लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः १४०

विकिस्रोतः तः
← अध्यायः १३९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १४०
[[लेखकः :|]]
अध्यायः १४१ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! देवायतनायाऽऽह यद्धरिः ।
मेरुजातीयसुभगप्रासादं तद्विभागकान् ।। १ ।।
प्रासादेषु शतैकानि चाण्डानि कानकानि वै ।
सहस्रैकान्यपि दैवे प्रासादे संभवन्ति हि ।। २ ।।
प्रासादराजो मेरुर्वै सर्वदेवाश्रयो मतः ।
प्रासादस्त्वक्षराख्यश्च गोलोकाख्यश्च कीर्तितः ।। ३ ।।
वैकुण्ठाख्योऽव्याकृताख्योऽमृताऽख्यश्च हिरण्मयः ।
वाह्नेयश्चापि वैराजो भूमा च वैष्णवोऽपि च ।। ४ ।।
कैलासश्चापि वैशालः श्वेतद्वीपोऽपि मन्दरः ।
सर्वतोभद्रनामा च श्रीवत्सः स्वस्तिकस्तथा ।। ५ ।।
हैमो हंसो गारुडश्च गजो वृषभ इत्यपि ।
मन्दिरो ब्राह्मसंज्ञश्च पंचविंशतिजातिकाः ।। ६ ।।
वर्तुलोऽनन्तशिखरो मेरुराजः प्रकीर्तितः ।
सहास्रास्रश्चाक्षरश्चाऽनन्तभवनसंकुलः ।। ७ ।।
नवशतनवतिस्तंभाढ्यो गोलोक इष्यते ।
सर्वथा शिखराढ्यश्च वैकुण्ठाख्यः प्रकीर्तितः ।। ८ ।।
सर्वथा घूम्मटाढ्यश्चाऽव्याकृताख्यः प्रकीर्त्यते ।
सर्वथा गृहमात्राढ्यश्चामृतः परिकीर्त्यते ।। ९ ।।
सर्वथा कम्मानिकाढ्यो हिरण्मयः प्रकीर्त्यते ।
सर्वथा पाटकाधारो वाह्नेयः परिकीर्त्यते ।। 2.140.१० ।।
सर्वथा गजशोभाढ्यो वैराजः संप्रकीर्त्यते ।
सर्वथाऽश्चादिशोभाढ्यो भूमासौधः प्रकीर्त्यते ।। ११ ।।
दासीभिर्वैष्णवदूतैर्व्याप्तो वैष्णव उच्यते ।
सर्वथा तु गणैर्व्याप्तः कैलासः स प्रकीर्त्यते ।। १२।।
सर्वथा ऋषिभिर्व्याप्तो वैशालः सप्रकीर्त्यते ।
तापसैः सर्वथा व्याप्तः श्वेतद्वीपाख्य उच्यते ।। १३ ।।
चतुष्कोणः सर्वभद्रः श्रीयन्त्रवच्छ्रीवत्सकः ।
स्वस्तिकेन समः स्वस्तिर्बहुखण्डस्तु हैमकः ।। १४।।
बहुहंसो हांसकश्च गारुडाढ्यश्च गारुडः ।
पञ्चपादो गजाख्यश्च चतुष्पादो वृषाभिधः ।। १५।।
शतपादो मन्दिरं च दशपादस्तु ब्राह्मकः ।
इति मुख्या भवन्त्येव त्वंगभेदैर्विभिन्नकाः ।। १६।।
शिल्पभेदैः रूपभेदैर्दृश्यभेदैर्विभिन्नकाः ।
यथाबुद्धि यथाशक्ति यथालोकं यथासुखम् ।। १७।।
शिल्पबुद्धिसमुत्पन्ना मानवेधविवर्जिताः ।
वैमानिकास्तु प्रासादा बहुधा संभवन्ति हि ।। १८।।
यावन्तो देहिनः सन्ति तावन्तस्तादृशालयाः ।
भविष्यन्त्यपरे चापि प्रासादा बहुरूपिणः ।। १ ९।।
तलभागाष्टकश्चाण्डपंचकस्तु स केसरी ।
नवाण्डः सर्वतोभद्रस्तलतिलाष्टको हि सः ।।2.140.२०।।
प्रासादो नन्दनाख्यस्तु त्रयोदशाण्डसंयुतः ।
नन्दिशालिकसौधस्तु सप्तदशाण्डकः स्मृतः ।।।२१ ।।
तलभागा दश तत्र तिलकानां चतुष्टयम् ।
तलभागा दश चैकविंशत्यण्डस्तु नन्दिशः ।।२२।।
द्वादश तलभागाश्च पञ्चविंशतिकाण्डकः ।
अष्टतिलकसंशोभो मन्दिराख्यः स उच्यते ।।२३ ।।
चतुर्दशतलभागो नवविंशतिकाण्डकः ।
चतुर्विंशतितिलकः श्रीवत्साख्यः स उच्यते ।। २४।।
चतुर्दशतलभागस्त्रयस्त्रिंशच्छुभाण्डकः ।
षोडशोत्तमतिलकश्चाऽमृतोद्भव उच्यते ।।।२५।
चतुर्दशतलभागः सप्तत्रिंशच्छुभाण्डकः ।
द्वादशतिलकाढ्यश्च हिमवान् स तु कीर्तितः ।।२६।।
चतुर्दशतलभागश्चाष्टतिलकवाँस्तथा ।
एकचत्वारिंशदण्डो हेमकूटः स उच्यते ।।२७।।
षोडशतलभागाश्च तिलकानां चतुष्टयम् ।
पञ्चचत्वारिंशदण्डः कैलासः स तु कीर्तितः ।।२८।।
नवचत्वारिंशदण्डस्तलभागाश्च षोडश ।
पृथ्वीविजयसंज्ञः स प्रासादः परिकीर्तितः ।।२९।।
षोडशतलभागाश्च तिलकानां तथाऽष्टकम् ।
त्रिपंचाशदण्डकश्च प्रासादश्चेन्द्रनीलकः ।।2.140.३०।।
षोडशतलभागाश्च तिलकानां तथाऽष्टकम् ।
सप्तपंचशदण्डश्च महानीलः स उच्यते ।।३ १।।
षोडशतलभागाश्चैकषष्ट्यण्डः स भूधरः ।
अष्टादशतलभागाः पंचषष्ट्यण्डकस्तथा ।।३२।।
चतुश्चत्वारिंशत्तिलः रत्नकूट स उच्यते ।
अष्टादश तलभागाश्चत्वारिंशत्तिलस्तथा ।।३३ ।।
नवषष्ट्यण्डकः प्रोक्तो वैदूर्याख्यः शुभो महान् ।
अष्टादशतलभागाः षट्त्रिंशत्तिलकान्वितः ।।३४।।
त्रिसप्तत्यण्डकः प्रोक्तः पद्मरागः शुभो महान् ।
अष्टादश तलभागा द्वात्रिंशत्तिलकस्तथा ।।३५।।
सप्तसप्तत्यण्डकश्च प्रासादो वज्रको हि सः ।
अष्टादशतलभागा अष्टाविंशतिसत्तिलः ।। ३६ ।।
एकाशीत्यण्डकश्चेति मुकुटोज्ज्वल उच्यते ।
अष्टादश तिलभागाश्चतुर्विंशतिसत्तिलः ।। ३७।।
पञ्चाशीत्यण्डकश्चायमैरावताख्य उच्यते ।
द्वाविंशतितलभागाश्चत्वारस्तिलकास्तथा ।।३८।।
नवाशीत्यण्डकः प्रोक्तो राजहंसेतिनामवान् ।
द्वाविंशतितलभागास्तिलकाष्टकवाँस्तथा ।।३९।।
त्रिनवत्यण्डकः प्रोक्तो गरुडाख्यः शुभो हि सः ।
द्वाविंशतितलभागास्तिलकानां चतुष्टयम् ।।2.140.४०।।
सप्तनवत्यण्डकश्च वृषभोऽयं समुच्यते ।
द्वाविंशततिलभागाः शतैकाण्डकवाँस्तथा ।।४१।।
मेरुप्रासाद उक्तोऽयं सर्वशोभास्पदो हि सः ।
चतुरस्रतलं चैकाण्डकस्तिलकनामकः ।।४२।।
गौरीतिलक एकाण्डाष्टतिलश्चतुरस्रकः ।
तलभागाष्टकस्तिलचतुष्ट्याण्डकैकवान् ।।४३।।
रुद्रतिलकप्रासादः श्रेष्ठो बोध्यः सुखावहः ।
तलभागाष्टकश्चतुस्तिलकोऽण्डकपञ्चकः ।।४४।।
श्रीतिलकसंज्ञः स प्रासादोऽपि शुभावहः ।
तलभागाष्टकं तिलकानां तथा चतुष्टयम् ।।४५।।
नवाण्डं हरितिलकाभिधं वै शिखरं मतम् ।
तदेव तु त्रयोदशाण्डकं लक्ष्मीतिलाख्यकम् ।।४६।।
दशभागतलं तथा द्वादशतिलकाश्रितम् ।
नवविंशत्यण्डकं च भूतिलकं तदुच्यते ।।४७।।
तदेव च त्रयस्त्रिंशदण्डं रंभातिलाख्यकम् ।
चतुर्विंशतितिलकं तलं द्वादशभागकम् ।।४८।।
सप्तत्रिंशदण्डकं च मन्दिरतिलकं मतम् ।
द्वादशतलभागाश्च विंशतिस्तिलकानि च ।।४९।।
पञ्चचत्वारिंशदण्डं हेमवत्तिलकं मतम् ।
चतुर्विंशतितिलकं तलद्वादशभागकम् ।।2.140.५०।।
नवचत्वारिंशदण्डं कैलासतिलकं मतम् ।
द्वादश तलभागाश्च विंशतितिलकान्वितम् ।।५१।।
सप्तपञ्चाशदण्डं च पृथिवीतिलकं मतम् ।
षट्त्रिंशत्तिलकं चाष्टाविंशतितलभागकम् ।।५२।।
पञ्चषष्ट्यण्डकं प्रोक्तं त्रिभुवनाख्यमेव तत् ।
तदेव नवषष्ट्यण्डं चेन्द्रनीलतिलात्मकम् ।।५३।।
अष्टाविंशतितिलकं द्वात्रिंशत्तलभागकम् ।
त्रिसप्तत्यण्डकं प्रोक्तं सर्वांगतिलकं मतम् ।।५४।।
चतुर्विंशतितिलकं द्वात्रिंशत्तलभागकम् ।
सप्तसप्तत्यण्डकं च सुरवल्लभकाभिधम् ।।।५५।।
पञ्चविंशत्यण्डमष्टभागतलं चतुस्तिलम् ।
सिंहतिलकमेवैतत् कल्पितं शिल्पिभिः शुभम् ।।५६।।
द्वादशतिलकं सप्तसप्तत्यण्डं तला दश ।
मकरध्वजसंज्ञं तत् तिलकं शोभनं मतम् ।।५७।।
पञ्चचत्वारिंशदधिकशताण्डसुशोभितम् ।
दशभागतलं चाष्टतिलं मंगलनामकम् ।।।५८।।
सप्तदशाधिकशताण्डकं चतुस्तिलात्मकम् ।
तलभागदशकं च तिलकाक्षाभिधं हि तत् ।।५९।।
तदेवैकोनपञ्चाशदण्डं पद्मतिलाभिधम् ।
पञ्चषष्ट्यधिकशताण्डकं तलांशद्वादशम् ।।2.140.६०।।
चतुर्विंशतितिलकं सोमतिलकमुच्यते ।
नवाशीत्यधिकशताण्डकं द्वादश वै तलम् ।।६१ ।।
विंशतितिलकं नाम विजयाख्यं मतं शुभम् ।
पञ्चविंशत्यधिकचतुःशताण्डकं शुभम् ।।६२।।
तले द्वादशतिलके चतुर्विंशे त्रलोकनम् ।
द्वात्रिंशत्तलभागाश्च चतुस्तिलक एव च ।।६३।।
त्रयस्त्रिंशत्सप्तशताण्डकः ऋषभसंज्ञकः ।
द्वे शते नवषष्टिश्चाण्डकानि यस्य सन्ति च ।।६४।।
द्वादशतलभागाश्चाजितप्रासाद उच्यते ।
त्रयोदशाधिकशताण्डकोऽष्टादशसत्तलः ।।६५।।
स्वयंभूनामकः प्रोक्तः प्रासादः सुखदायकः ।
सप्तसप्तत्यधिकाढ्यशताण्डकः शुभाकृतिः ।।६६ ।।
अष्टादशतलभागश्चाभिनन्दननामकः ।
चतुर्दशतलभागः सप्तपञ्चाशदण्डकः ।।६७।।
सुमत्याख्यः स वै बोध्यः सर्वशान्तिप्रदायकः ।
विंशतिस्तलभागाश्च अण्डानि द्वे शते नव ।।६८।।
पद्मवल्लभसंज्ञः स प्रासादो नामतो मतः ।
दशभागतलश्चापि सप्तपंचाशदण्डकः ।।६९।।
सुपार्श्ववल्लभः सोऽयं प्रासादः परिकीर्तितः ।
अण्डकानि भवेयुश्च द्वे शते नवविंशति ।।2.140.७०।।
द्वात्रिंशत्तलभागश्च प्रासादः शीतलाभिधः ।
चतुर्विंशतितलभाग् द्वादशतिलकान्वितः ।।७१ ।।
नवचत्वारिंशदण्डः श्रियोंऽशकः स उच्यते ।
चतुर्विशतितिलभाक चतुर्विंशतिसत्तिलः ।।।७२।।
त्रयस्त्रिंशदण्डकश्च शीतलाख्यः स उच्यते ।
अष्टादशतलभागो द्वादशतिलकान्वितः ।।७३।।
सप्तदशाण्डकः सोऽयं स्वकुलाभिध उच्यते ।
द्वाविंशतितलभागः षोडशतिलकान्वितः ।।७४।।
द्वे शते सप्तपंचाशदण्डानि वसुपूज्यकः ।
चतुर्विंशतितलभाक् सप्तसप्ततिकाण्डकः ।।७५।।
विमलाख्यो भवेत् सोऽयं प्रासादः शुभलक्षणः ।
विंशतितलभागश्च त्रिपंचाशच्चतुःशतम् ।।७६।।
अण्डानां यस्य सोऽनन्तमाया प्रासाद उच्यते ।
अष्टाविंशतितलभाग् द्वादशतिलकान्वितः ।।७७।।
पञ्चविंशतिर्द्वे शतेऽण्डान्ययं धर्म उच्यते ।
द्वादशतलभागश्च नवाशीतिः शतं तथा ।।७८।।
अण्डान्ययं शान्तनामा प्रासादः शोभनो मतः ।
तलभागाष्टकश्चापि विंशतितिलकान्वितः ।।७९।।
नवषष्ट्यण्डकः सोऽयं कन्थाधरः समुच्यते ।
अष्टभागतलवाँश्चैकविंशत्यण्डकश्च यः ।।2.140.८०।।
कमलकन्दनामा स प्रासादः शोभनो भवेत् ।
द्वादशतलभागश्च तथाऽष्टतिलकश्च यः ।।८१।।
एकाशीतिः शतं चाण्डान्ययं महेन्द्रसंज्ञकः ।
चतुर्दशतलभागास्तिलकान्यष्ट यत्र च ।।८२।।
पञ्चाशीत्यण्डकश्चायं मानसतुष्टिनामकः ।
पड्विंशत्तलभागाश्च षोडशतिलकान्वितः ।।८३।।
त्रिसप्ततिश्चतुःशतान्यण्डानि सुमतिर्हि सः ।
द्वाविंशतिस्तलभागाश्चत्वारिंशत्तिलात्मकः ।।८४।।
शतं त्रिनवतिश्चाण्डकान्ययं नेमिनामकः ।
षड्विंशतिस्तलभागास्तथा च तिलकाष्टकम् ।।८५।।
त्रयोदशाधिकशताण्डकः पार्श्वाभिधो हि सः ।
चतुर्विंशतितलभाग् द्वे शते चैकविंशतिः ।।८६।।
अण्डानि यस्य स बोध्यो वीरनामा शुभावहः ।
एकांगश्चैकप्रासादश्चतुरस्रोऽण्डकैकवान् ।।८७।।
त्रयांगास्त्रिप्रासादकाः पंचागाः पञ्च इत्यपि ।
सप्तांगाः सप्तप्रसादा नवांगा नव इत्यपि ।।८८।।
विचित्रशिखराकाराः शिल्पिबुद्ध्युदयान्विताः ।
एकाण्डकश्चतुरस्रो वैराजाख्यो हि कथ्यते ।।८९।।
चतुर्भागतलस्त्रयोदशाण्डो नन्दनाभिधः ।
एकोनत्रिंशदण्डश्च श्रीनन्दनः स उच्यते ।।2.140.९०।।
षट्तलांशः पञ्चविंशत्यण्डो मन्दिरनामकः ।
एकोनत्रिंशदण्डश्च मलयाख्यः स उच्यते ।।९१।।
त्रयस्त्रिंशदण्डकश्च विमानाख्यः स उच्यते ।
सप्तत्रिंशदण्डश्चाष्टतिलकस्तु विशालकः ।।।९२।।
एकचत्वारिंशदण्डस्त्रैलोक्यभूषणो मतः ।
तलाष्टांशः पञ्चचत्वारिंशदण्डक एव च ।।९३।।
चतुस्तिलकसंयुक्तो महेन्द्रनामको मतः ।
अण्डानां वर्धनात् सप्तभेदाश्चास्य भवन्ति हि ।।९४।।
तलभागदशकश्चैकचत्वारिंशदण्डकः ।
षोडशतिलकैर्युक्तो महीधरः स उच्यते ।।९५।।
तिलकाण्डप्रभेदेन बहुधाऽयं भवत्यपि ।
इत्येवं राधिके भेदान् शिखराणां तदाह तम् ।।९६ ।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रासादरूपे मेर्वादिजातीयाऽक्षरादिजातीयतदन्यजातीयप्रासादानां स्वरूपनिरूपणनामा चत्वारिंशदधिक-
शततमोऽध्यायः ।। १४० ।।