लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २५३

विकिस्रोतः तः
Jump to navigation Jump to search


2.253
श्रीकृष्ण उवाच-
राधिकेऽश्वपाटलश्च श्रुत्वा नैःश्रेयसं परम् ।
लोमशं परिपप्रच्छ पुनश्चात्मविमोक्षणम् ।। १ ।।
अश्वपट्टल उवाच-
वद मेऽत्र पुनः श्रेय इहाऽमुत्र सुखावहम् ।
कर्तव्यार्थेन निर्वर्त्यं चाभ्युदयोत्तरोत्तरम् ।। २ ।।
श्रीलोमश उवाच-
शकटं रथिनो याति बहुभारं प्रवासिनः ।
देहयात्रापरे भारे तृप्तिहीनस्य भूतले ।। ३ ।।
क्षुधातृषे द्वे वृषभौ शोकमोहौ च चक्रके ।
सुखदुःखे चाग्रपृष्ठौ वासना मध्यसंस्थिका ।। ४ ।।
रथी स्वयं च शकटं नीत्वा यात्यधिकाय ह ।
यात्रामात्रातिरेकेषु लुब्धोऽनुविन्दतीह षट् ।। ५ ।।
अत एव सदा क्लिष्टो निद्रां वेत्ति न वाहकः ।
शकटेन वहन् वस्तून्यसंख्यानि मुहुर्मुहुः ।। ६ ।।
अरण्ये चेन्द्रियचौरे लुण्ठितो जायतेऽवशः ।ऽ
सुखशान्त्यात्मकं द्रव्यं चौरा हरन्ति सर्वशः ।। ७ ।।
तस्मान्न वृषभौ रक्ष्यौ रक्ष्यं न शकटं तथा ।
तत्त्यागे देहयात्रायां सुखं शान्तिर्हि योगिवत् ।। ८ ।।
जायतेऽस्य रथिनो वै यात्रामात्रप्रयोगिणः ।
नाधिकं चाभिवाञ्छेच्च वस्त्रान्नजलमन्दिरम् ।। ९ ।।
पुण्यकार्याणि कुर्वीत देवकार्याणि यानि च ।
परोपकारकार्याणि प्रकुर्वीतात्मसंदृशा ।। 2.253.१० ।।
दुर्लभं मानवं चायुर्नैव क्षिपेत् प्रगर्तके ।
उत्कर्षाभ्युदयार्थं च प्रयतेत विमुक्तये ।। ११ ।।
पुण्येन कर्मणाऽऽप्येतोत्कर्षश्चाभ्युदयस्तथा ।
व्रतयत्नाऽभ्यासभाग्यैः सतामाशीर्भिरेव च ।। १२।।
अकर्माणि दैवतानां मुनीनां च सतां तथा ।
महतां न चरेत्तानि तेजस्विनां न दूषणम् ।। १३ ।।
महतां चाऽघटितानि कुत्सयेन्न कदाचन ।
शुभे विदध्याच्छान्तात्मा भद्राण्येव स पश्यति ।। १४।।
नृशंसं नाऽर्जयेत्कर्म धनं मानं प्रशासनम् ।
तत्सर्वं याम्यलोकस्य दुःखदं भावि वै यतः ।। १५।।
प्रशस्तं चाचरेत् सर्वं ख्यातं धन्यपरायणम् ।
दैवं पैत्र्यं चातिथेयं मानवं पाशवं च यत् ।। १६।।
अव्ययकर्मणा यान्ति सिद्धिं सन्तो महर्षयः ।
व्ययेन कर्मणा भूपाश्चोपासनेन योगिनः ।। १७।।
सेवया योषितः शूद्रा दासा दास्येन वै तथा ।
पण्डिता ज्ञानमार्गेण कारवः शिल्पविद्यया ।। १८।।
गवाद्या दुग्धदानैश्च वृक्षाद्याः फलदानकैः ।
स्तम्बाः पत्रप्रदानेन वल्लिकाः पुष्पदानकैः ।। १९।।
मानवाश्चोपकारेण परस्परं सहायिनः ।
सिद्धिं वै यान्ति परमां मुक्तिसिद्धिं प्रयान्ति च ।।2.253.२ ० ।।
हुत्वाऽपि हवनं वह्नौ मुनयोऽपि यतव्रताः ।
प्रयान्ति सिद्धिं परमामुद्दिश्य श्रीनरायणम् ।। २ १ ।।
पत्नी चात्मा च माता च पिता जनयिता सुतः ।
गुरुः पुत्री च देवास्ते सेव्या येन फलं सुखम् ।।२२।।
ते सर्वे वह्नयः प्रोक्तास्तद्धोत्रं होत्रमेव तत् ।
तेषां तृप्तौ हरिस्तृप्तो भवत्येवान्तरे स्थितः ।। २३।।
तस्यास्तृप्तेः फलं चात्र सुखं परत्र शाश्वतम् ।
भक्त्या वा सेवया वापि दानेन च मखेन च ।।२४।।
तपसा कृच्छ्रसंज्ञेन चानर्हाश्चार्हतां गताः ।
उशना विश्वामित्रश्च वाल्मीकः सद्गतिं गताः ।। २५।।
उशनास्तपसा शंभोः शुक्रत्वं प्राप्य वै ततः ।
शुक्राचार्यो दैत्यगुरुः स्वर्गे सदा ह्यजायत ।। २६ ।।
क्षत्रियो विश्वामित्रश्च ब्रह्मर्षित्वमवाप ह ।
वाल्मीकिः शबरश्चापि सदा मुक्तो बभूव ह ।।२७।।
शुश्रूषया स्त्रियः शूद्रा गतिं यान्ति परां शुभाम् ।
सतां संगः सदा भाग्योदयप्रदः सुपुण्यदः ।।।२८।।
सन्निकर्षेण च सतः साधुर्वै जायते जनः ।
सत्यश्रमोपार्जिता च कपर्दिकाऽपि सौख्यदा ।।२९।।
अन्यायोपार्जितं स्वर्णं दुःखदं निगडप्रदम् ।
अन्यायोपार्जितं चान्नं रोगाय वमनाय च । ।2.253.३ ०।।
अन्यायोपार्जितं क्षेत्रं वह्नये नरकाय च ।
अन्यायोपार्जिता नारी मृत्यवे चाप्यकीर्तये ।।३ १ ।।
अन्यायोपार्जिता सम्पन्मूलनाशाय जायते ।
ब्रह्माऽसृजत् पुरा पुत्रं धर्म प्रजासुखाय वै ।।३ २।।
सर्वे वर्णाः स्वधर्मस्थाः स्वर्गस्थाः सुखिनो हि ते ।
तेषां मुक्त्यर्थमथ च धर्मोऽसृजन्निजांगतः ।।३ ३ ।।
भक्तिं यथा जना यान्ति स्वर्गं हरेर्हि शाश्वतम् ।
ताभ्यां स्वर्गं चिरं चापि शाश्वतं च ततो मिलेत् ।।३४।।
एवं प्रयत्नं कुर्वीत स्वर्गद्वयजयो भवेत् ।
यदा व्यपेतहृल्लेखं कर्माऽसंगं प्रजायते ।।३५।।
हृत्स्थाऽन्तर्यामिणं श्रित्वा कल्याणमर्जयेच्छुचिः ।
प्रायेण राजन् साधूनां त्यागिनां च विरागिणाम् ।।३६।।
प्रज्ञाबलेन भक्त्या वा बन्धनं न दृढं भवेत् ।
शैथिल्यं चाप्यते ज्ञानाद् विवेकाच्छास्त्रशीलनात् ।।३७।।
गृहस्थानां जडानां वा बन्धनं दृढतां व्रजेत् ।
गृहाण्याश्रित्य गाश्चापि क्षेत्राण्यपि धनानि च ।।३८।।
दारान् पुत्राँश्च भृत्याँश्च बन्धनं दृढतां व्रजेत् ।
रागद्वेषौ विवर्धेते भोगमोहादिभिः सदा ।।३९।।
रतिस्तैश्चाप्युदेत्येव रतो ग्राम्यसुखादिषु ।
नहि जानाति चात्मार्थे विवेकं मोक्षमित्यपि ।।2.253.४०।।
किन्तु यतते भोगी स्यां ततः पुनर्विनश्यति ।
तस्मान्निःसंगिना स्थेयं गृहदाराधनादिषु ।।४१।।।
तपःफलं सम्पदश्च बन्धयन्ति जनानिह ।
आदित्या वसवो रुद्रा मरुतौ मनवस्तथा ।।०२।।
विश्वेदेवा अश्विनौ च सिद्धाः साध्या महार्षयः ।
किंपुरुषाश्च गन्धर्वा वह्नीन्द्रसूर्यचन्द्रकाः ।।ऽ३। ।
पितरो लोकपालाश्च राक्षसा यक्षकिन्नराः ।
गणाश्च पार्षदाश्चापि ग्रहा देवाश्च दानवाः ।।४४। ।
राजानो गुरुवर्गाश्चाऽऽचार्याः सिद्धाः सतीस्त्रियः ।
ते सर्वे तपसा सिद्धा भुञ्जते तपसां फलम् ।।४५।।
महाकुले प्रसूता ये स्मृद्धा मोदन्त ईश्वराः ।
कौशिकान्यम्बराण्येव स्वर्णहीरकभूषणम् ।।८६ ।।
वाहनासनभोज्यानि पानस्त्रीदासदासिकाः ।
शय्योत्तमाश्च मृद्वयश्च वासः प्रासादभूमिषु ।।४७।।
अभिप्रेतानि सर्वाणि सर्वे तत् तपसां फलम् ।
भोगार्थे जायते सर्वं कर्मणे नरकाय च ।।४८।।
असन्तोषः प्रदुःखाय प्रज्ञानाशकरस्तथा ।
भ्रामकश्च भवत्येव वृथाधावनकर्षितः ।।४९।।
इषुप्रपातमात्रं हि स्पर्शयोगेन कामजम् ।
औष्ण्यसुखं प्रदुःखाय सर्वथा निरयाय च ।।2.253.५ ० । ।
तस्माद् विज्ञाय क्षणिकं दुःखबहुलमेव तत् ।
मेधावी च यतेताऽपि मोक्षार्थं गृहधर्म्यपि ।।५ १ ।।
मोक्षं चानभिसन्धानाः कामानन्दादिसञ्जकाः ।
मनुष्या अपि पुण्यानि ध्वंसयन्तीव सूकराः ।।५२।।
योग्यं पात्रं युञ्जते न प्राप्तं कल्पलतासमम् ।
मर्दयन्ति शुष्कयन्ति नाशयन्ति हि दुर्भगाः ।।५३।।
प्राप्तं चिन्तामणिं देहं महिषीमाययाऽऽवृतम् ।
क्षपयन्ति नरा नार्यो मोक्षं कृत्वा तु निष्फलम् ।।५४।।
यद्यपि नृपतेः लोकः स्वभावात् कामनादिमान् ।
रुध्यते नाऽवशो नित्यं प्रवर्तते हि कर्मसु ।।५५।।
अनेकेषु विषयेषु दैहिकाऽऽमोददायिषु ।
तथापि गुरुवाक्येन तेषु कर्मस्वथाऽपरम् ।। ५६।।
भक्त्याख्यं कर्म कर्तव्यं चाधिकं येन मुच्यते ।
सतां वृत्तमधिष्ठाय मग्ना अप्युद्दिधीर्षवः ।। ५७।।
पुण्यं सुखं शमं प्राप्य स्वर्गं परमवाप्नुयुः ।
यद्यपि विषयासक्ता अपि द्रोहविवर्जिताः ।।९८।।
हर्यर्थं कर्म कुर्वाणा उद्धरन्तीव गोपिकाः ।
नैःश्रेयसं कर्मपथं समारुह्य हरेः रथम् ।।५९।।
सतां सार्था भक्तिपराः समर्पणविधायिनः ।
प्रयान्ति स्थानमजरं चाऽक्षरं स्वर्गमूर्ध्वगाः ।।2.253.६ ० ।।
भक्ता जयन्ति सर्वत्र सगुणाश्चाऽगुणा अपि ।
पुत्राः शिष्या जयन्त्येव भक्तिमन्तः स्त्रियोऽपि च ।।६ १ ।।
पिता सखा गुरुः पत्नी राजा माता पतिः सुरः ।
अभक्तानां न तुष्यन्ति पितरः साधवोऽपि च । ।६२।।
भक्तिर्हि साधनं श्रेष्ठं तोषणे सेवनं शुभम् ।
शुश्रूषणं तथा दास्यं प्रापणे श्रेष्ठमत्र ह ।।६ ३ ।।
तस्माद् भक्त्यादिभिः कृष्णनारायणः परेश्वरः ।
तोषणीयो हि सहसा देहेनाऽनेन जानता ।।६४।।
राजान् कश्चित् त्रायते न मृत्युपाशमुपागतम् ।
अवशिष्टे पुण्यपापे नापि कश्चिद् विकर्षति ।।।५५।।
शत्रुरज्ञानतुल्योऽत्र वर्तते नाऽपरो नृप ।
तद्वशे मनुजो नित्यं करोति घोरवैशसम् ।।६६ ।।
तेन दुःखान्यपियन्ति नवं जन्म नवां मृतिम् ।
तस्य प्रबाधनायेह वृद्धानुपास्य वै सतः । ।६७।।
प्रज्ञामासाद्य शत्रुं तं ससार्थं विप्रवासयेत् ।
ततश्चिन्तामणिं गर्तं क्षिप्त्वा मोक्षात्पतेन्न वै । ।६ ८।।
चाण्डालत्वेऽपि मानुष्यं भक्त्यर्थं शोभनं यतः ।
मनुष्ययोनि श्रेष्ठा वै चात्मत्राणत्य साधनम् । ।६९।।
उपभोगैर्न देहोऽयं क्षपणीयो ह्यनर्थके ।
यावन्न विप्रणश्येत्र तावत् कुर्मः शुभं परम् ।।2.253.७ ० ।।
एतादृशं कल्पबीजं प्राप्य मानुषविग्रहम् ।
द्विषते यो निजं मोक्षं स मतो वञ्चितः सदा । ।७ १ ।।
लोकार्थे वै प्रकुर्वीतोपकारं दानकर्मभिः ।
कुटुम्बार्थे प्रकुर्वीत साहाय्यं धनवस्तुभिः । ।७२ ।।
पुत्राद्यर्थे प्रकुर्वीत व्यवसायं यथोचितम् ।
आत्मार्थे तु प्रकुर्वीत मोक्षदं साधनं परम् ।।७३ ।।
इष्टिं दानं च यजनं पुण्यं पित्र्यं च दैविकम् ।
भजनं सेवनं चापि श्रेयसोऽर्थे सदाऽऽचरेत् । १७४।।।
अश्वपाटल उवाच--
किं मूलं श्रेयसां यच्च कृतं नैव विनश्यति ।
क्व गतो न निवर्तेत क्वापि ब्रूहि च मे गुरो ।।७५ ।।
श्रीलोमश उवाच-
सत्त्ववृत्तिरसंगश्च सतां सेवा समागमः ।
वृद्धाशीर्वादलाभश्च श्रेयसां मूलमक्षयम् ।।७६ ।।
तपो भक्तिस्तथाऽभयदानं नारायणाश्रयः ।
आत्मार्पणं कृतं चैतत् सर्वे नैव विनश्यति ।। ७७।।
कायक्लेशेभ्य एवात्र तपोभ्यश्चोत्तमं तपः ।
हरौ वृत्तेर्निरोधो वै चाऽपरोक्षदृशिप्रदः ।।७८।
साऽपरोक्षानुभूतिश्च लब्धा नैव निवर्तते ।
अभयं च परं दानं सर्वेभ्यश्चातिवर्तते ।। ७ ९।।
सर्वाऽभयप्रदस्याऽत्र परत्राऽभयमक्षयम् ।
वसन् विषयमध्येऽपि विज्ञो नैव वसत्यपि ।।2.253.८ ०।।
अज्ञोऽसत्स्वपि विषयेष्वतीव वसतीति वै ।
धर्षयन्ति न विषयाः प्राज्ञं तेजस्विनं जनम् ।।८ १।।
अप्राज्ञं चाधिकं स्वल्पा अपि वल्गन्ति वै दृढाः ।
दुष्कृतं तस्य कर्तारं नैव मुञ्चति कर्हिचित् ।।८२। ।
कृतात्मानो न भिद्यन्ते विषयैः कर्मकोटिभिः ।
अकृतात्मानमेवाऽत्र भयं क्वचिन्न मुञ्चति ।।।८३।।
वीतरागस्य वै जन्माऽदर्शनान्मुक्तिरेव ह ।
कृतेन कर्मणा तस्य लेपो नैवास्ति जीवतः ।।८४।।
मृतस्यापि न वै भोगः कर्मणामस्य विद्यते ।
भक्तिमार्गप्रयातस्य परधामगतिर्मता ।।८५।।
विस्तराः क्लेशसंयुक्ताः संक्षेपाः सुखदायिनः ।
परार्था विस्तरा दुःखास्त्यागं चात्महितं श्रयेत् ।।८६।।
अहोरात्रात्मके लोके देही मृत्युमुखे स्थितः ।
ग्रस्यते नित्यमेवाऽयं छिन्नायुर्जायतेऽनिशम् ।।८७।।
स्नेहपाशैश्च बहुभिः प्राकृतैर्मोहवृश्चिकैः ।
दंष्टो विषमयोद्विग्नो न सुखं लभते क्वचित् ।।८८।।
पाशान् छित्वा गृहं हित्वा परिग्रहान् प्रणम्य च ।
यः प्रयाति हरेर्मार्गं स वै पारगतो भवेत् ।।८९।।
अश्वपाटल! लोकोऽयं स्वस्थे स्वास्थ्यविभागहृत् ।
अस्वास्थ्ये दूरगश्चास्ते स्वार्थमात्रपरायणः ।।2.253.९० ।।
स्वार्थलोकात्परार्थो यः स वै श्रेष्ठो मतः सदा। ।
परार्थपरतश्चापि तितिक्षुर्वै विशेषितः ।।९ १ ।।
तितिक्षोरपि विज्ञश्च विज्ञाज्ज्यायाँश्च भक्तिमान् ।
स वै गुप्तं ब्रह्म बोध्यं भक्त्याढ्यं मोक्षकृत् सदा ।।९२।।
अमृतस्य परः कोशो मोक्षस्य द्वारमुत्तमम् ।
यानं स्वर्गस्य वै श्रेष्ठं धर्मस्य शेवधिस्तथा ।।९३ ।।
भक्तो वै मानुषे लोके मुक्तस्तिष्ठति मुक्तवत् ।
भक्तसंगेन भक्ता वै जायन्ते ब्रह्मगामिनः ।।९४।।
यादृशं सेवते जन्तुस्तादृशो जायतेऽपि सः ।
यदि सन्तं सेवतेऽत्र साधुः सञ्जायते स च ।। ९५ ।।
देवास्तृप्यन्ति सद्भिश्च पितरः सिद्धकोटयः ।
मुक्तास्तृप्यन्ति साधुभ्यस्तस्मात् साधुत्वमाव्रजेत् ।। ९६।।
स्वार्थमात्रपरान् लोकान् देवास्त्यजन्ति दूरतः ।
देवा मुक्ताः साधवश्च वसन्ति साधुभिः सह ।। ९७।।
इत्येवं साधुयोगेन ब्रह्मलोकं प्रगच्छति ।
परब्रह्मस्थितो मुक्तोऽनन्तानन्दं समश्नुते ।। ९८ ।।
इत्येवं राधिके श्रीमल्लोमशश्चाऽश्वपाटलम् ।
उपादिश्य विरराम राजा पप्रच्छ वै पुनः ।। ९९ ।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने लोमशगीतायां नृपकृतोऽभ्युदयप्रश्नः, श्रेयोमूलादिप्रश्नः, लोमशदत्तोत्तराणि चेत्यादिनिरूपणनामा त्रिपञ्चाशद- धिकद्विशततमोऽध्यायः ।। २५३ ।।