लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २३८

विकिस्रोतः तः
← अध्यायः २३७ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २३८
[[लेखकः :|]]
अध्यायः २३९ →

श्रीकृष्ण उवाच-
राधिके नूतने वर्षे प्रभुर्ब्रह्मप्रियापतिः ।
चकार कुंकुमवापीक्षेत्रेऽन्नकूटकोत्सवम् ।। १ ।।
भोजयामास सर्वान् स कुंकुमवापिकाजनान् ।
नरान्नारीर्बालवर्गान् यूनो वृद्धान् समस्ततः ।। २ ।।
पशून् चागन्तुकाँश्चापि पक्षिणश्च जलेशयान् ।
भूशयान् चेतनान् सर्वान् भोजयामास वै हरिः ।। ३ ।।
प्रतिपद्दिवसे श्रीमद्बालकृष्णो निजालये ।
लक्ष्मीं तथाऽन्नपूर्णां च प्राह भोजनकाम्यया ।। ४ ।।
अद्य मे वर्तते वाञ्च्छा सर्वेषां भोजनार्थिकीम् ।
मध्याह्नोत्तरवेलायां यदि स्यात् कुरुतं तथा ।। ५ ।।
आज्ञां प्राप्याऽन्नपूर्णा च प्राह श्रीपरमेश्वरम् ।
भगवन् पक्वभावार्थं घटिकापञ्चकं खलु ।। ६ ।।
अपेक्ष्यतेऽद्य समयो वर्तते च तथाविधः ।
करिष्यामोऽन्नसामस्त्यं शृतं नास्त्यत्र संशयः ।। ७ ।।
इत्युक्त्वा सा चान्नपूर्णा सस्मार स्वसखीं भुवम् ।
श्रियं सस्मार तूर्णं च वार्क्षी सस्मार तत्र च ।। ८ ।।
सुधां सस्मार धान्यानां लक्ष्मीं सस्मार वै द्रुतम् ।
चुल्लिकाश्च सखीः सर्वाः सस्मार समिधस्तथा ।। ९ ।।
शाकपत्राणि सस्मार वेशवारान् समस्तकान् ।
नदीः सस्मार गंगाद्या धेनूः सस्मार कामदाः ।। 2.238.१ ०।।
पाकलक्ष्मीः प्रसस्मार वह्नीन् सस्मार तत्र च ।
पात्राण्यक्षयनामानि तथा सस्मार सद्रसान् ।। ११ ।।
ब्रह्मप्रियाः समस्ताश्च सस्मार चान्नपूर्णिका ।
आन्धसिकीः प्रसस्मार सस्मार परिवेषिकाः ।। १२।।
आरनालादिकर्त्रीश्च तक्रपेयविधायिनीः ।
प्रसस्मार तदा सर्वा सखीस्ताश्च समाययुः ।। १३।।
भुवं चाज्ञापयामास कुरु शीघ्रं महानसम् ।
क्रोशार्धं वर्तुलं शीघ्रं क्षणात् साऽपि तथाऽकरोत् ।। १४।।
नदीः प्राह जलार्थं च ता जलानि समानयन् ।
चुल्लिकाः प्राह योग्ये च स्थले स्थातुं स्थिताश्च ताः ।। १५।।
वह्नीन् प्राह निवासार्थं चुल्लीषु वह्नयः स्थिताः ।।
कटाहान् प्राह चुल्लीनां मस्तके स्थातुमास्थिताः ।। १६।।
दर्व्याद्यास्तूर्णमेवाऽऽसन् स्वस्वकार्यनियोजिताः ।
सस्यानि चापि धान्यानि रसादीनाह पात्रके ।। १७।।
चुल्लीपात्रेषु च स्थातुं घृताद्याश्च तथाऽभवन् ।
आसमन्तात्ततो लक्ष्म्यश्चान्धसिक्यः स्थिताः पुरः ।। १८।।
ब्रह्मप्रियाः समस्ताश्चोपकारिण्यस्तदाऽभवन् ।
लक्ष्मीनां वै समस्तानामिच्छया च घृतादिकम् ।। १९।।
कटाहेषु च पात्रेषु त्वायान्ति च तपन्ति च ।
यथापेक्षं कणाद्याश्च पिष्टादिकानि तत्र च ।।2.238.२० ।।
पक्वतार्थं समागत्य प्रविशन्ति समन्ततः ।
शर्कराद्यास्तथा पक्वा वेशवारादयोऽपि च ।।२ १।।
अन्नपूर्णेच्छया तूर्णं समागत्य विशन्ति च ।
अष्ट वै सिद्धयस्तत्र सेवन्ते सर्वतः स्थिताः ।।२२।।
घटीद्वयान्ते सिद्धानि पक्वान्नानि बहून्यपि ।
आमन्त्रणानि शंभोश्च पार्षदाः क्षेत्रपा ददुः ।।।२३।।।
आक्षरक्षेत्रवासेभ्यो भोजनार्थं समस्ततः ।
पक्वान्नानामभवैंश्च पर्वता वै महानसे ।।।२४।।
अशार्करादिपाकाश्च ततोऽजायन्त भूरिशः ।
भक्षान्यपि ततो जातान्यसंख्यरूपकानि च ।।२५।।
भोज्यान्यपि द्रुतं जातान्यसंख्यरूपकानि च ।
लेह्यान्यपि कृतान्येव बहुसंख्यानि तत्र च ।। २६।।
चोश्यान्यपि समस्तानि कृतानि सुबहून्यपि ।
पेयान्यपि समस्तानि रचितानि तदा द्रुतम् ।।२७।।
आरनालादीनि चापि चटन्यो विविधास्तथा ।
क्षारचणकमाषाद्यास्तत्र शृतास्तथाविधाः ।।२८।।
शाकान्यपि विविधानि भाजा भाज्यस्तथाविधाः ।
मुरब्बारससाराश्च रायतानि बहून्यपि ।। २९।।
दधिघृतनवनीतपायसक्षीरतक्रकम् ।
सर्वं यथापेक्षकं तु पक्वापक्वं विधापितम् ।। 2.238.३०।।
सर्वाभिर्ब्रह्मयोषिद्भिर्लक्ष्मीभिः कन्यकादिभिः ।
सतीभिः सिद्धिभिश्चापि सर्वं कृत्वोपरक्षितम् ।।३ १।।
घटिकापञ्चमध्ये तु सर्वं सम्पादितं हितम् ।
प्रार्थयामासुरीश्वर्यः श्रीपतिं पुरुषोत्तमम् ।।३२।।
वर्तते सर्वमेवाऽत्र सिद्धं विभिन्नजातिकम् ।
वैश्वदेवं विधेहि त्वं घण्टानादं प्रकारय ।।३ ३।।
भोजनार्थं जनानां वै पंक्तयः सन्तु सर्वतः ।
मध्याह्ने भगवान् कृष्णनारायणो हि राधिके ।।३४।।
स्नात्वा कृत्वा वैश्वदेवं तर्पित्वाऽग्निं च पितृकान् ।
तर्पित्वा देवताः सर्वा घण्टानादमकारयत् ।।३१।।
आगच्छन्तु महाभागा भोजनार्थं हि पंक्तिषु ।
यथाज्ञं सर्वपात्राणि तदाऽभवन् हि पंक्तिषु ।। ३६।।
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्चान्येऽपि मानवाः ।
आययुस्तत्र शीघ्रं वै भोजनार्थं समन्ततः ।। ३७।।
ब्राह्मणेभ्यो ब्रह्मवर्गाः परिवेषणमाचरन् ।
भोजयामासुरत्यर्थं नरनारीः समस्ततः ।। ३८।।
दक्षिणाः प्रददौ तेभ्यो बालकृष्णो हि मुद्रिकाः ।
लडडुऽकान् शष्कुलीश्चापि शतच्छिद्राणि खाजकान् ।। ३९।।
मेशुभान् मोहनस्थालान् पर्पिकाखण्डकाँस्तथा ।
पिण्डकान् गुडकान् श्रेष्ठान् ग्रन्थिकान् मोदकाँस्तथा ।।2.238.४० ।।
कलिकालडडुऽकाँश्चापि मुद्गलडडूँऽश्च मण्डकान् ।
सोहिलकाँश्च संयावं कंसारं घृतपूरकान् ।।४१।।
सेविकाः पोलिका मिष्टाः पूरिकाः पायसं तथा ।
विरञ्जं सुखदां फेणीं गुन्द्रपाकमपूपकान् ।।४२।।।
पूपाँश्च घुर्घुरांश्चापि वटकान् तिलपिष्टकान् ।
शाटकान् स्थिरकाँश्चापि रम्भाचूतफलानि च ।।४३।।
शाकानि भिण्डकान् स्वर्णदुग्धां कोशातकीं तथा ।
राजकोशातकीं गवाहाराँश्च मार्गरीं तथा ।।४४।।
कर्कोटिकां शिम्बिकां च कर्कटीं चिर्भटं तथा ।
रक्तालुं राजमाषादीन् शिम्बीबिम्बीफलानि च ।।४५।।
शर्कराकन्दमेवापि खर्बूजं कारवेल्लकम् ।
कूष्माण्डं सूरणं चापि मुनिशिम्बीः पटोलकम् ।।४६।।
कर्कटीर्मेथिकाश्चापि पारवल्लं च मूलकम् ।
शतपुष्पामम्ब्ललोणीं जीवन्तीं स्यन्दिकां तथा ।।४७।।
वृन्ताकं भर्जितं चापि राजिकाक्तानि यानि च ।
द्राक्षाखारिकसम्मिश्रान् दधिमिश्रवटीवटान् ।।४८।।
पुष्पवटीश्च भोज्यानि सौरभोदनमित्यपि ।
सूपः क्वथिकास्तक्राणि दधिमन्थानि यानि च ।।४९।।
तलितान् हरिमन्थाँश्च निष्पावान् पर्पटाँस्तथा ।
नवनीतं चारनालं चटनीं धान्यकादिजाम् ।।2.238.५०।।
दुग्धं च क्वथितं मिष्टं दधि घृतं सकेसरम् ।
मरीचानि सुतिक्तानि तथैलाकणकानि च ।।९१।।
भूफलीशर्कराबीजान्यपि वल्लान् वटाणकान् ।
कलिका मिष्टपोलीश्च घारिका मिष्टजम्बुकान् ।।५२।।
रोटकान् मूशलीपाकान् वासुदेवीं च मल्लिकाम् ।
श्रीखण्डं तरलां चापि माषलडडून् कलावकम् ।।५३।।
एकोत्तरशतं तत्र पदार्थान् वाडवादयः ।
भुक्त्वा तृप्तिं परां प्राप्य ययुर्गृहाणि वै ततः ।।५४।।
क्षत्रिया वैश्यवर्गाश्च शूद्रा बुभुजिरे मुदा ।
दीना अनाथवर्गाश्च भिक्षुकाश्च निराश्रिताः ।।५५।।।
दासवर्गा दासिकाश्च सर्वा बुभुजिरे तदा ।
कुंकुमवापिकाक्षेत्रस्थिता बुभुजिरेऽखिलाः ।।५६।।
तत्र तत्र पदार्थेषु न्यूनं नैव प्रजायते ।
वर्धते त्वक्षये पात्रे वस्तुनि परिवेषिते ।।५७।।
अक्षयं चाऽव्ययं सर्वं दीयमानं प्रजायते ।
महर्षयस्तथा सन्तः साध्व्यो बुभुजिरे तथा ।।५८।।
आबालवृद्धगोपालाः सर्वे बुभुजिरे तदा ।
क्षेत्रपाला देवताद्याः सर्वे बुभुजिरेऽपि च ।।५९ ।।
हरेः सर्वं कुटुम्बं च बुभुजे श्रीशवाञ्च्छया ।
ब्रह्मप्रियाद्याः सर्वाश्च भोजयितुं प्रियं पतिम् ।।2.238.६०।।
सोत्साहाश्चाययुर्बालकृष्णस्वामिपुरस्तदा ।
स्वर्णपट्टिकसंस्थानि पात्राणि च हरेः कृते ।।६१ ।।
पक्वान्नपूर्णकान्येव न्यधुर्हरेः पुरश्च ताः ।
स्वर्णासने हरिः सम्यङ्निषद्योर्णोसने प्रभुः ।।६२।।
भोक्तुं चाचम्य च समारेभे व्याहृतिपूर्वकम् ।
आर्चिचन् श्रीहरिं ताश्चन्दनकुंकुमकेसरैः ।।६३ ।।
भोजयामासुरत्यर्थं प्रेमाल्यश्चातिभावतः ।
लक्ष्मीर्विशालं स्थालं च कानकं निदधौ पुरः ।।६४।।
राधे त्वया समन्ताच्च स्थापिता लघुवाटिकाः ।
माणिक्या कलशं पानपात्रं जलयुतं न्यधात् ।।६५।।
रमा च व्यजनं धृत्वा वायुदानं करोति हि ।
पद्मावती नक्तकं च धृत्वा पार्श्वे स्थिताऽभवत् ।।६६।।
ब्रह्मप्रियास्तथा सर्वाः सर्वदेशोद्भवास्तदा ।
विदधुर्वै पदार्थानां सर्वेषां परिवेषणम् ।।६७।।
अन्नपूर्णादिका देव्यः प्राहुः श्रीपरमेश्वरम् ।
भुंक्ष्व नाथ कृपाकान्त दिदृक्षामोऽत्र भाविताः ।।६८।।
अथ कृष्णः करे कृत्वा कवलं बुभुजे मुदा ।
अहो मिष्टमहो भोज्यं कयेदं रन्धितं शुभम् ।।६९।।
पृष्ट्वा तत्कर्त्रीनामानि प्रशशंस तु ता मुहुः ।
अतिस्वादु कृतं चेदं प्रशंस्य बुभुजे पुनः ।।2.238.७० ।।
ब्रह्मप्रियाद्याः सर्वाश्च भुञ्जानं ददृशुर्हरिम् ।
वीक्षमाणाः प्राणपतिमाश्चर्यं लेभिरे स्त्रियः ।।७१ ।।
स्वल्पं भुक्त्वा समुत्थातुं समैहत यदा हरिः ।
शारदा तं स्थापयन्ती जगौ भुंक्ष्वेति कीर्तनम् ।।७२।।
सरस्वती सवादित्रा प्रीतये श्रीहरेः पुरः ।
जगौ भोजनपद्यानि भोजयितुं विशेषतः ।।७३।।
भोजनं विधेहि नाथ जीवन योगिन्
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।
कवलं गृहाण कृष्ण मिष्टमिष्टमेनम्,
प्रास्वादय प्रकृष्टसौरभान्नकूटम् ।।७४।।
पुमर्थदातृ भगवन् प्रभुंक्ष्व काममेतत्,
समस्तपक्वमेतत् रे जीवन योगिन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।।७५।।
मेशुभमोहनस्थालं रसालपायसान्नं,
सुशष्कुलीं च फेणीं श्रीखण्डमिष्टपोलीम् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्तजीवन योगिन् ।।७६।।
सुपर्पिकां रसाढ्यां च मोदकान् विरञ्जं,
सुगुन्द्रपाकमिष्टं सुशाटकांश्च घुर्घुरान् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त जीवन योगिन् ।।७७।।
स्वादुमिष्टचणकान् सुराजमाषवटकान्,
प्रशाकभाजिकादिप्रभोज्यपुष्पवाटीः ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।।७८।।
पर्पराँश्च चटनीं शुभाऽऽरनालकानि,
सुतक्रदुग्धकानि समस्तभोजनानि ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।।७९।।
सुगन्धि वारि मिष्टं सूपौदनं यदिष्टं,
प्रफुल्लपूरिकादिप्रपक्वघुर्घुरादीन् ।
भोजनं विधेहि नाथ जीवन योगिन्,
प्रसादं प्रदेहि कान्त हृदयेश योगिन् ।।2.238.८०।।
एलालवंगमिश्रं ताम्बूलकं सुधाक्तं,
चाऽऽकण्ठपूर्तमद्यं प्रभुंक्ष्व देहि शिष्टम् ।
भोजनं विधेहि नाथ वल्लभ स्वामिन्,
प्रसादं प्रदेहि कान्त कामनेश भोगिन् ।।८ १।।
इत्येवं राधिके सर्वा भोजयामास सत्पतिम् ।
भगवान् वुभुजे पूर्णं ततः सर्वा अपि स्त्रियः ।।८२।।
कवलानि करे कृत्वा भोजनाय निजं पतिम् ।
विश्वंभरं प्रसह्यैव यत्नं तत्र प्रचक्रिरे ।।८३।।
योगेश्वरो हरिस्तासां तादृङ्मानससिद्धये ।
सर्वपत्नीसमसंख्यस्वरूपोऽभूदसंख्यकः ।।८४।।
सर्वासां ब्रह्मपत्नीनां करेभ्यः कवलानि तु ।
बुभुजे समकालेन स्नेहेन ताः प्ररञ्जयन् ।।८५।।
जलं ताम्बूलकं चापि प्रत्येककरतो हरिः ।
पपौ प्रजगृहे तत्र पूर्णकामाश्च तास्ततः ।।८६।।
अथ सर्वसखीभ्यश्च पक्वान्नानि मुहुर्मुहुः ।
भोजयामास भगवान् प्रसादानि करेण वै ।।८७।।
भोजयित्वा च ताम्बूलरसं ताम्बूलकानि च ।
पाययामास ताः सर्वाः कोट्यर्बुदाब्जकन्यकाः ।।८८।।
कृतकृत्याश्च ता जाता ब्रह्मप्रियास्तथाऽपराः ।
परिवेषणकर्त्र्यश्च पाककर्त्र्यस्तथा स्त्रियः ।।८९।।
पाकसाहाय्यकर्त्र्यश्च वस्तुहारिण्य इत्यपि ।
वस्तूद्भावनकर्त्र्यश्च रसदा योषितस्तथा ।।2.238.९०।।
अन्नपूर्णादिभिस्तत्र या याश्चाकारितास्तु ताः ।
सर्वाः श्रीमद्बालकृष्णप्रसादं दुर्लभं ह्यपि ।।९१ ।।
सुलभं प्राप्य च बुभुजिरे तृप्तिं गताश्च ताः ।
एवं भुक्त्वा त्वन्नकूटं प्रचक्रुः परिहारकम् ।।९२।।
जलजन्तुभ्य एवापि ददौ प्रसादमुत्तमम् ।
पक्षिभ्यश्च पशुभ्यश्च कीटादिभ्यः समन्ततः ।।९३।।
प्रददौ भगवाँस्तत्र प्रसादं त्वनिवारितम् ।
वृक्षेभ्यो वनवल्लीभ्यः स्तबकेभ्यः समन्ततः ।।९४।।
द्रवत्प्रासादिकं खाद्यं ददौ मूलेषु वै हरिः ।
प्रसादग्रहणार्थं वै देवा महर्षयस्तथा ।।९५।।
पितरश्चापि मुक्ताश्च दिव्यदेहाः समाययुः ।
यत्र यत्र प्रसादः स दृष्टस्तत्र तथाविधाः ।।९६।।
भूत्वा ते जगृहुः सर्वे प्रसादं त्वप्रकाशिताः ।
एवं चानुग्रहं प्राप्य स्वस्वलोकान् ययुर्हि ते ।।९७।।
ताः सर्वाः सिद्धयो भुक्त्वा लब्ध्वाऽऽज्ञां पारमेश्वरीम् ।
महानसप्रदेशस्य तिरोभावं व्यधुस्तदा ।।९८।।
सर्वं वै लीनतां यातं नगरी तृप्तिमागता ।
जयकारं जगौ कृष्णवल्लभस्य सुहर्षिता ।।९९।।
ततो निजालयं गत्वा विश्रान्तिमापुरेव तु ।
एवं महोत्सवं चक्रे राधिके कृष्णवल्लभः ।। 2.238.१० ०।।
पठनाच्छ्रवणादस्य त्वन्नकूटफलं लभेत् ।
भुक्तिं मुक्तिं लभेच्चापि बालकृष्णस्य तर्पणात् ।। १०१ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीहरिणाऽन्नकूटोत्सवो विहितः सर्वप्रजाभोजनादि कारितं चेत्यादिनिरूपणनामाऽष्टात्रिंशदधिकद्विशततमोऽध्यायः ।। २३८ ।।