लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५९

विकिस्रोतः तः
← अध्यायः १५८ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १५९
[[लेखकः :|]]
अध्यायः १६० →

श्रीकृष्ण उवाच-
ततो राधे हरेरुत्थापनं मन्त्रेण कीर्तितम् ।
तत्सर्वं कर्मकाण्डं चाऽविचलां प्रतिमां तथा ।। १ ।।
कथयामि हरिः प्राह देवायतनकाय यत् ।
ओं उत्तिष्ठ ब्रह्मणस्पते देवयंतस्त्वेमहे ।। २ ।।
उपप्प्रयन्तु मरुतः सुदानव इन्द्र प्राशुर्भवा सचा ।
इतिमन्त्रेण चोत्थाप्य रथे समुपवेशयेत् ।। ३ ।।
ओं रथे तिष्ठन्नयति वाजिनः पुरो यत्र यत्र कामयते सुषारथिः ।
अभीशूनां महिमानं पनायत मनःपश्चादनुयच्छन्ति रश्मयः ।। ४ ।।
इति रथे तु देवस्य पुरोभागे गुरुः स्वयम् ।
पृष्ठभागे यजमानो निषीदेत् सकुटुम्बकः ।। ५ ।।
पार्श्वपयोमूर्तिपाः रक्षार्थं च मंगलनिःस्वनैः ।
तूर्यघोषैश्च सौधस्य ग्रामस्य नगरस्य च ।। ६ ।।
प्रदक्षिणं विधायैवाऽऽनीय प्रासादकं रथात् ।
अवतार्य मन्दिरद्वाराभिमुखं विधाय च ।। ७ ।।
अर्ध्यं दत्वा ततः प्रासादके देवं निवेशयेत् ।
यजमानो गुरुर्देवं पिण्डिकायां निधापयेत् ।। ८ ।।
सुमहुर्ते सुलग्ने च शुभग्रहैः समीक्षिते ।
ईश्वरेशं भावयँश्च पद्मं श्वभ्रे निधाय च ।। ९ ।।
यावद्धरणीवासश्च तावत्त्वं सुस्थिरो भव ।
इत्युक्त्वा शक्तिसहिते देवं दृढं सुलग्नयेत् ।। 2.159.१ ०।।
विष्णोर्वामे महालक्ष्मीं स्थापयेन्न चलेद्यथा ।
विश्वतश्चेतिमन्त्रेण हस्तं देवस्य मूर्धनि ।। ११ ।।
कृत्वा ध्यात्वा ततः प्राणप्रतिष्ठां सुचरेन्मखी!
प्राणप्रतिष्ठामन्त्रस्य ब्रह्मविष्णुशिवर्षयः ।। १ २।।
ऋग्यजुःसामछन्दांसि क्रियाप्राणस्तु देवता ।
आं बीजं क्रौं तथा शक्तिः प्रतिष्ठायां नियोजनम् ।। १ ३।।
ब्रह्मादिभ्यो नमो मूर्ध्नि ऋगादिभ्यो नमो मुखे ।
प्राणाय च नमो हृत्सु आं बीजाय गुप्ते नमः ।। १४।।
क्रौं शक्त्यै तु नमः पादयोश्च देहे नमो नमः ।
ततः सबीजान् न्यासाँश्च प्राणागमार्थमाचरेत् ।। १५ ।।
ओं कंखंगंघंङं आं पृथिव्यप्तेजोवाय्वा-
काशात्मने ओं हृदयाय नमः ।
ओं चंछंजंझंञं इं शब्दस्पर्शरूपरसगन्धात्मने
ईं शिरसि स्वाहा ।। १६ ।।
ओं टंठंडंढंणं ओं श्रोत्रत्वक्चक्षूरसनाघ्राणात्मने
अं शिखायै वषट् ।
औं तंथंदंधंनं एं वाक्पाणिपादपायूप-
स्थात्मने ऐं कवचाय हुम् ।। १७।।
ओं पंफंबंभंमं ओं वचनादानविहरणो-
त्सर्गानन्दात्मने ओं नेत्रत्रयाय वौषट् ।
ओं यंरंलंवंशंषंसंहंलंक्षं अं मनोबुद्ध्य-
हंकारचित्तात्मने अः अस्त्राय फट् ।। १८।।
अथ देवं स्पृष्ट्वा-
ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य प्राण इह प्राणाः ।
ओंआंह्रींक्रौंयंरंलवंशंषंसंहंसः देवस्य जीव इह स्थितः ।। १९ ।।
ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य सर्वेन्द्रियाणीह ।
ओंआंह्रींक्रौंयंरंलंवंशंषंसंहंसः देवस्य वाङ्मनश्चक्षुः-
श्रोत्रघ्राणप्राणाः इह तिष्ठन्तु स्वाहा ।।2.159.२०।।
अथाऽर्चाहृदि अंगुष्ठं दत्वा जपेत्-
अस्यै प्राणाः प्रतिष्ठन्तु अस्यै प्राणाश्चरन्तु च ।
अस्यै देवत्वमर्चायै मामहेति च कश्चन ।।२१ ।।
प्रणवेन सन्निरुद्ध्य ध्यात्वा सजीवमेव च ।
ध्रुवा द्यौश्च गृणन् कर्णे जप्त्वा गायत्रिकां मनुम् ।। २२।।
पुरुषसूक्तेनोपस्थाय च नत्वा ततः परम् ।
पादौ नाभिं शिरः स्पृष्ट्वा इहैवैधीति त्रिर्जपेत् ।।२३ ।।
स्वागतं ते हरेकृष्ण स्थिरो भव शिवाय नः ।
यावद्वै मेदिनी चास्ते तावत्स्थेय कृपालुना ।।२४।।
सर्वतेजोऽन्वितं शंखचक्रगदासमन्वितम् ।
चक्रिणं स्थापयाम्यत्र देवो भूत्वा परेश्वरम् ।।२५।।
पौरुषं सूक्तकं नाम मन्त्रान् जपेद् यथायथम् ।
येन रूपेण भगवन् व्याप्तं सर्वं चराचरम् ।।२६।।
तेन विशिष्टरूपेण अर्चायां निहितो भव ।
इत्युक्त्वा तत्परिवारदेवताः स्थापयेत् ततः ।।२७।।
पूर्वकुण्डे हृन्मन्त्रेण शिरोमन्त्रेण दक्षिणे ।
शिखामन्त्रेण पश्चे तु वर्ममन्त्रेण चोत्तरे ।।२८।।
नेत्रमन्त्रैर्गुरोः कुण्डे जुहुयादेकविंशतिम् ।
पूर्वकुण्डेऽस्त्रमन्त्रेण हुत्वा चायुधमन्त्रकैः ।।२९।।
हुत्वा च प्रार्थयेल्लोकरक्षार्थं सर्वदा वस ।
माभूत् प्रजाविरामोऽस्मिन् यजमानः समृध्यतु ।। 2.159.३ ०।।
राष्ट्रं सतां समृद्धं स्तात् अश्नातु सुखमक्षय्यम् ।
इति प्रार्थ्यांगदेवाश्च स्थापयेत्तत्तदालये ।।३ १ ।।
अर्घ्यं पाद्यं चाचमनं दद्यादासनकं नमः ।
स्वाहा सम्पूज्य च पञ्चामृतेन वारिणा ततः ।।३२।।
संस्नाप्य प्रजपेत् सूक्तं पौरुषं प्रार्थयेत् तथा ।
पादौ नाभिं शिरो वक्षः स्पृशेच्च मोक्षदो भव ।।३३।।
ज्ञानतोऽज्ञानतो न्यूनविधिः पूर्णोऽस्तु ते प्रभो ।
प्रसादेन हरेकृष्णाऽनादिकृष्णनरायण ।।३४।।
दद्याद् देवनाम नीराजयेद् वाद्यैः स्तुतिं चरेत् ।
नैमत्तिकाऽघनाशार्थं प्रायश्चित्तहवं चरेत् ।।३५।।
शमीपलाशतिलाद्यैरष्टोत्तरशतात्मकम् ।
आचार्याय दक्षिणां च धनगोरत्नभूगृहान् ।।३६।।
पुनर्होमं प्रकुर्याच्च निषिद्धागमशान्तये ।
ओं स्थैर्याय स्थिरो भव स्वाहा क्लृप्तो भवात्र च ।। ३७।।
अप्रमेयो विबोधश्च नित्यः सर्वगतो भव ।
सर्वशान्त्यर्थमेवात्र होमं चाष्टोत्तरं शतम् ।।३८।।
ओं प्रजापतये स्वाहा इदं प्रजापतये नमम ।
ओं अग्नये स्विष्टकृते स्वाहेदमग्नये स्विष्टकृते नमम ।।३९।।
हुत्वा संस्रवप्राशनमाचामं पात्रदानकम् ।
पूर्णं प्रजापतिदैवं विप्राय ते ददामि वै ।।2.159.४०।।
ब्रह्मग्रन्थिविमोकं च कुर्यात् सुमित्रिमन्त्रतः ।
ओं सुमित्रियान आप ओषधयः सन्त्विति ।।४१।।
पवित्राभ्यां प्रणीतेन जलेन यजमानकम् ।
शिरः संमृज्य चाग्नौ प्रक्षिप्य पवित्रके ततः ।।४२।।
दुर्मित्रीति गृणन् न्युब्जीकुर्यात् प्रणीतिकां खलु ।
ईशान्याम् बहिरुत्थाप्याज्येनाऽऽघार्य च वै ततः ।।४३।।
हस्तेनैव च जुहुयान्मन्त्रं गृणन् पुनः पुनः ।
ओं देवागातु विदो गातुं वित्वागातुमित ।।४४।।
मनसस्पत इमं देवयक्षं स्वाहा वातेधाः स्वाहा ।
ततो देशं समयं चोच्चार्य ऋत्विज एव च ।।४५।।
स्वस्वकुण्डे प्रकुर्युश्च होमं पूर्णाहुतिप्रखम् ।
यजमानः सपत्नीको दक्षस्कन्धं स्पृशन् गुरोः ।।४६।।
ताम्बूलफलपूगीफलाक्षतघृतकानि च ।
श्रीफलं च स्रुवे कृत्वा जुहुयान्मन्त्रकैः सह ।।४७।।
ओं समुद्रादूर्मिर्मधुमाँ२उदारदुपांशुना सममृतत्वमानट् ।
घृतस्य नाम गुह्यं यदस्ति जिह्वा देवानाममृतस्य नाभिः ।।४८।।
वयन्नाम प्रब्रवामा घृतस्यास्मिन् यज्ञे धारया मा नमोभिः ।
उप ब्रह्मा शृणवच्छस्यमानं चतुःशृंगो वमीद् गौर एतत् ।।४९।।
त्रिधा हितं पणिभिर्गुह्यमानं गवि देवासो घृतमन्वविंदन्।
इन्द्रः एकः सूर्य एकं जजान वेनादेकं स्वधया निष्टतक्षुः ।।2.159.५०।।
एता अर्षन्ति हृद्यात् समुद्राच्छतवज्रारिपुणा नावचक्षे ।
घृतस्य धारा अभि चाकशीमि
हिरण्ययो वेतसो मध्य आसाम् ।।५१।।
सम्यक् स्रवन्ति सरितो न धेना
अन्तर्हृदा मनसा पूयमानाः ।
एते अर्षन्त्यूर्मयो घृतस्य मृगा इव क्षिपणो रीषमाणाः ।।५२।।
सिन्धोरिव प्राध्वने शूघनासो वातप्रमियः पतयन्ति यह्वाः ।
घृतस्य धारा अरुषो न वाजी
काष्ठा भिन्दन्नूर्मिभिः पिन्वमानाः ।।५३।।
अभिप्रवंतसमनेवयोषाः कल्याण्यः
स्मयमाना सो अग्निम् ।
घृतस्य धाराः समिधो न संतता जुषाणो
हर्य्यति जातवेदाः ।।५४।।
कन्या इव वहतु मे तवा उ अंज्यंजाना अभिचाकशीमि ।
यत्र सोमः सूयते यत्र यज्ञो घृतस्य धारा अभितत्पवन्ते ।।५५।।
अभ्यर्षत सुष्टुतिं गव्यमाजिमस्मासु भद्रा द्रविणानि धत्त ।
इमं यज्ञं नयत देवता नो घृतस्य धारा मधुमत्पवन्ते ।।५६।।
ओं चितिं जुहोमि मनसा घृतेन यथा
देवा इहागमन्वीनहोत्रा ऋतावृधः ।
पत्ये विश्वस्य भूमनो जुहोमि
विश्वकर्मणे विश्वाहादाभ्यः हविः ।।५७।।
सप्त ते अग्ने समिधः सप्तजिह्वाः
सप्तऋषयः सप्तधामप्रियाणि ।
सप्तहोत्राः सप्तधात्वा यजन्ति
सप्तयोनीरापृणस्वाघृतेन स्वाहा ।।५८।।
पुनस्त्वादित्या रुद्रा वसवः समिन्धतां पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तन्वन्वर्धयस्व सत्याः सन्तु यजमानस्य कामाः ।।५९।।
वसोः पवित्रमसि शतधारं
वसोः पवित्रमसि सहस्रधारम् ।
देवस्त्वा सविता पुनातु वसोः पवित्रेण
शतधारेण सुप्वा कामधुक्षः ।।2.159.६०।।
पूर्णा दर्व्वि परापत सुपूर्णा पुनरापत ।
वस्नेव व्विक्रीणावहा इषमूर्ज्जं शतक्रतो स्वाहा ।।६१ ।।
इदमग्नये वैश्वानराय वसुरुद्रादित्येभ्यः
शतक्रतवे अद्भ्यश्च नमम ।
इदं त्रिदेवेभ्य ईशेभ्योऽवतारेभ्यः
शक्तिभ्यः परब्रह्मणे स्वाहा नमम ।।६२।।
इति पूर्णाहुतिं कुर्यात् स्रुवस्थं च समर्पयेत् ।
ततस्त्र्यायुषकरणं न्यासेन विदधीत च ।।६३ ।।
त्र्यायुषं जमदग्नेस्तु ललाटे ओं नमो नमः ।
कश्यपस्य त्र्यायुषं च ग्रीवायां ओं नमो नमः ।।६४।।
यद्देवेषु त्र्यायुषं च बाहुमूले नमो नमः ।
तन्नोऽस्तु त्र्यायुषमिति हृदि कृष्णाय ते नमः ।।६५।।
एवं पूर्णाहुतिं हुत्वेशाने बलिं समर्पयेत् ।
शान्तिघटोदकं चाभिसिञ्चेत्तु यजमानके ।।६६।।
सकुटुम्बे वेदमन्त्रैः कुशदूर्वाऽऽम्रपल्लवैः ।
ओं आपो हिष्ठा मयो भुवस्ता न ऊर्जे दधातन ।।६७।।
महे रणाय चक्षसे यजमानस्य शान्तये ।
यो वः शिवतमो रसः तस्य भाजयतेह नः ।।६८।।
उशतीरिव मातरः यजमानस्य ऋद्धये ।
तस्मा अरंगमाम वो यस्य क्षयाय जिन्वथ ।।६९।।
आपो जनयथा च नः यजमानस्य तृप्तये ।
आरोग्याय रसघनाय महायुष्याय सन्तु नः ।।2.159.७०।।
भगप्रणेतर्भग सत्यराधो भगेमान्धियमुदवाददन्नः ।
भगप्रनो जनय गोभिरश्वैर्भगप्रनुभिर्नृवन्तः स्यामः ।।७१ ।।
इदमापः प्रवहतावद्यञ्चमलं च यत् ।
यच्चाभिद्रुहोहाऽनृतं यच्च शेपे अभीरुणम् ।।७२।।।
आपो मा तस्मादेनसः पवमानश्च मुञ्चतु ।
ओं पुनन्तु मां देवजनाः पुनन्तु मनसा धियः ।।७३ ।।
पुनन्तु विश्वा भूतानि जातवेदः पुनीहि माम् ।
आप्यायस्व समेतु मे विश्वतः सोम वृष्ण्यम् ।।७४।।
भवा वाजस्य सङ्गथे यजमानाय वै भव ।
महर्द्धये प्रपौत्रादिवृद्धयेऽनुग्रहं वह ।।७५।।
ओं पयः पृथिव्यां पय ओषधीषु पयो दिव्यन्तरीक्षे पयोधाः ।
पयस्वतीः प्रदिशः सन्तु मह्यम् पायसन्नो गृहेष्वस्त्वरण्यम् ।।७६।।
ओं देवस्य त्वा सवितुः प्रसवेऽश्विनो
र्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यं तुर्य्यं त्रियेदधामि
बृहस्पतेष्ट्वा साम्राज्येनाभिषिंचामि ।।७७।।
ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।
सरस्वत्यै वाचो यं तुर्य्यंत्रेणाऽग्ने साम्राज्येनाभिञ्चामि ।।७८।।
ओं देवस्य त्वा सवितुः प्रसवेऽश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्।
अश्विनोर्भैषज्येन तेजसे ब्रह्मवर्चसायाभिषिञ्चामि ।।७९।।
सरस्वत्यै भैषज्येन वीर्यायान्नाद्यायाभिषिञ्चामि ।
इन्द्रस्येन्द्रियेण बलाय श्रियै यशसेऽभिषिञ्चामि ।।2.159.८०।।
पालाशं भवति तेन ब्रह्मणोऽभ्यभिषिञ्चति ।
ब्रह्म वै पालाशो ब्रह्मणैवेनमेतदभिषिञ्चति ।।८ १ ।।
सर्वेषां वा एष वेनां रसो यत्साम
सर्वेषामेवैनमेतद्वेदानां रसेनाऽभिषिञ्चति ।
यं देवकल्पाञ्जुहोति प्राणा वै कल्पा
अमृतमुपवै प्राणा अमृतेनैवैनमेतदभिषिञ्चति ।।८२।।
दीर्घायुत्वाय बलाय वर्चसे सुप्रजास्त्वा
सहसा अथो जीव शरदः शतम् ।
द्यौः शान्तिरन्तरीक्षं शान्तिः पृथिवी
शान्तिरापः शान्तिरोषधयः शान्तिः ।।८३।।
वनस्पतयः शान्तिर्विश्वेदेवाः शान्तिर्ब्रह्म शान्तिः ।
सर्वं शान्तिः शान्तिरेव शान्तिः
सा मा शान्तिरेधि परब्रह्म शान्तिः प्रतिमाः
शान्तिर्ब्रह्मप्रियाः शान्तिरेव शान्तिः ।।८४।।
परब्रह्माऽक्षरंब्रह्म गोलोकः कृष्णराधिके ।
लक्ष्मीर्नारायणश्चैषशसृष्टिर्देवादयस्तथा ।।८५।।
जीवसृष्टिः शक्तयश्च देव्यः सत्यश्च साधवः ।
एते त्वामभिषिञ्चन्तु स्वस्तिं शान्तिं ददत्वपि ।।८६ ।।
यजमानस्तत आचार्याय दद्याद्धि दक्षिणाम् ।
ग्रामं गोमण्डलं भूमिं गजाश्वादिकवाहनम् ।।८७।।
दासान् दासीर्वितानादि यानाम्बरविभूषणम् ।
स्वर्णरूप्यादिकं ददामि ते यज्ञान्तदक्षिणाः ।।८८।।
गोपुच्छे यवतुलसीतिलकुशयुग्जलेन वै ।
प्रार्थयेच्च क्रतो विप्र शाश्वतस्वर्गदो भवान् ।।८९ ।।
अद्य मे सफलं द्रव्यं जन्माद्यं सम्पदादिकम् ।
यथाशक्ति प्रदत्तं च प्रसन्नो भव पुण्यद ।।2.159.९ ०।।
ज्ञानतोऽज्ञानतो वापि यद्यन्न्यूनं कृतं मया ।
तत्सर्वं पूर्णमेवाऽस्तु त्वत्प्रसादात् क्षमस्व मे ।।९ १ ।।
आचार्यश्च वदेद्भक्तं पुरुषोत्तमवाञ्च्छया ।
न्यूनं सम्पूर्णतां यातं सर्वं पूर्णफलप्रदम् ।।९२।।
द्रव्यहीनं क्रियाहीनं विधिहीनं प्रमादजम् ।
तत्सर्वं पूर्णमेवाऽस्तु प्रसादाच्छ्रीहरेस्तु ते ।। ९ ३।।
ओं स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः ।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु ।। ९४।।
ओं श्रीः वर्चस्वमायुष्यमारोग्यमा-
विधात् शोभमानं महीयते ।
धान्यं धनं पशुं बहुपुत्रलाभं
शतसम्वत्सरं दीर्घमायुः ।। ९५।।
पुनस्त्वादित्या रुद्रा वसवः समिन्धतां
पुनर्ब्रह्माणो वसुनीथ यज्ञैः ।
घृतेन त्वं तन्वं वर्धयस्व सत्याः
सन्तु यजमानस्य कामाः ।। ९६।।
मन्त्रार्थाः सफलाः सन्तु पूर्णाः सन्तु मनोरथाः ।
शत्रूणां बुद्धिनाशोऽस्तु मित्राणामुदयस्तव ।।९७।।
देवान् क्षमापयेच्चापि प्रसन्नाः सन्तु सर्वदा ।
अग्निं सम्पूज्य च विसर्जयेत्क्षमावचोऽर्पितम् ।।९८।।
गच्छध्वं भगवन्नग्रे स्वस्थाने कुण्डमध्यतः ।
हुतमादाय देवेभ्यः शीघ्रं देहि प्रसीद मे ।। ९९।।
गच्छ गच्छ सुरश्रेष्ठ स्वस्थाने परमेश्वर ।
यत्र ब्रह्मादयो देवास्तत्र याहि हुताशन ।। 2.159.१०० ।।
यान्तु देवगणाः सर्वे पूजामादाय मामकीम् ।
इष्टकामसमृद्ध्यर्थं पुनरागमनाय च ।। १०१ ।।
अक्षतान् प्रक्षिपेत्सर्वस्थापनेषु सुमाञ्जलिम् ।
प्रतिष्ठोत्सव एवाऽयं श्रद्धाद्रव्याद्यपूर्णकः ।। १ ०२।।
विप्रविष्णुप्रसादाच्च विधिः पूर्णतमोऽस्तु मे ।
ब्राह्मणास्ते सर्वयज्ञो विधिपूर्णोऽस्तु सर्वथा ।। १०३ ।।
अच्छिद्रश्च वदेयुश्च गृह्णीयुर्भूयसीं ततः ।
भोजनं चापि गृह्णीयुर्वदेयुश्च पुनस्ततः ।। १०४।।
यस्य स्मृत्वा च नामोक्त्या तपःपूजाक्रियादिषु ।
न्यूनं सम्पूर्णतां याति सद्यो वन्दे हरिं प्रभुम् ।। १ ०५।।
प्रमादात्कुर्वतां कर्म प्रच्यवेताऽध्वरेषु यत् ।
श्रीहरेः स्मरणात्तद्वै सम्पूर्णं स्यात्तथाऽस्तु च ।। १ ०६।।
चतुर्भिश्च चतुर्भिश्च द्वाभ्यां पञ्चभिरेव च ।
हूयते च पुनर्द्वाभ्यां तस्मै यज्ञात्मने नमः ।। १ ०७।।
महाभोज्यं कारयित्वा महादानानि चाऽऽर्प्य च ।
महोत्सवं परं कृत्वा यजमानस्तु भोजनम् ।। १ ०८।।
कुर्यात् सर्वान् भोजयित्वा उपदाश्चार्पयेत् ततः ।
अवभृथं प्रकुर्याच्च सरित्यब्धौ सरोवरे ।। १ ०९।।
सर्वे देवाः समायान्ति तीर्थान्यवभृथे तदा ।
सर्वदुरीतनाशार्थं कार्यं यथा चावभृथं ततः ।। 2.159.११० ।।
इत्येवं राधिके प्रोक्तः प्रतिष्ठाविधिरेष ते ।
उक्तो यथा भगवता दैवायतनकाय यः ।। १११ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने देवस्य पिण्डिकायां सिंहासने स्थापनं, प्राणप्रतिष्ठान्यासाः, जीवावाहनम्, आरार्त्रिकम्, होमः, पूर्णाहुतिहवनम्
आशीर्वादशान्तिस्वस्तिवाचः देवानां विदायः, पूर्णतावाचोऽवभृथंचेतिनिरूपनामा नवपञ्चाशदधिकशततमोऽध्यायः ।। १५९ ।।