लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११५
← अध्यायः ११४ | लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः) अध्यायः ११५ [[लेखकः :|]] |
अध्यायः ११६ → |
श्रीकृष्ण उवाच-
शृणु त्वं राधिके! चैवमाज्ञाप्य सरितात्मिकाः ।
स्वस्वप्रदेशान् गन्तुं च ततः श्रीशंकरं हरिः ।। १ ।।
प्राह योगिन् तव भक्ता इमे योद्धार एव ये ।
तेभ्यो राज्यं प्रदातव्यं तद्योग्यं पार्वतं शुभम् ।। २ ।।
कैलाससन्निधौ चात्र पर्वते तु हिमालये ।
भूतानां पर्वताः सन्तु त्वासामस्योर्ध्वभूमिषु ।। २ ।।
पार्वतीयं महाराज्यं भूतासनं तदस्तु वै ।
इत्युक्त्वा शंभवे कृष्णनारायणो ददौ शुभम् ।। ४ ।।
मुकुटं भूतनाथेति नाम्ना राज्यं ददौ तदा ।
भूतनाथस्वरूपेग भगवान् भैरवात्मकः ।। ५ । ।
स्वस्वरूपाय भूतानामधिपाय महात्मने ।
भैरवाय ददौ तत्र मुकुटं शंकरोऽपि च ।। ६ ।।
भैरवो राज्यमासाद्य नत्वा नारायणं प्रभुम् ।
हरं स्वपितरं नत्वा गृहीत्वा भूतमण्डलम् ।। ७ ।।
षष्टिलक्षाधिकं शैलं हिमालयं ययौ द्रुतम् ।
भूतानामालयास्तेन पर्वता वै कृतास्तदा ।। ८ ।।
एवं तस्मै प्रदत्वैव राज्यं श्रीभगवान् प्रभुः ।
ब्रह्माणं प्राह तत्रैव भवान् चेरावतीभुवम् ।। ९ ।।
ब्रह्मदेशमितिख्यातां शास्तु रक्षतु सर्वदा ।
शंकरो यातु पिंगायां भूमौ प्राचीनराज्यके ।। 2.115.१० ।।
विष्णुर्यातु श्यामराज्यं भवन्नाम्ना प्रसिद्धिमत् ।
एवमाज्ञाप्य तान्देवान् विसर्जयित्वा चापगाः ।। ११ ।।
ऋषीन् तत्तत्प्रदेशीयान् आज्ञाप्य गन्तुमित्यथ ।
स्वस्वस्थानानि नित्यानि चोपदेष्टुं प्रजा अपि ।। १२।।
सर्वविधान् देवसंघान् जातान् योद्धॄन् हरिस्ततः ।
प्राह मे सामवेदाख्ये देशे वसन्तु तेऽनुगाः ।। १३ ।।
येऽवशिष्टा भवन्त्यत्र ब्रह्मपुत्र्यास्तु पूर्वगाः ।
कामरूपप्रदेशेषु पतत्कायावधिं द्रुतम् ।। १४।।
दक्षिणे तु प्रदेशेऽत्र यावद्वै लुकशायिनम् ।
नग्ना ये पर्वताश्चापि लुकहीतानदीं प्रति ।। ११ ।।
तन्मध्ये सामदेशम् आ अभिव्याप्य वसन्त्विति ।
सर्वयोद्धृगणानेवं वासयित्वा हरिः स्वयम् । । १६ ।।
आसामानां नृपं तत्र शिवलिंगं चकार ह ।
शिवलिंगाख्यकगणो नीत्वा सर्वान् भटाँस्ततः । । १७। ।
आसामीयप्रदेशे संवासं चक्रे समन्ततः ।
शिवलिंगोद्भवां देवीं शिवां कामस्वरूपिणीम् ।। १८।।
कामरूपीयकामाक्षीं सह नीत्वा ययौ गणः ।
पर्वते तन्मन्दिरं च शुभमुच्छ्रितमालयम् ।। १९।।
कृत्वा संस्थापयामास कामरूपां सतीं गणः ।
मातरं तां सदा मत्वा पूजयामास सादरम् ।।2.115.२०।।
स्वनाम्ना नगरं श्रेष्ठं स्थापयामास चोच्छ्रये ।
एवं नारायणो दत्वा शिवलिंगाय राज्यकम् ।। २१ ।।
भटान् सर्वान् व्यवस्थाप्य देवान् विसृज्य वै मुनीन् ।
ततो विमाने संगृह्य कोटिकन्याः प्रजार्पिताः ।।।२२ ।।
दशसाहस्रकन्याश्च सेविका विंशतिश्रिताः ।
विंशतिपितृकन्याश्च तथा ब्रह्मप्रियाः पराः ।।२३ ।।
संगृह्य श्रीकृष्णनारायणस्वामी सलोमशः ।
मातापितृयुत आयाद् व्योम्ना काशीं श्रियाः स्थलीम् ।।२४।।
शिवराजगृहे यत्र निजलक्ष्मीर्हि कन्यका ।
राजते सप्रतीक्षा वै प्रति श्रीपुरुषोत्तमम् ।।।२५।।
तत्रोद्याने वरणायास्तटे निजं विमानकम् ।
अवतार्य भुवि कृष्णनारायणो ययौ गृहम् ।।२६।।
शिवराजं हरं नत्वा श्वशुरं पार्वतीं तथा ।
भक्तं जयं च चन्द्रं च कृष्णं धेनुपमित्यपि ।।२७।।
एकान्ते स्वसतीं लक्ष्मीं मिलित्वा स्वप्रियां ततः ।
तां विमाने सर्वकन्याऽऽश्लेषं तासां च दर्शनम् ।।।२८।।
कारयित्वा तथा पित्रोर्लोमशस्यापि दर्शनम् ।
आश्वास्य च पुनस्तस्याः पितृगेहे निवेश्यताम् ।।।२९।।
आशीर्दत्वा विमानेन भगवान् पुरुषोत्तमः ।
आययौ कुंकुमवापीक्षेत्रं चाऽक्षरसंज्ञकम् ।।2.115.३०।।
फाल्गुनस्याऽसिते पक्षे द्वितीयायां हरिः स्वयम् ।
आययौ कुंकुमवापीक्षेत्रं सायं परः प्रभुः ।। ३१ ।।
मासान्ते त्वागतं वीक्ष्य भ्रातृसम्बन्धिसज्जनाः ।
रुद्रो देवाश्च तीर्थानि अश्वपट्टसरः स्वयम् ।।३२।।
ऋषर्योऽशाऽवताराश्च तथा भक्ताश्च कोटिशः ।
आययुः सन्निधौ दृष्ट्वा तेजो विलक्षणं तु खे ।।३३ ।।
दृष्ट्वा दिव्यं विमानं वै श्रीनारायणशोभितम् ।
कोटिसूर्यप्रभं रम्यं चन्द्रकान्तिसुशीतलम् ।।३४।।
कोटिकन्याऽयुतकन्याविंशतिकन्यकान्वितम् ।
जयशब्दान् प्रचक्रुस्तेऽक्षरक्षेत्रनिवासिनः ।।३५।।
लाजाभिश्चाऽक्षतैश्चैव काश्मीरैः कुंकुमैस्तथा ।
वर्धयामासुरत्यर्थं विमानं पारमेश्वरम् ।।३६ ।।
अवाततार च तदा पश्चिमेऽश्वसरोवरात् ।
उद्यानेऽनादिकृष्णस्य प्रासादसन्निधौ ततः ।।३७।।
अवतेरुर्विमानाच्छ्रीस्वामी नारायणो हरिः ।
ब्रह्मप्रियाः पितृकन्याः प्रजाकन्याश्च सेविकाः ।।३८।।
लोमशश्च तथा चान्ये महर्षयस्तथा पिता ।
माता रमादिकाः सत्यो विविशुश्च निजालयम् ।।३९।।
विशश्राम हरिर्माता पिता क्षणं च लोमशः ।
कन्यकास्ता हरेः सौधं परात्परमलोकयन् ।।2.115.४०।।
अक्षरस्थाऽतिसौन्दर्यसम्पद्व्याप्तं महालयम् ।
दिव्यस्मृद्धियुतं कोटिसामर्थ्यैश्वर्यराजितम् ।।४१ ।।
साप्तभौमं पुत्तलैश्चेश्वराणां मण्डितं शुभम् ।
ब्रह्मह्रदेन च ब्रह्मसरसा चाभिशोभितम् ।।४२।।
दिव्यं दिव्यगुणोपेतं दिव्ययन्त्रादिराजितम् ।
दृष्ट्वाऽऽश्चर्यं परं प्राप्तास्ताः सर्वाः कन्यकास्ततः ।।४३।।
अनादिश्रीकृष्णनारायणः स्वां भगिनीं तदा ।
सन्तोषां प्राह चैताभ्यो भोजनं दीयतां स्वसः ।।४४।।
भ्रातृजायां तथा देवीं त्वमृतां प्राह माधवः ।
एताभ्यो दीयतां पेयं मुखवासादिकं शुभम् ।।४५।।
इत्युक्ते सहसा ते द्वे कल्पचिन्तामणिप्रजम् ।
भोजनं शतरूपं च पेयं बहुविधं तथा ।।४६।।
ददतुर्बहुसत्कारं चक्रतुः कृष्णयोषिताम् ।
समाश्लिक्षँश्च ताः सर्वाः स्वसारं भ्रातृयोषितम् ।।४७।।
तथाऽन्याः कन्यकाश्चापि ऋषिपत्नीश्च योषितः ।
अथ कृष्णार्पितया सुदिव्यया दृष्टिधारया ।।।४८।।
ताः सर्वा लोकयामासुर्दिव्यास्ताः कन्यकास्तदा ।
वल्ल्यात्मिकास्तथा पक्षिमृग्यादिरूपधारिकाः ।।४९।।
कृष्णकान्ता बहुरूपा विलोक्याऽऽश्चर्यमावहन् ।
पश्चाच्छ्रीलोमशं प्राह भगवान् पुरुषोत्तमः ।।2.115.५० ।।
एता नेया भवतैव गुरो शुभनिजाश्रमे ।
ब्रह्मप्रियादिभिः सार्धे रक्षणीयाः प्रयत्नतः ।।५१।।
लोमशश्च पूजितो भोजितोऽभिवन्दितस्तथा ।
कन्या नीत्वाऽऽज्ञया नैजाश्रमं वै स तदा ययौ ।।५२।।
भगवाँश्च विशश्राम पितरौ ययतुः सुखम् ।
अथ वै राधिके! कृष्णनारायणः स्वयं प्रभुः ।।५३।।
फाल्गुने प्रचकारैव पुष्पदोलमहोत्सवम् ।
कारयित्वा दिव्यरंगान् विचित्रान् वारिमिश्रितान् ।।५४।।
हेमन्तभगवद्भ्यां पार्षदाभ्यां चान्यपार्षदैः ।
सामग्रीः क्लृप्तयित्वाऽथ समारभत खेलनम् ।।।५५।।
क्षेपकैर्यन्त्रवर्यैश्च सौवर्णैः श्रीवसन्तकम् ।
पूजयित्वा निजमूर्तिं तथा कृष्णनरायणम् ।।।५६।।
अक्षरं च तथा मुक्तान् तथा च सांख्ययोगिनीः ।
स्वयं धृत्वा करे यन्त्रं सौवर्णं रंगसंभृतम् ।।५७।।
चिक्षेप रंगं मर्यादास्थितासु जनतासु वै ।
निजाऽसंख्यासु कान्तासु भक्तभक्तासु वै मुहुः ।।५८।।
भक्तेषु सात्त्वतेष्वेवं महर्षिषु जनेषु च ।
गोपीषु गोपभक्तेषु चिक्षेप रंगमुत्तमम् ।।५९।।
प्रचिक्षेप गुलालं च रक्तवर्णानकारयत् ।
सर्वान्निजाश्रिताँश्चापि स्वयं रक्तोऽभवत्तथा ।।2.115.६०।।
रक्तं व्योमाऽभवच्चापि पिशंगं कैसरं तथा ।
अश्वपट्टसरसश्च जलं रंगविमिश्रितम् ।।६१ ।।
चित्रभावं गतं यद्वद् व्योम्नीन्द्रधनुषा समम् ।
भूतलं चाऽक्षरं क्षेत्रं चित्ररंगमयं ह्यभूत् ।।६२।।
मृत्तिका कुंकुमवापीक्षेत्रीया चन्दनाकृतिम् ।
प्राप्ता पिशंगरूपं सा रंगवारिसुमिश्रिता ।।६३ ।।
अथैवं पुष्पदोलस्य खेलनं संविधाय सः ।
सस्नौ हरिस्तु सर्वाभिः प्रजाभिः सह चाऽश्वके ।।६४।।
ततो वनेषु वृक्षेषु नूत्नाम्बरधरा जनाः ।
ययुः सुगन्धवाय्वाभिव्याप्तोद्यानेषु चाभितः ।।६५।।
तत्र पुष्पमयी दोला प्रेंखां शाखासु शाखिनाम् ।
भिन्नां भिन्नां विचित्रां च बन्धयित्वा समन्ततः ।।६६।।
फलपुष्पादिभिस्तत्र कृत्वा शोभामनुत्तमाम् ।
नूत्नबेषधराः सर्वाः कन्यका भगवाँस्तथा ।।६७।।
प्रजाजनाश्च वै सर्वे पुष्पदोलमहोत्सवे ।
आन्दोलनं शुभं चक्रुर्जहृषुश्चापि निर्भरम् ।।६८।।
सख्यः परस्परं सर्वाश्चान्दोलयन्ति कन्यकाः ।
ब्रह्मप्रिया निजं कान्तं चान्दोलयन्ति भावतः ।।६९।।
कीर्तयन्ति विविधानि चमत्काराणि कीर्तनैः ।
नृत्यन्ति च तदा काश्चिद्धरेरान्दोलनान्तिके ।।2.115.७०।।
वादयन्ति सुवाद्यानि चापराः कृष्णसन्निधौ ।
तथाऽन्या हासयन्त्येव कृष्णं नर्मवचोयुताः ।।७१।।
अपराश्च ददुस्तस्मै कान्ताय शीतलं जलम् ।
इतराश्च ददुस्तस्मै पक्वफलानि योषितः ।।७२।।
बह्व्यः कृष्णं निजं कान्तं कृत्वा स्वान्दोलने ततः ।
पद्भ्यां सहैव दोलां स्वामान्दोलयति वै मुहुः ।।७३।।
अनादिश्रीकृष्णनारायणस्वामी पतीश्वरः ।
ज्ञात्वा सर्वमनांस्यत्राऽसंख्यरूपोऽभवत्तदा ।।७४।।
प्रतिकन्यं प्रतिनारिप्रतिभक्तं प्रतिद्रुमम् ।
किशोरश्चाऽभवद् रम्यः कोटिकाममदापहः ।।७५।।
सर्वासां च सतीनां च भक्तानां ब्रह्मयोषिताम् ।
सेवां संगृह्य भगवान् पुनश्चैकविधोऽभवत् ।।७६।।
एवं चैत्रे कृष्णपक्षे दिने तु प्रथमे हरिः ।
पुष्पदोलोत्सवं श्रेष्ठं चकाराऽक्षरक्षेत्रके ।।७७।।
ततो गेहं जगामाथ भोजयामास वै पुनः ।
सायं समुत्सवं चक्रे गीतनर्तनवादनैः ।।७८।।
ततः सुप्तिं ययुः सर्वे विश्रान्तिं प्रापुरञ्जसा ।
अथैवं वर्तमानस्य श्रावणस्तु समागतः ।।७९।।
भक्तैः संक्लृप्य दोलाश्च विविधाः स्वर्णराजतैः ।
अनेकभूषाशोभाढ्याः पुष्पहारालिराजिताः ।।2.115.८०।।
दिव्यहीरकमण्याद्यैः खचिताश्च सुगन्धिताः ।
दिव्यकोमलशय्याभिर्विराजिताः शुभासनैः ।।८ १ ।।
तत्र नारायणस्वामिकृष्णकान्तं निषाद्य तु ।
ब्रह्मप्रियाश्च ता आन्दोलयामासुः स्वमीश्वरम् ।।८२।।
अथाऽऽश्चर्यमभूत्तत्र मेघा वै मानुषास्तदा ।
भूत्वा व्योम्नो हरिं त्वान्दोलनार्थं तत्र चाययुः ।।८३।।
प्रेंखां च नूतनां विद्युत्प्रभां दिव्यां निराश्रयाम् ।
व्योमाश्रयां ददुस्तस्मै श्रीकृष्णाय परात्मने ।।८४।।
यत्रैकैकांगके तत्र मुक्ता गोप्यश्च पार्षदाः ।
अवताराश्च धामानि दृश्यन्ते ईश्वरास्तथा ।।८५।।
ऋषयो मुनयो देवाः पितरो मानुषा अपि ।
समुद्राः पर्वताश्चापि ग्रहा नक्षत्रमण्डलम् ।।८६।।
दिक्पाला लोकपालाश्च तथा पातालवासिनः ।
क्षीरोदः श्वेतधामाऽपि विशालाऽक्षरवासिनः ।।८७।।
अव्याकृतं तथा तत्रामृतं धामापि दृश्यते ।
गोलोकं चापि वैकुण्ठं साकेतं च किलासकम् ।।८८।।
तथा चतुर्मुखो ब्रह्मा ब्रह्मा चाष्टमुखस्तथा ।
तथाऽजः षोडशमुखो द्वात्रिंशदाननस्तथा ।।८९।।
पञ्चाशदाननश्चापि शताननोऽपि दृश्यते ।
सहस्रानन एवापि लक्षाननोऽपि दृश्यते ।।2.115.९०।।
कोट्याननस्तथा ब्रह्मा दृश्यते मणिमण्डले ।
तादृशी दिव्यदोला वै मेघैर्दत्ता तु शार्ङ्गिणे ।।९१।।
अनादिश्रीकृष्णनारायणो जग्राह तां तदा ।
आरुह्याऽऽन्दोलनं चक्रे मेघान् पप्रच्छ वै तदा ।।९२।।
कस्मादियं समानीता सर्वब्रह्माण्डदर्शिका ।
दिव्या प्रेंखा शुभा योग्या मम सर्वेशितुः कृते ।।९३।।
मेघाः प्राहुर्महाराज वयं काश्यां समागताः ।
आषाढे तीर्थयात्रार्थं वरणायास्तटे तदा ।।९४।।
दृष्टा महालये रम्ये शिवराजस्य कन्यका ।
वयं तत्र मिथो वार्तामकरवाम शोभनाम् ।।९५।।
स्नानं च दर्शनं चात्र कृत्वा गन्तव्यमेव तु ।
अश्वपट्टसरस्तीर्थं लोमशस्याश्रमं शुभम् ।।९६।।
अक्षराख्यं शुभं क्षेत्रं मोक्षदं शाश्वतं परम् ।
यत्राऽनादिकृष्णनारायणस्वामी परः पुमान् ।।९७।।
सर्वावतारधर्ता यः सर्वकारणकारणम् ।
विराजते महाराजोऽनादिश्रीपुरुषोत्तमः ।।९८।।
बालकृष्णः स्वयं साक्षात्परमात्मा परात्परः ।
कम्भराश्रीसुतः श्रीमद्गोपालकृष्णबालकः ।।९९।।
तस्यैव दर्शनार्थं वै गच्छामश्चेत एव नु ।
तच्छ्रुत्वा कन्यका प्राह दोला मम गृहेऽस्ति वै ।। 2.115.१० ०।।
तस्यार्थं सा प्रदेया वै यदि गन्तव्यमस्ति हि ।
तया वै दुःखहालक्ष्म्या दत्तेयं चाहृता प्रभो ।। १०१ ।।
तद् गृहाण कृपासिन्धो कन्याभावभरः प्रभुः ।
इत्युक्तो भगवाँश्चाति जहर्ष चाददे तु ताम् ।। १ ०२।।
आशीर्वादान् ददौ तस्यै तेभ्यश्चापि पुनः पुनः ।
मेघा नत्वा ययुर्व्योम कृष्णनारायणः स्वयम् ।। १ ०३।।
आन्दोलनं स्वयं चक्रे दोलायां श्रावणे स्मरन् ।
लक्ष्मीं नारायणीं देवीं मन्यते तु महोत्सवम् ।। १ ०४।।
इत्येवं कथितं कृष्णनारायणस्य शोभनम् ।
चरितं मोक्षदं राधे सर्वसम्पत्प्रदं शुभम् ।। १ ०५।।
पठनाच्छ्रवणाच्चापि श्रावणात्पाठनादपि ।
मननान्मोक्षदं दिव्यां ब्राह्मीं तनुं ददाति च ।। १ ०६।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्रभुर्भूतासनराज्यं भैरवाय, नग्नपर्वतराज्यं सामराज्यं च विशिष्टयोद्धृभ्यः प्रदत्तवान्, सुन्दरवने नदीः स्वस्वप्रदेशान् गन्तुमाज्ञाप्य कुंकुमवापीक्षेत्रं प्रत्यागमने सति फुल्लदोलोत्सवं श्रावणोत्सवं च कृतवानित्यादिनिरूपणनामा पञ्चदशाधिकशततमोऽध्यायः ।। ११५ ।।