सामग्री पर जाएँ

लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २३२

विकिस्रोतः तः
← अध्यायः २३१ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २३२
[[लेखकः :|]]
अध्यायः २३३ →

श्रीकृष्ण उवाच-
राधिके चाश्विनशुक्लप्रतिपद्वासरे प्रगे ।
राजारायनृपोक्त्या श्रीहरिः सज्जो बभूव ह ।। १ ।।
खण्डराष्ट्रात्मके राज्ये लापलात्रीपुरीं ययौ ।
समुद्रतटवासिन्या नगर्याश्चोपसागरे ।। २ ।।
महोद्याने द्वीपकल्पे मन्दिरे समवातरत् ।
राजा पुपूज कनकैर्यौतकैर्विविधैरपि ।। ३ ।।
हीरकैः रत्नवर्यैश्च मौक्तिकैर्मणिभिस्तथा ।
नगर्यां वाद्यघोषैश्च महासम्मानपूर्वकम् ।। ४ ।।
राजारायनृपः कृष्णं भ्रामयामास सर्वतः ।
हरिस्तत्र महोद्याने कृतसेवः कृतश्रमः ।। ५ ।।
कृतारामः समुवाच दिनद्वयं प्रशान्तये ।
आश्विनस्य तृतीयायां दैत्यो वै नवजीवनः ।। ६ ।।
मायावी बहुवेगश्च महाद्रितुल्यविग्रहः ।
समाकर्षन् बहून्मेघान् केशैर्मस्तकसंभवैः ।। ७ ।।
गदया विद्युतो वेगान् संनिघ्नन् बहुसत्त्वया ।
आकाशं गर्जयन् हास्यैः समुद्रं क्षोभयन्नखैः ।। ८ ।।
गृहाणिच्छादयन् देहस्थौल्येन निशि चाययौ ।
ज्ञात्वा दिव्यं विमानं स हस्तैक्येनाप्यतोलयत् ।। ९ ।।
रुद्रो विज्ञाय दैत्यं तं गर्जनां प्रचकार ह ।
कोऽयं विमानं स्पृशति गच्छ दूरं मृतोऽसि वा ।। 2.232.१० ।।
श्रुत्वैतद् व्यनदच्छीघ्रं प्राट्टहासं मुमोच ह ।
गदया सहितो व्योम्नि गर्जन् जगाद भीतिकृत् ।। ११ ।।
कस्त्वं विमानभूपोऽसि विमानं कस्य वा वद ।
अहं नेष्ये विमानं वा युद्धार्थं भव चित्तवान् ।। १२।।
शंकरः प्राह मा युद्धं समिच्छ याहि दूरतः ।
युद्धे ते नास्ति वै श्रेयो विमानं मुञ्च सत्वरम् ।। १३ ।।
दैत्यः प्राह विना युद्धं विजयो न भवेदिह ।
नेष्ये विमानं सर्वाश्च हरिष्ये योषितस्त्वितः ।। १४।।
इत्युक्त्वा गदया रुद्रं तताड मूर्ध्नि वेगतः ।
शंकरो वेगवान् शीघ्रं शूलेन तां बिभेद ह ।। १५।।
गदा भग्ना हि दैत्यस्य समुद्रे पतिता यदा ।
तावत् समुद्रवेलास्तु जलप्लुतास्तदाऽभवन् ।। १६ ।।
अथ वै गदया शून्यो दैत्यः क्षोभमवाप ह ।
किं कृत्वा चापि किं हृत्वा विद्रवामीत्यचिन्तयत् ।। १७।।
राजसौधे महोद्याने राजारायनृपस्य वै ।
कनिष्ठा भगिनी याऽऽसीत् सुप्ता मात्रा समं तु ताम् ।। १८।।
उत्तोल्य च निधायैव स्कन्धे व्योमगतोऽभवत् ।
विद्युन्मणिः रुरोदाति कुमारी दैत्यवाहिता ।। १ ९।।
हाहाकारो महानासीत् त्राहि त्राहीति नादिनाम् ।
मानवानां निनादा वै सभयास्त्वभवँस्तदा ।। 2.232.२ ०।।
राजारायपतिः श्रुत्वा प्रबुबोध क्षणान्तरे ।
अनादिश्रीकृष्णनारायणश्चाप्युत्थितोऽभवत् ।।२ १ ।।
प्रजाः प्रबुबुधुश्चापि कोलाहलसमन्विताः ।
महीमाना योषितश्चोन्निद्रा जाताः समन्ततः ।। २२।।
वृत्तान्तं शंकरेणोक्तं कन्यामादाय दैत्यराट् ।
नवजीवननामा वै द्रुतं धावति चाम्बरे ।। २३।।
एष नातिदूरगोऽस्ति त्वम्बरे याति पश्चिमे ।
मारणीयो मया कृष्ण तवाऽऽज्ञां प्राप्य सर्वथा ।।२४।।
तथास्त्विति हरिः प्राह राजारायपतिर्नृपः ।
मातोवाच तदाऽप्येवं तुभ्यं दत्ता हि कन्यका ।।२५।।
रक्ष रक्ष महाकृष्ण रक्ष शीघ्रं निवारय ।
कृष्णः प्राह तु राजानं विमानं सज्जमाविशन् ।।।२६।
एष प्रयामि रक्षार्थं त्वं विमानेऽत्र मे शुभे ।
यद्वा तव विमानेऽत्र मात्रा सहानुयाहि माम् ।। २७।।
एवमुक्त्वा हरिः शीघ्रं पश्चिमां ककुभं प्रति ।
दैत्यस्याऽनुजगामैव शीघ्रं कुटुम्बसंयुतः ।।२८।।
राजाऽपि स्वविमानं वै तत्पश्चाद् भृत्यसेवितः ।
वेगेनाऽवाहयद् व्योम्नि सूर्यतुल्योऽनुगोऽभवत् ।।२९।।
हरेर्विमानं वीक्ष्यैव तथा राजविमानकम् ।
दैत्यो भयेन दुद्राव व्योम्नि कन्यायुतोऽपि सन् ।।2.232.३ ०।।
वायुवेगेन लघुना वर्ष्मणा चोड्डितोऽभवत् ।
समुद्रोपरि दुद्राव रात्रौ सहस्रयोजनम् ।।३ १।।
विमानं श्रीहरेः पश्चाद् राज्ञो विमानमित्यपि ।
अन्वधावद्धि वेगेन धर्तुं तं दैत्यपुंगवम् ।।३२।।
दैत्योऽपि बहुवेगेन दुद्रावाऽऽप्रातरेव ह ।
तावद् द्वीपः समायातः समुद्रान्तर्गतो महान् ।।३ २।।
नवजीवनदैp-यश्चाऽप्यवाततार तां भुवम् ।
शतयोजनविस्तीर्णो द्वेधा भिन्नां जलान्तराम् ।।३४।।
प्राकारनगरीशोभां दैत्यलैन्यभयंकराम् ।
राजसौधादिशोभाढ्यां दैत्यावासमयीं पुरीम् ।।३५।।।
शीघ्रं प्रविश्य दैत्यो वै ननर्दाऽन्यान् न्यबोधयत् ।
भेरीं प्रताडयामास युद्धावेदनकारिणीम् ।।३६।।
श्रुत्वा जरामहानादं दैत्या जगर्जुरुत्सुकाः ।
योधनार्थे धृतशस्त्रा निर्जग्मुः पर्वता इव ।।३७।।
नवजीवोऽपिए शीघ्रं तां कन्यां निक्षिप्य गह्वरे ।
योधनार्थ त्वाजगाम दैत्यसैन्यसमन्वितः ।।३८।।।
श्रीहरिर्यौवनं रूपं धृत्वा चक्रं सुदर्शनम् ।
ययौ तद्गह्वरं कन्यां निनाय स्वविमानके ।।३९।।
अन्या मायामयीं कन्यां कृत्वा मृदा यथातथम् ।
निक्षिप्य गह्वरे सर्व दैत्यमोहकरीं प्रभुः ।।2.232.४० ।।
यथार्था भगिनीं राज्ञे त्वर्पयामास वै द्रुतम् ।
दैत्यास्त्वेतदजानन्तो युद्धायाऽभ्यपतन् बलात् ।।४१ ।।
कन्याभ्रात्रा च मात्रा सा कृष्गाऽर्पणं निवेदिता ।
हरेः कण्ठे करं दत्वा पतिं वव्रे विमानके ।।४१।।
करमालां वरमालां प्रगृह्य कृष्णकामिनी ।
अभवत् सा ततः श्रीमान् बालकृष्णः परेश्वरः ।।४३।।
ईशानाय ददावाज्ञां हन्तुं दैत्यान्मृधे तदा ।
शंकरो द्राक् जटां क्रोधाद् विकीर्य गणनायकान् ।।४४।।
दशलक्षानसृजत्तु रुद्ररूपान् भयंकरान् ।
संकल्पजन्यहेतींश्च योद्धुमाज्ञां ददौ तदा ।।४५।।
उत्प्लुत्योत्प्लुत्य दैत्याँस्ते निजघ्नुर्वै त्रिशूलकैः ।
आमध्याह्नं महद्युद्धं दैत्यनाशकरं ह्यभूत् ।।४६।।
सर्वे दैत्या विनष्टाश्च विंशतिलक्षसंख्यकाः ।
हाहाकारो महानासीत् स्त्रीणां प्ररोदनान्यपि ।।४७।।
दयालुः श्रीबालकृष्णस्तासां सुखाप्तये गणान् ।
आज्ञां चकार तद्देशे निवासार्थं गृहाश्रमे ।।४८।।
सर्वासां दैत्यपत्नीनां पाणिग्रहान् व्यधुर्गणाः ।
शांकरास्ते सुताः सर्वे वैष्णवाः कृष्णनोदिताः ।।४९।।
तां तां पत्नीं समगृह्य तत्तद्देशगृहाणि वै ।
ययुः सर्वे गणास्तत्र राजानं कामनायकम् ।।2.232.५०।।
कामनायकनामानं गणं चकार माधवः ।
अभिषिच्य महद्राज्ये गणकोटिं तथा ददौ ।।५ १ ।।
महोत्सवं शुभं कृत्वा वल्लीलिङ्गपुरं प्रभुः ।
भ्रमित्वा श्रीहरिः सर्वं पावनं प्रचकार ह ।।५२।।
ततो विमानमारुह्य समुल्लंघ्य च खाडिकाम् ।
दिनेदिष्ठां पुरीं गत्वा भ्रमित्वाऽथ गणेश्वरान् ।।५३।।
वासयित्वा तत्कृतां सुपूजां लब्ध्वा परेश्वरः ।
राजानं भोजनं कर्तुमाज्ञां प्रदाय मापतिः ।।।।५४।।
मिलित्वा स्वविमाने वै भोजनानि हरिर्ददौ ।
वैमानिकेभ्यः सर्वेभ्यः सायं दत्वाऽभयं धनम् ।।५५।।
द्विनेदिष्ठपुरे राजसौधे निशामुवास सः ।
आश्विनशुक्लपञ्चम्यां प्रगे निद्रां विहाय च ।।५६।।
श्रीहरिः स्वविमानेन वीक्ष्य द्वीपं समन्ततः ।
राजानं तन्मातरं च ससैन्यं गन्तुमेव तु ।।५७।।
निजराज्यं समाज्ञाप्य ततः कुटुम्बसंयुतः ।
हरिर्विमानमारुह्य महीमानसमन्वितः ।।५८।।
व्योममार्गेण वै शीघ्रं समुल्लंघ्य तु वारिधिम् ।
त्रासमानद्वीपमायात् हम्बार्तनगरीं प्रति ।।५९।।
वैमानिका हि मध्याह्ने जगृहुर्भोजनानि वै ।
ततो महर्षयो भक्ता उष्णालयप्रदेशजाः ।।2.232.६०।।
पूर्वं प्ररक्षितास्ते तु दर्शनार्थं विमानकैः ।
समाययुर्हरिस्तेषां स्वागतानि व्यधान्मुदा ।।६ १ ।।
पूजां लब्ध्वाऽऽशिषो दत्वा विमानेन हरिर्द्रुतम् ।
समुद्रं तु समुल्लंघ्य अल्लालीनगरीं ययौ ।।६ २।।
उष्णालये भूशिरसो भागे वन्दारुकालये ।
उषित्वा रजनीं त्वेकां प्रातः कृत्वा प्रभोजनम् ।।६३ ।।
वृन्दारुकर्षिणा प्रातः कृतपूजो नरायणः ।
समुत्थाय ययौ विमानेन कुटुम्बशोभितः ।।६४।।
उत्तरस्यां तु काष्ठायां पञ्चाशद्योजनान्तरे ।
स्थितं सिंहलनामानं द्वीपं प्रापाऽब्धिमध्यगम् ।।६५।।
मध्याह्ने भोजनं कृत्वोड्डीय विमानगो हरिः ।
सायं पम्पासरः प्राप्य रात्रिं तीरे निनाय च ।।६६।।
सप्तम्यां वै ततः प्रातर्विमानमधिरुह्य च ।
गोपनार्थं निजं तीर्थं सौराष्ट्रे त्वाययौ प्रभुः ।।६७।।
मध्याह्ने गोपनाथे तु कृत्वा पूजनभोजने ।
आश्विनशुक्लसप्तम्यां सायंकाले शनैः प्रभुः ।।६८।।
कुंकुमवापिकाक्षेत्रं त्वाययौ व्योममार्गगः ।
कुंकुमवापीजनताविरहार्ताः प्रतीक्षणम् ।।६९।।
कुर्वन्त्यः कृशतां प्राप्ता विनेक्षां श्रीहरेः सदा ।
ता नराः प्रमदा बाला बालिकाः स्वामिसेवकाः ।।2.232.७०।।
व्योम्नि तेजः समुदायं विलोक्याऽसुप्रियागमम् ।
प्रतर्क्यातिमुदा त्वश्वपट्टसरोवरान्तिके ।।७१।।
महोद्याने दुद्रुवुश्च दर्शनार्थं समुत्सुकाः ।
विमानं तावदेवाऽपि सन्निधौ समुपागतम् ।।७२।।
जयशब्दास्तूर्यनादाः शंखानां ध्वनयस्तथा ।
गीतिका योषितां चापि समन्तादभवँस्तदा ।।७३।।
क्षेत्रपालाश्च तीर्थानि देवास्तत्र निवासिनः ।
मुक्तास्तथेश्वराश्चाप्यवताराः पार्षदादयः ।।७४।।
महर्षयश्च राजन्या विप्राः सत्यश्च साधवः ।
योगिनः सिद्धपुरुषाः सन्तस्तथा व्रतस्थिताः ।।७५।।
अक्षरभूनिवासिन्यः कन्यकाश्च कुमारकाः ।
सौभाग्यवत्यो नार्यश्च सर्वमांगलिकान्विताः ।।७६।।
शीघ्रं प्रययुः कृष्णस्य स्वागतार्थं सरोन्तिकम् ।
लोमशाश्रमवासाश्च तथाऽऽम्रवणवासिनः ।।७७।।
तापसाः प्रययुः कृष्ण आयात इति हर्षिताः ।
चन्दनं पुष्पमालादि गन्धाक्षतफलानि च ।।७८।।
गन्धसारान् गृहीत्वापि त्यक्त्वा कार्याणि वै गृहे ।
सीम्नि विसृज्य कार्याणि कर्षुकाद्यास्तथा वने ।।७९।।
वनकार्याणि विसृज्य व्यापारादि वणिग्जनाः ।
सर्वे द्रुतं ययुश्चाऽश्वपट्टसरोऽभि वै हरेः ।।2.232.८०।।
स्वागतार्थं पूजनार्थं ययुस्त्यक्त्वा निजालयान् ।
हरेर्विमानं त्वरितं तत्र भूमौ ह्यवातरत् ।।८ १ ।।
वर्धितं चन्दनाद्यैश्च पुष्पैरक्षतकुंकुमैः ।
भगवान् श्रीहरिस्तूर्णं विमानाग्रे स्थितोऽभवत् ।।८२।।
दर्शनं प्रददौ सर्वजनेभ्यो वै समन्ततः ।
कुशलं परिपप्रच्छ सर्वेषां स्नेहपूरितः ।।८३ ।।
सर्वे त्वनामयं प्राणपतेः पप्रच्छुरुत्सुकाः ।
ततः प्रेमाश्रुसहिता हरिं चाश्लिष्य वै मुहुः ।।८४।।
पुष्पहारान् हरेः कण्ठे न्यधुश्चन्दनकुंकुमैः ।
अक्षताद्यैर्गन्धसारैरर्हणं वै तदा व्यधुः ।।८५।।
पुंवर्गः सम्प्रणनाम श्रीमद्गोपालपादयोः ।
नारीवर्गः प्रणनाम कंभरापादयोर्मुहुः ।।८६।।
गणवर्गः प्रणनामेशानस्य पादयोस्तदा ।
योगिनीमण्डलाद्यं च ननाम सतीमीश्वरीम् ।।८७।।
ब्रह्मप्रियाभ्यः सर्वाभ्यो नमश्चक्रुर्हि योषितः ।
गौरीर्हारीतकीश्चामरीश्च वै ब्राह्मिलीस्तथा ।।८८।।
नेमिरे नूतनाः कृष्णवधूर्वै सर्वयोषितः ।
अथ वाद्यैश्च गीतैश्च मंगलैर्मन्दिरे हरेः ।।८९।।
प्रावेशयद्धरिं त्वार्ष्यः कुटुम्बसहितं मुदा ।
मुनयः ऋषयः सर्वे पूजां चक्रुश्च दण्डवत् ।।2.232.९० ।।
प्रजाश्चागत्य कुशलं पप्रच्छुर्विरहातुराः ।
हरिः कुशलमापृच्छ्य शुभां संभावनां व्यधात् ।।९ १।।
कृतकार्याणि भक्तेभ्यस्त्वावेदयन्निशामुखे ।
ततश्चोत्थाय प्रययौ स्नानसन्ध्याकृते प्रभुः ।।९२।।
विनिर्वर्त्याऽर्हणं पश्चाद् भोजनानि व्यधापयत् ।
लोमशं सम्प्रपूज्यैव शंकरं पितरौ तथा ।।९३।।
महर्षीन् यवक्रीतादीन् भोजयामास माधवः ।
ब्रह्मप्रियास्तथा कृष्णो भोजयामास कन्यकाः ।।९४।।
सर्वाः कान्ता भोजयित्वा लोमशस्याऽऽश्रमे शुभे ।
सर्वास्ताः प्रेषयामास ब्राह्मीनां मण्डले तदा ।।९५।।
बालकृष्णश्च दिव्यानि सर्वोपकरणान्यदात् ।
बहुरूपधरः कृष्णस्ताभ्यः सुखं ददौ निशि ।।९६।।
एवं वै राधिके पृथ्व्यां सर्वदेशेषु सर्वतः ।
सर्वभक्तान् पावयित्वा राजतेऽक्षरक्षेत्रगः ।।९७।।
कुंकुमवापिका धन्या धन्यास्ताः कन्यका अपि ।
धन्या देशाश्च ते साक्षान्नारायणप्रसंगगाः ।।९८।।
इमं दिव्यं चरित्रं ये श्रोष्यन्ति भुवि मानवाः ।
पठिष्यन्ति कीर्तयिष्यन्त्यपि भावभरा जनाः ।।९९।।
तेषां पापविनाशः स्याद् भुक्तिः श्रेष्ठतमाऽत्र वै ।
मुक्तिश्चाऽन्तेऽक्षरलोके स्यादेवाऽत्र न संशयः ।। 2.232.१० ०।।
यज्ञानां च कथां दिव्यामृषीणां भूभृतां तथा ।
भक्तानां च कथां केऽपि कीर्तयिष्यन्ति मानवाः ।। १०१ ।।
तेषां यज्ञफलं स्याच्च स्मृद्धयः स्युश्च तद्गृहे ।
ब्रह्मप्रियाणां चरितं श्रुत्वाऽऽप्स्यन्ति दिवं परम् ।। १० २।।
जपयज्ञफलं तीर्थफलं व्रतफलं तथा ।
सर्वपूजाफलं स्याच्च श्रवणादस्य भामिनि! ।। १०३ ।।
एतद्दिव्यं चरित्रं वै प्रथमं पारमेश्वरम् ।
पृथ्व्यामभूत् सार्वभौमं भविष्यन्त्यपराण्यपि ।। १ ०४।।
संकृतान्यवतारैश्च मदाद्यैर्भगवत्कुलैः ।
भक्तैर्भागवतैश्चापि कल्याणदानि राधिके! ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने आश्विनशुक्लप्रतिपदि लापलात्रीपुरीं हरिर्ययौ, तत्र सामुद्रो दैत्यश्चागत्य नृपस्वसारं विद्युन्मणिनाम्नीं जहार, राजा च हरिश्च विमानाभ्यां तमनु दुद्रुवतुः, नवजीवद्वीपं गत्वा दैत्येन युद्धम्, शंकरोत्थदशलक्षगणैर्विंशतिलक्षदैत्यानां नाशः, कामनायकगणाय राज्यं ददौ हरिः, विद्युन्मणिनाम्नी कन्या हरिं वव्रे, द्विनेदिष्ठपुरं पावयित्वा पञ्चम्यां विमानेन त्रासमानद्वीपमागत्य ततो वृन्दारुकामागत्य ततः सिंहलद्वीपमागत्य पम्पासरश्चा-
गत्याऽऽश्विनशुक्लसप्तम्यां सायंपूर्वं कुंकुमवापिकामवाप, स्वागतं कुशलं भोजनं शयनादिकं चेद्यादिनिरूपणनामा द्वात्रिंशदधिकद्विशततमोऽध्यायः ।।२३२।।