लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २४०

विकिस्रोतः तः
← अध्यायः २३९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २४०
[[लेखकः :|]]
अध्यायः २४१ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चान्यं चमत्कारं श्रियःपतेः ।
कुंकुमवापिकाक्षेत्रे जातं योगेश्वरं प्रति ।। १ ।।
वीतिहोत्रो महोयोगी वने योगेश्वरोऽभवत् ।
हिमाचले बदर्यां स तपस्तेपेऽतिदारुणम् ।। २ ।।
सर्वयोगकलाः प्राप यथा शंभुस्तथाऽभवत् ।
तेन योगप्रतापेन दृष्टा वै दिव्यचक्षुषा ।। ३ ।।
केतुमाले कृता यज्ञाः केनाटेऽपि कृता मखाः ।
अमरीणां प्रदेशेषु कृतं यद्धरिणा तु तत् ।। ४ ।।
ऊर्जाकृष्णाष्टमीजन्ममहोत्सवश्च यः कृतः ।
शारदापूजनाद्यं च ह्यन्नकूटमहोत्सवः ।। ५ ।।
एतत्सर्वं दिव्यदृष्ट्या विज्ञाय परमेश्वरम् ।
कांभरेयं बालकृष्णं द्रष्टुं साक्षादुपाययौ ।। ६ ।।
आययौ कुंकुमवापीक्षेत्रे कृष्णनारायणम् ।
सहस्ररूपधर्ताऽसौ वीतिहोत्रः समाधिमान् ।। ७ ।।
मार्गशीर्षतृतीयायामश्वपट्टसरस्तटे ।
सेतुमाश्रित्य च न्यग्रोधस्याऽधोऽधान्निजासनम् ।। ८ ।।
सहस्ररूपधर्ताऽसौ संकल्प्य निषसाद ह ।
मम मूलस्वरूपं चागत्याऽऽश्लिष्येत् रमापतिः ।। ९ ।।
ततः सहस्ररूपैश्चाऽऽश्लिष्येन्मा स प्रभुः पुनः ।
ऋषभस्य कारयेन्ये सद्गुरोर्दर्शने यदि ।। 2.240.१० ।।
तदाऽहं श्रीहरेरग्रे निवत्स्येऽत्र सदाऽनुगः ।
मोक्षं प्रसाधयिष्येऽत्र बदर्या न प्रयोजनम् ।। ११ ।।
न गुरोरपरस्यापि मोक्षदो हि गुरुर्यतः ।
यत्रात्मनो भवेत्पुष्टिर्येन तरति सागरम् ।। १३ २।।
यस्माच्चात्ममहाशान्तिस्तं गुरुं त्वाश्रयेज्जनः ।
यस्मात्पापविनाशश्च यस्मादज्ञाननाशनम् ।। १३ ।।
यस्माद् वृत्तिनिरोधश्च वासनाक्षपणं यतः ।
यस्मादात्मप्रकाशश्च तं गुरुं त्वाश्रयेज्जनः ।। १४।।
यस्माच्छिक्षामवाप्येतैश्वर्यं चमत्कृतिं तथा ।
दिव्ययभावमधितिष्ठेत्तं गुरुं त्वाश्रयेज्जनः ।। १५।।
गुरवो बहवः सन्ति लौकिकाश्चाप्यलौकिकाः ।
लौकिकेन हि लोकस्थाः कार्या वै गुरवो यथा ।। १५ ।।
अलौकिकेन शिष्येणाऽलौकिका गुरवो धृताः ।
मयाऽप्यलौकिकः सोऽयं कर्तव्यो भगवान् गुरुः ।। १७।।
यत्र सर्वं हि कर्तव्यं हरौ परिसमाप्यते ।
माता गुरुर्हि जनुदा पिता गुरुर्हि बीजदः ।। १८।।
अन्ये रक्षाकराः सन्ति देहस्य गुरवो हि ते ।
भाषाज्ञानकराश्चान्ये बान्धवाद्याश्च योषितः ।। १ ९।।
तथा शिक्षाकराश्चान्ये विद्यादानकरा अपि ।
कलाकौशल्यशिक्षाया दातारो गुरवोऽपि च ।। 2.240.२० ।।
त एते देहयात्रायां भवन्ति गुरवः खलु ।
आत्मज्ञानप्रदो यस्तु विष्णुमन्त्रप्रदश्च यः । । २१ ।।
धर्मवृत्तिप्रदो यश्च गुरुः श्रेष्ठो हि सम्मतः ।
ब्रह्मस्थितिप्रदो यश्च योगसिद्धिप्रदश्च यः ।। २२।।
वैशारद्यप्रदो बुद्धौ गुरुः श्रेष्ठतरो हि सः ।
निर्मलां वासनां कृत्वा परमेशप्रदर्शकः ।। २३ ।।
आत्मना परमात्मानं प्रापको दिव्यमोक्षदः ।
ब्रह्मलोकप्रेषकश्च गुरुः श्रेष्ठतमो हि सः ।। २४।।
गकारस्त्वन्धमज्ञानं रकारो ज्ञानमुज्ज्वलम् ।
अज्ञानहा ज्ञानदश्च गुरुर्गौरववान्मतः ।। २५। ।
गमयत्यक्षरं धाम रमवत्यपि धामिना ।
गुरुः सोऽयं मोक्षदाता नान्यः श्रेष्ठस्ततो गुरुः ।। २६ ।।
गुरुर्योगी ब्रह्मचारी धर्मी ज्ञानी विरागवान् ।
साधुशीलो गुरुश्चापि नारायणः परो गुरुः ।। २७ ।।
भुक्तिदाता मोक्षदाता सर्वस्वदो हरिर्गुरुः ।
गुरोः साक्षात्कारयिता गुरोर्गुरुर्यतोऽत्र सः । । २८।।
स एव श्रीहरिश्चाऽयं मुक्तानां परमो गुरुः ।
गुरुः सर्वावताराणां सतीनां च सतां गुरुः ।। २९ ।।
ईश्वराणां तथा धाम्नां योगिनां सर्गसम्विदाम् ।
पूर्वेषां सृष्टिकर्तॄणां महर्षीणां द्युवासिनाम् ।। 2.240.३० ।।
प्रजेशानां कर्मठानां भक्तानां च परो गुरुः ।
गुरूणां यावतामग्र्यो नारायणगुरोर्गुरुः ।। ३१ ।।
अनादि श्रीकृष्णनारायणः श्रीकृष्णवल्लभः ।
श्रीकृष्णवल्लभः स्वामी कांभरेयः परात्परः । । ३ २।।
श्रीमद्गोपालबालोऽयं स्वामी वै सर्वदेहिनाम् ।
मया लब्धः स मे पूर्णं करिष्यत्येव मानसम् ।। ३३ ।।
निवत्स्यामि चरणेऽस्य प्राप्स्यामि धाम चाक्षरम् ।
सञ्चिन्त्येति वीतिहोत्रो ध्यानमग्नः सहस्रधा ।। ३४।।
सहस्ररूपवान् जातो दृष्ट्वा तं मानवास्तटे ।
स्नातारोऽगुः पराश्चर्यं कस्येमानि समानि वै ।।३५।।
रूपाणि के चागता वै योगिनोऽत्र सहस्रशः ।
समवेषाः समदेहाः समांगाः सन्ति सदृशाः ।। ३६ ।।
समकेशाः समध्यानाः समानपरिमाणकाः ।
भ्रातरो वा भवन्त्येते धाममुक्ता भवन्ति वा ।। ३७।।
वदरीवासिनो वाऽपि श्वेतमुक्ताः किमागताः।
शंकरस्य गणाः किंवा देवास्तापसरूपिणः ।। ३८।।
साध्या वा देवता यद्वा मेरुवासा हि तापसाः ।
क एते तु भवेयुर्वै चन्द्रास्या भास्करप्रभाः ।। ३९।।
ध्यानयोगा योगिनो वा योगेश्वराः सहस्रशः ।
न वदन्ति न पश्यन्ति न प्राणान् चालयन्त्यपि । ।2.240.४० ।।
स्थिरमौनाः स्थिरचित्ता ईश्वराः स्युश्च केन्विमे ।
इत्येव तर्कयन्तो वै कुंकुमवापिकाजनाः ।।४१ ।।
संघशो वै समायान्ति द्रष्टुं कुतूहलान्विताः ।
केचिन्नमन्ति दृष्ट्वैव प्रशंसन्ति वदन्ति च ।।४२।।
प्रतापोऽयं बालकृष्णकृपानाथस्य वर्तते ।
अस्य दर्शनलाभार्थं नित्यमायान्ति योगिनः ।।४३।।
अदृश्या ईदृशाः सर्वेऽधुना ते दृश्यतां गताः ।
रुद्राः सहस्रशश्चापि विष्णवश्च सहस्रशः ।।४४।।
सहस्रशोऽपि ब्रह्माणो द्रष्टुमायान्ति सद्वरम् ।
तथा महर्षयो नित्यं पितरो देवतास्तथा ।।४५।।
साध्या विश्वे च मरुतो द्रष्टुमायान्ति नित्यशः ।
तीर्थान्यपि समायान्ति दिक्पालाः सृष्टिपालकाः ।।४६।।
अथवा पार्षदा दिव्या गोलोकादिनिवासिनः ।
समायान्ति च वैकुण्ठपार्षदा अपि नित्यशः ।।४७।।
ग्रहनक्षत्रताराश्च सूर्याश्चन्द्राः सहस्रशः ।
वैमानिकाः समायान्ति लोकान्तरेभ्य आदृताः ।।४८ ।।
वालखिल्याः समायान्ति यद्वा ब्रह्मसभाद्विजाः ।
किं वा भवेयुर्गान्धर्वा यक्षा वा धनदाश्च वा ।।।४९।।।
चारणाः पर्वतवासा मुनयो वा वनस्थिताः ।
परं सादृश्यमेवैषामपूर्वत्वं विगाहते ।।।2.240.५० ।।
ललाटे वैष्णवं पुण्ड्रं मस्तके तापसी जटा ।
नेत्रमुद्रा योगपुष्टाः ख्यापयन्त्यंशमाच्युतम् ।।५१ ।।
ये वा के वा भवेयुस्ते साक्षात्कृता यदत्र ते ।
अस्माभिर्दैवयोगेन पुण्यवद्भिः सुभाग्यकैः ।।५२।।।
अवश्यमेषां विज्ञानं क्षणेऽत्रैव भविष्यति ।
इत्येवं ते वदन्तश्च प्रजाः संघश एव ह । ।५३ ।।
प्रपश्यन्ति सरस्तीरे सहस्रयोगिनस्तदा ।
अथ श्रीमद्बालकृष्णो नारायणगुरोर्गुरुः ।। ५४।।
समाययौ सरस्तीरे सन्निधौ योगिनां तदा ।
हार्दं जानँस्तदा तूर्णं प्रवीक्ष्य मूलरूपिणम् ।।५५।।
समुत्तोल्य समाहूय नाम्ना तं वीतिहोत्रक! ।
उत्तिष्ठेति करो धृत्वा कृत्वा वक्षसि योगिनम् ।।५६ ।।
समाश्लिष्यद्धसँस्तूर्णं स्वयं सहस्रधाऽभवत् ।
समुत्थितैः सहस्रस्वरूपैराश्लिष्यदच्युतः ।।५७।।
ततस्तूर्णं हरिश्चैकस्वरूपः सम्बभूव ह ।
वीतिहोत्रोऽपि सहसा त्वेकरूपो व्यजायत ।।५८।।
आश्चर्यचकिता लोका जयशब्दान् प्रचक्रिरे ।
तावच्छ्रीबालकृष्णोऽपि बभूव ऋषभो गुरुः ।।५९ ।।
वृद्धः श्वेतजटायुक्तो विवस्त्रो धूलिधूसरः ।
विचित्त इव चोन्मत्तो जितसर्वेन्द्रियो यतिः ।।2.240.६ ० ।।
स्वभावतेजसा व्याप्तो ब्रह्मनिष्ठापरः पुमान् ।
अप्राकृत इव त्वास्ते विमना इव देहिषु ।।६ १ ।।
वीतिहोत्रोऽपि च गुरुमृषभं वीक्ष्य दण्डवत् ।
चकार बहुधा तत्र तुष्टाव परमेश्वरम् ।।६९ ।।
त्वं गुरुस्त्वं चान्तरात्मा ऋषभस्त्वं च योगिराट ।
योगेश्वरो भवानेव त्वं चेशस्त्वं परेश्वरः ।।६३ ।।
त्वं मुक्तस्त्वं महामुक्तो मुक्तेश्वरो भवानपि ।
अक्षरं त्वं भवान् ब्रह्म परब्रह्म भवानपि ।।६४ ।।
भगवान् कृष्ण एवासि कृष्णनारायणोऽसि च ।
अनादिश्रीकृष्णनारायणस्त्वं परमेश्वरः ।।६५ ।।
अवताराः ऋषभाद्यास्तवैव श्रीपते विभो ।
राधापतिस्त्वमेवाऽसि लक्ष्मीपतिस्त्वमेव च ।।६६ ।।
वासुदेवीपतिस्त्वं च नारायणीपतिस्तथा ।
मुक्तपतिर्ब्रह्मपतिर्धामपतिस्त्वमेव च ।।६७।।
महाकालस्य हेतुस्त्वं महाविष्णोश्च कारणम् ।
सदाशिवस्य हेतुस्त्वं वैराजस्य च कारणम् ।।६८ । ।
भूमा त्वं पूरुषसंज्ञः पुरुषोत्तम इत्यपि ।
ब्रह्मविष्णुमहेशानां रुद्राणां सर्जको भवान् ।।६ ९ । ।
देवानां लोकपालानां पितॄणां सर्जको भवान् ।
महर्षीणां यतीनां च साधूनां सर्जकः सताम् ।।2.240.७ ० ।।
सतीनां कमलाद्यानां पतिः पाता च वै भवान् ।
सुराणां मानवानां च पशूनां पक्षिणां तथा ।।७ १ ।।
वल्लीनां च द्रुमाणां च सर्जकस्त्वं रसप्रदः ।
कामधेनुकामवल्लीचिन्तामण्यादिसर्जकः ।।७२ ।।
यक्षरक्षःपिशाचानां सर्जकस्त्वं खचारिणाम् ।
वारिजानां वनस्थानां भूगर्भाणां प्रसर्जकः ।।७३ ।।
दैत्यानां दानवानां च सर्जकस्त्वं जनार्दनः ।
दीनाऽनाथदरिद्रानां रक्षकः पोषको भवान् ।।७४।।
आश्रितानामन्नदाता शरण्यश्चार्तिदेहिनाम् ।
कामुकानां कामदाता सकामानां प्रपूरकः ।।७५।।
त्वं नारी त्वं नरश्चास्से त्वं गर्भस्त्वं कुमारकः।
त्वं बीजं त्वं सस्यरूपस्त्वं पुष्पं फलमित्यपि ।। ७६ । ।
त्वमिन्द्रस्त्वमिन्द्रियस्त्वं निद्रा त्वं जागरो भवान् ।
त्वं सुषुप्तिर्महानन्दस्त्वं प्रीतिस्त्वं रतिस्तथा । । ७७ ।।
मन्मथस्त्वं मनोजन्यो मनःसंस्थो भवानपि ।
ज्ञानं ज्ञाता ज्ञेयमेव त्वमेवाऽसि परेश्वर । ।७८ । ।
त्वम् ऋतुस्त्वं दिनं रात्रिस्त्वमुद्योगो विरामकः ।
त्वं विश्वासश्चाश्रयश्च त्वं माता च पिता गुरुः । । ७९ । ।
धनं धान्यं त्वमेवाऽसि शक्तिर्बलं त्वमेव च ।
नीतिर्भक्तिर्वृषो रागो वैराग्यं च त्वमेव ह । ।2.240.८ ० ।।
त्वं प्राणस्त्वं जीवनं च नैकधा चैकधा भवान् ।
प्रकाशस्त्वं प्रवृत्तिस्त्वं निरोधस्त्वं गुणात्मकः ।।८ १ ।।
गुणातीतस्त्वमेवाऽसि सर्वसिद्धिगुणाश्रयः ।
आश्चर्यं त्वं चमत्कारस्त्वमैश्वर्यं प्रभुत्वकम् ।।८२ ।।
त्वं भूर्जलं भवाँस्तेजोऽनिलस्त्वं त्वं तथाऽनलः ।
त्वं खं त्वं मात्रकं त्वं च बुद्धित्त्वं चैषणात्रयम् ।।८ ३ ।।
त्वं परीक्षा तितिक्षा त्वं त्वं बुभुक्षा मुमुक्षता ।
त्वं स्नेहस्त्वं ध्यानवृत्तिस्त्वं समाधिः परात्परः । ।८४ ।।
उपास्तिस्त्वं चित्तचैत्यं त्वं जाड्यं त्वं तथाऽणुता ।
त्वं साम्यं त्वं च वैषम्यं त्वमेव सर्वमेव ह । । ८५ ।।
अहं त्वं वीतिहोत्रस्त्वं त्वं गुरुः ऋषभस्तथा ।
तवैवांऽशकलाऽऽवेशविभूतिसृष्टिजं त्विदम् । ।८६ । ।
यत् किंचिद् दृश्यते चापि भुज्यते लीयतेऽपि च ।
यस्माद् यत्र च येनापि यदर्थं च त्वमेव सः ।। ८७ ।।
तस्मै कृष्णाय नाथाय ब्रह्मणे परब्रह्मणे ।
समर्पयामि चात्मानं वीतिहोत्राभिधं सदा ।।८८ ।।
दानमेव न तु न्यासं नापि कुसीदकं तथा ।
यथेष्टविनियोगार्हं समर्पयामि मां त्वहम् ।।८९ ।।
इति स्तुत्वा राधिके सम्पपात पादयोर्हरेः ।
वीतिहोत्रश्चाऽथ कृष्णस्तमुत्थापयदूर्ध्वकम् । । ।2.240.९० ।।
समाश्लिष्य पुनर्हस्तौ दत्वा तस्य च मूर्धनि ।
न्ययुंक्त वरलाभार्थं वीतिहोत्रं हरिर्यदा । । ९१ ।।
वीतिहोत्रस्तदा प्राह स्थास्येऽत्र तवपादयोः ।
अन्ते मोक्षं गमिष्यस्यक्षरं धाम तव प्रभो ।। ९२।।
देहि वासं सदा चात्र तथास्तूवाच वै हरिः ।
राधिके तन्महत्तीर्थम् ऋषभाख्यं सरोवरे । । ९३ । ।
वीतिहोत्राभिधं तीर्थं सहस्रयोगितीर्थकम् ।
एवं नाम्ना तदेवासीत् प्रसिद्धं मोक्षदं शुभम् ।। ९४। ।
हरिर्बभूव सहसा बालकृष्णस्वरूपधृक् ।
प्रययौ च निजावासं वीतिहोत्रस्तटे स्थितः ।। ९५ ।।
वटवृक्षं समाश्लिष्य तापसो जनदर्शनः ।
तत्र तीर्थे कृतस्नानाः प्राप्स्यन्ति परमां गतिम् ।। ९६ ।।
योगसिद्धिमवाप्स्यन्ति योगाभ्यासं विनाऽपि च ।
राधिके तत्र संस्नानान्नाशमेष्यन्ति पातकम् ।। ९७।।
आर्द्रं शुष्कं महत्स्वल्पं परपीडाकरं च यत् ।
सर्वं नश्यति पापं तज्जलपानादपि द्रुतम् ।। ०३८ ।।
तत्राऽन्नदानतः स्यात्तु वाजिमेधसमं फलम् ।
ऋषभस्याऽऽलयकर्तुर्मम धामाऽक्षरं भवेत् ।। ९९ ।।
इत्येव भगवानाह राधिके तीर्थवैभवम् ।
पठनाच्छ्रवणाच्चास्य भवेत्तत्तीर्थजं फलम् ।। 2.240.१०० ।।

इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने वीतिहोत्रयोगेश्वराय ऋषभरूपेण सहस्ररूपेण च हरेर्दर्शनम्, ऋषभतीर्थीकरणम्, स्तुतिश्चेत्यादि- निरूपणनामा चत्वारिंशदधिकद्विशततमोऽध्यायः ।। २४० ।।