लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५५

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः २५४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २५५
[[लेखकः :|]]
अध्यायः २५६ →

श्रीकृष्ण उवाच-
राधिके च ततश्चाश्वपट्टलो लोमशं मुनिम् ।
योगस्य च बलं चाप्यबलं पप्रच्छ कीदृशम् ।। १ ।।
अश्वपाटल उवाच-
ऋषे योगबलं कीदृग् वेत्तमिच्छामि चाबलम् ।
येन मुक्तो भवेद्वापि चावष्टभ्येत निर्बलः ।। २ ।।
श्रीलोमश उवाच-
शौचं तपो दया सत्यमहिंसा स्तेयवर्जनम् ।
प्राणरोधो वृत्तिरोधो ध्यानं समा हि योगिनाम् ।। ३ ।।
अभ्यासो बलवान् यस्य तस्य योगः प्रसिद्ध्यति ।
निर्बलस्याऽभ्यसनं च निर्बलं तेन बन्धनम् ।। ४ ।।
कामं लोभं च मोहं च स्नेहं क्रोधं च रागिताम् ।
योगाच्छित्वाऽप्यबलस्तु पुनस्तेष्वपि सज्जते ।। ५ ।।
यथा मत्स्याः स्थूलदेहा छित्वा जालं पुनर्जलम् ।
विशन्ति निर्बलास्तद्वत् षट्कं विशन्ति वै पुनः ।। ६ ।।
यथा च बलवन्तो वै मृगाः पाशान् विभिद्य च ।
परं वनान्तरं यान्ति तद्वद् योगिवराः परम् ।। ७ ।।
मायापारं प्रयान्त्येव बलिष्ठात्मपरायणाः ।
यथा च बलहीना वै शशाद्या बन्धनानि वै ।। ८ ।।
आसाद्य नहि निर्गन्तुं समर्था योगिनस्तथा ।
निर्बला न समर्था वै निर्गन्तुं जालतो बहिः ।। ९ ।।
झषाश्च निर्बला जालं छित्वा प्रयान्ति नैव ह ।
निर्बला योगिनस्तद्वन्मायां छित्वा प्रयान्ति न ।। 2.255.१० ।।
शकुना बलिनो जालं छित्वा यान्ति दिगन्तरम् ।
योगिनो बलिनो मायां छित्वाऽम्बरं प्रयान्ति हि ।। १ १।।
बलवाँश्च यथा वह्निः सर्वं दहति चागतम् ।
बलिष्ठा योगिनो मायां दहन्त्येव स्वतेजसा ।। १२।।
निर्बलस्तु यथा वह्निः शाम्यत्येवापि दारुभिः ।
योग्यपि निर्बलः षट्के पराभवं प्रयाति वै ।। १३ ।।
नदीस्रोतो बलहीनं त्वाकृष्य नयते जले ।
षट्कं तद्वन्निर्बलं चाकृष्य नयति मायिके ।। १४।।
वारणः सबलः स्रोतो विष्टभ्नाति च गच्छति ।
बलिष्ठश्च तथा योगी षट्कं निवार्य गच्छति ।। १५।।
सबलास्तु प्रमुच्यन्ते निर्बला यान्ति बन्धनम् ।
प्रलयोत्थमहादित्यो यथा शोषयते जगत् ।। १६ ।।
मोक्षबलोत्थितयोगी दोषान् शोषयते तथा ।
योगिनो योगबलतो विशन्तीश्वरमन्दिरम् ।। १७।।
देवानामालयान् प्रजापतिस्थानानि वापि च ।
सर्वदाऽभ्यासशीलस्य बलं योगस्य वर्धते ।। १८।।
ततः पुनर्विभिद्यैव मायां प्रयान्ति चाक्षरम् ।
कृताभ्यासो यथा धन्वी कुशलो लक्ष्यवेधकः ।। १९।।
विध्वा लक्ष्यं जयं याति तथाऽक्षरं प्रयाति सः ।
मस्तके स्नेहपात्रं च कृताभ्यासो निधाय च ।।2.255.२०।।
यथा रज्ज्वा नटो यात्यस्खलितो जयमेति च ।
तथाऽभ्यासबलर्द्धिश्चाक्षरं योगी प्रयाति हि ।।२ १ ।।
यथाऽभ्यासो कर्णधारो नावा पारं प्रयाति च ।
तथा युक्तो बलेनापि जगत्पारं प्रगच्छति ।।२२।।
सारथिश्च बली चाश्वान्नियम्य याति निश्चितम् ।
तथा युक्तो योगिवर्यो यात्यक्षरं ध्रुवं पदम् ।।२३ ।।
निजात्मनि परेशं यः पश्यत्येव च योगवित् ।
मायाजालं स वै छित्वा प्रयात्येव परं पदम् ।। २४।।
चक्रेषु देहसंस्थेषु संविहृत्य मलानि तु ।
दग्ध्वा दग्ध्वा ब्रह्ममार्गं याति वियाति वै बलात् ।।२५।।
यथेष्टं च यदा कल्पयत्येव गन्तुमक्षरम् ।
तदा वर्ष्म विहायैव स्वतन्त्रो याति धाम तत् ।।२६।।
बलिष्ठस्येष्टदेवस्योपास्त्या बलमवाप्नुयात् ।
अभ्यासेनात्मयोगेन संयमेन वृषेण च ।।२७।।
तपसा ध्यानयोगेन समाधिना बलं व्रजेत् ।
किन्तु राजन् महारण्ये पारं केचित्प्रयान्ति वै ।।२८।।
बलिष्ठानां विजेतारोऽरण्ये वसन्ति वै यतः ।
नारायणं विना पारं गन्तुं सन्देहवत्पदम् ।।२९।।
ह्रियन्तेऽपि बलिष्ठा वै प्रबलिष्ठतमाऽरिभिः ।
दिव्यैश्वर्यचमत्कारसिद्धिधामनिवासिभिः ।।2.255.३ ०।।
अनादिश्रीकृष्णनारायणश्चाग्रे यदा भवेत्। ।
प्रगच्छन् स नयत्येव जित्वा बलिष्ठसत्तमान् ।।३ १ ।।
निजं परं पदं दिव्यं शाश्वतं मोक्षमुत्तमम् ।
राजन् देहे गुणान् मत्वा मा भूर्बद्धः कदाचन ।।३२।।
विवेकेन प्रमातव्यं कल्माषाणां गृहं वपुः ।
अत्र सत्त्वं दशभावं मे निबोध वदामि तान् ।।३३।।
आनन्दः प्रीतिरुद्धर्षः प्रकाशः पुण्यकारिता ।
सन्तोषमार्जवं श्रद्धा त्याग ऐश्वर्यमित्यपि ।।३४।।
तथा रजो नवभावं मे निबोध वदामि तान् ।
आस्तिकत्वमकार्पण्यं द्वन्द्वोपसेवनं तथा ।।३५।।
कामो द्वेषो मदो दर्पो वादः परुषता तथा ।
तथा छाया तमोऽभावं मे निबोध वदामि ते ।। ३६।।
तामसत्वं मोहनं च धूम्रभावो मतिक्षयः ।
निद्रा प्रमाद आलस्यं नाशश्चेति तथाविधाः ।। ३७।।
बुद्धितत्त्वं सप्तभावं मे निबोध वदामि ते ।
अहन्ता ममता मानं दैर्घ्यं चाशा स्वपूज्यता ।।३८।।
ईशतेति मनश्चापि षड्भावं तान् वदामि ते ।
चाञ्चल्यं वेगवत्त्वं च संशयश्च स्वतन्त्रता ।।३ ९।।
स्निग्धत्वं चाप्यविश्वास्यं मानसे ते मताः सदा ।
इन्द्रियं पञ्चभावं च मे निबोध वदामि ते ।।2.255.४०।।
अतृप्तिः रंजनं चौदासीन्यं चालोचनं गतिः ।
चतुर्भावं भूततत्त्वं मे निबोध वदामि तान् ।।४१।।
आश्रयो बन्धनं नाशः प्रसवश्चेति सर्वदा ।
त्रिभावं कोशतत्त्व च षट्कोशास्ते तनुस्थिताः ।।४२।।
रोमलोहितमांसानि मज्जास्थिस्नायवश्च ते ।
भावास्तु क्लेद्यता मालिन्यं तथा परिभोग्यता ।।४३।।
प्राणो वै द्विस्वभावश्च भावौ द्वौ तौ निबोध मे ।
जीवनं भ्रामणं चेति तत्त्वानि कथितानि ते ।।४४।।
राजन् तत्त्वविवेकेन भावास्ते दोषरूपिणः ।
आत्मनो मोक्षमार्गे वै विघ्नास्ते यदि ते तथा ।।४५।।
तान् विविच्यैकभावं वै सुखभावं निजात्मकम् ।
परमेशेऽर्पयेद् भक्त्या मोक्षस्तस्य स्थितो ध्रुवः ।।४६ ।।
यद्वा भावान् लोकयित्वा दिदृक्षान्तं विधापयेत् ।
मानुषान् विषयान् सर्वान् पैशाचान् विषयाँस्तथा ।।४७।।
यक्षाणां विषयाँश्चाप्यौरगाणां विषयाँस्तथा ।
गान्धर्वविषयाँश्चापि पितॄणां विषयाँस्तथा ।।४८।।
तिरश्चां विषयाँश्चापि मरुतां विषयाँस्तथा ।
पतत्रिविषयाँश्चापि राजर्षिविषयाँस्तथा ।।४९।।
ब्रह्मर्षिविषयाँश्चाप्यासुराणां विषयाँस्तथा ।
विषयान् विश्वदेवानां योगिनां विषयाँस्तथा ।।2.255.५०।।
प्राजापत्यानैश्वराँश्च ब्राह्मानीश्वरकोटिजान् ।
विषयान् सम्परिज्ञाय सुखदुःखेऽनुभूय च ।।५१ ।।
गुणदोषान् विलोक्यैव शान्तिं प्राप्य ततः परम् ।
आत्मना च विवेकेनात्मानं मोक्षे निवेशयेत् ।।५२।।
ज्ञानविज्ञानसम्पन्नश्चोपायैर्भावितः स्वयम् ।
प्राप्नोति मोक्षणं दिव्यं नित्यानन्दाक्षरं पदम् ।।५३ ।।
राजन् संकोचयेत् प्राणं सषट्कोशं च भूतके ।
भूतानि मात्रयुक्तानि चेन्द्रियाणि च वै मनः ।।५४।।
अहन्तादियुतं बुद्धौ विलोपयेद् विवेकवान् ।
बुद्धिं समर्पयेन्नैजे स्वरूपे त्वात्मसंज्ञके ।।५५।।
आत्मानं ब्रह्मरूपं च कृष्णनारायणे हृदि ।
तं मोक्षे योजयेत्तेन गच्छेदक्षरधाम यत्। ।।५६ ।।
ज्ञात्वा कालस्य कवलान् देवान् प्रजापतीन् ऋषीन् ।
सप्तर्षींश्चापि राजर्षीन् सुरर्षींश्च्यावितान् सदा ।।५७।।
ब्रह्मर्षींश्चेश्वरर्षींश्च ज्ञात्वा कालकृतान्तकान् ।
न तत्र वै चरेद् ध्यानं मोक्षमार्गगतिं चरन् ।।५८।।
पापिनां च गतिं ज्ञात्वा याम्यलोकेऽभिसंवृताम् ।
विचित्रयोनिजन्मानि प्रेतभावान् विलोक्य च ।।५९।।
गर्भदुःखानि वै ज्ञात्वा जन्तूनां कुत्सितानि च ।
उपप्लवान् प्रघोराँश्च तारानक्षत्रपातनम् ।।2.255.६० ।।
युगलानामकस्माच्च वियोगं कृपणं तथा ।
भूतानां भक्षणं चाप्यन्योन्यं विलोक्य निर्घृणम् ।।६१ ।।
विषयाणां च दौरात्म्यं गतासूनां न जीवनम् ।
पापिनां दुःखदाश्चापि गतीर्विज्ञाय दारुणाम् ।।६२।।
तिरश्चां दुःखमालक्ष्याऽऽयुषां क्षयं दिने दिने ।
देहिनां संक्षयं वीक्ष्य मृत्युदुःखं विलोक्य च ।।६३ ।।
देहदोषान् प्रविज्ञाय नरकागारतां तथा ।
न्यस्य देहं ब्रह्मरन्ध्राद् गन्तव्यं परमं पदम् ।।६४।।
आश्रयेत् प्राणदेवं च वायुदेवं ततः परम् ।
व्योमदेवं ततश्चापि सूर्यरश्मिं ततः परम् ।।६५।।
चान्द्ररश्मिं ततश्चापि पुण्यरश्मिं ततः परम् ।
सत्यरश्मिं ततश्चापि सत्त्वरश्मिं ततः परम् ।।६६।।
ईशरश्मिं ततश्चापि ब्रह्मरश्मिं ततः परम् ।
मुक्तरश्मिं ततश्चापि परंब्रह्म समर्जयेत् ।।६७।।
परमात्मानमासाद्य तद्भूतायतनाऽमलः ।
अमृतं परमं प्राप्तो यत्पुनर्न निवर्तते ।। ६८।।
परमा सा गतिः राजन् सतां च योगिनामपि ।
सात्त्वतानां च भक्तानां हर्यर्थकृतकर्मणाम् ।।६९।।
तत्र ज्ञानं हि सार्वज्ञ्यं चैश्वर्यव्रातसंभृतम् ।
तृप्तिः सर्वातिरेका चानन्दमात्रापि निर्भरा ।।2.255.७० ।।
असंगस्य हि सार्वज्ञ्यं निर्द्वन्द्वाय सदा मतम् ।
अतः सार्वज्ञ्यभावेन युक्तास्ते नित्यतोषिणः ।।७ १ ।।
नित्यानन्दा नित्यशान्ता नित्यतृप्ता निराशयाः ।
सर्वदर्शिन एवापि संसाराऽदर्शिनो हि ते ।।७२।।।
संसारदर्शिनश्चापि तत्तद्भावविवर्जिताः ।
भावविकृतिशून्याश्च प्रत्याहारादिसिद्धिकाः ।।७३।।
ग्राह्याऽग्राह्यसमर्थास्ते सृष्टिदोषविवर्जिताः ।
निम्नसृष्टिकृतान् भावान् ज्ञाने सिन्वन्ति नैव ते ।।७४।।
अश्वपाटल उवाच-
किं तद्धामाऽक्षरं विद्वन् यस्मान्नावर्तते पुनः ।
किं च क्षरं ततो भिन्नं यस्मादावर्तते पुनः ।।७५।।
श्रीलोमश उवाच-
अक्षरं धाम सुभगं राजन् परेश्वरस्य यत् ।
अनादिश्रीकृष्णनारायणस्याऽत्यवतारिणः ।।७६।।
परब्रह्मण एवैतन्नारायणेश्वरस्य तत् ।
पुरुषोत्तमसंज्ञस्याऽक्षरातीतस्य शाश्वतम् ।।७७।।
शिवं क्षेमं चाभिलाषोपनीतं सर्वसिद्धिमत् ।
सर्वेश्वरेश्वरस्थानं मुक्तावासं परात्परम् ।।७८।।
यन्न क्षरति पूर्वेण यावत्कालेन वै क्वचित् ।
आयत्या च न वै ग्रस्तं चाव्ययं ब्रह्मधाम तत् ।।७९।।
गोलोकाच्चापि वैकुण्ठादूर्ध्वं चानन्तमच्युतम् ।
यत्र धामान्यनन्तानि चावतारकृतानि वै ।।2.255.८० ।।
नारायणानां विद्यन्ते नारायणीकृतानि हि ।
अवतारा निवसन्ति कोटिशो यत्र धामसु ।।८ १ ।।
तानि यत्र प्रभासन्तेऽक्षरं तद्धाम सर्वगम् ।
ब्रह्मलोकश्चिदाकाशोऽखण्डतेजोभुवां निधिः ।।८२।।
यत्राऽक्षरं ब्रह्म चापि मूर्तिमद् राजते प्रभु ।
अक्षरं तत्परं धाम तस्मात्परं हरेः प्रियम् ।।८३ ।।
परंधामाऽस्ति वै यत्र परब्रह्मासनं सदा ।
वर्तते सर्वतः श्रेष्ठं गजासनशुभासनम् ।।८४।।
ब्रह्मप्रियाः समस्ता वै वर्तन्ते तत्र सेविकाः।
अनादिश्रीकृष्णनारायणस्य मुक्तिदासिकाः ।।८५।।
मुक्तान्यो वै हरेर्मूर्तेः शक्तयोऽनन्तसिद्धयः ।
सिद्धाश्चानन्तसंख्याश्च साध्या देवा वसन्ति ते ।।८६ ।।
अनादयश्च ते मुक्ता वसन्ति धाम्नि तत्परे ।
आदिमुक्तास्त्वक्षरे वै वसन्ति धाम्नि सर्वदा ।।८७।।
एतदक्षरसंज्ञं तद्धाम मायापरं यतः ।
गुणातीतं महानन्दं नित्यानन्दादिसंभृतम् ।।८८।।
यद्रोमलेशसौख्येन धामान्यन्यानि यानि च ।
आनन्दामृतसौख्यैर्वैं संभृतानि भवन्ति हि ।।८९।।
अन्याश्चेश्वरलोकाख्या भुवस्तत्सौख्यसंभृताः ।
सृष्टयः सर्वविधिकास्तदानन्देन नन्दिताः ।।2.255.९० ।।
मायात्मिकाः सृष्टयश्च क्षरं क्षरन्त एव वै ।
त्रिगुणाश्च तमो माया चाऽव्यक्तं पुरुषाऽऽहितम् ।। ९१ ।।
व्यक्तरूपं भवत्येव महत्तत्त्वमहं तथा ।
विद्याविद्ये पुण्यपापे विध्यविधी तथाऽपरौ ।।९२।।
धर्मो ज्ञानं विरागं चैश्वर्यं व्यक्ते प्रतिष्ठितम् ।
तद्विरुद्धं तथा चापि व्यक्ते सर्वं प्रतिष्ठितम् ।।९३।।
शब्दः स्पर्शः रसो रूपं गन्धो वै भूतसूक्ष्मकम् ।
मनश्चालोचनार्थं च श्रोत्रत्वङ्नेत्रजिह्विकाः ।।९४।।
घ्राणं चेति ततोऽन्ये च वाक्पाणिपादपायवः ।
उपस्थं चेति कर्मार्थं व्योमानिलानलास्तथा ।।९५।।
वारिक्ष्ये च ततश्चान्ये षाट्कौशिकतनुभृतः ।
एतत्सर्वं क्षरतेऽहर्निशं तत् क्षरमुच्यते ।।९६।।
सर्वेषां देहभावे वै चतुर्विंशतिभूमयः ।
न्यूना वा सन्ति क्षरिकाः क्षरं तस्मादुदीरितम् ।।९७।।
यत्तु मूर्तिमयं किञ्चित् सर्वं क्षरणधर्मकम् ।
जले भुवि तथाकाशे वायौ तेजसि तत्परे ।।९८।।
पुण्यस्तरे सिद्धिपरे सत्त्वपटलकेऽपि वा ।
क्षराधारं कृत्स्नमेतत् क्षरते व्यक्तसंज्ञितम् ।।९९।।
क्षरेऽक्षरं सदा चास्ते ह्यात्मा चाक्षर इत्यपि ।
अक्षरे चात्मनि स्थानं यस्य सः परमेश्वरः ।। 2.255.१०० ।।
स एव हृदि सर्वासु मूर्तिष्वातिष्ठते हरिः ।
भज तं श्रीकृष्णनारायणं राजन् रमान्वितम् ।। १०१ ।।
शुक्लरक्तकृष्णसृष्टिस्वामिनं पद्मजेश्वरम् ।
पारगं चान्तरस्थं च कांभरेयं प्रियं प्रभुम् ।। १ ०२।।
श्रीकृष्णवल्लभं नाथं कुंकुमवापिकेश्वरम् ।
गोपालबालकं राजन् लोमशेष्टं पतीश्वरम् ।। १ ०३।।
अश्वपट्टसरःक्षेत्रादित्यं ब्रह्मप्रियापतिम् ।
बालकृष्णं चाक्षरेशं सर्वान्तर्यामिणं प्रभुम् ।। १ ०४।।
सृष्ट्यादौ तु भुवं चेमां भजमानं सुराष्ट्रिकाम् ।
महाविष्णुसुतं श्रीमन्महालक्ष्म्येकबालकम् ।। १ ०५।।
ततोऽनेकस्वरूपं च बह्ववतारधारिणम् ।
ततो धर्मसुतं भक्तिसुतं कृष्णं हरिं च तम् ।। १ ०६।।
नरं नारायणं चापि ब्रह्मशीलपरायणम् ।
स्वामिनं त्यागिनं चापि सर्वज्ञं देशिकं तथा ।। १ ०७।।
आचार्यं सद्गुरुं धिष्ण्याधिपं सन्मण्डलेश्वरम् ।
ब्रह्मव्रतं सहाजीवं सर्वालोचकमच्युतम् ।। १ ०८।।
भज राजन् परां मुक्तिं व्रज तन्मत्कृपाकणात् ।
इत्येवं राधिके चाश्वपाटलं नृपतिमृषिः ।। १ ०९।।
उपादिश्य विरराम स्मरन् श्रीकृष्णवल्लभम् ।
राजाऽप्यानन्दसन्दोहात् संभृतान्तरहर्षितः ।। 2.255.११० ।।
अधिकस्वादमासाद्य परब्रह्मकथामृते ।
सतृष इव पिपासुः पुनः पप्रच्छ लोमशम् ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतो योगस्य बलाऽबलप्रश्रः क्षराऽक्षरलोकप्रश्नः, लोमशकृतोत्तराणि चेत्यादिनिरूपणनामा
पञ्चपञ्चाशदधिकद्विशततमोऽध्यायः ।। २५५ ।।