लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २९४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २९३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २९४
[[लेखकः :|]]
अध्यायः २९५ →

श्रीराधिकोवाच--
मे सर्वाः कथयाऽत्रैव काः काः परिणताः प्रियाः ।
यासां स्मरणमात्रेण मायातो मुच्यते जनः ।। १ ।।
श्रीकृष्ण उवाच-
शृणु त्वं राधिके बालकृष्णेन सह वै तदा ।
यथा लक्ष्मीर्यथा षटक्ं राधा लक्ष्मीश्च माणिकी ।। २ ।।
रमा पद्मावती श्रीश्च चत्वारिंशद्युतं शतम् ।
ब्रह्मप्रिया मुख्यकन्या अशनाद्याः समर्पिताः ।। ३ ।।
वह्निं प्रदक्षिणं चक्रुः पुष्पमालासमन्विताः ।
मेघनाद्यश्चतुर्दशसहस्राणि समर्पिताः ।। ४ ।।
तथा षष्ठी मनसा च दीपावल्यश्च कन्यकाः ।
कोटिसंख्या अग्निं प्रदक्षिणं कृत्वा समर्पिताः ।। ५ ।।
तलाजा त्वेकला कामधेन्वाख्याः कोटिसंख्यिकाः ।
आर्जन्त्यो वसुमत्याद्याः कोटिसंख्याः समर्पिताः ।। ६ ।।
शांभवी क्रोधना कन्या धरापुत्र्यश्च गह्वराः ।
कोटिसंख्या धरया चार्पितास्तत्र मुदान्विताः ।। ७ ।।
वेधःपुत्री सुची वनदेवीकन्याश्च लक्षकम् ।
वनदेव्याऽर्पिता वरमालायुक्ताः सुखान्विताः ।। ८ ।।
दामन्यो राक्षसकन्या लक्षं दमनकाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्तदाश्रिताः ।। ९ ।।
षट्कन्याः कंकताल्यश्चाऽयुतं च कांकतालिकाः ।
कंकतालार्पिता वह्निं प्रदक्षिणं विधाय च ।। 2.294.१० ।।
पुष्पमालायुता बालकृष्णेन संनिजीकृताः ।
पितृकन्यालक्षकं चाऽर्यम्णा दत्ता निजीकृताः ।। ११ ।।
जनपितृकन्यकाश्च विंशतिश्च निजीकृताः ।
पितृदास्यो दशसाहस्रं च तत्र निजीकृताः ।। १२।।
रासातल्यः पञ्चसाहस्रं कन्या दैत्यजास्तथा ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ।। १३।।
वसन्तकान्ताः कन्या वै षोडशाऽपि निजीकृताः ।
वसन्तेन तदा दत्ता वह्निं कृत्वा प्रदक्षिणम् ।। १४।।
सालमालीयदैत्यस्य पञ्चशतं च कन्यकाः ।
शतमातृयुता दैत्यार्पितास्तत्र निजीकृताः ।। १५।।
स्वस्तिकनागकन्याश्च विंशतिश्चाऽयुतं पराः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ।। १६।।
शावदीननृपकन्याः सहस्रं ससुमस्रजः ।
वह्निं प्रदक्षिणं कृत्वा नृपार्पिता निजीकृताः ।। १७।।
ऐन्द्रजालिककन्याश्च शंभुजाः शंभुनाऽर्पिताः ।
सहस्रं सपुष्पमाला वह्निसाक्ष्ये निजीकृताः ।। १८।।
सरस्वती, चतुर्दशविद्याश्च षष्टिकन्यकाः ।
ब्रह्मणा चार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ।। १९।।
भूगर्भीयाश्च लाक्ष्मण्यो द्वे सहस्रे हि कन्यकाः ।
लक्ष्मणेनाऽर्पिता वह्निसाक्ष्ये तत्र निजीकृताः ।।2.294.२०।।
वेधःकन्या द्वासप्ततिसहस्राणि तु नाडिकाः ।
वेधसा संप्रदत्ताश्च वह्निसाक्ष्ये निजीकृताः ।।२ १ ।।
गान्धर्व्यस्त्रिशतं कन्या विश्वावसुसमर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ।।२२।।
जुम्मासेमलानृपकन्याः सहस्रं जुम्मलाऽर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रग्निजीकृताः ।।२३ ।।
सान्तपन्यश्च राक्षस्यः पञ्चसहस्रकन्यकाः ।
सान्तपनार्पिता वह्निसाक्ष्ये स्रग्भिर्निजीकृताः ।।२४।।
सौरत्यः शतमेवाग्निं प्रदक्षिणं विधाय च ।
सुरतर्ष्यर्पिताः कन्याः सपुष्पस्रङ्निजीकृताः ।।२५।।
महाबालेश्वर्य एव त्रिकन्या वह्निसाक्षिकाः ।
बलेश्वराऽर्पिताः पुष्पमालायुक्ता निजीकृताः ।।।२६ ।।
ऐलवीलैककन्या च ईलविलाऽर्पिता तदा ।
वह्निसाक्ष्ये पुष्पमालायुता तत्र निजीकृता ।।२७।।
दक्षजवंगरभूपकन्याः शतं सुमस्रजः ।
प्रजाकन्यासहस्रं चोष्णालयस्य निजीकृताः ।।२८।।
अग्निं प्रदक्षिणं कृत्वा पुष्पमालासमन्विताः ।
प्राचीनदेशकन्याश्च नृपजाश्च प्रजोद्भवाः ।।२९।।
वह्निसाक्ष्ये तज्जनकैरर्पिताः कोटिसंख्यकाः ।
पिशंगराजदत्ताश्च वरस्रग्भिर्निजीकृताः ।।2.294.३ ०।।
सन्तारणद्विजकन्ये द्वे पुष्पमालिकायुते ।
सन्तारणाऽर्पिते वह्निसाक्ष्ये तत्र निजीकृते ।। ३१ ।।
शिबिदेवनृपकन्याः शतं शिब्यर्पितास्तदा ।
वह्निसाक्ष्ये पुष्पमालायुतास्तदा निजीकृताः ।। ३२।।
थर्कूटस्थनृपकन्याः पञ्चाशद्वह्निसाक्षिकाः ।
थर्कूटस्थाऽर्पिता पुष्पस्रग्युक्ताः संनिजीकृताः ।। ३३ ।।
वीरजारनृपकन्याः शतं वै वह्निसाक्षिकाः ।
वीरजारार्पिताः पुष्पमालायुक्ता निजीकृताः ।।३४।।
शक्त्यक्षिनृपकन्याश्च षष्टिश्च वह्निसाक्षिकाः ।
पिशाचिन्यः शतं कन्याः शक्त्यक्षिणा समर्पिताः ।।३५।।
वह्निं प्रदक्षिणं कृत्वा सपुष्पस्रङ्निजीकृताः ।
कालिमाशनृपकन्याः शतद्वयं नृपाऽर्पिताः ।।३६।।
वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
उरलकेतुभूपस्य त्रिंशत्कन्या नृपाऽर्पिताः ।।३७।।
वह्निसाक्ष्ये योगमालायुतास्तत्र निजीकृताः ।
क्रथकक्ष्मापतेः कन्याः पञ्च वै वह्निसाक्षिकाः ।। ३८।।
पित्राऽर्पिता योगमालायुक्तास्तत्र निजीकृताः ।
पृथुराजेन दत्ताः स्वकन्या विंशतिरग्निकम् ।। ३९।।
प्रदक्षिणं विधायैव सयोगस्रङ्निजीकृताः]
उष्ट्रालराजकन्याश्च दशोष्ट्रालेन चार्पिता ।।2.294.४० ।।
वह्निसाक्ष्ये पुष्पमालायुतास्तत्र निजीकृताः ।
हंकारनृपतेः पञ्च जयकाष्ठस्य पञ्च च ।।४१ ।।
तीराणनृपतेः षट् च अल्वीनरस्य पञ्च च ।
जीनवर्द्धिनृपस्याऽपि सप्ताऽनाथा तथैकला ।।४२।।
तत्तद्राजाऽर्पिता वह्निं कृत्वा प्रदक्षिणं हि ताः ।
योगमालायुता बालकृष्णेन संनिजीकृताः ।।।४३ ।।
प्रकीर्णिकाः शते द्वे च सहस्रं कन्यकाः शुभाः ।
रक्षोरुद्धा वह्निसाक्ष्ये ससुमस्रङ्निजीकृताः ।।४४।।
अल्पकेतो सप्तकन्या जयकृष्णवजैकला ।
परीशाननृपस्यैकविंशतिः कन्यकास्तथा ।।४५।।
इन्दुरायनृपस्यापि कन्ये द्वे शोभने तदा ।
मुद्राण्डनृपतेः कन्या पञ्चदश विभूषिताः ।।४६।।
गण्डभूपस्य च नव लीनोर्णजाचतुष्टयम् ।
बृहच्छरनृपस्यापि तथैकादशकन्यकाः ।।४७।।
चत्वारिंशत्कन्यकाश्च बललीनस्य भूपतेः ।
वरसिंहस्य पञ्चैव रायगामलजाष्टकम् ।।४८।।
फेनतन्तुनृपस्य द्वे स्तोकहोमस्य चैकला ।
काष्ठयाननृपस्यैका कोलकस्यापि चैकला ।।४९।।
दिनमाननृपस्य द्वे कन्याः सयोगमालिकाः ।
वह्निं प्रदक्षिणं कृत्वा स्वस्वपित्रा समर्पिताः ।।2.294.५०।।
राजभिरर्पिता बालकृष्णेन ता निजीकृताः ।
रायकिन्नरराजस्यैकपञ्चाशत्सुपुत्रिकाः ।।५ १ ।।
रायकोटीश्वरस्यैकविंशतिः कन्यकास्तथा ।
रायरणजिद्भ्यस्य विंशतिः कन्यकास्तथा ।।।५२
रायवाकक्षभूपस्य तिस्रः कन्यास्तथा तदा ।
रायमारीशभूपस्य तिस्रः कन्याश्च शोभनाः ।।५३ ।।
रायबलेश्वरस्यापि तिस्रः कन्यास्तथा पराः ।
रायलम्बारभूपस्य षट् कन्या यौवनान्विताः ।।५४।।
रायनवार्कभूपस्य सप्त कन्याः सुमञ्जुलाः ।
रायहूण्डेशभूपस्य नव कन्याः सुकोमलाः ।।५५।।
रायकूपेशभूपस्यैकला पुत्री सती शुभा ।
कालीमण्डभूपतेश्च चतस्रः कन्यकास्तथा ।।५६।।
वनजेलेशनृपतेः पञ्च कन्याः सुपाण्डुराः ।
पारावारपिबस्यापि तिस्रः कन्याः सुरक्तिकाः ।।५७।।
कोटीश्वरनृपस्य द्वे तिस्रः सतीशभूपतेः ।
त्रेताकर्कशनृपतेः सप्त कन्याः सुगोरिकाः ।।५८।।
आण्डजरानृपस्यापि चतस्रः कन्यकाः शुभाः ।
बाल्यरजोनृपस्यापि कन्यैका धर्मशालिनी ।।५९।।
रायसोमनभूपस्य तिस्रः कन्याः सुशोभनाः ।
ऊरुगवाक्षनृपतः कन्ये द्वे शोभने तथा ।।2.294.६० ।।
पराङ्व्रतनृपस्य द्वे राजारायस्वसैकला ।
ईशानपानभूपैकचत्वारिंशत्सुकन्यकाः ।।६ १ ।।
राजारायपतिक्ष्मेशत्रयस्त्रिंशत्सुकन्यकाः ।
एताः सर्वांस्तदा तत्र योगमालाविभूषिताः ।।६२।।
राजशृंगारशोभाश्च स्वस्वपित्रा समर्पिताः ।
वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ।।६३।।
त्रिंशत्कन्या मंगलाद्या महर्षिभिः समर्पिताः ।
ऋषीणां ता विभिन्नानां बालकृष्णनिजीकृताः ।।६४।।
आजनाभप्रदेशानां राज्ञां कन्याः समुज्ज्वलाः ।
सहस्राणि दश तत्तत्पित्रादिभिः समर्पिताः ।।६५ ।।
प्रजाकन्या दशसहस्राणि प्रजाभिरर्पिताः ।
सर्वशृंगारशोभाढ्या योगमालाविभूषिताः ।।६६।।
वह्निं प्रदक्षिणं कृत्वा बालकृष्णनिजीकृताः ।
पृथक् पृथक् प्रकुण्डेषु पृथग् वह्नेः प्रसाक्षिकम् ।।६७।।
करग्रहणमेतासां सर्वासामभवत्तदा ।
राधिके! च तथाऽन्याश्च कौबेर्यश्च सहस्रशः ।।६८।।
सहस्रशश्च माहेन्द्र्यो यमकन्याः सहस्रशः ।
वायव्यो वैश्वकर्म्यश्च वार्क्ष्यो रौद्र्यश्च वह्निजाः ।। ६९ ।।
श्रावण्यश्चापि खानिज्यः सांवत्सर्यश्च गोपिकाः ।
प्राचीन्यश्च पिशंगिन्यो राशियान्यश्च कोटिशः ।।2.294.७ ० । ।
रौमायन्यश्च पारश्यो धैवर्यश्च सहस्रशः ।
किन्नर्योऽमर्य एवापि गौर्यः पर्यश्च कोटिशः ।। ७१ ।।
आब्रिक्त्यश्चापि हारित्यः पाताल्यः स्वर्ग्य इत्यपि ।
अप्सरसो ब्रह्मसरसो गान्धर्व्यः कोटिशोऽपि च ।।७२ ।।
विद्युन्मणिश्चः कुशला योगिनी, द्वे तथाऽपरे ।
भौम्यश्चापि च दानव्यः कोट्यर्बुदाब्जसंख्यकाः ।। ७३ ।।
कः कर्तुं तत्र शक्येत् संख्यां चार्वांगदृऽशिर्जनः ।
ताः सर्वाः स्मृतपित्राद्याः पित्रुपस्थितिसन्निधौ ।।७४।।
विभूषिताः कृतवस्त्रप्रान्तबन्धाः सुयौवनाः ।
योगमालायुता वह्निं कृत्वा प्रदक्षिणं तदा ।।७६ ।।
तत्तत्पित्राद्यर्पिताश्च करग्राहेण वै तदा ।
अनादिश्रीकृष्णनारायणेनाऽङ्गीकृताः पृथक् ।।७६ ।।
सर्वेषां पश्यतां बालकृष्णेन परमात्मना ।
उद्वाहिता वह्निसाक्ष्ये सर्वसाक्ष्ये समर्पिताः ।।७७।।
राधिके! ते श्रावितास्ताः सृष्ट्यादौ परमात्मना ।
उद्वाहिता हि विधिना सर्वा ब्रह्मप्रिया इमाः ।।७८ ।।
हरेर्मूर्तेः समुत्पन्ना हरेः शक्तय एव ताः ।
हर्यर्थं चागताः पृथ्व्यां सृष्टौ सर्वत्र तत्र च ।।७९ ।।
यथेष्टं संस्थिताः काले कृष्णकान्ताश्च सर्वथा ।
अनादिश्रीकृष्णनारायणं काश्यां समाश्रिताः ।।2.294.८ ० ।।
शिवेश्वराऽङ्गणे दत्ता कालो यासु न जंभते ।
शिवः कालस्वरूपो वै तेनाऽर्पितास्ततोऽतिगाः ।।८ १ ।।
कालातीताः कृप्णमूर्तिमय्यः सर्वा हि मोक्षदाः ।
सौराष्ट्रं मन्मणेर्जातं बालकृष्णोऽत्र राजते ।।।८२ ।।
काश्यां प्रोद्वाहमापन्नः सृष्टित्रये प्रकाशते ।
प्रतीक्षमाणाः सर्वास्ताः प्रोद्वाहं प्राप्य चाऽद्य वै ।।८ ३ ।।
कृतकृत्या बभूवुश्च शाश्वतानन्दसंभृताः ।
लक्ष्मीः प्राप्ता निजं कान्तं शिवेश्वरसुता क्षितौ ।।८४।।
दिशां पुत्री पद्मवती सूर्यपुत्री सुभास्वरा ।
कल्पद्रुमसुता श्रीश्च लक्ष्मीः क्षीरोदपुत्रिका ।। ८१ ।।
दिव्यविभूतिपुत्री च माणिक्याचाक्षरीसती ।
कमलाद्यास्तथा चान्याः प्राप्य कान्तं हरिं शुभम् ।।८६।।
कृतकृत्यो बभूवुश्च सर्वसौभोग्यसंभृताः ।
सर्वा उद्वाहितास्तत्र सुयोगे कृष्णयोः शुभे ।। ८७। ।
शृणु राधे तदा काशीराजश्च शिवछत्रकः ।
धेनुपालस्तथा शिवेश्वरस्यापि सुभक्तराट् ।। ८८ ।।
वीक्ष्यैश्वर्यं बालकृष्णे चानन्तं पारमेश्वरम् ।
तदैव प्रददौ काशीराजः कन्या दशाऽपि च ।।८ ९ । ।
धेनुपालो ददौ तिस्रो वह्निसाक्ष्ये तदन्तरे ।
योगमालायुतास्ताश्च मण्डपेऽत्र नजीकृताः ।। 2.294.९० । ।
यौतकं प्रददौ राजा तदा सौवर्णलक्षकम् ।
नरयानं तथा दासीशतं विभूषणानि च । । ९१ । ।
प्रजाश्चापि ददुस्तस्मै बालकृष्णाय मण्डपे ।
दानं बहुविधं पश्चात्तत्कुण्डे हवनं तदा । । ९२ ।।
वह्नौ दत्वा गुरूक्ताँश्च गार्हस्थ्यसद्वृषान् वरः ।
अंगनासहितस्तत्राऽशृणोत् पाल्यान् समन्ततः । । ९३ । ।
सह धर्मं युगलस्याऽभिन्नं पालय माधव ।
अर्धांगनास्तव चेमास्ताः सर्वाः परिपालय ।। ९४।।
सुखे सुखं तथा दुःखे दुःखं पश्य परेश्वर ।
कान्ता कान्तो न वै भिन्नौ देहयोरैक्यमावह । । ९५।।
स्वात्मवत् सर्वकान्तास्त्वं विभावय प्रमोदय ।
कान्तानां चान्तरे देहे तव देहो विराजते ।। ९६ ।।
मस्तके मस्तकं मुखे मुखं च हृदयं हृदि ।
उदरे उदरं मध्ये मध्यं पादौ च पादयोः । । ९७।।
कान्तादेहं स्वदेहं च मत्वा ताः परिपालय ।
कुरु धर्मान् सहैवाऽत्र वंशवर्धनहेतुकान् ।। ९८ ।।
कान्ताभिश्चापि कान्तः स्वो मन्तव्यः प्राण एव ह ।
प्राणसेवा प्रकर्तव्या सर्वथा चेशवत् सदा । । ९९ ।।
पातिव्रत्यं सदा पाल्यं कान्ताभिः सुखहेतवे ।
आज्ञा प्रभोः सदा पाल्या प्राणैरपि क्रियादिभिः ।। 2.294.१०० ।।
ऐक्यभावेन मन्तव्यो भजनीयः स्वयं प्रभुः ।
इत्येवं वीक्ष्य युगलैर्वर्तितव्यं निरन्तरम् । । १०१ ।।
सापत्न्यं न समुद्भाव्यं परस्परं कदाचन ।
सपत्नीभिः स्वसृवच्च वर्तितव्यं निरन्तरम् ।। १०२ । ।
सन्तोष्टव्यं परस्यै वै सुखं दत्वा सदा सुताः ।
प्रभोरंशाः स्वांशका वै मन्तव्या नान्यथा क्वचित् । । १०३ ।।
इतिमात्रे वृषे स्थेयं स्वस्त्यस्तु वः सुखं च शम् ।
इत्युक्त्वांऽकुरसलिलैः प्रोक्षणं चक्रतुर्गुरू । । १० ४।।
दक्षिणां प्रददौ कृष्णो भूयसीं कन्यकास्तथा ।
कोटिरत्नानि च मणीन् कोटिसंख्यं सुवर्णकम् ।। १ ०५।।
परिहारं ततो गुरू चक्राते यज्ञकर्मणः ।
देवविसर्जनं चापि सर्वविसर्जनं ततः ।। १ ०६।।
अनेकरूपविलयं हरिश्चक्रेऽथ सत्वरम् ।
एतस्मिन्नन्तरे देवी गिरिजा तूर्णमागता ।
पतिपुत्रवतीभिश्च साध्वीभिः सहिताग्रगा ।। १ ०७।।
सर्वसृष्टिनिवासिन्यो मातरोऽपि तदाऽऽगताः ।
सुकृत्वा मंगलं सर्वास्तत्र निर्मञ्च्छनादिकम् ।। १ ०८।।
दम्पतिर्वेशयामासुः रत्ननिर्माणमन्दिरम् ।
कोट्यर्बुदाब्जकन्यानां वासार्हं दीपितं यथा ।। १ ०९।।
द्वितीयमिव गोलोकं द्राक् कृतं विश्वकर्मणा ।
कैलासाख्यस्य मुक्तस्य साहाय्येन नवीकृतम् ।। 2.294.११ ०।।
रत्नसिंहासनेष्वेव वासयामासुरेव च ।
भोजयामासुरेवाऽपि स्वामिना सह कन्यकाः ।। १११ ।।
सकर्पूरं सताम्बूलं प्रददुर्वासितं जलम् ।
सरस्वती तदोवाच सर्वाः सृष्टेश्च मातरः ।। १ १२।।
देव्यः सत्यस्तथा साध्व्यो नारायण्यः पतिव्रताः ।
कन्यकाः सौभाग्यवत्यः कुर्वन्तु मंगलं परम् ।। १ १३।।
यथा स्वामी तथा कन्या योजिताः परमात्मना ।
विदग्धानां विदग्धेन भवन्तु संगमाः शुभाः ।। १ १४।।
अथ सर्वान् महीमानान् नरान्नारीः शिवापतिः ।
पूजयामास विधिना भोजयामास सादरम् ।। १ १५।।
खाद्यतां भुज्यतां स्वेष्टं चूष्यतां लिह्यतां मुहुः ।
दीयतां दीयतां चापि गृह्यतां तृप्यतामिति ।। १ १६।।
पीयतां स्वाद्यतां चेति शब्दोऽनवरतोऽभवत् ।
घोषो बभूव शालासु वाद्यसंगीतमंगलैः ।। १ १७।।
एवं रात्रौ भोजनान्ते ताम्बूलेऽपि निवर्तिते ।
महीमानाः परां शान्ति विश्रान्तिं निद्रिकां शुभाम् ।। १ १८।।
जगृहुश्चोभयपक्षा विशाले क्लृप्तपत्तने ।
दम्पतीमन्दिरे श्रीमद्बालकृष्णोऽप्यनन्तकः ।। ११ ९।।
यावत्यः सन्ति कान्तश्च तावद्रूपधरः प्रभुः ।
ताभिर्मृद्वीषु शय्यासु सेवितः सुखदोऽभवत् ।। 2.294.१२० ।।
राधिकेऽनन्तसत्त्वस्याऽनन्तवीर्यस्य योगिनः ।
कोट्यर्बुदाब्जपत्न्योऽपि न विजेतुं क्षमाः क्वचित् ।। १२१ ।।
निशायां नृत्यखेलाद्या मल्लानां युद्धसत्कलाः ।
वाद्यानां च समाश्रावा नाटकानां कलादृशः ।। १ २२।।
अभवन्नगरे तत्र प्रोद्वाहोत्सवलम्बिताः ।
रात्र्यर्धोर्ध्व ततः शान्तं सर्वं वै सत्यमण्डलम् ।। १२३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वह्निसाक्ष्ये प्रोद्वाहितानां निर्देशः, गृहधर्मोपदेशः, प्रोद्वाहकार्यपरिहारः, दम्पतीभोजनम्, सर्वभोजनम्, कोट्यर्बुदाब्जरूपपरिहारः, सर्वाभिः सह सर्वरूपेण कृष्णस्य दम्पतीमन्दिरे विहारः, सर्वशयनं, चेत्यादिनिरूपणनामा चतुर्नवत्यधिकद्विशततमोऽध्यायः ।। २९४ ।।