लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः २१७

विकिस्रोतः तः
← अध्यायः २१६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः २१७
[[लेखकः :|]]
अध्यायः २१८ →

श्रीकृष्ण उवाच-
राधिके कायनीपुर्यां नेतुं चेयेष भूपतिः।
श्रीहरिं प्रार्थयामास तूपविष्टं गजोपरि ।। १ ।।
हरिर्गजे चतुर्दन्ते स्वर्णाम्बालिकया युते ।
न्यषीदच्च ततश्चान्यान् न्यषादयद् गजादिषु ।। २ ।।
शिबिकासु हरिप्रिया न्यषादयत्तु राधिके ।
गौरीर्ब्रह्मप्रियाद्याश्च हारिताश्चामरीस्तथा ।। ३ ।।
सैन्यवाद्यैः सह श्रीमत्कृष्णो वै शुशुभे तदा ।
अम्बिकर्षिश्चामरं च धृत्वा पृष्ठे ह्युपाविशत् ।। ४ ।।
एवमभ्रामयत् कृष्णं कायन्यां नृपतिः स्वयम् ।
नगर्यां चत्वरादौ च सौधेष्वपि च हट्टके ।। ५ ।।
स्थले स्थले प्रजास्तं सम्पुपूजुर्बालकृष्णकम् ।
अनादिश्रीकृष्णनारायणं चन्दनकाञ्चनैः ।। ६ ।।
फलैश्च मौक्तिकैर्हारै रत्नाद्यैरक्षतादिभिः ।
वस्त्रैर्भूषादिभिश्चापि शर्करामिष्टवस्तुभिः ।। ७ ।।
एवं श्रीभगवान् पुर्यां भ्रमित्वाऽऽवासमाययौ ।
जलं पपौ राजसभागृहे रात्रौ ह्युपादिशत् ।। ८ ।।
पूर्णारात्रौ देशजनानाह श्रीभगवान् प्रभुः ।
उपार्जनीयं पुण्यं वै येन केनापि कर्मणा ।। ९ ।।
पापं वै परिहर्तव्यं यद्वै श्रेयोविघातकम् ।
पापस्य विद्यते सृष्टावधिष्ठानं प्रलोभनम् ।। 2.217.१ ०।।
एको लोभो महादुष्टो लोभात्पापं प्रवर्तते ।
नाशमूलं महान् लोभो येन ध्वंसगता जनाः ।। १ १।।
लोभात् संजायते क्वापि क्रोधः कामश्च तृष्णिका ।
मानं माया च मोहश्च स्तंभः पराऽसुताऽपि च ।। १ रे।।
अक्षमा ह्रीविनाशश्च सम्पच्छ्रीधर्मसंक्षयः ।
अकीर्तिर्दीनता वश्यभावो लोभात् प्रवर्तते ।। १३ ।।
अदानं चात्यजनं च तृषा विकर्मवर्तनम् ।
मदो द्रोहोऽवमानं चाऽविश्वासोऽनार्जवं तथा ।। १४।।
परद्रव्यादिहरणं निन्दा वेगो विभोगकः ।
ईर्ष्या कुत्सा विकत्था च मात्सर्यं दुष्टकारिता ।। १५।।
साहसं वञ्चनं चौर्यं लोभात् सर्वं प्रवर्तते ।
यो न पूरयितुं शक्योऽयुतजन्मगतैरपि ।। १६।।
जीर्यतो जीर्यति ध्रौव्यं लोभो ध्रौव्यं न मुञ्चति ।
नित्यं गभीरतां याति प्रयुक्तोऽर्थेषु चाऽक्षतः ।। १७।।
रागं जनयति द्रव्ये भोग्ये प्रयोजितः सदा ।
आसक्तिं च परां तृष्णां लोभात् प्राप्नोति मानवः ।। १८।।
स लोभः सह मोहेन जेतव्यः श्रेय इच्छता ।
लोभाश्रयौ द्वेषरुषौ शिष्टाचारविघातकौ ।। १ ९।।
अन्तःक्रूरौ छन्नकूपौ जगतां नाशकारकौ ।
लोभाश्रया जनाश्चान्यान् वञ्चयन्तीह हेतुभिः ।।2.217.२०।।
सतां मार्गान् विलुम्पन्ति नाशयन्ति निजान् वृषान् ।
पतन्ति दारुणे क्लेशे पातयन्त्यपरानपि ।।२१।।
धर्षयन्त्युत्तमान् स्वार्थसिद्ध्यर्थं पितृबान्धवान् ।
शिष्टानशिष्टान् कुर्वन्ति लुब्धा लोभादयस्तथा ।।२२।।
तेन पुण्यस्य लोपः स्यात्तथा भूतो विनश्यति ।
तस्माच्छुचिव्रतान् साधून् समाश्रयेद् वितृष्णकान् ।।२३ ।।
लोभमोहरहितान् वै श्रेयः स्यात्परमं ततः ।
सत्ये स्थितान् धर्मवृषान् शिष्टाचारसमन्वितान् ।। २४।।
कृष्णप्रसंगसंप्राप्तान् सेवेतापि दयापरान् ।
पितृदेवाऽऽतिथेयांश्च तथा सर्वोपकारिणः ।।२५।।
सर्वधर्माऽऽस्तिकभावान् सर्वभूतहिते रतान् ।
सर्वदेवान् पूजयेच्चाश्रयेच्छ्रेयः परं भवेत् ।।२६।।
न येषां भिद्यते वृत्तं यत्पुरा साधुभिः कृतम् ।
न त्रासिनो न चपला न क्रूराः सत्पथे स्थिताः ।।२७।।
तान् साधून् सम्प्रसेवेताऽहिंसकान् मत्परायणान् ।
सर्वदोषव्यपेताँश्च निर्ममान् निरहंकृतान् ।।२८।।
सुव्रतान् स्थिरमर्यादान् समुपासीत भूतये ।
न धनार्थं यशोऽर्थं वा धर्मो येषां विलुप्यते ।।२९।।
अवश्यं कार्य इत्येवं शरीरस्य क्रियापराः ।
न भयं रुट् न चापल्यं न शोको येषु लौकिकः ।।2.217.३०।।
सत्यार्जवपरा ये च मम मूर्तिपरास्तथा ।
न भ्रश्यन्ते रतिं प्राप्य न च लाभेषु हर्षिताः ।। ३ १।।
न व्यथन्ति विलाभेषु सत्त्वमार्गमुपाश्रिताः ।
समभावा दयाभावाः परोपकारभाविनः ।। ३२।।
लाभालाभौ सुखदुःखे प्रियाप्रिये जनिमृती ।
समानि येषां चेतांसि तानुपासीत भक्तिमान् ।।३ ३।।
महानुभावान् दैवाँश्च गुणिनः समुपाश्रयेत् ।
अज्ञानहारकान् दिव्यान् गुरून् श्रयेच्च भूतये ।।३४।।
अज्ञानं लोभमूलं च पापोत्पादकमित्यपि ।
अज्ञानान्न नरो वेत्ति त्वात्मनः क्षयमित्यपि ।।३५।।
उभावेतौ समफलौ समदोषौ महत्तमौ ।
अज्ञानं चातिलोभश्च स्थितेर्विनाशकौ मतौ ।।३६।।
लोभप्रभवमज्ञानं लोभवृद्ध्या प्रवर्धते ।
लोभे क्षीणे क्षयं यात्यन्यथा यात्यब्जधागतीः ।।३७।।
इन्द्रियाणां दमनेन लोभः क्षीणो भवेन्नन् ।
वासनाया विलोपेन लोभमूलं विनश्यति ।।३८।।
दमः कल्याणदो बोध्यो दमो धर्माऽतिशोभनः ।
दमात् सिद्धिर्भवत्येव दमो दानाद् विशिष्यते ।।३९।।
दमात्तेजो वर्धते च तेजस्वी पुरुषो भवेत् ।
दमी चात्र परत्राऽपि परं सुखं प्रविन्दति ।।2.217.४०।।
सुखं दान्तः प्रस्वपिति सुखं च प्रतिबुध्यते ।
सुखं पर्येति लोकाँश्च मनश्चास्य प्रसीदति ।।४१ ।।
अदान्तो हि जनः क्लेशमभीक्ष्णं प्रतिपद्यते ।
अनर्थोश्च बहूनन्यान् प्रसृजत्यदमो जनः ।।।४२।।
गुरुपूजाफलं प्रोक्तं दमिनः शीलिनः सतः ।
कामः क्रोधो दर्पलोभौ रोष ईर्ष्याऽवमानने ।।४३ ।।
असूयाद्या दुर्गुणाश्च दान्ते तिष्ठन्ति नैव ह ।
समुद्रकल्पो दान्तोऽस्ति येनेन्द्रियझषा हताः ।।४४।।
येन ग्राम्यास्तथाऽऽरण्याः प्रवृत्तयोऽपि वै हताः ।
सुवृत्तः शीलसम्पन्नः प्रसन्नात्माऽऽत्मविद् बुधः ।।४५।।
दान्तं प्राप्येह सत्कारं सुगतिं लभते परे ।
सतां समाचरितं यत् कर्म दान्तस्य वर्तते ।।।४६ ।।
शुभं कल्याणदं वर्त्म सतां दान्तस्य वर्धते ।
दान्तो धूत्वाऽऽत्मनिष्ठश्च साधुसेवापरायणः ।।४७।।
मद्ध्याननिरतो भक्तो ब्रह्मभूयाय कल्पते ।
यस्मादभयं भूतानां भूतेभ्यो यस्य चाऽभयम् ।।४८।।
देहे वा च विदेहे वा भयं त्वस्य कुतोऽपि न ।
आचिनोति तु मे सेवां सर्वेषु मित्रतां गतः ।।४९।।
सतां मार्गं प्रपन्नस्य गतिर्मे सदृशी सदा ।
लोभं चाऽज्ञानकं त्यक्त्वा दान्तो भूत्वा तु मां भजेत्। ।।2.217.५०।।
मोक्षस्तेजोमया यद्वा लोकास्तस्य तु शाश्वताः ।
समर्प्य मयि कर्माणि समर्प्य मयि वै तपः ।।५ १ ।।
समर्प्य मयि विज्ञानं प्रसन्नात्मा मदाश्रयः ।
प्राप्य भोगान् दिविस्थाँश्च मत्स्वर्गं विन्दति ध्रुवम् ।।५२।।
यद्वा पैतामहं स्थानं वैराजं वा ततः परम् ।
ब्रह्मराशिमयं चाव्याकृतं धामाऽमृतं च वा ।।५३ ।।
गोलोकं चापि वैकुण्ठं भक्त्या दमेन विन्दति ।
ज्ञानारामस्य भक्तस्य सर्वदेह्यविरोधिनः ।।५४।।
नात्र भयं पुनश्चास्ति परलोकभयं न च ।
दमिनो यादृशी शान्तिस्तादृशी यत्निनो नहि ।।५५।।
दमे लोकोक्तिरेका स्यात् सोढव्या साहि साधुना ।
या चैनं क्षमया युक्तमशक्तं मन्यते जनः ।।५६।।
अशक्त्या क्षमया श्रेष्ठो गुणोऽस्य जायते ध्रुवः ।
क्षमया विपुला लोकाः सुलभा येनु दुर्लभाः ।।५७।।
सहिष्णुता साधुधर्मो दुर्लभोऽन्यदुरात्मनाम् ।
दान्तस्य किमरण्येनाऽरण्यं यत्र संवसेत्। ।।५८।।
दान्तिस्तपः परं प्रोक्तं यदिच्छामारणं महत् ।
वेगवतामिन्द्रियाणां निरोधो योधनं महत् ।।५९।।
तद्वै तपः सञ्चितं च सर्वान् कामान् ददाति हि ।
त्रीन् लोकाँस्तपसा सिद्धाः प्रपश्यन्ति दमान्विताः । । 2.217.६० । ।
यद् दुरापं भवेत् किञ्चित् तत्सर्वं तपसा लभेत् ।
ऐश्वर्याणि समस्तानि तपोमूलानि तानि वै । । ६१ ।।
सर्वपापानि तपसा दह्यन्ते तापितानि हि ।
निवृत्तेन्द्रियवर्गस्य तपोऽनशननामकम् ।। ६२। ।
सबलं वर्धते दिव्यतेजोवर्धनकं परम् ।
न दुष्करतरं दानात् तपो नानशनात्परम् । । ६३ ।।
न दाक्ष्यं चात्ममुक्त्याप्तेर्न सन्तोषात्परं सुखम् ।
तपसा शक्यते प्राप्तुं देवेशमुक्ततादिकम् ।। ६४। ।
वाङ्तपः सत्यमेवाऽस्ति सत्सु सत्यं प्रतिष्ठितम् ।
सत्यं धर्मस्तपो योगो यज्ञो ब्रह्म सनातनम् ।। ६५ । ।
तत्सर्वं सत्यरूपं वै तपः कृष्णे समर्पितम् ।
हरेर्योगाद् भवेत् सत्यव्रतं सतां तु सेवनात् । । ६६ । ।
सर्ववस्तुषु मां पश्येत् समताव्रतमुच्यते ।
इच्छाक्षयेन च दमव्रतं तृष्णाक्षयेन च । । ६७ ।।
आत्मनिष्ठादृढत्वेनाऽभयव्रतं ह्यवाप्यते ।
ज्ञानेन चाप्यते स्थैर्यं गांभीर्यं धैर्यमित्यपि ।। ६८ ।।
अमात्सर्यं लभ्यते च निर्ममत्वेव सर्वथा ।
साधुत्वं क्षमया शीलं चाऽसंकल्पेन लभ्यते । । ६९ ।।
धिया श्रेयो लभ्यते च कल्याणं पुण्यकर्मभिः ।
ह्रीर्धर्मात्प्राप्यते क्षान्तिर्धैर्येण लभ्यते तथा । । 2.217.७० ।।
त्यागः स्नेहस्य यत्त्यागो विषयाणां तथैव च ।
रागद्वेषवियोगेन वैराग्येण च लभ्यते । । ७१ । ।
धैर्यं विकारशून्यत्वं सुखदुःखप्रदेऽपि च ।
विषये चाऽप्यधृष्यत्वं प्राप्यते चात्मसत्तया । । ७२ ।।
सर्वथा क्षमिणा भाव्यं भाव्यं सत्यपरेण च ।
वीतहर्षभयरुड्भिर्भाव्यं कल्याणलब्धये । ।७३ ।।
अद्रोहेण सदा भाव्यं सानुग्रहेण वै तथा ।
सत्यधर्मेण शीलेन भाव्यं कल्याणमिच्छता ।। ७४। ।
सतां सेवाकृता भाव्यं भाव्यं मद्भक्तिसंयुजा ।
आत्मार्पणेन वै भाव्यं परश्रेयोऽभिकांक्षिणा ।। ७५ ।।
मन्त्रो ग्राह्यो वैष्णवश्च शरणं मे हरेस्तथा ।
तेन श्रेयस्तथा प्रेयः परमं वो भविष्यति ।। ७६ । ।
इत्युक्त्वा विररामाऽसौ भगवान् पुरुषोत्तमः ।
प्रजाः प्रेम्णा पुपूजुश्च मन्त्रं हरेश्च जगृहुः । । ७७ ।।
ततो राजा च राज्ञी च कुमाराश्चक्रुरर्हणाम् ।
तिस्रो राज्ञ्यस्तथा तिस्रः कन्यकाश्चक्रुरर्हणाम् ।। ७८ ।।
महानीराजनं चक्रुः कर्पूरवर्तिकायुतम् ।
राजवेषं धारयामासुश्च गोपालनन्दनम् ।।७ ९ । ।
योग्याः कन्याश्च वै तिस्रो रम्या युवत्य एव ताः ।
मात्राज्ञया स्वहृदयैः सुवर्णवरमालिकाः । । 2.217.८० । ।
हरेः कण्ठे न्यधुः सर्वाश्चरणाम्बु पपुस्तथा ।
मधुपर्कं ददुश्चाप्याददुः कान्ते समर्पिताः ।। ८१ । ।
कृतकृत्या अभवँस्ताः स्थलपद्मदलप्रभाः ।
पारावारपिबो राजा चक्रे विवाहकोत्सवम् । ।८२ ।।
परिहारोत्तरं चक्रर्भोजनं तत्र संगताः ।
अस्वपँश्च ततः सर्वे कन्याः कृष्णं सिषेविरे । ।८ ३ । ।
प्रातर्वाद्यैर्गीतिभिश्च प्रबुबोध महाप्रभुः ।
कृताह्निकः कृतपूजोऽभवत् स्वस्थो यदा हरिः ।। ८४ । ।
राजा त्वायात् तत्र कृष्णं पूजयितुं पुपूज च ।
तदा समायान्नृपतिः शुचिः कोटीश्वराभिधाः । । ८५ । ।
एकद्वारप्रदेशानामधिशास्ता सुधर्मवान् ।
तथा चायान्नृपतिश्च श्रीसतीशाभिधः शुचिः । । ८६ । ।
पारूपराष्ट्रनृपतिर्धर्मवान्भक्तिभाववान् ।
मृत्युहर्षिकोष्ठकर्षिभ्यां युतौ तौ नृपौ शुभौ । । ८७ । ।
प्रार्थयामासतुः श्रीशं स्वराष्ट्रगमनाय ह ।
हरिस्तथाऽस्त्विति प्राह सत्कारं चाकरोत् तयोः । ।८८ । ।
तावदायात् प्रधानो वै ह्यमात्यो याजनेश्वरः ।
ईशानपानशिष्टाख्यसम्राजो ब्राह्मिलेशितुः । । ८९ । ।
पत्रेण साकं नत्वैवाऽप्रार्थयत्परमेश्वरम् ।
ब्राह्मीलराज्ये चागत्य गोयाजनीपुरीं च नः । । 2.217.९० । ।
यज्ञैर्महोत्सवैः कृष्ण पावयेति नृपेषणाम् ।
पूर्णां करोतु भगवान् प्रजाश्रेयो भविष्यति । । ९१ ।।
अमरीणां च भाग्यानि भविष्यन्ति शुभानि च ।
भवतो दर्शनेनाऽपि पूजनेन च सेवया । । ९२ । ।
इत्युक्तो भगवानाह स्वागतं ते नृपस्य च ।
वचनं मानयेऽमात्यवर्य योग्यं समीहितम् । । ९३ ।।
पञ्चम्यां तु प्रगे तत्र समागत्य क्रतूत्सवम् ।
करिष्ये लोमशं नीत्वा तथा महर्षिसत्तमान् । । ९४। ।
ईशानं च सतीं नीत्वा याहि राज्ञे निवेदय ।
सामग्रीसञ्चयं चापि प्रकारय च घोषणाम् । । ९५ । ।
नदीतीरे शुभं स्थानं योग्यं यज्ञार्थमाचर ।
पञ्चम्यां तु प्रगे यज्ञारंभश्चैकादशीदिने । । ९६ । ।
पूर्णाहुतिः क्रतोः स्याच्च प्रघोषयेति सर्वथा ।
अमात्यः प्रययौ शीघ्रं त्वाज्ञां प्राप्य निजालयम् । । ९७। ।
ब्राह्मीलेशं तथोक्तं चावेदयामास सर्वथा ।
लोमशेशानदेवौ च लालायनो वृकायनः ।।९८।।
नीलकर्णो यवक्रीतस्तथाऽन्ये ऋषयो ययुः ।
स्वयंप्रकाशो भगवान् ययौ यज्ञार्थसिद्धये ।।९९।।
आम्रजनिसरित्तीरे शान्तारामर्षिसेविते ।
गोयाजनीभूमिमध्ये यज्ञस्थलीं ह्यकल्पयन् ।। 2.217.१०० ।।
अथ कृष्णोऽभवत् सज्जो दुग्धं पीत्वा कुटुम्बयुक् ।
गन्तुमेकद्वारराष्ट्रं तथा पारूपराष्ट्रकम् ।। १०१ ।।
पारावारपिबो राजा विदायं यौतकं ददौ ।
पूजालब्धं धनं सर्वं ददौ स चाम्बिकर्षये ।। १ ०२।।
स्वागतं माननं प्राप्य हरिर्विमानगोऽभवत् ।
कोटीश्वरो ययौ पूर्वं सम्मानार्थं हरेस्तदा ।। १०३ ।।
श्रीसतीशो ययौ चापि निजराष्ट्रं हरिस्ततः ।
मृत्युहर्षिसुयुक्तश्च कोष्ठकर्षियुतस्तथा ।। १ ०४।।
व्योम्ना शीघ्रं समायाच्च पेयिस्थानगरीं प्रति ।
राधिके च तदा वाद्यान्यवाद्यन्त विलोक्य तम् ।। १ ०५।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने हरेः कायनीनगर्यां भ्रमणं पूजनं राजालये समुपदेशनं भोजनं स्वपनं प्रातर्विदायं आश्विनकृष्णप्रतिपदि कोटीश्वर-
नृपस्य एकद्वारराष्ट्रगमनं चेत्यादिनिरूपणनामा सप्तदशाधिकद्विशततमोऽध्यायः ।। २१७ ।।