लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५७
← अध्यायः २५६ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः २५७ [[लेखकः :|]] |
अध्यायः २५८ → |
श्रीकृष्ण उवाच-
यदा देहात् पृथग्भूतः शुद्धश्चात्मा प्रयाति हि ।
राधे कथं प्रयात्येवं पप्रच्छ लोमशं नृपः । । १ । ।
अश्वपाटल उवाच-
ऋषे चोत्क्रमणं कीदृक् कथं कस्मान् प्रयात्ययम् ।
आत्मा देहाद्विनिष्क्रम्य तद्वदस्व मम प्रभो ।। २ ।।
श्रीलोमश उवाच-
यद्यत्स्थानाद् विनिर्याति यथा योगतपोबलात् ।
यथा भक्तिबलाच्चापि यथा पुण्यबलादपि ।। ३ ।।
यथा पापबलाच्चापि यथा कर्मबलादपि ।
यथा मायाबलाच्चापि वासनाबलतोऽपि च ।। ४ ।।
तत्तत्स्थानस्थदेवानां लोकान् प्रयाति तद्यथा ।
पद्भ्यां निर्गत्य चेद्याति विष्णुस्थानं प्रयाति वै ।। ५ ।।
जंघाभ्यां चेत्प्रयात्येषो वसूनां याति मन्दिरम् ।
ऊरुभ्यां चेत्प्रयात्येषः प्रजापतिं प्रयाति सः ।
पायुना चेत्प्रयात्येषो मैत्रं स्थानं प्रपद्यते ।। ६ ।।
लिंगाद् योन्या प्रयाप्येषः सत्यलोकं प्रपद्यते ।
जघनेन प्रयात्येषो मेरुस्थानमवाप्नुयात् ।। ७ ।।
नाभेश्चोत्क्रमते चेद्वै देवानां स्वर्गमाप्नुयात् ।
पार्श्वाभ्यां मरुतो लोकान् चेत्प्रयाति प्रपद्यते ।। ८ ।।
बाहुभ्यां चोत्क्रमते चेदिन्द्रलोकमवाप्नुयात् ।
उरसा चेत् प्रयात्येषो रुद्रलोकमवाप्नुयात्। ।। ९ ।।
ग्रीवया याति चेदेषो नरलोकमवाप्नुयात् ।
मुखेन चेत्प्रयात्येषो विश्वेदेवानवाप्नुयात् ।। 2.257.१० ।।
श्रोत्रेणोत्क्रमणे चास्य दिक्पालत्वं भवेदिति ।
घ्राणेन गमने वायोर्लोकावाप्तिर्भवेदिति ।। ११ ।।
नेत्राभ्यां गमने सूर्यलोकं चन्द्रालयं च वा ।
कपोलाभ्यां प्रयाणे च वह्निलोकं प्रयाति सः ।। १ २।।
भ्रूभ्यामस्य प्रयाणे चाश्विनोर्लोकमवाप्नुयात् ।
ललाटेन प्रयाणे तु पितृलोकगतिर्भवेत् ।। १३ ।।
मूर्ध्ना चोत्क्रमणे याति ब्रह्मलोकं सनातनम् ।
चक्रेभ्यश्चेत् प्रयात्येव सुषुम्णामार्गमाश्रितः ।। १४।।
तदा तत्तदीश्वराणां लोकानेष प्रयाति ह ।
स्थानबलादिदं प्रोक्तमुत्क्रमणं नराधिप ।। १५।।
उपासनाबलाच्चाऽप्युत्क्रमणं वै विशिष्यते ।
पापपुण्यबलाच्चापि गमनं वै विभिद्यते ।। १६ ।।
शंभोरुपासनाद् याति कैलासं गणमण्डितम् ।
विष्णोरुपासनाद् याति श्वेतद्वीपं पयोदधिम् ।। १७।।
नरनारायणभक्त्या प्रयाति बदरीपतिम् ।
सूर्यगायत्रिकाभक्त्या याति सूर्यस्य मण्डलम् ।। १८ ।।
यज्ञाद्युपास्तिक्रियया स्वर्गं याति मखार्थवान् ।
पित्रुपासनया पितृलोकं याति हि मानवः ।। १ ९।।
ब्रह्मचर्यात् सिद्धलोकं सत्यलोकं तपोविधेः ।
पौरुषेण तु सूक्तेन याति वैराजधाम च ।।2.257.२०।।
महाविष्णोरुपास्त्या च वैकुण्ठं याति मानवः ।
नारायणोपासनया महावैकुण्ठमृच्छति ।।२ १ ।।
राधाकृष्णोपासनया गोलोकं विन्दतीति वै ।
मायोपास्त्या मायिकाँश्च लोकानावरणादिकान् ।।२२।।
भूम्नश्चोपासनया चाव्याकृतं याति मानवः ।
वासुदेवोपासनयाऽमृतं धाम प्रयाति च ।।२३ ।।
कपिलाद्यावताराणामुपास्त्या तत्तदालयान् ।
अक्षरोपासनया यात्यक्षरं धाम शाश्वतम् ।।२४।।
परब्रह्मोपासनया परंधाम प्रपद्यते ।
अनुपास्त्या कर्मभिश्च याति योनिषु जन्मवान् ।।२५।।
तामसैः कर्मभिर्दैत्यो दानवो राक्षसो भवेत् ।
तिर्यग्योनिं प्रयात्येषः स्थावरादीन् विशत्यपि ।।२६।।
राजसैः कर्मभिर्याति राज्यं श्रेष्ठिनमित्यपि ।
वसून् गान्धर्वलोकाँश्च लोकपालान् द्युवासिनः ।।२७।।
सात्त्विकैर्जायते विप्रः साधुर्वा पुण्यदेवता ।
पापैः प्रजायते पक्षी पशुः कीटो मृगोऽपि वा । ।२८। ।
पुण्यैः प्रजायते राजा देवो गुरुः सती व्रती ।
ऋणिनस्तु प्रजायन्ते वाहा अश्ववृषादयः ।। २९।।
दातारश्च प्रजायन्ते पूज्यासनविराजिताः ।
एवं वै भिन्नशकटैः प्रयान्ति भिन्नमन्दिरम् ।। 2.257.३ ०।।
गार्हस्थ्ये वर्तमानाश्च ज्ञानाऽनलसमन्विताः ।
प्रदह्य सर्वकर्माणि प्रकाश्यात्मानमात्मनि ।।३ १ ।।
प्रयान्ति परमं ब्रह्म यथा सन्यासिनोऽमलाः ।
असन्न्यस्ता हि सन्न्यस्ता ज्ञानसन्यासमाश्रिताः ।।३ २।।
अश्वपाटल उवाच-
असन्न्यस्ताः कथं प्रोक्ताः सन्न्यस्ता इति वै गुरो ।
कथं यान्ति च गार्हस्थ्यस्थितास्ता परमां गतिम् ।। ३ ३।।
श्रीलोमश उवाच-
आकर्णय नृपाऽत्राऽपि कथां तु परमाऽद्भुताम् ।
आनर्तनृपतेः कुशलायोगिन्या वै पुराभवाम् ।।३४।।
सौराष्ट्रे कृष्णभक्तो वै राजा आनर्तकोऽभवत् ।
येनेदं वासितं सुराष्ट्रकं चानाय्य कृष्णतः ।।३५ ।।
राजाऽसौ वैष्णवो भक्तो पत्नीव्रतद्विजानुगः ।
ज्ञानं ह्यवाप्तवान् पत्नीव्रताद् विप्राद्धि तात्त्विकम् ।। ३६।।
वर्तते स्म च साधूनां सभायां ज्ञानतत्परः ।
ज्ञानशास्त्रेण संछिद्याऽहंममेतिप्रबन्धनम् ।।३७।।
योगे सन्तिष्ठते नित्यं समाधौ परमेश्वरे ।
साधूनां च महर्षीणां भवन्ति ज्ञानवार्तिकाः ।। ३८।।।
यत्सभायां सदा सायं चमत्कारपुरे नृप ।
तेन कीर्तिर्दिगन्तेषु व्याप्ता चानर्तयोगिनः ।। ३९ ।।
तां श्रुत्वा कुशला साध्वी योगिनी सिद्धिसंभृता ।
कुंकुमवापिकाक्षेत्रवासिनी पारमेश्वरी ।। 2.257.४० ।।
यावद्योगकलापूर्णा परकायप्रवेशिनी ।
इष्टरूपधरा विज्ञा तत्त्वज्ञानार्थशेवधिः ।।४१ ।।
वैष्णवी जरठा देहधर्मान् विमत्य तापसी ।
आत्मधर्ममयी गुर्वी भूतधर्माऽहता सती ।।४२।।
वर्तमाना ब्राह्मभावेऽलक्ष्यलिंगा नरायणी ।
परभावं गता कृष्णे सर्वसन्न्यासवर्तिनी ।। ४३ ।।
वशे यस्या यथा लक्ष्म्या जगत्सर्वं तथाविधा ।
यथाऽवतारिणी देवी सती च शिवशक्तिका । । ४४।।
कुशलाख्या तु सा साध्वी चमत्कारपुरं ययो ।
कृत्वा रूपं सुन्दरं चोद्भिन्नयौवनमुत्तमम् ।। ४५ ।
आनर्त्तं नृपतिं प्राप्ता वृतं सदसि साधुभिः ।
योगिभिर्न्यासिभिश्चापि महर्षिभिश्च वेदिभिः । ।४६।।
सर्वे दृष्ट्वा सौकुमार्यं परं तस्या नवं वयः ।
केयं कस्य कुतश्चात्रेत्यासन् सम्प्राप्तविस्मयाः । ।४७। ।
राजाऽपि स्वागतं चक्रे ददौ सदसि चासनम् ।
सत्कृता चापि सम्मानैर्योगिनी कुशला सती ।।४८।।
प्रष्टुं चेच्छावती भूपं योगबन्धैर्बबन्ध तम् ।
मौक्षधर्मे प्रसिद्धोऽयं राजा सर्वत्र गीयते ।।४९।।
मुक्तो राजा सात्त्वतोऽयं कीदृगास्ते विलोकये ।
आनर्तस्य बुद्धिसत्त्वे द्राक् स्वबुद्ध्या विवेश सा ।।2.257.५०।।
नेत्राभ्यां नेत्रयोरस्य रश्मीन् संयम्य रश्मिभिः
बुद्धिवृत्तीः प्रविवेश विजेतुं ज्ञानमार्गणैः ।।५ १ ।।
द्वयोर्योगविदोर्बुद्धौ विवादो घटते हृदि ।
तयोरेकस्य योगित्वेऽपरस्य तु पराजयः ।।।५२।।।
अयोगी न जयं याति राजाऽयं तादृशो न वा ।
विचार्येति सती बुद्धौ वशीचकार तं नृपम् ।।५३।।
राजा विज्ञाय तद्भावं मूकां कुर्वे तु योगिनीम् ।
इति बुद्ध्या सती बुद्धिं जग्राह योगसद्बलैः ।।५४।।
नृपदेहे प्रविष्टां तां सत्कृत्य बुद्धिविग्रहे ।
लिंगदेहे ह्यवस्थाप्य राजा तस्थौ तया सह ।।५५।।
स्थूलदेहाऽसंगिनौ तौ लिङ्गदेहे स्थितौ तदा ।
योगिनौ स्वजयार्थं च मिथो वादं प्रचक्रतुः ।।५६।।
आनर्त उवाच-
योगसत्याः क्व चर्येयं कृता क्व च गमिष्यसि ।
कस्य च त्वं कुतो वेति का च कथं ह्युपस्थिता ।।५७।।
अहं राजाऽपि तच्चिह्नैर्मुक्तोऽस्मि योगमास्थितः ।
स त्वां ज्ञातुं समिच्छामि मानार्हे योगिनि द्रुतम् ।।५८।।
मया पत्नीव्रताख्याद् वै गुरोः प्राप्तं विशेषतः ।
योगज्ञानं विशालं च मोक्षश्चेति च मे शृणु ।।५९।।
तत्त्वज्ञाने च योगर्द्धौ राज्यविधौ च वै मया ।
त्रिविधे मोक्षदे प्राप्तं स्थैर्यं चराम्यरागकः ।।2.257.६ ० ।।
मोक्षस्य कारणं रागाभावो ज्ञानेन चेयते ।
ज्ञानेनाऽरागताद्वारा मोक्षसिद्धिर्मया कृता ।।६ १ ।।
अद्वन्द्वश्चाप्यसंगश्च तिष्ठाम्यचलबुद्धितः ।
शुष्कक्षेत्रं जलहीनं सबीजं चापि चांकुरे ।।६२ ।।
कारणं न भवत्येव तथाऽहं शुष्कतां गतः ।
नाऽभिरज्यामि मिष्टैश्च क्रूरैः खेदं करोमि न ।।६३ । ।
चन्दनेनाऽर्चयेद् दक्षे वामे शस्त्रेण भेदयेत् ।
कश्चिन्मां तुल्यता तत्र साध्वि! मे वर्तते ऋता ।।६४।।
सुख्यहं कृतसर्वार्थः समकंकरकाञ्चनः ।
असंगो राज्यभावेऽपि वर्ते साधुसमागमे । ।६५। ।
मोक्षे हेतु त्रिकं चास्ते ज्ञानं विवेकजं तथा ।
कर्मणां चापि सन्न्यासो भक्तिर्वा परमात्मनः ।।६६ ।।
मया त्रिकं गुरोः प्राप्तं मिश्रितं यत्तु मुक्तये ।
कर्म भक्त्यन्वितं सर्वं करोमि च विवेकतः ।।६७।।
यथा सन्न्यासिनः श्रेष्ठा नैष्कर्म्यं वै समाश्रिताः ।
तथा यमे च नियमे कामे द्वेषे परिग्रहे ।।६८।।
माने दंभे रतौ स्नेहे नैष्कर्म्यं प्राप्तवानहम् ।
यदि ते मोक्षगन्तारः कथं नाऽहं तथागतिः ।।६ ९।।
पर्णकुट्यां वसतां चेन्मोक्षो जायेत सर्वथा ।
महासौधे वसतो मे कथं मोक्षो न हस्तगः ।।2.257.७० ।।
यस्यार्थो येन येनाऽस्ति तत्तदालम्बते जनः ।
कश्चिद् दण्डं च मालां च कश्चिच्छत्रं च चामरे ।।७ १ ।।
गार्हस्थ्ये दोषमावीक्ष्य गत्वा त्यागाश्रमे यतिः ।
उत्सृजन् प्रथमान् धर्मान् गृह्णन् परान् यथोचितान् ।।७२।।
संगहानेः संगमाप्य स मुच्येत न संगतः ।
आधिपत्यं मम राज्ये तेषां वन्ये हि तुल्यकम् ।।७३ ।।
यदि मुच्येत वै भिक्षुर्नाऽहं मुच्ये कथं वद ।
भोजनं चाम्बरं पानं निद्राऽपेक्षितसंग्रहः ।। ७४।।
आधिपत्यं क्वापि यत्र तुल्यं वै भिक्षुणा मम ।
ते यदि मुक्तिभागा वै ममापि मुक्तिरेव ह ।।७५।।
यदि ते बन्धभागा वै तदा तुल्याः कुटुम्बिभिः ।
अथ ज्ञानेन मोक्षोऽस्ति वृथा काषायधारणम् ।।७६।।
वृथा वेष्टनसन्त्यागो वृथा जटाप्रधारणम् ।
वृथा स्वर्णाम्बरत्यागो वृथाऽग्निवस्त्रधारणम् ।।७७।।
वृथा पक्वान्नसद्ग्रासत्यागो भिक्षा वृथा ततः ।
यदि जिह्वेषु सत्स्वेव ज्ञानं वै मोक्षकारणम् ।।७८।।
आश्रमोचितचिह्नाढ्यं ज्ञानं मे मोक्षकारणम् ।
यद्वा दुःखानि पापानि वीक्ष्य त्यागाश्रमे मतिः ।।७९।।
तदा सुखानि पुण्यानि वीक्ष्य गृहाश्रमे समा ।
रागद्वेषप्रयुक्ता वा प्रवृत्तिर्बन्धने समा ।।2.257.८०।।
आकिञ्चन्यं विना ज्ञानं क्वाप्याश्रमे न विद्यते ।
कैंचन्यं बन्धनं सर्वाश्रमे तुल्यं च मेऽपि ते ।।८१ ।।
तस्मात् कुशले! धर्मार्थकाममोक्षेषु सर्वथा ।
बन्धनायतनेष्वेव स्थितं मां विद्ध्यसंगिनम् ।।८२।।।
राज्यैश्वर्यं ध्रुवः पाशः स्नेहकर्मादिबन्धनः ।
मोक्षधारावता ज्ञानाऽसिना छिन्नो मया सति ।।८३।।
ज्ञानात् त्यागे विचरामि संगं प्राप्नोमि नैव ह ।
नाऽहं राज्येऽपि राजेव निपतामि च बद्धवत् ।।८४।।
ज्ञानाग्निना मया दग्धा वासनाग्रन्थयस्ततः ।
देहराज्ये विचरामीन्द्रियादिभिः कुटुम्बिभिः ।।८५।।
निर्बन्धोऽहं विचरामि सतां समागमे स्थितः ।
मोक्षे स्थितोऽस्मि नो बन्धे नो राज्येऽपि तु वै वने ।।८६।।
सोऽहमेवं सदा मुक्तस्त्वयि जातादरः सति ।
पृच्छामि त्वां कथं मुक्ता विरुद्धरूपधारिणि! ।।८७।।
सौन्दर्यं काञ्चनाभाढ्यं सौकुमार्यं नवं वपुः ।
वयोऽग्र्यं रूपसम्पन्नं सर्वाढ्या त्वं कथं सती ।।८८।।
साध्वी चेन्न भवेद् रक्ता सरागा साध्विका न वै ।
तवोभयं नानुरूपं वीक्ष्य योगर्द्धिमित्यपि ।।८९।।
मुक्तेयं वा नवेत्येवं संशयितः सभाजनः ।
भोगराजसभावाढ्या शृंगारतानसंयुता ।।2.257.९०।।
कथं त्वं योगसम्पन्ना साध्वीति संप्रकाशसे ।
मम योगं गता च त्वं स्पर्शदोषाभिसंवृता ।।९ १ ।।
मे हृदो निग्रहकर्त्री कथं शास्त्री हि योगिनी ।
यस्त्वां राष्ट्रे सभायां मे सम्प्रवेशितवान् जनः ।।९२।।
तत्परिग्रहमापन्ना शीलाद् भ्रष्टा विभाव्यसे ।
पुनर्मां क्षत्रियं प्राप्य मा कृथा वर्णसंकरम् ।।९३।।
साध्वी त्वं मोक्षधर्माऽहं राजधर्मा गृहाश्रमी ।
आवयोश्च हृदौरेक्ये द्वितीयो धर्मसंकरः ।।९४।।
तस्मात् स्वातन्त्र्यमादाय वर्तसे चेत् प्रयोगिणी ।
योगिन्यास्तव धर्मादिश्रुतं विप्लवतेऽधुना ।।९५।।
भावेन जेतुमिच्छाऽस्ति जयाशा बन्धनान्विता ।
बद्धा त्वं मत्समा नाऽसि न ते हस्तपरिग्रहः ।।९६।।
यद्वा मत्पक्षगान् सर्वान् मां विजित्य जितानिति ।
दर्शयितुं भवत्यवष्टंभस्ते तर्हि मोहिनी ।।९७।।
अमर्षयुक्ता मोहेन मुग्धा जेतुं समिच्छसि ।
योगाख्यं च विषाक्तं तच्चामृतं त्वयि संस्थितम् ।।९८।।
इच्छतोर्योग उत्कृष्टोऽनिच्छतोस्तु विषोपमः ।
मा प्रदर्शय श्रैष्ठ्यं स्वं मुक्तो वा न नृपो ह्ययम् ।।९९।।
राज्ञां बलं महैश्वर्यं स्त्रीणां रूपाढ्ययौवनम् ।
बलं ब्रह्म हि मुक्तानां मा बलं मे प्रदर्शय ।। 2.257.१० ०।।
आर्जवेनाऽभिगन्तव्या बलिनः सुखदा हि ते ।
अनार्जवेन बलिनो नाशयन्ति तथागतम् ।। १० १।।
सा त्वं धार्ष्ट्यं विहायैव जातिं कुलं श्रुतं तपः ।
वृत्तिं भावं स्थितिं चेच्छां कार्यं मे तत्त्वतो वद ।। १ ०२।।
लोमश उवाच-
इत्येवं बहुभिर्वाक्यैरयुक्तैरसमञ्जसैः ।
आनर्तेन निरादृष्टा कुशला न भयं ह्यगात् ।। १०३ ।।
अश्वपाटलः सा साध्वी ततोऽपि चारुदर्शना ।
चारुप्रज्ञा प्रचक्रामोत्तरयितुं ततोऽधिकम् ।। १ ०४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायामात्मनो देहाद् विनिष्क्रमणे हेतुप्रदर्शनं सन्यस्ताऽसन्न्यस्तविचारे आनर्तनृपकुशलायोगिनी-
सम्वादश्चेतिनिरूपणनामा सप्तपंचाशदधिकद्विशततमोऽध्यायः ।। २५७ ।।