लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १४३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १४४
[[लेखकः :|]]
अध्यायः १४५ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके चाऽग्रे प्रतिष्ठादिविधानकम् ।
अनादिश्रीकृष्णनारायणो यदाह दैवतम् ।। १ ।।
यजमानः प्रगे स्नात्वाऽऽचार्यहस्ते प्रदाय च ।
पूजासंभारकान् स्त्रीभिः सुवासिनीभिरन्वितः ।। २ ।।
प्रासादोऽग्रे मण्डपस्य भूमिमागत्य प्राग्दिशि ।
पादप्रक्षालनं कृत्वाऽऽसने समुपविश्य च ।। ३ ।।
आचमनं तथा प्राणायामं कृत्वा ततः परम् ।
बद्धशिखः सपत्नीको ध्यायन् गणपतिं ततः ।। ४ ।।
प्राङ्मुखो वोदङ्मुखो वा संकीर्त्य देशकालकौ ।
परमेश्वरप्रीत्यर्थं प्रतिष्ठाकार्यसिद्धये ।। ५ ।।
गणेशपूजनं कुर्यादाचार्यवरणादिकम् ।
पादप्रक्षालनं पादपूजनं तस्य चाचरेत् ।। ६ ।।
चन्द्रकाऽऽक्षतपुष्पाद्यैः समर्च्य प्रणमेद्धि तम् ।
अस्य देवस्य वै रम्ये प्रासादे कर्मसिद्धये ।। ७ ।।
प्रतिष्ठासिद्धये मण्डपादिकार्यादिसिद्धये ।
भवन्तं श्रीहरेर्भक्तमाचार्यत्वेन संवृणे ।। ८ ।।
औं वृतोऽस्मीत्यावदेच्चाचार्यः सर्वार्थपण्डितः ।
यजमानश्च बध्नीयादाचार्यकरकंकणम् ।। ९ ।।
आचार्यपूजनं कृत्वा भूमिमावाहयेत्ततः ।
आगच्छ सर्वकल्याणि वसुधेऽत्र स्थिरा भव ।। 2.144.१ ०।।
आयाहि वरदे धात्रि यज्ञेऽस्मिन् शुभदायिनि ।
ओं महीर्द्योः पृथिवी नः इमं यज्ञं मिमिक्षताम् ।। ११ ।।
पिपृतान्नो भरिमभिः सर्वरसाऽन्वितेक्षिते ।
एवमावाह्य पृथिवीं स्मृत्वा च सर्वदेवताः ।। १ २।।
ओं विश्वे देवास इह मादयन्ताम् ओं प्रतिष्ठ ।
इति क्षितिं प्रतिष्ठाप्य बद्ध्वाऽञ्जलिं च प्रार्थयेत् ।। १ ३।।
यज्ञभागं प्रतीच्छस्व प्रणमामि क्षमां कुरु ।
तवोपरि मण्डपादि भविष्यति मखे हिता ।। १४।।
भवेति तां नमस्कृत्य प्रोक्षयेत् पञ्चगव्यकैः ।
कुशैश्च हरितैः कृत्वा प्रोक्षयेच्च वदेत्तथा ।। १५।।
ओमिदं विष्णुर्विचक्रमे त्रेधा निदधे पदम् ।
समूढमस्य पांसुरे स्वाहा त्वां च हवामहे ।। १६।।
ओं शन्नो मित्रः शं वरुणः शन्नो भवत्वर्यमा ।
शं न इन्द्रो बृहस्पतिः शन्नो विष्णुरुरुक्रमः ।। १७।।
ओं देवस्य त्वां सवितुः प्रसवेन तथाऽश्विनोः ।
बाहुभ्यां च कराभ्यां च पूष्णो वाचा सरोजुषः ।। १८।।
अग्नेः साम्राज्यकेनाऽभिषिञ्चामि प्रोक्षिताऽसि भूः ।
इत्युक्त्वा च गृहीत्वा च श्वेतसर्षपकान् करे ।। १ ९।।
ईशानाभिमुखो विकिरेत् ततः सर्वतोमुखम् ।
ओं भूतानि राक्षसा वा यत्र तिष्ठन्ति केचन ।।2.144.२०।।
ते सर्वेऽप्यपसर्पन्तु विष्णुयागस्य भूमितः ।
भूतप्रेतपिशाचाद्याश्चापक्रामन्तु दूरतः ।।२१ ।।
अपसर्पन्तु ते भूता ये भूता भूमिसंस्थिताः ।
ये भूता विघ्नकर्तारस्तेऽपयान्तु हराज्ञया ।।२२।।
इत्यभिधाय सर्वत्र विकीर्य श्वेतसर्षपान् ।
संप्रोक्ष्य पञ्चगव्येन दद्यादर्घ्यं भुवे यथा ।।२३।।
गन्धदूर्वाफलपुष्पयवान्वितं जलं शुभम् ।
ताम्रपात्रे गृहीत्वैव धृतशुक्लाम्बरद्वयः ।। २४।।
उदङ्मुखश्चार्घ्यहस्तोऽर्घ्यं दद्यात् सुकृताञ्जलिः ।
गृहाणाऽर्घ्यं जगन्मातः प्रसन्ना भव सर्वदा ।।२५।।
एवं सम्पूज्य पृथिवीं भूतशुद्धिं विधाय च ।
भद्रपीठे चाऽऽर्च्य वास्तुं प्राचीं संसाधयेद् दिशम् ।।२६।।
समानायां पृथिव्यां वै गणेशं श्रीगुरुं तथा ।
यजन् मानसोपचारैर्ध्यायेच्च कुलदेवताम् ।।२७।।
विप्राय दक्षिणां दत्वा तोषयित्वा तु शिल्पिनम् ।
कुर्याद्वै मण्डपं षोडशहस्तं द्वादशात्मकम् ।।२८।।
दशहस्तं चाऽष्टहस्तं यथावकाशकं च वा ।
तत्र कुण्डं पूर्ववच्च यथोक्तं प्रविधाय च ।।२९।।
तत उत्तरवेद्याश्च चतुष्कोणेषु सर्वथा ।
ईशकोणे ग्रहपीठं चतुस्त्रिंशांगुलात्मकम् ।।2.144.३ ०।।
अग्नो हस्तं मातृपीठं द्वादशांगुलकोच्छ्रयम् ।
नैर्ऋते वास्तुपीठं च हस्तं द्वादशकोच्छ्रयम् ।।३ १।।
वायौ च योगिनीक्षेत्रपालपीठं तु हस्तकम् ।
द्वादशांगुलकोर्ध्वं च प्रकुर्याद्वा यथोचितम् ।। ३२।।
अष्टहस्तमितायास्तु धाराया वै घृतस्य च ।
कृते पूर्वस्थले रम्यशिलारोपणमित्यपि ।।३ ३।।
इष्टिकानां च वा भित्तिर्विधेया शोभना तदा ।
तोरणैश्च पताकाभिश्चतुरस्रं तु मण्डपम् ।।३४।।
प्रागुक्तरूपं कृत्वैव तदुत्तरेऽपि मण्डपम् ।
स्नपनार्थं च कृत्वैव कुर्याच्च वेदिकात्रयम् ।।३५।।
यथायोग्यान् मण्डपाँश्चाद्यदिने संविधाय च ।
हविष्यभोजनः स्याद्वै यजमानः सुपुण्यवान् ।। ३६।।
रात्रौ भूशयनो भूत्वा ब्रह्मचारी सुसात्त्विकः ।
प्रातश्चाधिवासनेऽह्नि स्नात्वा तीर्थोदकैस्ततः ।।३७।।
प्रायश्चित्तस्य मुक्त्यर्थं पापधेनुं समर्पयेत् ।
अद्यास्मिन् दिवसे देवप्रासादकर्मयोग्यता ।।३८।।
मयि स्यादिति लाभार्थं पापानां नुत्तये तथा ।
पापधेनुं ब्राह्मणाय ददामीति समर्पयेत् ।।३९।।
स्नात्वा पुनस्तीर्थजलैः सर्वौषधिसमन्वितैः ।
पञ्चगव्ययुतैश्चापि वारुणमन्त्रयोजितैः ।।2.144.४०।।
ओं त्वं वारुणी मूर्तिर्वरुणोत्था हि देवता ।
वारुणं सदनं चाऽसि वहाऽऽयुर्मम शोभनम् ।।४१ ।।
तव पाशाः प्रयान्त्येव दूरं यज्ञे पतन्तु न ।
अपाशोऽहं देवताभ्यो दास्ये हव्यं विधेहि तत् ।।४२।।
इति स्नात्वा शुक्लपटे धृत्वा गन्धानुलेपनः ।
शुक्लमाल्याम्बरधरः पत्नीयुतोऽतिसात्त्विकः ।।४३।।
यजमानः सर्वसंभारान् धृत्वा शिल्पिभूमितः ।
प्रादक्षिण्येन दैवं वै समानीय सुगीतिभिः ।।४४।।
वादित्रनिनदैश्चापि स्त्रीणां मंगलगीतिभिः ।
शान्तिपाठैः सह चैवागत्य मण्डपसन्निधौ ।।४५।।
प्रविश्य पश्चिमद्वारेणाऽऽसने सन्निधाय च ।
देवं ततो यजमानो दक्षिणद्वारसन्निधौ ।।४६।।
पश्चिमे भद्रपीठे प्रागग्रदर्भेषु प्राङ्मुखः ।
उदङ्मुखः सपत्नीकश्चोपाविशेत् ततः परम् ।।४७।।
संभारान् यज्ञीयकाँश्च दक्षपार्श्वे निधापयेत् ।
कथयामि समासेन संभारान् विविधान् यथा ।।४८।।
प्रत्येकसमिधामष्टोत्तरशतं समर्जयेत् ।
अर्कमुदुम्बरं पिप्पलकं वटं च तूलसीम् ।।४९।।
अपामार्गं पलाशं चामलकीं यज्ञभूरुहान् ।
चन्दनं शिंशपां बिल्वं पिप्पलीं यज्ञभूरुहान् ।।2.144.५०।।
तिलानेवंविधान् यथाप्राप्यान् समर्जयेद् द्रुमान् ।
भद्रपीठत्रयं रक्षेत् पुष्पमालाः फुलानि च ।।५१ ।।
कुंकुमं चन्दनद्रवं कस्तूरीं घनसारकम् ।
अगुरुं गुग्गुलं धूपं धूपपात्रं च दर्पणम् ।।५२।।
घण्टां च पादुकामारार्त्रिकं बलिकणान् बलिम् ।
पायसं भक्ष्यभोज्ये च नैवेद्यं च फलानि च ।।५३।।
पूगीफलानि ताम्बूलं चाज्यं तिला यवाऽक्षताः ।
शर्करा च फलश्रेष्ठान्यपि श्रीफलकानि च ।।५४।।
द्राक्षाश्च कदलान्येव नवरंगादिकान्यपि ।
चत्वारो विष्टराः प्रतिकुण्डं स्रुक्स्रुवकौ तथा ।।५५।।
आसनानि कुंकुमाक्तत्रिसूत्री शोभना तथा ।
श्वेतोर्णासूत्रकं चाऽथ सर्वतोभद्रलब्धये ।।५६।।
श्वेतरक्तनीलपीतकृष्णरंगानि यानि च ।
तथा स्नपनकलशाः पल्लवाः पञ्चजातिकाः ।।५७।।
कदलीस्तम्भवर्याश्च पताका दशसंख्यकाः ।
ध्वजास्तेषां वेणुदण्डा एको मध्यध्वजस्तथा ।।५८।।
वज्रमौक्तिकवैडूर्यशंखस्फटिकपुष्पकाः ।
इन्द्रनीलमहानीलाश्चाष्टरत्नानि यानि च ।।५९।।
मनश्शिलाहरितालाभ्रककृष्णांजनानि च ।
माक्षिककासीसस्वर्णमाक्षिकगैरिकास्तथा ।।2.144.६ ०।।
धात्वष्टकं च तत् सर्वं रक्षयेद् यज्ञकर्मणे ।
यवगोधूमनीवारमुद्गश्यामाकसर्षपाः ।।६१ ।।
तिलव्रीहय एवैततद् बीजाष्टकं च सन्न्यसेत् ।
सुवर्णं रजतं ताम्रं सीसकं त्रपु चायसम् ।।६२।।
रंगं रीतिर्धात्वष्टकं रक्षयेद् यज्ञकर्मणे ।
मधुपर्कस्य पात्रं च सौवर्णं ताम्रमेव वा ।।६३।।
अर्घपात्रं सुवर्णस्य शलाकां रक्षयेत् तथा ।
कनकं कुलिशं नीलं पद्मरागं च मौक्तिकम् ।।६४।।
तानि कलशरत्नानि स्थापयेन्निजपार्श्वके ।
षोडशद्वारकलशान् अष्टौ तु लोकपाघटान् ।।६५।।
चतुरो वेदिकलशान् वास्तुघटं प्ररक्षयेत् ।
कुण्डसंख्यककलशान् निद्रायाः कलशं तथा ।।६६ ।।
स्नपनैकाशीतिघटान् शरावाँश्चापि तावतः ।
धारासहस्रकलशौ राजस्थानस्य मृत्तिकाम् ।।६७।।
अश्वस्थानमृदं चापि वल्मीकमृत्तिकां तथा ।
संगममृत्तिकां कूलद्वयमृदं वराहजाम् ।।६८।।
मृदं राजद्वारमृदं रक्षयेदष्टमृत्तिकाः ।
मुरामांसीवचाकुष्ठशैलेयहरिद्रास्तथा ।।६९।।
दारुहरिद्राशुण्ठीचम्पकमुस्ताः सर्वौषधीः ।
रक्षयेच्चापि पञ्चगव्यकं पृथक् पृथक् तथा ।।2.144.७०।।
व्रीहियवतिलगोधूमश्यामाकनिवारकान् ।
मुद्गानिति च सप्तापि धान्यानि रक्षयेत्तथा ।।७१ ।।
शय्यां सोपस्करां श्वेतच्छत्रं च चामरद्वयम् ।
विचित्रं तु वितानं च त्रीन् वै दुकूलपट्टकान् ।।७२।।
ऋत्विग्वरणसामग्रीरुद्वर्तनार्थद्रव्यकम् ।
गोघृतं च गोशृंगोदकं तीर्थोदकं च कम्बुकम् ।।७३।।।
शिल्पिदेयानि वस्त्राणि सुगन्धितैलमित्यपि ।
नेत्राञ्जनार्थकं पात्रं सिन्दूरं रक्षयेत् तथा ।।७४।।
आम्रसत्पत्रमालाश्च देवमूर्तीश्च कानकीः ।
नारिकेलफलादीनि रक्षयेद् यज्ञमण्डपे ।।७५।।
एतान् सर्वान् सुसंभारान् निजे तु दक्षिणे स्थले ।
स्थापयित्वाऽऽचमनं च प्राणायामं विधाय च ।।७६ ।।
गृहीत्वा दक्षिणे हस्ते जलं दर्भादिकं तथा ।
ओम् प्रपुनातु पद्माक्षो नारायणो हरिः प्रभुः ।।७७।।
इत्युक्त्वा सर्वसंभारान् प्रोक्ष्य चात्मानमित्यपि ।
गणेशादीन् सुरान् स्मृत्वा कुर्यात् संकल्पमित्यमुम् ।।७८।।
ब्रह्माण्डेऽत्र स्थले विप्रसन्निधौ वत्सरेऽमुके ।
मासपक्षतिथौ वारे सर्वपापक्षयाय वै ।।७९।।
उद्धर्तुं पूर्वजाँश्चाऽहं सम्पदायुष्यलब्धये ।
भुक्तिमुक्तिसुलाभार्थं मूर्तौ देवाऽऽगमाय च ।।2.144.८० ।।
यथाशक्ति प्रतिष्ठां श्रीहरेर्वाऽन्यसुरस्य च ।
संकरिष्ये तदंगाख्यं श्रीगणेशादिपूजनम् ।।८ १ ।।
स्वस्तिपुण्याहवाचश्च मातृकापूजनं तथा ।
नान्दीश्राद्धं तथाऽऽचार्यवरणं विप्रपूजनम् ।।८२।।
करिष्ये इति संकल्प्य जलं भूमौ समुत्सृजेत् ।
सुमुखश्चैकदन्तश्च कपिलो गजकर्णकः ।।८३ ।।
लम्बोदरश्च विकटो विघ्ननाशो विनायकः ।
धूम्रकेतुर्गणाध्यक्षो भालचन्द्रो गजाननः ।।८४।।
द्वादशैतानि नामानि मम रूपस्य वै पठेत् ।
सशुण्ढं च त्रिशूलाढ्यं पत्नीपुत्रयुतं गणम् ।।८५।।
प्रसन्नं सायुधं ध्यायेद् विघ्नानां वारणाय च ।
एवं ध्यात्वा गणेशं च पूजयेद् बहुवस्तुभिः ।।८६।।
हे हेरम्ब त्वमेह्येहि लक्षलाभयुतस्त्विह ।
सिद्धिबुद्धिपते त्वेहि सर्वायुधसमन्वितः ।।८७।।
आवाहयामि पूजार्थं रक्षार्थं च मखस्य मे ।
आगच्छ च भव स्वार्णासने स्थिरः प्ररक्ष नः ।।८८।।
गणानां च पतिं प्रियपतिं निधिपतिं तथा ।
हवामहे वसाऽत्रैव श्रीकृष्णः शांकरोऽसि च ।।८९।।
आहमजानि गर्भधमात्वमजासिगर्भधम् ।
सिद्धिबुद्धियुतं चावाहयामि गणनायकम् ।।2.144.९०।।
सम्प्रतिष्ठापयाम्याऽऽस्ये सौवर्णे गृह्ण चासनम् ।
पाद्यं जलं गृहाणाऽपि सुगन्धि निर्मलं शुभम् ।।९ १ ।।
ताम्रपात्रगतं तोयमर्घ्यं गृहाण सिद्धिकृत् ।
आचमनं तीर्थजलं गृहाण गणनायक ।। ९२।।
पयःस्नानं गृहाणैतद् दधिस्नानं गृहाण च ।
घृतस्नानं गृहाणाऽपि मधुस्नानं गृहाण च ।।९३।।
गृहाण शर्करास्नानं गृहाणोद्वर्तनं तथा ।
तीर्थजलैः शुद्धवारिस्नानं कुरु गणेश्वर ।।९४।।
वासांसि धारय यज्ञोपवीतं स्वीकुरु प्रभो ।
चन्दनं चाक्षतान् रम्यपुष्पाणि प्रतिगृह्यताम् ।।९५।।
दुर्वांकुराणि रम्याणि धूपं च प्रतिगृह्यताम् ।
दीपं घृताक्तमेवाऽपि नैवेद्यं लड्डुकादिकम् ।।९६।।
फलान्याचमं चापि जलं ताम्बूलकं तथा ।
दक्षिणा गृह्यतां देवाऽऽरार्त्रिकं प्रतिगृह्यताम् ।।९७।।
पुष्पांजलिर्गृह्यतां च प्रदक्षिणां करोमि ते ।
विशेषार्घ्यं फलयुक्तं प्राप्यात्र वरदो भव ।।९८।।
नमस्ते गजशुण्ढाय कृष्णरूपाय ते नमः ।
निर्विघ्नं कुरु मे देव सर्वकार्यं मखादिकम् ।। ९९।।
अनया पूजया सांगः प्रीयतां मे गणाधिपः ।
इति सम्पूज्य च ततश्चरेत् पुण्याहवाचनम् ।। 2.144.१०० ।।
इत्येवं राधिकेऽनादिकृष्णनारायणो हरिः ।
देवायतनकं भक्तं चाह ते कथितं तु तत् ।। १०१ ।।
पठनाच्छ्रवणादस्य पूजनस्य फलं लभेत् ।
निर्विघ्नं जायते श्रोतुर्वक्तुः कार्यं फलान्वितम् ।। १ ०२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने मूर्तिप्रतिष्ठोत्सवे आचार्यवरणयज्ञसामग्रीसमर्जनगणेशपूजनादिनिरूपणनामा चतुश्चत्वारिंशदधिकशततमोऽध्यायः ।। १४४ ।।