लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६३

विकिस्रोतः तः
← अध्यायः २६२ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६३
[[लेखकः :|]]
अध्यायः २६४ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं तीर्थं वै लोमशोदितम् ।
सूर्यनारायणस्यैव सर्वकुष्ठविनाशनम् ।। १ ।।
रामतीर्थं परं कृत्वा ययौ त्वग्रेऽश्वपाटलः ।
तीर्थं सरस्तटे रम्यं सूर्यभासुरसज्जलम् ।। २ ।।
सूर्यवद् यत्र दृश्यन्ते शुक्तयोऽपि सुभासुराः ।
किरणानि विमुञ्चन्ति जालान्तरस्थिता अपि ।। ३ ।।
जलं देदीप्यमानं तद्विलोक्य त्वश्वपाट्टलः ।
पप्रच्छ लोमशं देवं महाश्चर्यभरस्तदा ।। ४ ।।
अश्वपाटल उवाच-
गुरो तीर्थमिदं सर्वतीर्थेभ्यो द्योतनाऽऽश्रयम् ।
कथं कस्मात् कदा त्वेवं जातं वै सूर्यवर्चुलम् ।। ५ ।।
जलान्यपि प्रकाशन्ते सूर्यगर्भाणि वै यथा ।
किन्नाम किंगुणं किंसत्फलं तत् कथय प्रभो ।। ६ ।।
श्रीलोमश उवाच-
शृणु राजन् महाश्चर्यं यदत्र समभूत् पुरा ।
स्तम्भपुरे पुरा त्वासीत् कायस्थो लेखकर्मकृत् ।। ७ ।।
भजते स प्रभुं नित्यं राजकर्मचरोऽभवत् ।
न्यायकार्ये सहायो वै लेखकोऽभूत् सुबुद्धिमान् ।। ८ ।।
दारिद्र्यदोषछन्नश्च लक्ष्मीतृष्णातिचञ्चलः ।
येन केन प्रकारेण द्रव्यं साध्यं धनादिकम् ।। ९ ।।
लेखने शब्दमालानां पूर्वापरविछित्तया ।
अर्थस्याऽपि भवेद् यत्राऽनर्थोऽपि लाभहानिदः ।। 2.263.१ ०।।
तथा शब्दान् लेखगुप्तान् कृत्वा तु लेखपत्रके ।
यो ददाति धनं तस्मै लुञ्चारूपं तदर्थिकाम् ।। ११ ।।
लाभलिपिं विलिख्यैव ददात्येव जयप्रदाम् ।
द्व्यर्थरूपां संकरार्थां पदच्छेदे नवार्थिकाम् ।। १ २।।
एवं लोभेन बहूनां न्यायाऽन्यायविलेखनात् ।
पापभारेण जातोऽयं गलत्कुष्ठी करद्वये ।।१ ३।।
ऊर्जव्रतो हि नाम्ना स कायस्थो हस्तरोगवान् ।
लेखकार्यं ततस्त्यक्त्वा तीर्थार्थं गोपनाथकम् ।। १४।।
कृष्णलीलामयं तीर्थं त्वाययौ स्नातवाँस्ततः ।
गुप्तप्रयागकं क्षेत्रं ददौ पापनिवारकम् ।। १५।।
स्नातस्तत्र ततो मूलद्वारिकां प्रययौ हि सः ।
ततो ययौ सोमनाथं प्राचीप्लक्षं ततो ययौ ।। १६।।
सरस्वत्यां कृतस्नानः प्लक्षमूलसमाश्रितः ।
जजाप मनसा जापं कृष्णकृष्णोतिमाधव ।। १७।।
नारायणहरेराम जनार्दन जनावन ।
कृपालो करुणासिन्धो रोगाद् रक्षय मां प्रभो ।। १८।।
कृतानां कर्मणं चात्र फलं तीव्रप्रयोगिणाम् ।
जायते मन्दवेगानां कालान्तरे प्रजायते ।। १९।।
जन्मान्तरे च वा सर्वं भोक्तव्यं वा यमगृहे ।
यत्र क्वापि गतं जन्तुं कृतं कर्म न मुञ्चति ।।2.263.२०।।
मया लेखे बहूनां वै सत्यादसत्यमुच्छ्रितम् ।
असत्याद् सत्यरूपं तु कृत्वा चाऽकुशलं कृतम् ।।२१।।
तेन पापेन भगवन् कुष्ठोऽगलन् करद्वये ।
अंगुलिषु प्रजातो मे तीर्थं पापविनाशनम् ।।२२।।
कृतं तथापि भगवन् रोगोऽयं न विलीयते ।
तस्मादुद्धर देवेश कृपया मां कृपानिधे ।।२३ ।।
नैवं पुनः करिष्येऽत्र लोके दोषं कदाचन ।
नमस्ते पापहर्त्रेऽत्र रोगहर्त्रे नमो नमः ।।२४।।
भक्तानां सुखकर्त्रेऽत्र तीर्थे गोप्त्रे नमोऽस्तु ते ।
नमस्ते सर्वकर्णाय नमस्ते सर्वचक्षुषे ।।२५।।
नमस्ते सर्वविज्ञाय सर्वहृत्स्थाय ते नमः ।
नमः कायस्थरूपाय नमो निकाययोजिने ।।२६।।
नमश्चादृश्यरूपाय शरणागतरक्षिणे ।
इत्येवं प्रार्थयामास कायस्थो विमना इव ।।२७।।
प्लक्षाऽधो निषसादाऽपि निराशश्चिन्तयन् मृतिम् ।
तावत्तत्र समायातः कश्चिद् विप्रो जटाधरः ।।२८।।
आराधयाऽर्कक्षेत्रं त्वं गत्वाऽन्तिकस्थितं त्विह ।
अर्कवृक्षाश्रयो भूत्वा सूर्यमन्त्रान् सदा जप ।।२९।।
सूर्यनारायणो देवः कुष्ठं ते नाशयिष्यति ।
सरस्वतीं नदीं स्नात्वा पीत्वा जलं च पावनम् ।। 2.263.३०।।
 'नमो ब्रह्मसवित्रे ते कुष्ठहर्त्रे नमो नमः' ।
इत्येवं जप गत्वैव सूर्यक्षेत्रं शुभप्रदम् ।।३ १।।
इत्युक्तः स तु कायस्थो राजँस्ततोऽर्कतीर्थकम् ।
विश्वकर्मकृतः सूर्यः शाणोल्लीढो यदा पुरा ।।३२।।
यत्र खण्डश्च पतितो यत्राऽर्कवृक्षतां रविः ।
गतस्तत्र ययौ पृष्ट्वा तं जटाध्रं प्रणम्य च ।।३३।।
अर्कवृक्षवनं दृष्ट्वा तुतोषोर्जव्रतो हि सः ।
श्वेतार्कान् व्योमरंगार्कान् स्थूलपुष्पकान् ।।३४।।
बहुदुग्धान् स्तम्बरूपान् वल्लीरूपान् बहून् द्रुमान् ।
फलपुष्पदलाढ्यांश्च दृष्ट्वा तुतोष वै हि सः ।।३५।।
मार्गयामास बहुधा तीर्थस्थलं क्व वै भवेत् ।
श्रेष्ठार्कसन्निधौ चाऽहं निषद्य प्रजपामि ह ।।३६।।
तावत्तेनाऽर्कमूलेऽ वै बहुशाखदलावृते ।
बहुपुष्पाश्रये मूले शिखाचक्रं विलोकितम् ।।३७।।
तत्राऽस्य मानसं लग्नं कुटीतुल्येऽर्कसद्गृहे ।
तच्छायायां चकाराऽयं वासं मूले जपन् मनुम् ।।३८।।
 'नमो ब्रह्मसवित्रे ते कुष्ठहर्त्र नमो नमः' ।
इत्येवं प्रजपँस्तत्र क्षुत्पिपासाकुलोऽपि सन् ।।३९।।
रात्रिं निर्गमयामास निद्रां लेभे न वै मनाक ।
प्रातरुत्थाय पुष्पाणां मालां कृत्वा तृणे गुणे ।।2.263.४०।।
शिलाचक्राय सूर्यायाऽर्पयामास स भक्तितः ।
जलं ददौ शिलायां च सीताफलं फलं ददौ ।।४१ ।।
तुलस्याः पत्रमेवाऽपि ददौ शिलास्वरूपिणे ।
स्तुतिं नमस्कृतिं चक्रे ततः सीताफलं हि सः ।।४२।।
प्रसादं बुभुजे पश्चाज्जजाप सततं हि सः ।
एवं मासे गते राजन् फलाहारपरायणे ।।४३।।
चक्रान् समुत्थितः कश्चिदज्ञानरूपसुन्दरः ।
पुरुषः श्वेतवर्णश्च बहुरश्मिसमन्वितः ।।४४।।
सुवर्णकुण्डलकर्णः समुकुटः सचक्रकः ।
समणिहारवक्षाश्च हिरण्यवर्ण उज्ज्वलः ।।४५।।
कटकांगदबाहुश्च हसन् स्नेहसमाकुलः ।
सौवर्णाम्बरसंराजत्कान्तिपरिधिमस्तकः ।।४६।।
शनैरागत्य चक्राद्वै दूरमूर्जव्रतं स्थितम् ।
जगाद वद पुत्र त्वं किमिच्छसि च मा चिरम् ।।४७।।
ऊर्जव्रतस्तदोवाच देवदेव जगद्गुरो ।
कुष्ठरोगप्रशान्तिं मे समिच्छामि दयां कुरु ।।४८।।
को भवान् भगवानास्ते सर्वतेजोऽन्वितस्त्विह ।
मन्ये सूर्यः स्वयं नारायणो मे कृपयाऽद्भुतः ।।४९।।
प्रकाशमागतस्त्वत्र भक्तानुग्रहकारकः ।
नमः सहस्ररूपाय नमः सहस्ररश्मये ।।2.263.५०।।
नमो भक्तकृपाकर्त्रे नमः सहस्रचक्षुषे ।
नमो जगत्प्रकाशाय सर्वभूतप्रचक्षुषे ।।५१ ।।
परब्रह्मस्वरूपाय मोक्षदात्रे नमो नमः ।
नमस्तेजोऽभिहन्त्रे च रोगहन्त्रे नमो नमः ।।।५२।।
इत्युक्त्वा निपपाताऽसावूर्जव्रतोऽस्य पादयोः ।
सूर्यस्तिरोऽभवत्तूर्णं दिव्यवाण्या जगाद ह ।।५३।।
ऊर्जव्रत स्वस्ति तेऽस्तु रोगनाशो भविष्यति ।
अकृतनिष्कृतिस्त्वं वै न मां स्प्रष्टुमिहाऽर्हसि ।।५४।।
मन्मंत्रलक्षजापेन प्रायश्चित्तं भवेत् तव ।
तत्कुरु याहि चेतस्तु ह्यश्वपट्टसरोवरम् ।।५५।।
अनादिश्रीकृष्णनारायणाश्रयाऽक्षराभिधम् ।
कुंकुमवापिकाक्षेत्रं पुरुषोत्तमसंश्रितम् ।।५६।।
तस्यैव सरसस्तीरे चोत्तरे शंकराश्रये ।
अर्कवृक्षाश्रये स्थित्वा जपमन्त्रं ममोत्तमम् ।।५७।।
तव कुष्ठस्य वै नाशः शीघ्रं तत्र भविष्यति ।
श्रुत्वैवं शारदां दिव्यां नेमे तां दिशमेव सः ।।५८।।
प्रसन्नश्चोर्जव्रतको ययौ श्रीबलिखातकम् ।
ततो ययौ वामनस्य स्थलीं वस्त्रापथं ततः ।।५९।।
सुवर्णरक्षासलिले स्नात्वा नारायणे ह्रदे।
इन्द्रेश्वरे महालक्ष्मीतीर्थे चक्रकतीर्थके ।।2.263.६०।।
शंखलादेविकां नत्वा तुरादेवीं प्रणम्य च ।
व्याघ्रीं देवीं ततो नत्वा नत्वा श्रीखर्खरीं सतीम् ।।६१।।
राणिकां च ततो नत्वा ययौ कुंकुमवापिकाम् ।
महालक्ष्मीं वापिकायास्तीरे स्थितां प्रणम्य च ।।६२।।
प्रणम्य नगरीं स्वर्णवर्णां नारायणालयम् ।
प्रणम्याऽश्वसरो दृष्ट्वा ययावुत्तरगं तटम् ।।६३।।
शांकरं क्षेत्रपेशं च नत्वा पीत्वा जलं ततः ।
मार्गयामास वै चार्कवृक्षं ददर्श सन्निधौ ।।६४।।
भिक्षां याचित्वैव भुक्त्वा फलमूलदलात्मिकाम् ।
अर्कवृक्षतले तस्थौ क्षणं ध्यात्वा रविं प्रभुम् ।।६५।।
अर्कमूले स शुश्राव वाणीं त्वदृश्यरूपिणीम् ।
स्वस्ति तेऽस्तु हि कायस्थ तिष्ठ जप रविं स्मर ।।६६।।
अनादिश्रीकृष्णनारायणं नित्यं प्रगे भज ।
पूजयार्केश्वरं कृष्णं नारायणं सतां पतिम् ।।६७।।
अहं भजामि तं देवेश्वरेश्वरेश्वरेश्वरम् ।
मया लब्धं ततः सर्वं तेज ऐश्वर्यमित्यपि ।।६८।।
सूर्योऽहं तव कल्याणं करिष्यामि हरिं भज ।
लक्षजपोत्तरं हस्तौ स्नानमात्रेण सारसे ।।६९।।
जले पूर्णौ रोगहीनौ भविष्यतोऽर्कवैभवात् ।
इत्याश्रुत्य गिरं चोर्जव्रतश्चक्रेऽर्कपादपे ।।2.263.७० ।।
मूलदेशे निवासं च वल्कलाद्यधिवासनम् ।
अयाचितोत्कर्षवृत्त्या जीवयात्रां करोति च ।।७१ ।।
फलमूलदलाहारो जलाहारः क्वचित्तथा ।
'नमो ब्रह्मसवित्रे ते कुष्ठहर्त्रे नमो नमः' ।।७२।।
जजापैनं महामन्त्रं सततं सूर्यमानसः ।
नित्यं पञ्चसहस्राणि जपान् करोति भक्तराट् ।।७३ ।।
एकविंशे दिने लक्षजपेषु निर्वृत्तेषु च ।
सोत्साहश्चोर्जव्रतकः स्मरन् सूर्यनरायणम् ।।७४।।
अश्वपट्टसरस्तीरे प्रातः स्नातुं ययौ द्रुतम् ।
सस्नौ राजन्नत्र तीरे जलेऽवगाह्य वै मुहुः ।।७५।।
निमज्योन्मज्य च पुनः करौ पश्यति लेखकः ।
नैव पश्यति नीरोगौ तदा स्नाति पुनः पुनः ।।७६।।
पुनः पश्यति हस्तौ च नोरोगौ नैव पश्यति ।
एवं स्नात्वा श्रमं प्राप्य नीराशोऽयं व्यजायत ।।७७।।
जपे व्रते क्षतिं नैजां व्यतर्कयत लेखकः ।
सस्मार शोकमासाद्य सूर्यनारायणं तदा ।।७८।।
व्योमवाणी जगादैनं भक्त व्रतं तवाऽत्र वै ।
सम्पन्नं सर्वथा तत्र कर्तव्यं नाऽवशिष्यते ।।७९।।
अनादिश्रीकृष्णनारायणं मध्याह्नके क्षणे ।
ध्यात्वा स्नास्यसि तूर्णं ते हस्तौ रोहिष्यतस्तदा ।।2.263.८०।।
गलत्कुष्ठेन नष्टा या अङ्गुल्यश्च करद्वयम् ।
हस्ततलं समस्तं तत् सर्वं प्ररोहयिष्यति ।।८१।।
इत्युक्तश्चोर्जव्रतकः कायस्थोऽर्कस्थलीं ययौ ।
मध्याह्ने च तथा सस्नौ यथोक्तस्मृतिपूर्वकम् ।।८२।।
अनादिश्रीकृष्णनारायणः सूर्यनरायणः ।
द्वौ समानवयस्यौ वै भूत्वा बालस्वरूपिणौ ।।८३ ।।
सुन्दरौ मन्दहास्याऽऽस्यौ दिव्यकुण्डलधारिणौ ।
रूपानुरूपावयवौ देवदेवादिपूजितौ ।।८४।।
आगत्य जलमध्यस्थं स्नान्तं कायस्थभक्तकम् ।
कराभ्यां च करौ धृत्वोन्मज्ज्य निष्कास्य वै बहिः ।।८५।।
अस्थापयतां सरसस्तीरे पूर्णकराग्रजम् ।
सूर्येण तु धृतो वामकरः पूर्णतमोऽभवत् ।।८६।।
हरिणा सन्धृतो दक्षः करः पूर्णतमोऽभवत् ।
कायस्थः कृष्णवर्णोऽपि तेजसा तपसा तथा ।।८७।।
पुण्यैर्नारायणस्पर्शेः श्वेतरूपस्तदाऽभवत् ।
यथा सूर्यो यथा कृष्णस्तत्तुल्यः स तदाऽभवत् ।।८८।।
तुल्यरूपाँस्त्रीन् पुरुषान् देववद्भासमन्वितान् ।
जनास्तु ददृशुस्तत्र महाश्चर्यपरायणाः ।।८९।।
उभयोः श्रीमतोर्नारायणयोः पादयोस्तदा ।
पूर्णकामः स भक्तो वै निपपात मुहुर्मुहुः ।।2.263.९०।।
तारितोऽहं कुष्ठरोगाद् भवरोगाच्च तारितः ।
हस्तलाभे हरेकृष्ण यद्यहं तुष्टिमाप्नुयाम् ।।९ १ ।।
मिलितयोर्भवतोर्मे पुनमेलनमध्रुवम् ।
तस्मात् त्यक्ष्ये न मिलितो पावितवन्तौ मां प्रभू ।।९२।।
ऊर्जव्रतः प्रधृत्वैव तयोश्चरणावेव ह ।
जगाद न मया स्थेयं भूलोके क्लेशसागरे ।। ९३।।
युवां नारायणौ कृष्णौ ह्युद्धारं कुरुतं मम ।
सूर्यः प्राह च कायस्थ स्थित्वाऽत्र मम मन्दिरम् ।।९४।।
प्रकारय शुभं स्वल्पं प्रतिष्ठां मम कारय ।
कुष्ठिनां स्नानतः पश्चान्मम दर्शनमात्रतः ।।९५।।
अनादिश्रीकृष्णनारायणस्य पूजनात्तथा ।
रोगनाथस्तथा तीर्थयात्रा पूर्णा भवेदिह ।।९६।।
एवं कृत्वा ततस्त्वं वै संयाता रविमण्डलम् ।
ततः सत्यप्रलोकं च सिद्धानां मण्डलं ततः ।।९७।।
ततो वैकुण्ठमेवापि ततोऽक्षरं गमिष्यसि ।
इत्युक्त्वाऽन्तर्हितौ देवौ सूर्यः कृष्णनरायणः ।।९८।।
कायस्थो दिव्यदेहस्थः कारयामास मन्दिरम् ।
सूर्यनारायणं चात्र प्रातिष्ठिपत् तथोचितम् ।।९९।।
द्वयोर्नारायणयोश्च तेजांस्यत्र जलान्तरे ।
संव्याप्तान्यभवन् राजन् तदा काले समन्ततः ।। 2.263.१० ०।।
मत्स्याश्च शुक्तयश्चापि मणयश्च जलानि च ।
रजःकणास्तदा तेजोव्याप्ताः सूर्या इवाऽभवन् ।। १० १।।
तादृश्यः प्रकृतयस्तास्ततोऽद्याऽपि जलान्तरे ।
ताभ्यो वै जायमानाश्च तेजोमय्यो हि शुक्तयः ।। १ ०२।।
मणयः कंकराश्चापि रजांसि जलजानि च ।
तद्वंशास्तत्किरणैः संव्याप्ता भवन्ति सर्वदा ।। १०३ ।।
सूर्यनारायणश्चात्र जले शुक्तौ मणावपि ।
मन्दिरेऽदृश्यरूपोऽपि वर्तते तेजसान्वितः ।। १ ०४।।
तत्तेजोऽयं सदा राजन् प्रसरत्येव सर्वतः ।
सूर्यतीर्थं ततो जातं प्रत्यक्षं सूर्यवर्चुलम् ।। १ ०५।।
ऊर्जव्रतस्ततः कालान्तरे सूर्यरथं ययौ ।
मुक्तिं जगाम भजनान्नारायणकृपावशात् ।। १ ०६।।
कुष्ठनाशकरं तीर्थं सूर्यप्रत्यक्षदर्शनम् ।
सूर्यतेजोभिसंव्याप्तजलशुक्त्यादिशोभनम् ।। १ ०७।।
अर्कतीर्थं तथा चोर्जव्रततीर्थमिदं शुभम् ।
कायस्थतीर्थकं चापि सर्वरोगविनाशकम् ।। १ ०८।।
इत्युक्तो राधिके राजा चक्रे तीर्थं विधानतः ।
ददौ दानानि संस्नात्वा पुपूजाऽर्कं नरायणम् ।। १०९ ।।
ततश्चाग्रे ययौ तीर्थान्तरं राजा सलोमशः ।
पठनाच्छ्रवणादस्याऽऽरोग्यं मुक्तिं व्रजेज्जनः ।। 2.263.११ ०।।
इति श्रीलक्ष्मीनारायणीयसहितायां द्वितीये त्रेतासन्ताने गलत्कुष्ठिन ऊर्जव्रतकायस्थस्य सूर्योपासनया नीरोगित्वं मुक्तिश्च सूर्यतीर्थं चेत्यादिनिरूपणनामा त्रिषष्ठ्यधिक-
द्विशततमोऽध्यायः ।। २६३ ।।