लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १५१

विकिस्रोतः तः
← अध्यायः १५० लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १५१
[[लेखकः :|]]
अध्यायः १५२ →

श्रीकृष्ण उवाच
शृणु त्वं राधिके देवायताय प्राह यद्धरिः ।
प्रत्यधिदेवताद्यावाहनाद्यं कथयामि ते ।। १ ।।
मध्ये सूर्यस्य वै वामे रक्तपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वश्च अग्निमावाहयाम्येतिष्ठ च ।। २ ।।
ओं अग्निं दूतं पुरोदधे हव्यवाहमुपब्रुवे ।
देवानासादययादिह अग्नेऽर्चयामि ते नमः ।। ३ ।।
आग्नेय्यां चन्द्रवामे च श्वेतपुष्पाक्षतैर्जलम् ।
ओं भूर्भुवः स्वश्च जलमाह्वयाम्येहि तिष्ठ च ।। ४ ।।
ओं अप्स्वग्नेऽसधिष्टव सौषधीरनुरुद्ध्यसे ।
गर्भे सञ्जायसे पुनः जलाऽर्चयामि ते नमः ।। ५ ।।
दक्षिणे भौमपार्श्वे तु भूमिं रक्तसुमाऽक्षतैः ।
ओं भूर्भुवः स्वः क्षिते चाह्वयाम्येहि तिष्ठ च ।। ६ ।।
ओं स्योना पृथिवी नो भवानृक्षरा निवेशिनी ।
यच्छा नः शर्म सप्रथाः भूमेऽर्चयामि ते नमः ।। ७ ।।
ईशान्यां बुधवामे च विष्णुं पीतसुमाऽक्षतैः ।
ओं भूर्भुवः स्वः विष्णो आह्वयाम्येहि तिष्ठ च ।। ८ ।।
ओं इदं विष्णुर्विचक्रमे त्रेधा वै निदधे पदम् ।
समूढमस्य पांसुरे विष्णोऽर्चयामि ते नमः ।। ९ ।।
उत्तरे गुरुवामे च इन्द्रं पीतसुमाक्षतैः ।
ओं भूर्भुवः स्वः इन्द्र आह्वयाम्येहि तिष्ठ च ।। 2.151.१ ०।।
ओं सजोषा इन्द्र सगणो मरुद्भिः
सोमं पिब वृत्रहा शूर विद्वान् ।
जहि शत्रूँरप मृधो नुदस्वाथाभयं
कृणुहि विश्वतो नः ।। ११ ।।
पूर्वे शुक्रस्य च वामे पीतसुमाक्षतैः शचीम् ।
ओं भूर्भुवः स्वः इन्द्राण्याह्वयाम्येहि प्रतिष्ठ च ।। १२।।
ओं अदित्यै रास्नासीन्द्राण्या उष्णीषः ।
पूषासि घर्म्माय दीष्वेन्द्राण्यर्चयामि ते नमः ।। १३।।।
पश्चे वामे शनेः श्वेतपुष्पाक्षतैः प्रजापतिम् ।
ओं भूर्भुवः स्वः प्रजापते ह्वयाम्ये हि तिष्ठ च ।। १४।।
ओं प्रजापते न त्त्वदेतान्न्यन्यो विश्वा रूपाणि परिता बभूव ।
यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणाम् ।। १५।।
राहोर्वामे च नैर्ऋत्यां नागं कृष्णसुमाक्षतैः ।
ओं भूर्भुवः स्वः नागाऽऽवाहयाम्येहि तिष्ठ च ।। १६।।
ओं नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु ।
येऽन्तरीक्षे ये दिवि तेभ्योऽर्चयामि वो नमः ।। १७।।
केतोर्वामे च वायव्यामजं श्वेतसुमाक्षतैः ।
ओं भूर्भुवः स्वः ब्रह्मन्नाह्वयाम्येहि तिष्ठ च ।। १८।।
ओं व्रह्मयज्ञानं प्रथमं पुरस्ताद् विसीमतः सुरुचो वेन आवः ।
सबुध्न्या उपमा अस्य विष्ठाः सतश्च योनिमसतश्च व्विवः ।। १ ९।।
अथ चावाहयेत् पञ्चलोकपालान् सुरक्षकान् ।
नैर्ऋत्यामुत्तरे राहोः पीतपुष्पाक्षतादिभिः ।।2.151.२०।।
ओं भूर्भुवः स्वः गणेशं ह्वयाम्येहि च तिष्ठ च ।
गन्धपुष्पाक्षतैर्नैवेद्यैरभ्यर्च्य नमामि ते ।।२१ ।।
ओं गणानां त्वा गणपतिं हवामहे
प्रियाणां त्वा प्रियपतिं हवामहे ।
निधीनां त्वा निधिपतिं हवामहे
वसो मम गणेशं प्रणमामि च ।।२२।।
आहमजानि गर्भधमात्त्वमजासि गर्भधम् ।
शन्युत्तरे पश्चिमे च दुर्गां रक्तसुमाऽक्षतैः ।।२३।।
ओं भूर्भुवः स्वः दुर्गे ह्रयाम्येहि च तिष्ठ च ।
पूजयामि प्रणमामि सुखं कुरु जने नमः ।।२४।।
ओं जातवेदसे सुनवाम
सोममरातीयतो निजहाति वेदः ।
स नः पर्षदति दुर्गाणि विश्वा
नावेव सिन्धुं दुरितात्यग्निः ।।२५।।
मध्ये सूर्योत्तरे वायुं पीतपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वः वायो इहागच्छ च तिष्ठ च ।।२६।।
ओं आ नो नियुद्भिः शतिनी-
भिरुद्धरं सहस्रिणीभिरुपयाहि यज्ञम् ।
वायो अस्मिन् सवने मादयस्व
यूयं पात स्वस्तिभिः सदा नः ।।२७।।
पूर्वे शुक्रपूर्वभागे ह्याकाशं नीमपुष्पकैः ।
ओं भूर्भुवः स्वः आकाश आगच्छात्र च तिष्ठ च ।।२८।।
ओं घृतं घृतपावानः पिबत वसां वस
पावानः पिबतान्तरिक्षस्य हविरसि स्वाहा ।
दिशः प्रदिशः आदिशो विदिश उद्दिशो
दिग्भ्यः स्वाहा पूजयामि नमामि च ।।२९।।
राहोर्दक्षे च नैर्ऋत्यां श्वेतपुष्पाक्षतादिभिः ।
ओं भूर्भुवः स्वोऽश्विनाविहागच्छत तिष्ठतम् ।।2.151.३०।।
ओं या वां कशा मधुमत्यश्विना सूनृतावती ।
तया यज्ञं मिमिक्षतामश्विनौ पूजयामि च ।।३१।।
धूपं दीपं च नैवेद्यं देवान् प्रार्प्य नमामि च ।
अथ पूर्वादिकाष्ठासु चेन्द्रादीनाह्वयेन्मखी ।।३२।।
पूर्वे ओं भूर्भुवः स्वश्चेन्द्र इहागच्छ च तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३३।।
आग्नेय्यां ओं भूर्भुवः स्वरग्ने आगच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३४।।
दक्षिणे ओं भूर्भुवः स्वः यम चागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३५।।
नैर्ऋत्यामों भूर्भुवः स्वः निर्ऋते चैहि तिष्ठा च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३६।।
पश्चिमे ओं भूर्भुवः स्वः वरुणागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३७।।
वायव्यामों भूर्भुवः स्वः वायो आगच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३८।।
उत्तरे ओं भूर्भुवः स्वः कुबेरागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।३९।।
ईशान्यामोंभूर्भुवः स्वः ईशानागच्छ तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।2.151.४० ।।
ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ।
ओं भूर्भुवः स्वः ब्रह्मन्नत्रागच्छ च तिष्ठ च ।।४१ ।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
निर्ऋतिवारुणमध्येऽनन्तं ह्वयामि नौमि च ।।।४२।।
ओं भूर्भुवः स्वश्चानन्त इहागच्छ च तिष्ठ च ।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।।४३।।
अथ मण्डलमध्यस्थपितामहादि चाह्वयेत्। ।
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ।।४४।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः शिव इहागच्छ च तिष्ठ च ।।४५।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः विष्णो इहागच्छ च तिष्ठ च ।।४६।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः गणपते इहागच्छ च तिष्ठ च ।।४७।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः लक्ष्मि इहागच्छ च तिष्ठ च ।।४८।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं पञ्चनद्यः सरस्वतीमपियन्ति सस्रोतसः ।।४९।।
सरस्वती तु पञ्चधा सा वै देशेऽभवत् सरित् ।
ओं भूर्भुवः स्वः सरस्वति इहागच्छ च तिष्ठ च ।।2.151.५०।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं अम्बेऽम्बिकेऽम्बालिके न मा नयति कश्चन ।।५१।।
ससस्त्यश्वकः शुभद्रिकां कांपीलवासिनीम् ।
ओं भूर्भुवः स्वः दुर्गे इहागच्छ च तिष्ठ च ।।५२।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः क्षेत्रपाल इहागच्छ च तिष्ठ च ।।५३।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः भूतानि इहागच्छत तिष्ठत ।।५४।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
ओं भूर्भुवः स्वः विश्वकर्मन्निहागच्छ च तिष्ठ च ।।५५।।
पूजयामि च गन्धाद्यैः संस्मरामि नमामि च ।
देशकालौ प्रसंकीर्त्य यज्ञसिद्ध्यर्थमुत्तमम् ।। ५६।।
करोमि पूजनं सर्वदेवानां चन्दनादिभिः ।
ओं सूर्यादिनवग्रहेभ्यो नमः शान्तिदा हि नः ।।५७।।
ओं रुद्रादिदेवताभ्यो नमः रक्षाप्रदा हि नः ।
ओमग्न्यादिदेवताभ्यो नमस्तेजःप्रदा हि नः ।।५८।।
ओं गणेशादिलोकप्रपालेभ्यो नम इष्टदाः ।
ओमिन्द्रादिदिक्प्रपालेभ्यो नमः पुष्टिदा हि नः ।।।५९।।
ब्रह्मादिविश्वकर्मान्तेभ्यो नमः सम्पदांप्रदाः ।
इति सम्पूज्य च मखी ग्रहवेदीसमीपतः ।।2.151.६० ।।
भूमौ तत्तन्नाममन्त्रैर्बलिं दद्याच्च तद्यथा ।
गुडौदनं तु सूर्याय सोमाय घृतपायसम् ।।६ १ ।।
मसूरान्नं मंगलाय बुधाय क्षीरमोदनम् ।
दध्योदनं तु गुरवे शुक्राय च घृतौदनम् ।।६२।।
शनये तिलपिष्टं च पायसं राहवे तथा ।
चित्रौदनं केतवे च ह्यन्येभ्यः पायसं बलिम् ।।६३।।
दत्वा ततश्चैशकोणे कलशं स्थापयेन्मखी ।
ओं भूरसीतिमन्त्रेण भूमिस्पर्शनमाचरेत् ।।६४।।
ओं धान्यमसीति मनुना भूमौ धान्यं क्षिन्पेमखी ।
ओमाजिघ्रेतिमन्त्रेण धान्योपरि न्यसेद् घटम् ।।६५।।
ओं वरुणस्येत्युदकं च कलशे परिपूरयेत् ।
ओं वसोः पवित्रेति मनुना वस्त्रं कण्ठे च वेष्टयेत् ।।६६।।
ओं याः फलिनीति मनुना पूगीफलं समर्पयेत् ।
ओं परिवाजेतिमनुना पञ्चरत्नानि निक्षिपेत् ।।६७।।
ओं हिरण्यगर्भेति मनुना हिरण्यं च समर्पयेत् ।
ओं गन्धद्वारेतिमनुना गन्धादिकं समर्पयेत् ।।६८।।
ओं या ओषधीरिति च सवौषधीः समक्षिपेत् ।
अश्वस्थानाद् गजस्थानाद् वल्मीकात् संगमाद् हृदात् ।।६९।।
राजद्वाराद् गोकुलाच्च मृदमानीय निक्षिपेत् ।
ओं काण्डात्काण्डमिति दुर्वां कलशे तु समक्षिपेत् ।।2.151.७०।।
ओमश्वत्थेतिमन्त्रेण पञ्चपल्लवकान् क्षिपेत् ।
ओं पवित्रेणस्थमन्त्रेण पवित्राणि विनिक्षिपेत् ।।७१।।
ओं पूर्णा दर्वीति तन्दुलपात्रं च कलशे क्षिपेत् ।
ओं श्रीश्च त इतिमन्त्रेण श्रीफलं कलशे क्षिपेत् ।।७२।।
एवं घटं प्रतिष्ठाप्य वरुणं सलिले ह्वयेत् ।
ओं तत्त्वायामीति मन्त्रेण वरुणं प्रसमाह्वयेत् ।।७३।।
ओं भूर्भुवः स्वः वरुण इहागच्छ च तिष्ठ च ।
पूजयामि नमस्ते च षोडशोपसुवस्तुभिः ।।७४।।
सर्वे समुद्राः सरितस्तीर्थान्यपि सरांसि च ।
जलदाश्च समायान्तु सर्वदुरीतनाशकाः ।।७५।।
सर्वे देवाः कलशे तु प्रतितिष्ठन्ति पावकाः ।
कलशस्य मुखे चेति कलशं चाभिमन्त्रयेत् ।। ७६।।
देवदानवमन्त्रेण कलशं प्रार्थयेत् ततः ।
अथ वै सर्वतोभद्रमण्डलस्य च पूजनम् ।। ७७।।
प्रागुदीच्यां गता रेखाः कुर्यादेकोनविंशतिम् ।
खण्डेन्दुस्त्रिपदः कोणे, शृंखला पञ्चभिः पदैः ।।७८।।
एकादशपदा वल्ली भद्रं तु नवभिः पदैः ।
चतुर्विंशत्पदा वापी विंशत्या परिधिः पदैः ।।७९।।
मध्ये षोडशभिः कोष्ठैः पद्मष्टदलं स्मृतम् ।
श्वेतेन्दुः शृंखला कृष्णा वल्लीर्नीलेन पूरयेत् ।।2.151.८० ।।
भद्राऽरुणा सिता वापी परिधिः पीतवर्णकः ।
बाह्यान्तरदलश्वेता कर्णिका पीतवर्णका ।।८ १ ।।
परिध्यावेष्टितं पद्मं बाह्ये सत्त्वं रजस्तमः ।
तन्मध्ये स्थापयेद्देवान् ब्रह्माद्यांश्च सुरेश्वरान् ।।८२।।
देशकालौ च संकीर्त्य देवस्थापनकर्मसु ।
सर्वतोभद्रके षटपञ्चाशद्देवान् समाह्वयेत् ।।।८३ ।।
गृहीत्वा चाक्षतान्मध्ये ब्रह्माणं तु समाह्वयेत् ।
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ।।८४।।
पूजयामि संस्मरामि नमामि गृह्ण पूजनम् ।
उत्तरे ओं भूर्भुवः स्वः सोममावाहयामि च।।८५।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशान्याम् ओं भूर्भुवः स्वः ईशानमाह्वयामि च ।।८६।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
पूर्वस्यां ओं भूर्भुवः .स्वः इन्द्रमावाहयामि च ।।८७।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
आग्नेय्यां ओं भूर्भुवः स्वः अग्निमावाहयामि च ।।८८।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
दक्षिणे ओं भूर्भुवः स्वः यममावाहयामि च ।।८९।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
नैर्ऋत्याम् ओं भूर्भुवः स्वः निर्ऋतिमाह्वयामि च ।। 2.151.९०।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
पश्चिमे ओं भूर्भुवः स्वः वरुणमाह्वयामि च ।।९ १ ।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
वायव्याम् ओं भूर्भुवः स्वः वायुमावाहयामि च ।।९२।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
उत्तरे ओं भूर्भुवः स्वः कुबेरमाह्वयामि च ।।९३।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशाने ओं भूर्भुवः स्वः ईशानमाह्वयामि च ।। ९४।।
पूजयामि संस्मरामि नमाम्यागच्छ तिष्ठ च ।
ईशानपूर्वयोर्मध्ये ब्रह्माणमाह्वयामि च ।।९५।।
ओं भूर्भुवः स्वः ब्रह्मन्निहागच्छ च तिष्ठ च ।
पूजयामि संस्मरामि नमामि सुखदो भव ।।९६।।
वायुसोमान्तरालेऽष्टवसूनावाहयामि च ।.
ओं भूर्भुवः स्वः वसव इहागच्छत तिष्ठत ।।९७।।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
सोमेशानान्तराले च रुद्रानावाहयामि च ।।९८।।
ओं भूर्भुवः स्वः रुद्रा इहागच्छत तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।।९९।।
ईशानपूर्वयोर्मध्ये आदित्यानाह्वयामि च ।
ओं भूर्भुवः स्व आदित्या इहागच्छत तिष्ठत ।। 2.151.१० ०।।
इन्द्राग्न्यान्तरभागेऽश्विकुमारावाह्वयामि च ।
ओं भूर्भुवः स्वः अश्विनाविहागच्छतं तिष्ठतम् ।। १० १।।
पूजयामि संस्मरामि नमामि सुखदौ हि नः ।
ओमग्नियमयोर्मध्ये विश्वेदेवान् सपितृकान् ।। १ ०२।।
आह्वयामि भूर्भुवः स्वः पितरस्तिष्ठताऽत्र च ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।। १ ०३।।
यमनैर्ऋतयोर्मध्ये यक्षानावाहयामि च ।
ओं भूर्भुवः स्वः यक्षाः समागच्छत तिष्ठत ।। १ ०४।।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
नैर्ऋतिवरुणान्तर्भ्वां भूतनागान् ह्वयामि च ।। १ ०५।।
ओं भूर्भुवः स्वः भूता इहागच्छत तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।। १०६ ।।
तत्रैव भूर्भुवः स्वः सर्पानाह्वयामि तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।। १ ०७।।
वरुणवाय्वन्तरे च गन्धर्वाप्सरसस्तथा ।
भूर्भुवः स्वश्चार्चयामि स्मरामि च नमामि च ।। १ ०८।।
तत्रैव भूर्भुवः स्वश्चाप्सरसश्चापि तिष्ठत ।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।। १ ०९।।
ओं पुञ्जिकस्थली क्रतुस्थली चाप्सरसौ दंक्ष्णवः ।
पशवो हेतिः पौरुषेयो वधः प्रहेतिस्तेभ्यो नमो अस्तु ।। 2.151.११ ०।।
ब्रह्मसोमयोर्मध्ये स्कन्दं शूलं च नन्दिनम् ।
भूर्भुवः स्व आह्वयामि स्मरामि च नमामि च ।। १११ ।।
पूजयामि इह स्थाने समागच्छत तिष्ठत ।
नन्दीश्वराय श्क्राय महाकालाय वो नमः ।। १ १२।।
ब्रह्मेशानान्तराले च सप्तप्रजापतीन् शुभान् ।
भूर्भुवः स्वः प्रजेशाना इहागच्छत तिष्ठत ।। ११ ३।।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
ब्रह्मेन्द्रयोर्मध्यभागे दुर्गे चागच्छ तिष्ठ च ।। १ १४।।
भूर्भुवः स्वः दुर्गामाह्वयामि नौम्यर्चयामि च ।
दुर्गापूर्वे भूर्भुवः स्वः विष्णुमावाहयामि च ।। १ १५।।
पूजयामि संस्मरामि नौम्यागच्छ च तिष्ठ च ।
ब्रह्माग्न्योर्मध्यके पितॄनाह्वयामि च तिष्ठत ।। १ १६।।
भूर्भुवः स्वः पितरश्चागच्छतार्चयामि च ।
ब्रह्मयमयोर्मध्ये च मृत्युरोगान् ह्वयामि च ।। १ १७।।
ओं परं मृत्यो अनुपरे हि पन्था यस्ते
अन्य इतरो देवयानात् ।
चक्षुष्मते शृण्वते ब्रवीमि मानः
प्रजां रीरिषो मोत वीरान्।। १ १८।।
पूजयामि संस्मरामि नौम्यागच्छत तिष्ठत ।
ब्रह्मनिर्ऋत्यन्तराले गणेशं चाह्वयामि च ।। १ १९।।
भूर्भुवः स्वः गणेश इहागच्छ च तिष्ठ च ।
पूजयामि संस्मरामि नमामि सुखदो भव ।। 2.151.१२०।।
ब्रह्मवरुणयोर्मध्ये अपश्चाह्वयामि च ।
भूर्भुवः स्वः आप इहागच्छत तिष्ठत ।। १२१ ।।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
ब्रह्मवायव्यन्तराले च मरुत आह्वयामि च ।।१ २२।।
ब्रह्मपादे पृथिवीमावाहयामि नमामि च ।
भूर्भुवः स्वः पृथिवी इहागच्छ च तिष्ठ च ।। १२३।।
पूजयामि संस्मरामि नमामि सुखदा भव ।
तत्रैव सप्तनद्यश्च इहागच्छत तिष्ठत ।। १ २४।।
भूर्भुवः स्वश्च गंगाद्याः पूजयामि नमामि च ।
गंगे च यमुने सरस्वति शतद्रुतापिके ।। १ २५।
उष्णाऽसिक्नी सप्तनदीः स्मरामि च नमो नमः ।
तत्रैव सप्तवार्धींश्च आह्वयामि नमामि च ।। १२६।।
भूर्भुवः स्वः सागराश्च समागच्छत तिष्ठत ।
पूजयामि संस्मरामि तृप्तिदाः सुखदा हि नः ।। १२७।।
तदूर्ध्वे मेरुमाह्वयाम्यागच्छ चात्र तिष्ठ च ।
भूर्भुवः स्वश्च मेरो त्वां नौमि मे सुखदो भव ।। १२८।।
अथ वै मण्डलाद् बाह्ये सोमादिसन्निधौ क्रमात् ।
उत्तरे तु गदामावाहयामि स्थापयामि च ।। १२९।।
भूर्भुवः स्वश्च गदे इहागच्छ च तिष्ठ च ।
ईशान्यां तु शूलमावाहयामि स्थापयामि च ।। 2.151.१३ ०।।
भूर्भुवः स्वश्च शूलक इहागच्छ च तिष्ठ च ।
पूर्वे वज्रमाह्वयामि स्थापयामि नमामि च ।। १३१ ।।
भूर्भुवः स्वश्च वज्र त्वमिहागच्छ च तिष्ठ च ।
आग्नेय्यां शक्तिमावाहयामि संस्थापयामि च ।। १ ३२।।
भूर्भुवः स्वश्चैहि चात्रागच्छ तिष्ठ नमामि ते ।
दक्षिणस्यां दण्डमावाहयामि स्थापयामि च ।। १३३।।
नैर्ऋत्यां खण्डहेतिं चावाहयामि नमामि च ।
पश्चिमे पाशमावाहयामि संस्थापयामि च ।। १३४।।
वायव्यामंकुशमावाहयामि स्थापयामि च ।
भूर्भुवः स्वश्च दण्डाद्या इहागच्छत तिष्ठत ।। १ ३५।।
पूजयामि संस्मरामि नमामि सुखदा हि नः ।
तद्बाह्ये चोत्तरे गौतममाह्वयामि नौमि च ।। १ ३६।।
ईशान्यां भारद्वाजं चाह्वयामि प्रणमामि च ।
विश्वामित्रं च पूर्वस्यामाह्वयामि नमामि च ।। १३७।।
आग्नेय्यां कश्यपमावाहयामि प्रणमामि च ।
दक्षिणे जमदग्निं चावाहयामि नमामि च ।। १३८।।
नैर्ऋत्यां च वशिष्ठं चावाहयामि नमामि च ।
पश्चिमेऽत्रिमाह्वयामि पूजयामि नमामि च ।। १३९।।
वायव्यां चारुन्धतीमाह्वयामि प्रणमामि च ।
पूर्वे चैन्द्र्यै नमश्चाग्नौ कुमार्यै तु नमो नमः ।। 2.151.१४०।।
दक्षे ब्राह्म्यै नमो वाराह्यै नैर्ऋत्यां नमो नमः ।
पश्चिमायां चामुण्डायै वैष्णव्यै वायुके नमः ।। १४१।।
माहेश्वर्यै चोत्तरे चेशाने वैनायकीश्रियै ।
नमः प्रपूजयामि संस्मरामि सुखदा हि नः ।। १४२।।
षड्पंचाशद्देवगणानावाह्य परिपूजयेत् ।
इत्याह श्रीहरिर्भक्तदेवायतनकाय तत् ।। १४३।।
मया तेऽभिहितं राधे ऊह्या मन्त्रास्तदर्थगाः ।
धूपदीपसुनैवेद्यैस्तर्पयेद् देवतागणान् ।। १४४।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रत्यधिदेवतावाहनलोकपालत्रिदेवदेवीग्रहावाहनादिघटस्थापनसर्वतोभद्रपूजनषट्पञ्चाशद्देवपूजनादिप्रदर्शननामैक
पञ्चाशदधिकशततमोऽध्यायः ।। १५१ ।।