह्मकुमारकश्चापि नायाति पृथिवीं तदा ।।८९।।
सतीशापनिवारार्थं केऽपि नायान्ति वै सुराः ।
ये चायान्ति प्रजायन्ते भूतले प्रमदा हि ताः ।।3.13.९०।।
एवं रोधो महाञ्जातोऽसह्यस्त्रीभवनात्मकः ।
अज्ञाता ये समायान्ति तेऽपि स्त्रियो भवन्ति यत् ।।९१ ।।
नारीवर्गान्मृतान्नेतुं येऽपि विष्णोस्तु पार्षदाः ।
यमदूताश्च वा भूमावागतास्ते स्त्रियोऽभवन् ।।९२।।
एवं ते पार्षदा गत्वा स्त्रीस्वरूपा हरेः पुरः ।
आश्चर्यकारिणो जाताः शापः सत्या दुरासदः ।।९३ ।।
यमदूताः स्त्रियो भूत्वा हास्यभावमुपागताः ।
परलोकेऽपि नेतॄणामागमो तेन रोधितः ।।९४।।
भुक्ता अपि तथा दूता अपि भवन्ति वै स्त्रियः ।
का कथा तत्र चान्येषां मृत्युर्नायाति तद्भयात् ।।९५।।
मरणं जायते नैवायुष्यक्षयेऽपि वै तदा ।
अमृता पृथिवी जाता नारी वैकुण्ठसदृशी ।।९६।।
अहो सामर्थ्यमेवाऽत्र ब्रह्मचारिबलस्य वै ।
अन्यथाकर्तृता नारायणस्येव तदाऽभवत् ।।९७।।
कालो नारीभावभयान्नायाति वै क्षितौ तदा ।
पुंवर्गो वै न चायाति सतीशापभयाद् भुवि ।।९८।।
अथाऽहं श्रीहरिश्चापि स्त्रीभिश्चाराधितस्तदा ।
नारीरूपभयाद् भूमावागन्तुं नेष्टवांस्तदा ।।९९।।
किन्त्वविचारयं धाम्नि कलया शापवारणम् ।
कर्तव्यमिति धाम्नैव नारी भूत्वा समाययौ ।। 3.13.१०० ।।
दिव्या दिव्यस्वरूपा च दिव्यमुक्ताश्च पार्षदाः ।
सर्वे नारीस्वरूपा च भूत्वा भुवं समागताः ।। १०१ ।।
हसन्त्यो वै वयं सर्वा लक्ष्म्यादिभिः सुनर्मिताः ।
परस्परं प्रमोदिन्यः सर्वा वयं त्वया सह ।। १ ०२।।
आयाता भूतलं रम्यं यत्र सुदर्शनी सती ।
देवाश्च ऋषयश्चापि मुक्ताश्चान्ये तथाऽपरे ।।१ ०३ ।।
कुतूहलभृताः सर्वे भूत्वा नार्यस्ततो हि ते ।
द्रष्टुं समागताः सर्वाः सुरा भूत्वा च योषितः ।। १ ०४।।
नारीब्रह्माण्डकश्चायं समुत्सवो जगत्त्रये ।
अव्याप्नोत् सर्वथा कर्णाकर्णीभावेन सर्वतः ।। १ ०५।।
परस्परं प्रपश्यन्ति नार्यो नारीर्नराः पुरा ।
जातिस्मराश्च ते सर्वे प्रमोदन्ते हसन्त्यपि ।। १ ०६।।
श्रीकृष्णोऽपि समायातो गोलकाद् राधया सह ।
सोऽपि राधासखी जाता राधिका वै द्वितीयका ।। १ ०७।।
नारायणोऽपि वैकुण्ठाल्लक्ष्म्या साकं समाययौ ।
सोऽपि नारायणी जाता लक्ष्मीसखी सुशोभिता ।। १ ०८।।
नरनारायणश्चापि नरी नारायणी तदा ।
अभवतां भुवि नार्यो तापस्यौ शोभिते तदा ।। १ ०९।।
शंकरः शांकरी जाता सत्या तत्र विलोकिता ।
एवमन्ये च ये तत्र समायाताः कुतूहलात् ।। 3.13.११० ।।
सर्वे नार्यः समभवन् महाखेलोऽभवद्धि सः ।
परस्परं प्रपश्यन्ति स्पृशन्ति स्त्रीस्वभाववत् ।। १११ ।।
हसन्ति च प्रमोदन्ते स्त्रीकृतं हि स्त्रिया जगत् ।
नारायणं चकारैषा नारायणीं सुदर्शनी ।। १ १२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां तृतीये द्वापरसन्ताने वेधसः षोडशे वत्सरे आर्षकुमारशिष्यया ब्रह्मचारिण्या सुदर्शन्या स्वप्रधर्षणकारिणां शुक्रादीनां दोषेण तथा
भूलोकनरादीनां शापद्वारा स्त्रीकरणमित्यादिनिरूपणनामा त्रयोदशोऽध्यायः ।। १३ ।।