लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५९

विकिस्रोतः तः
← अध्यायः २५८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५९
[[लेखकः :|]]
अध्यायः २६० →

श्रीकृष्ण उवाच-
समाकर्णय राधे त्वं ततश्चाश्वनृपः पुनः ।
पप्रच्छ लोमशं यत् तत् प्रवदामि सतां हितम् ।। १ ।।
अश्वपाटल उवाच-
गुरो! स्वीयप्रकाशस्य निर्वेदः शाश्वताश्रयः ।
कथं व्यजायत तत्त्वनिश्चयश्चाकृतेर्हरेः ।। ।।
श्रीलोमश उवाच-
ब्रह्मकल्लोलसंज्ञस्य पूर्वकल्पतपस्विनः ।
भक्तविप्रस्य पुत्रोऽभून्नाम्ना त्रिविक्रमः प्रभुः ।। ३ ।।
श्रीहरेरवतारः स पुनः कल्पान्तरे हरिः ।
त्रिविक्रमो बभूवाऽयं प्रबलेः राज्यहृत् तदा ।। ४ ।।
सोऽयं स्वर्णनदीतीरे ददर्शाऽमानवं नरम् ।
अकस्माद् हृदये योगे नारायणह्रदस्थले ।। ५ ।।
शंखचक्रगदापद्मधनुःशूलशरान्वितम् ।
ध्वजस्वस्तिकवज्रादिचिह्नदक्षकरान्वितम् ।। ६ ।।
हसन्तं तेजसा व्याप्तं प्रसन्नं दीर्घनेत्रकम् ।
आजानुभुजमत्यर्थं चोज्ज्वलं श्रीसमन्वितम् ।। ७।।
स्वीयप्रकाशो भगवान् स्वं ददर्श तदन्तरे ।
ब्रह्मरूपं वामनं त्रिविक्रमं प्रबलेर्गुरुम् ।। ८ ।।
निजां मूर्तिं विलोक्यैव श्रीमन्नारायणे तदा ।
क्षणं मुमोह सहसा कोऽयं पृथङ् व्यचिन्तयम् ।। ९ ।।
ततो दिव्यदृशा नैजं मूलं रूपं बुबोध सः ।
तुष्टाव श्रीकृष्णदेवं स्वामिनं परमेश्वरम् ।। 2.2५९.१० ।।
अन्तरात्मन् परात्मँस्त्वं सर्वावतारधारक ।
सर्वाविर्भावहेतुस्त्वं सर्वेषां हृदये स्थितः ।। ११ ।।
सर्वं ते हृदये चास्ते ब्रह्माऽब्रह्ममयं वपुः ।
अहं पृथङ्निवासोऽस्मि चाऽपृथङवासवाँस्त्वयि ।। १ २।।
त्वमेव परमं तत्त्वं कृपया मेऽक्षि गोचरः ।
गोचरे मम रूपं चाऽपरोक्षानुभवाञ्चितम् ।। १३ ।।
आत्मदर्शनमासाद्य परमात्मप्रदर्शनम् ।
उभदर्शनमासाद्य कृतकृत्योऽद्य संवृतः ।। १४।।
आज्ञां देहि कृपासिन्धो जगद्बन्धो जनार्दन ।
प्राप्य त्वां परमात्मानं प्राप्तव्यं नाऽवशिष्यते ।। १५।।
कृत्वा त्वद्योगमुद्यानं कर्तव्यं नावशिष्यते ।
इति स्तुतः प्रभुः श्रीशोऽनादिकृष्णनरायणः ।। १६ ।।
स्वीयप्रकाशमूर्तौ तं निजस्थायां ततोऽधिकम् ।
सर्वं संसारचक्रं च दर्शयामास चैक्यतः ।। १७।।
ईश्वरान् ब्रह्मपुरुषान् मुक्तान् धामान्यनेकशः ।
देवानृषीन् पितृगणान् देवेश्वराँश्च मानवान् ।। १८।।
उरगान् राक्षसान् दैत्यान् दानवानासुरानपि ।
पशून् पक्षिण एवापि स्थावरान् जडचेतनान् ।। १ ९।।
महाभूतानि सर्वाणि तत्त्वानि प्रकृतिं स्थिराम् ।
विकारान् देहभाजश्च दर्शयामास तल्लयान् ।। 2.2५९.२० ।।
एवं प्रदर्शयित्वैव तिरोभावं चकार ह ।
तदिदं चाऽपरोक्षं च ज्ञानं शाश्वतमात्मगम् ।। २१ ।।
प्रकाशयित्वा तस्मै वै हृदयेऽस्थापयद् ध्रुवम् ।
वरदानं ददौ तस्मै नित्यं तेऽस्तु प्रभामयम् ।। २२।।
ज्ञानं चेदं स्वतःप्रकाशाख्यं मास्तु तिरोगतम् ।
ततः आरभ्य देवोऽयं त्रिविक्रमः स्वतःप्रभः ।।२३ ।।
स्वतःप्रकाशयोगी च ख्यातो बभूव योगिषु ।
स चार्थयत् विलोक्यैव क्षेत्रं चाक्षरसंज्ञकम् ।।२४।।
हृद्ये हरिवासाढ्यं चाश्वपट्टसरोन्वितम् ।
निजवासार्थमत्यर्थं रूपं दिव्यं तथाविधम् ।। २५।।
तथास्त्विति प्राह कृष्णनारायणश्च तत्क्षणम् ।
दिव्यदेहोऽभवत्तत्र चतुर्भुजो नरायणः ।।२६।।।
मानसः श्रीहरेः शिष्यो नित्यज्ञानाश्रयः सुतः ।
नारायणह्रदे तत्र कृष्णनारायणेन वै ।।२७।।।
साकं स्नात्वा ततस्तूर्णं कुंकुमवापिकास्थलीम् ।
प्राप योगेन वेगेन बलेन कृपया हरेः ।। २८।।
एवं जन्मान्तरं देहान्तरं वृत्त्यन्तरं तथा ।
कायाकल्पं ह्यवापासौ पुत्रत्वं मुक्तसंज्ञया ।। २९।।
अवतारस्वरूपेण विष्णुरूपेण सर्वदा ।
अनादिश्रीकृष्णनारायणमानसजाकृतिम् ।। 2.2५९.३० ।।
दिव्यामवाप्य सततं जातमात्रो नरायणः ।
धर्मवैराग्यसम्पन्नो भक्तः षोडशहायनः ।। ३१ ।।
बभूव कुंकुमे क्षेत्रे प्रभुः कुंकुमवर्णकः ।
नैसर्गशेवधिः सर्वविद्यानां स बभूव ह ।।३२।।
सार्वज्ञ्याश्रय एवापि सर्वैश्वर्यसमन्वितः ।
सर्वकल्याणकर्ताऽसौ योगिधर्मपरायणः ।।३३।।।
सर्वातिरेककार्यश्च सर्वातिरेकवर्णनः ।
विचचाराऽक्षरे क्षेत्रे तस्मै कृष्णनरायणः ।।३४।।
अन्वशात् सकलान् धर्मान् गुरुपूर्वीप्रसिद्धये ।
लौकिकान् वैदिकाँश्चापि मानसाँश्च तदुत्तरान् ।।३५।।
श्रीकृष्णनारायण उवाच-
पुत्र त्वं सात्त्वतान् धर्मान् निषेवस्व हितावहान् ।
प्राणं जय सहस्वाऽपि क्षुत्पिपासे हिमातपौ ।।२६।।
जित्वेन्द्रियाणि तपसा सत्यं दमं प्रपालय ।
अद्रोहमनसूयां चाऽऽर्जवं शीलं प्रपालय ।।३७।।
देवपित्रतिथिप्राप्तशेषान्नयात्रिकां हव ।
भज कृष्णं परेशं मां मा स्वपिहि तमोमये ।।३८।।
फेनबुद्बुदवत्स्थैर्ये चेतनाश्रितगत्वरे ।
आकस्मिकेऽज्ञवत्पुत्र मा विश्वासं विधेहि वै ।। ३९।।
अप्रमत्ता विनिद्राश्च नित्ययत्ना हि शत्रवः ।
छिद्रं पश्यन्ति देहेऽस्मिन् मा त्वं तैर्धर्षितो भव ।।2.2५९.४० ।।
दिवसाः क्रमशो यान्ति कृन्तन्ति वै जनायुषम् ।
जीवनं क्षीयते नित्यं गुरुं शरणमाव्रज ।।४१।।
अज्ञाश्चेच्छन्ति देहाद्यैर्मांसशोणितवर्धनम् ।
यदन्ते गत्वरं सर्वं प्रसुप्ता मोक्षसाधने ।।।४२।।
मा तन्मात्रेण पुत्र त्वं प्रयाहि प्राकृतो यथा ।
प्रान्तदुःखैकमात्रेण याम्यभवनवाहिना ।।४३ ।।
याहि सतां वृषस्थानां योगिनां च महात्मनाम् ।
धर्म्यं पन्थानमेवाप्तं मोक्षदं चाक्षरान्तगम् ।।४४।।
उपासस्व ततः सम्यक् पृच्छ धारय तद्वचः ।
मनोमन्थं सन्नियच्छ स्थैर्यमावह सत्पतौ ।।४५।।
धर्मं निःश्रेणिकां धृत्वा चारुह्य भक्तिभूमिकाम् ।
आत्मनिष्ठाप्रवेगेण याहि धाम सनातनम् ।। ४६।।
वामतः कुरु विप्रेन्द्र नास्तिकान् भक्तिवर्जितान् ।
आशां तृष्णां रुषं मोहं त्यज पुत्र च दूरतः ।।४७।।
नावं योगं समालम्ब्य तर संसारवारिधिम् ।
लोकोऽयं मृत्युना नीतो जरया मर्दितोऽभितः ।।४८।।
वहत्येव वैतरण्यां ज्ञानपोतेन तं तर ।
तिष्ठन्तं वा वहन्तं वा पिबन्तं शयने गतम् ।।४९ ।।
मृत्युरन्वीक्षते मर्त्यं मा त्वं तत्करगो भव ।
सञ्चिन्वानं सुखार्थांश्चाऽतृप्तं लुब्धं च मानिनम् ।।2.2५९.५० ।।
अनिर्वृत्तं विघ्नमर्द्यं गर्विष्ठं च विमार्गगम् ।
आकस्मिकगतिर्मृत्युः सुप्तमादाय गच्छति ।।५ १ ।।
अन्धकारमयः कोष्ठो ब्रह्माण्डोदरनामकः ।
तद्बहिर्गमनार्थं त्वं दीपं ज्ञानं प्रधारय ।।५२ ।।
अनेकदेहचक्रेषु गच्छत्सु निष्फलेषु वै ।
दिव्यपूण्येन ब्राह्मण्यं प्राप्तं ब्रह्ममयं वह ।।५३ ।।
ब्रह्मदेहो महान् श्रेयान् क्षुद्रकामाय नोचितः ।
मोक्षाय धर्मलाभाय तपसे श्रेयसे मतः ।।५४।।
अमूल्यस्तादृशो मणिश्चिन्तितार्थफलप्रदः ।
हेलनीयो न निर्मूल्यः क्षुद्रा कपर्दिका यथा ।।५ ५ ।।
गूहते मुखमुपरिष्टादन्तरे कामसंभृता ।
लज्जां प्रदर्शयत्यस्मै भोक्त्रे परजनान्तिके ।।५६ ।।
अन्तर्विषामृतव्याप्ता बन्धयितुं च तत्परा ।
यतते निजलाभार्थं भुक्त्वा दुःखाकरोति च ।। ५७।।
त्यजन्तं न त्यजत्येषा याति स्थानान्तरं सह ।
तिरस्कृताऽपि संलग्ना वासनामूलबन्धना ।।५८।।
निरयाख्या स्वसौधेषु वासयत्यतिथिं चिरम् ।
प्रमत्तं मदपानेन पश्य मायाविचेष्टितम् ।।५९ ।।
को नु तत्र भवेद् बद्धो रक्तो वा दिव्यनेत्रकः ।
सुपात्रतां देहसंलग्नां माऽनुप्रसर कर्हिचित् ।।2.2५९.६ ० ।।
देहः कर्मावनद्धश्च पुनः कर्माभिसर्जकः ।
कामनाशेवधिः कोपो मा तं नैजं निशामय ।।२ १ ।।
यत्र राजभयं चास्ते यत्र चौरभयं तथा ।
तद्विहाय धनं दिव्यं पाथेयं चार्जयस्व ह ।।६२।।
परत्र जीव्यते येन न च कापि वियुज्यते ।
ध्रुवं तदक्षरं द्रव्यं समर्जयस्व पुत्रक ।।६ ३ ।।
माता पिता सुहृद् बन्धुः संकरे नानुयान्ति हि ।
कर्मैकं केवलं याति नैष्कर्म्यं तत्समाचर ।।६४।।
हिरण्यसञ्चया राज्यं दासा दास्यः प्रजाः प्रियाः ।
देहक्षये निवर्तन्ते प्रभुं सहचरं भज ।।६५।।
साक्षिणं चान्तरस्थं वै ब्रह्मानन्दप्रदं प्रभुम् ।
उद्धारकं मोदनिधिं परमेशं सदा भज ।।६६।।
गृहस्थधर्मिणो लोकाः प्रजापतेर्बृहस्पतेः ।
शतक्रतोश्च लोकान् संव्रजन्ति त्वान्तनाशिनः ।।६७।।
मा त्वं वृत्तिं समाधत्स्व गार्हस्थ्ये ब्रह्मपुत्रक ।
निर्भयं च निरन्तं च निधिं ब्रह्मव्रतं वह ।।६८।।
असंगो दिव्यदृष्टिस्त्वं ब्रह्मणः सन्निधिं कुरु ।
समर्प्य परमे कृष्णे मयि कर्म समस्तकम् ।।६९।।
नैर्गुण्यं परमं भुञ्जन् भव मुक्तोऽक्षरे यथा ।
ग्रामवासो बन्धनं वै तच्छित्त्वा वनमाविश ।।2.2५९.७०।।
किं ते धनेन सुहृदा बन्धुना च सुतेन च ।
स्वतःप्रकाशो भूत्वैव स्वीयं प्रकाशं संभज ।।७ १ ।।
म्रियमाणान् समानाँश्च विलोक्य जगति स्थितान् ।
मरिष्यतश्च सञ्चिन्त्याऽन्विच्छाऽऽत्मानं गुहागतम् ।।७२।।
शुभ्रं शीघ्रं प्रकुर्वीत श्वः कार्यं चाद्य वै द्रुतम् ।
क्षणान्तरे न जाने यन्मृत्युरादाय यास्यति ।।७३ ।।
मृत्युशिखे हि संसारे महाकालस्य भक्षणे ।
गुर्वाश्रये विवेकी सन् मोक्षं सर्वात्मना व्रज ।।७४।।
मरणं चात्मनो मोक्षस्तमेव साधय प्रधे ।
विद्वान् मोक्षार्जनपरस्तद्धीनो जडवर्गगः ।।७५।।
स्वर्गसोपानकं वर्ष्म मानुष्यं दुर्लभं त्विह ।
तेन साधय मोक्षोयं चानन्तं शाश्वतं सुखम् ।।७६।।
यस्य मतिर्मोक्षमार्गादन्यत्र नैव धावति ।
स एव पुण्यकर्माऽस्ति चाशोच्यः सर्वमानवैः ।।७७।।
मोक्षार्थं यन्मतिः शुद्धा दृढा चारब्धतत्कृतिः ।
अन्यभावादिरिक्ता च न तस्य कालतो भयम् ।।७८।।
हतस्य पुण्यपापैश्च लुब्धस्य विषयात्मनः ।
स्नेहसम्बन्धमग्नस्य विद्यते कालतो भयम् ।।७९।।
मातापितृसहस्राणि पुत्रदाराऽयुतानि च ।
अतीतानि गते काले कस्य ते कस्य चाऽप्ययम् ।।2.2५९.८०।।
एकोऽहं त्वात्मसंज्ञोऽस्मि त्वं चात्मा चैकलः स्वयम् ।
अन्येऽन्यत्र गताः सन्ति पश्यन्त्येते न वै मिथः ।।८ १ ।।
न तेषां भवतां कार्यं न कार्यं तव तैरिह ।
स्वकर्मभिर्गतान्येव त्वं स्वकृत्यैर्गमिष्यसि ।।८२।।
लोकोऽयं स्वार्थबहुलः स्वार्थस्निग्धः स्वयोगकृत् ।
स्वार्थं प्रसाध्य सहसा त्यजन्ति निर्गुणं जनम् ।।८३।।
समृद्धानां धनिनां हि विजनः स्वजनायते ।
दरिद्राणां निर्धनानां स्वजनो विजनायते ।।८४।।
कलत्रयोगमासाद्य जनोऽशुभं चिनोति च ।
ततः क्लेशभृतं जन्म पुनर्दुःखं पुनर्जनिम् ।।८५।।
एवमावर्तमग्नस्य वासनाप्रेरितस्य च ।
मध्यसागरभागाद्वै तीरयानं न जायते ।।८६।।
तत्पुत्र धर्ममासाद्य वैराग्यसहचारवान् ।
ज्ञानदीपातिनेत्रश्च भक्त्या याहि परं पदम् ।।८७।।
कालः पचति भूतानि कटाहे मोहसंज्ञिते ।
सूर्याग्निना दिवाकाष्ठैर्मासर्तुदर्विकादिभिः ।।८८।।
नात्र त्रातारमीक्षेऽहमीक्षसे त्वं न नेतरः ।
न तं पश्यामि यस्याऽहं न तं पश्यामि यो मम ।।८९।।
तस्मात् सदा परेशं श्रीपतिं श्रीपरमेश्वरम् ।
कर्मभूमौ भजस्वात्र येन धामाऽक्षरं व्रजेः ।। 2.2५९.९०।।
किं जन्मना च देहेन ज्ञानेन च वृषेण च ।
तपसा वनवासेन येन मोक्षो भवेन्न चेत् ।।९ १ ।।
अश्वपाटल इत्युक्तः स्वतःप्रकाश एव ह ।
अनादिश्रीकृष्णनारायणोक्तं चावधार्य च ।।९२।।
दधौ मोक्षे मनो नित्यं ब्रह्मचर्ये वसन् सदा ।
क्वचिद् दृश्यः क्वचिच्चाऽप्यदृश्योऽवर्तत वै क्षितौ ।। ९३।।
कुंकुमवापिकाक्षेत्रे दिव्यदेहोऽतिभासुरः ।
चिरञ्जीवो महामुक्तश्चातिमानववर्तनः ।।९४।।
सर्वसंगवियुक्तश्च ब्रह्मसंगमुपागतः ।
द्वेधा भूत्वैकदेहेन ययावक्षरमुत्तमम् ।। ९५।।
अपरेण सदा चास्ते क्षेत्रेऽत्राऽक्षरसंज्ञके ।
अनादिश्रीकृष्णनारायणे भावपरायणः ।। ९६।।
सर्वविद्याश्रयो भक्त्याचार्यो ज्ञाननिधिः प्रभुः ।
चतुर्भुजो द्विभुजो वा यथेष्टानन्दशेवधिः ।। ९७।।
राजंस्तत्त्वं मम योगाज्ज्ञानमासाद्य सत्वरम् ।
भजैनं परमात्मानं दिव्यदेहो भवाऽत्र च ।।९८।।
तीर्थं स्वतःप्रकाशाख्यं चाश्वसरोजले हि तत् ।
वर्तते दिव्यतादातृ स्नानपानादिभिर्नृप ।।९९।।
एतज्ज्ञानं समासाद्य मुक्तता स्यान्न संशयः।
सर्वविद्याप्रकाशश्च भवेदात्मप्रकाशिता ।। 2.2५९.१०० ।।
देवप्रकाशिता स्याच्च चिच्चैतन्यप्रकाशिता ।
पुत्र ज्ञानेन यन्नैव धर्मेण तपसाऽपि च ।। १०१ ।।
प्राप्यते तल्लभ्यते वै गुरोः प्रसादलेशतः ।
इत्युक्त्वा राधिके श्रीमान् लोमशो विरराम ह ।। १०२।।
अथ राजातिसन्तृप्तो हरिं स्वे हृदि संस्मरन् ।
कृतानां फलविषये पप्रच्छ स्वादकर्षितः ।। १० ३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां ब्रह्मकल्लोलात्मजस्याऽनादिश्रीकृष्णनारायणोपदेशजन्यपावनाध्ययनं मोक्षस्थितिश्चेति नव-
पञ्चाशदधिकद्विशततमोऽध्यायः ।। २५९ ।।