लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २६१

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २६० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २६१
[[लेखकः :|]]
अध्यायः २६२ →

श्रीकृष्ण उवाच--
शृणु त्वं राधिके पश्चादाश्वपट्टलभूपतिः ।
प्रत्यक्षश्रीहरेर्बोधं पप्रच्छ मुनये तदा ।। १ ।।
अश्वपाटल उवाच-
मुने योऽयमनादिश्रीकृष्णनारायणः प्रभुः ।
प्रत्यक्षो भगवानास्ते तद्बोधं कारय प्रभो ।। २ ।।
तन्नाम्ना भजनं कुर्वे सार्थमानो यथाऽन्वहम् ।
शाधि सर्वार्थसम्पन्नं बोधं मां पारमेश्वरम् ।। ३ ।।
श्रीलोमश उवाच-
राजन्नैकान्तिका भक्ता विद्वांसो वेदपारगाः ।
निरुक्तानि हरेर्नाम्नां जानन्ति नेतरे जनाः ।। ४ ।।
यतो ह्येकान्तिनः श्रेष्ठा ये चैवाऽनन्यदेवताः ।
तदात्मानस्तत्परास्तच्छीलास्तत्सहक्रियाः ।। ५ ।।
कदा कुत्र कथं नाम केन जातं विदन्ति ते ।
प्रगृणन्ति ततो भक्ताः पूर्वं प्रकाशितं च तैः ।। ६ ।।
आदिर्जन्मोद्भवश्चापि देहेन्द्रियादियोजनम् ।
प्राग्विसर्गः पश्चसर्गे यन्मूर्तौ नैव विद्यते ।। ७ ।।
कालोऽक्षरं यदादौ न यस्मिन् क्वचिद् विलीयते ।
सर्वेषां स्वेतरेषां स आदिरेव परः प्रभुः ।। ८ ।।
नान्यदादि ह्यभूद् यस्य तस्मादनादिरेव सः ।
नित्यश्रीः श्रयति यं च दिव्यशोभोत्तमोत्तमा ।। ९ ।।
दिव्यवेषश्च रचना वाणी सम्पद्विभूतिका ।
ऐश्वर्याणि गुणाः सर्वे श्रीपदा यत्र सन्ति ह ।। 2.261.१० ।।
तस्माच्छ्रीः स श्रीतादात्म्याद् रमालक्ष्म्यादिसंश्रयः ।
श्रीमान् स एव भगवान् प्रोक्तो वै परमेश्वरः ।। ११ ।।
नराणामात्मनां योऽयमयनं वै चिरन्तनम् ।
नाराः सर्वा दिव्यरूपा_ शक्तयस्तन्निवासनम् ।। १२।।
अरा माया च दारिद्र्यं नास्ति यत्र हि मुक्तिगाः ।
मुक्ता नरास्तन्निवासो नारायणः स वै मतः ।। १३ ।।
कर्षत्येव जगत्सर्वं सर्वाः सृष्टिस्तनौ क्वचित् ।
नयत्येव लयं सर्वं कृष्णस्तेन प्रकीर्तितः ।। १४।।
कृषिः कल्मषनाशश्च नश्च निर्वृत्तिरुच्यते ।
तादृशः श्रीकृष्ण एवाऽनादिकृष्णनरायणः ।। १५।।
कं सुखं शाश्वतं यच्च कं वा ब्रह्मपरं प्रभुम् ।
बिभर्ति या निजे गर्भे कंभरा हृदये च वा ।। १६ ।।
कंभरायाः सुतश्चात्र कांभरेयो हरिर्हि सः ।
गाः किरणानि कृष्णस्य पालयत्येव यः स्वयम् ।। १७।।
गाश्च धेनूः पृथिवीं गां गतिं दिव्यां च रक्षति ।
गोपालश्च पिता तस्य नन्दो गोपालनन्दनः ।। १८।।
पुराणि च शरीराणि चेतनानि जडानि च ।
उपत्येव च तेषु श्रीहरिर्वै पुरुषोत्तमः ।। १९ ।।
बृहत्वाद्व्यापकत्वाच्च परत्वाद् ब्रह्म यः परः ।
परब्रह्म हरिश्चैव स एव भगवान् स्वयम् ।।2.261.२० ।।
परमाणि समग्राण्यैश्वर्याणि सन्ति तत्र च ।
परमेश्वर एवाऽसौ परेश्वर_ प्रसिद्ध्यति ।। २१ ।।
क्षरं मायात्मकं सर्वं तत्परं धाम चाक्षरम् ।
तदतीतो हरिः सोऽयमक्षरातीत उच्यते ।।२२।।
अवतारा हरेरेवाविर्भवन्ति समस्ततः ।
अवतारी स्वयं तेषां मूलं श्रीहरिरुच्यते ।।२३।।
हरिश्चायं हरत्येव भक्तानां मानसानि वै ।
हरत्येव च दुःखानि हरिश्चायं प्रकीर्तितः ।। २४।।
हरः संकर्षणश्चासाज्जायते कार्यकृत्प्रभुः ।
हरी तेन तथोक्तश्चैश्वर्यवान् भगवानपि ।। २५।।
वसत्ययं समस्तेषु दीव्यत्येवान्तरस्थितः ।
वासुदेवः स वै प्रोक्तः परमेशः सनातनः ।। २६।।
प्रकृतिर्यस्य वाञ्च्छाऽस्ति शक्तिः शालोऽपि वै तथा ।
माया या प्रकृतिस्तस्य धवो माधव एव सः ।।२७।।
कालात्माऽपि प्रभुः प्रोक्तः सर्वसर्जनशक्तिमान् ।
विशन्ति सृष्टयो यत्र यस्माद्वा विष्णुरेव सः ।। २८।।
वेवेष्टि व्याप्नोति चैषो व्यापको विष्णुरुच्यते ।
दमनेन जना ऊर्ध्वमृच्छन्ति धाम मे परम् ।।२९।।
तेन दामोदरः कृष्णो दाने मोदे रमत्ययम् ।
केशास्तदंशवः प्रोक्तास्तद्वान् कृष्णो हि केशवः ।।2.261.३ ० ।।
अग्निः सोमो मम रूपे मुखं रसश्च तावुभौ ।
अग्निष्टोमस्ततो नाम नारायणः स्वयं क्रतुः ।।३ १ ।।
अग्निः क्षत्रं द्विजः सोमस्तयोरैक्यं हरो हरिः ।
अग्निर्नारी नरः सोमश्चाग्निष्टोमो नरायणः ।। ३२।।
नष्टां गां पृथिवीं चायमविन्दच्च पुरा ततः ।
गोविन्द इति विख्यातो गोपालो गोप्रपालनात् ।।३३ ।।
हृषीकानीन्द्रियाण्येष ईशते स हरिस्ततः ।
हृषीकेशः समभवत् हृषीका तपसां स्थले ।।३४।।
अधः सर्वं परं सर्वं पश्यत्यधोक्षजस्ततः ।
वृषोधर्मस्तन्निवासः कपिर्वाराहरूप्ययम् ।।३५ ।।
रमन्ते योगिनस्तत्र रामो रमणवान् प्रभुः ।
गुणकर्मानुयोगेन नाम्नामस्यास्त्यनन्तकम् ।।३६।।
अनादिश्रीकृष्णनारायणं ब्रह्मपरं भज ।
बालरूपः स्वयं कृष्णः कुंकुमवापिकाऽक्षरे ।।३७।।
क्षेत्रे विराजते यस्तं बालकृष्णं सदा भज ।
बा-माया लयमेत्यत्र कृष्णेऽतो बालकृष्णकः ।।३८।।
बालानज्ञानसंव्याप्तान् जनानादिश्य सत्पथम् ।
कर्षत्यक्षरधामक्ष्मां परं सुखं ददाति च ।।३ ९।।
बालकृष्णो हरिकृष्णः श्रीकृष्णः पुरुषोत्तमः ।
अनादिश्रीकृष्णनारायणो ब्रह्मप्रियापतिः ।।2.261.४०।।
सतां पतिर्मुक्तपतिः सर्वपतिर्जनार्दनः ।
भक्तपतिर्निजपतिः सेव्यतां प्राप्यतां नृप ।।४१ ।।
अश्वपाटल उवाच-
अहो ज्ञानमहो बोधश्चाहोऽमृतं रसायनम् ।
पायितं मे मुरोऽजस्रं दिव्यं दिव्यविमुक्तिदम् ।।४२।।
तपोनिधे त्वयोक्तं मे नारायणकथामृतम् ।
ईदृशो भगवान् मह्यं दर्शितो बोधितोऽन्तरे ।।४३ ।।
अनादिश्रीकृष्णनारायणः साक्षान्निभालितः ।
अग्निषोमात्मकः सोऽयं भगवाँस्तर्पितो मया ।।४४।।
प्रसादितस्तथा साक्षात् समासादित एव सः ।
न ततोऽस्ति परः कश्चिन्न तत्समोऽस्ति वेतरः ।।४५।।
तत्कथातुल्यमाख्यानं नान्यत् सृष्टित्रयेऽपि वै ।
विद्यते फलदं सर्वतीर्थानां पावनं परम् ।।४६।।
न चात्राऽल्प मम पुण्यं वर्धितं भवता बहु ।
कुंकुमक्ष्मां समासाद्य येनाऽहं दृष्टवान् हरिम् ।। ४७।।
इत्येवं राधिके मत्वा कृतकृत्यं निज नृपः ।
पपात दण्डवद्भूमौ लोमशं स्वगुरुं प्रति ।।४८।।
लोमशस्तं तदा प्राह हर्षाश्रुपुलकांचितम् ।
धन्योऽस्त्यनुगृहीतोऽस्ति यद्भवान् दृष्टवान् हरिम् ।।४९ ।।
अदृश्यदर्शने तत्र तद्दयैव हि कारणम् ।
अवतारी हि भगवान् दुर्दर्शः पुरुषोत्तमः ।।2.261.५०।।
नाऽस्य भक्तात् प्रियतरो लोकं कश्चन विद्यते ।
ततः स्वयं दर्शितवान् स्वमात्मानं नृपोत्तम ।।५ १ ।।
तस्मादुत्तिष्ठते राजन् क्षमा या वै क्षितौ स्थिता ।
तस्मादुत्तिष्ठते रसो येनाऽऽपो रससंभृताः ।।५२।।
तस्मादुत्तिष्ठते रूपं येनाऽर्काद्याः सुरूपिणः ।
तस्मादुत्तिष्ठते स्पर्शो येन प्राणाः सुयोगिनः ।।।५३।।
तस्मादुत्तिष्ठते शब्दो येन लोका गृणन्ति च ।
तस्मादुत्तिष्ठते मनः प्रकाशगुणधारकम् ।।।५४।।
तस्मादुत्तिष्ठते बुद्धिस्तत्त्वनिर्णयकारिणी ।
बुद्ध्या विदित्वा तं कृष्णं क्षेत्रज्ञं सात्त्वतां नृप ।।५५।।
विशन्ति परमात्मानं हृदयस्थं समाहिताः ।
भजैनं परमेशं तं राजन् कृष्णनरायणम् ।।५६।।
दैवतं परमं यज्ञं परात्मानं सनातनम् ।
ईष्यते सर्वयज्ञेषु नित्यं सोऽयं जगत्पतिः ।।५७।।
ये यजन्ति सुरान् पितॄन् गुरून् साधूँस्तथाऽतिथीन् ।
गाश्च विप्रान् दीनजनान् क्षितिं सतीं च मातरम् ।।।५८।।
ऋषीन् सेवापरान् भृत्यान् पत्नीं पतिं च बालकान् ।
पूज्याननाथान् रंकाँश्च पशून् पतत्रिणस्तथा । । ५९ । ।
स्तम्बान् वृक्षान् पक्षिणश्च विष्णुमेव यजन्ति ते ।
अन्तर्गतः स भगवान् सर्वपिण्डे व्यवस्थितः । । 2.261.६० । ।
गृह्णाति श्रद्धया दत्तं जीवतृप्तिं समावहत् ।
अनादिश्रीकृष्णनारायणः सोऽयं श्रुतौ श्रुतः । । ६.१ । ।
भज तं परमात्मानं राजन् प्रत्यक्षगोचरम् ।
य एष गुरुरस्माकं कंभरानन्दनस्त्विह । । ६२ । ।
को यायात् तं विना चात्र सर्वत्र क्षितिमण्डले ।
प्रकुर्याच्च महायज्ञान् तारयेन्मोचयेज्जनान् । । ६३ । ।
कथं विना तं श्रीकृष्णं सर्वजगन्मनोहरम् ।
वृणुयुः कन्यका राज्ञां सहस्रशश्च कोटिशः । । ६४ । ।
कथं देवाश्च ऋषयश्चेश्वराश्चेश्वरेश्वराः ।
आगत्य पूजनं कुर्युर्मखेष्वस्य हरिं विना । । ६५ । ।
कथं राधारमालक्ष्मीकमलाद्याश्च कोटिशः ।
कृष्णपत्न्यश्चास्य सेवां कुर्युर्नारायणं विना । । ६६ । ।
कथं चिह्नानि सर्वाणि सृष्टित्रयोर्ध्वगानि वै ।
नारायणं विनाऽस्यैव मूर्तौ भवेयुरञ्जसा । । ६७ । ।
स वै वेदनिधिः कृष्णस्तपसां निधिरेव च ।
योगज्ञाननिधिश्चाऽयं सर्वोदरः स एव च । । ६८ । ।
परब्रह्मपरा वेदाः परब्रह्मपरा मखाः ।
परब्रह्मपरो मोक्षः परब्रह्मपरं तपः । । ६९ । ।
परब्रह्मपरं सत्यं परब्रह्मपरमृतम् ।
परब्रह्मपरं पुण्यं परब्रह्मपरा गतिः । । 2.261.७ ० । ।
प्रवृत्तिनिवृत्तिधर्मः परब्रह्मपरायणः ।
परब्रह्मात्मको गन्धः पृथ्व्यां श्रेष्ठतमो नृप । । ७१ । ।
परब्रह्मपरा चापां गुणा रसात्मकाः शुभाः ।
परब्रह्मपरं रूपं ज्योतिषां रूपिणां तथा । । ७२ । ।
परब्रह्मात्मकः स्पर्शः सर्वस्पृश्यस्थितोऽनुगः ।
परब्रह्मात्मकः शब्दः सर्वशब्द्यानुपावृतः । । ७३ । ।
परब्रह्मपरं चित्तं मनोऽहं बुद्धिरीश्वरी ।
परब्रह्मात्मिका मात्राः परब्रह्मात्मका गुणाः । । ७४ । ।
परब्रह्मात्मकः कालः परब्रह्मपरा कृतिः ।
कीर्तिः श्रीर्देवता लक्ष्मीः परब्रह्मपरा च भूः । । ७५ । ।
परब्रह्मपरा भूतिर्लीला सरस्वती सती ।
परब्रह्मपराः सर्वाः ऋचो ब्रह्मप्रियास्तथा । । ७६ । ।
परब्रह्मपरं ज्ञानं योगस्त्यागः शुभा क्रियाः ।
कारणानि समस्तानि परब्रह्मपराणि च । । ७७ । ।
तत्त्वं जिज्ञासमानानां परं तत्त्वं परेश्वरः ।
सर्वेषां स विजानाति मनीषितं परः प्रभुः ।।७८।।
दैवं पैत्र्यं तपो दानं सर्वाश्रयो हरिः स्वयम् ।
सर्वभूतकृतावासः कुंकुमवापिकाऽऽलयः ।।७९।।
अक्षरब्रह्मवासश्च बालकृष्णः स एव सः ।
अनादिश्रीकृष्णनारायणो नारायणेश्वरः ।।2.261.८ ०।।
स वै ह्येकान्तिनः सर्वान् प्रीणाति भगवान् हरिः ।
विधिकृतां सुपूजां च गृह्णाति भगवान् स्वयम् ।।८ १ ।।
एकान्तिनो हि मनुजाः प्रयान्ति श्रीहरेः पदम् ।
एकान्तधर्मसर्वस्वं परब्रह्मपरायणम् ।।८२।।
सम्मितं सामवेदेन पुरैवादौ कृते युगे ।
धार्यते बालकृष्णेन नारायणेश्वरेण ह ।।८३ ।।
नारायणो यज्ञधर्मं स्वर्णरेखानदीतटे ।
नारायणह्रदे दैवं पैत्र्यं न्यवर्तयत् पुरा ।।८४।।
ऋषयो देवताद्याश्च सोमोऽपि मानवास्तथा ।
मखधर्मं पुराकल्पे न्यवर्तयन् हरिश्रिताः ।।८५।।
रुद्रः कृते युगे नारायणधर्मं ह्यपालयत् ।
अशिक्षयत्तथा विप्रान् चाद्ये कृते युगे हरः ।।८६ ।।
सुपर्णाख्यमहर्षिश्च प्राप्य श्रीपुरुषोत्तमात् ।
यज्ञधर्मं पृथिव्यां सः प्रावर्तयत सद्विधिम् ।।८७।।
समुद्रो यज्ञधर्मांश्च ततः प्रावर्तयन्नृप ।
अथाऽऽरण्यकनामाऽपि मुनिः प्रावर्तयत्ततः ।।८८।।
मनुस्ततो यज्ञधर्मान् प्रावर्तयत सात्त्ववान् ।
सनत्कुमारो भगवान् प्रावर्तयत तत्परान् ।।८९।।
वीरणः सुव्रतश्चापि बर्हिषदश्च दक्षकः ।
विवस्वान् स्थापितवन्तो धर्ममेनं सनातनम् ।।2.261.९०।।
सर्वार्पणात्मको धर्मः सात्त्वतो दुष्करो जनैः ।
धार्यतेऽनादिकृष्णेन स्थाप्यते च पुनः क्षितौ ।।९ १।।
अनादिश्रीकृष्णनारायणेन मखरूपवान् ।
सर्वार्पणात्मको धर्मो भूगोले स्थापिते नृप ।।९२।।।
स एव भगवांल्लोके संस्थाप्य धर्ममाच्युतम् ।
यथेच्छति तथा पश्चात् क्रीडति शास्ति वै प्रजाः ।।९३।।
एवमेकान्तधर्मस्ते कथितो नृपसत्तम ।
एकान्तिनः क्षितौ राजन्! भवन्ति दुर्लभा जनाः ।।९४।।
यद्येकान्तिभिराकीर्णं जगत् स्याद् वैष्णवं मिथः ।
भवेद् ब्रह्मपुरं चात्र कृतं युगं विदोषकम् ।।९५।।
यत्र चैकान्तिनः सन्ति परब्रह्मपरायणाः ।
नरा नार्यः पशवश्च पक्षिणो देवतादयः ।।९६।।
सर्वे वर्णा वैष्णवाश्च तत्राऽक्षरपदं मतम् ।
अधर्मस्तत्र नास्त्येव नाधर्मवंशजा अपि ।।९७।।
नरनारीव्यवहाराः सर्वे स्युर्मुक्तकोटिजाः ।
वैकुष्ठं वा च गोलोको श्वेतो वा बदरीवनम् ।।९८।।
भवेत्तत्र यदि क्ष्मायां सर्वे चैकान्तिनो जनाः ।
सात्त्वता भक्तिमन्तो वै भवेयुर्मुक्तये ध्रुवम् ।।९९।।
मनीषितं ह्यवाप्यैव भजेयुः पुरुषोत्तमम् ।
एकान्तभक्ताः सततं परब्रह्मपरायणाः ।। 2.261.१० ०।।
तेषां हर्यंकनिष्ठानां योगक्षेमवहो हरिः ।
जायमानं जनं नैजं कृत्वा यं वीक्षते हरिः ।। १०१ ।।
सात्त्वतः स भवेदत्र धर्मैकान्तिकवान् स च ।
परब्रह्मात्मके मोक्षे ततो याति परां गतिम् ।। १ ०२।।
नारायणेन दृष्टो यः प्रतिबुद्धो भवेद्धि सः ।
नात्मेच्छया तथा राजन् प्रतिबुद्धो भवेत् क्वचित् ।। १०३ ।।
प्रवृत्तिलक्षणैर्युक्तं नैवेक्षति हरिः स्वयम् ।
पश्यन्त्येनं महामाया ब्रह्मा देवाश्च मानवाः ।। १ ०४।।
ततस्ते विकृताः सर्वे मायाबद्धा भवन्ति वै ।
ते यदि सात्त्वतानां वै सेवां कुर्वन्ति भावतः ।। १ ०५।।
तदा कालान्तरे प्राप्य नैर्गुण्यं यान्ति चाक्षरम् ।
यद्वा सात्त्वतसंघाते कृपया सात्त्वतेक्षिताः ।। १ ०६।।
भवेयुस्ते यदा चैकान्तिकसाधुकृपेक्षिताः ।
तदा तेषां हृदयस्य परिवर्तनमाशु वै ।। १ ०७।।
भविष्यति न सन्देहोऽथवा प्रसादभोजनैः ।
हरेर्वा हरिभक्तानां जलान्नग्रासभोजनैः ।। १ ०८।।
शुद्धा बुद्धिर्निर्गुणाभिमुखी शनैः प्रजायते ।
निष्कल्मषा प्रसन्ना च ततः सात्त्वतमण्डले ।। १ ०९।।
निवासेन शनैः सात्त्वतत्वमासाद्य मोक्षणम् ।
गमिष्यन्ति न सन्देहः कृपासाध्या स्थितिर्हि सा ।। 2.261.११ ०।।
इत्युक्त्वा विररामैव महर्षिर्लोमशस्ततः ।
राधिकेऽश्वपट्टलश्च पुपूज लोमशं मुनिम् ।। १११ ।।
बहुसामग्रिकाभिश्च कृतकृत्यो बभूव ह ।
अश्वपट्टसरसश्चोत्तरे तीर्थाभिवाञ्चछया ।। ११ २।।
लोमशं प्रार्थयत्तेन लोमशेन समं ततः ।
सरस्तीर्थानि च ययौ सर्वसार्थसमन्वितः ।। ११३ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां लोमशकृतमश्वपाटलायाऽनादिश्रीकृष्णनारायणसाक्षाद्भगवत्त्वबोधनं परब्रह्मपरायणधर्मबोधनं चेत्यादिनिरूपणनामैकषष्ठ्यधिकद्विशततमोऽध्यायः ।। २६१ ।।