लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ११०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः १०९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ११०
[[लेखकः :|]]
अध्यायः १११ →

श्रीकृष्ण उवाच-
इत्येवं राधिके पूर्वपृथिव्यां सागरान्तिके ।
प्राग्ज्योतिषादिदेशेषु रणोऽभूद्दानवान्तकृत् ।। १ ।।
ततस्तेषां विशुद्ध्यर्थं यज्ञं पुनस्तु वैष्णवम् ।
शालावतीनदीमूले लाशहासरसस्तटे ।। २ ।।
ब्रह्मपुत्रोत्तरे पार्श्वे शतयोजनविस्तरे ।
सरोवराऽभितश्चक्रेऽनादिकृष्णनरायणः ।। ३ ।।
समाहूताः प्रजाः सर्वा युद्धदेशीयमानवाः ।
विमानैः सर्वतोभद्रैर्घट्या क्रोशसहस्रगैः ।। ४ ।।
सर्वे सुराः समायाताः ऋषयः पितरस्तथा ।
सप्ताहश्चाऽभवद् यज्ञोऽत्युत्कृष्टहवनादिभिः ।। ५ ।।
हव्यानां नहि संख्याऽस्ति रसानां गणनाऽपि न ।
भोज्यानामपि नाऽन्तोऽस्ति पेयानां तत्र का कथा ।। ६ ।।
अब्जाधिका महीमानाः संहतास्तत्र सात्त्विकाः ।
पार्थिवाश्च नरा नार्यो युद्धशुद्धिमभीप्लवः ।। ७ ।।
देवानां च महर्षीणां पितॄणां गणना तु न ।
आहूतानि च तीर्थानि नदा नद्यश्च सागराः ।। ८ ।।
लाशहासरसश्चाप्सु ब्रह्मपुत्राजलेषु च ।
शालावत्यास्तथा नद्या मूले तीर्थानि चाययुः ।। ९ ।।
शतयोजनविस्तारो भूदेशो देवताश्रयः ।
गोलोक इव समभूद् वैकुण्ठ इव चाऽभवत् ।। 2.110.१ ०।।
ब्रह्मलोक इव वापि ह्यक्षरं चेव वाऽभवत् ।
यत्राऽनादिकृष्णनारायणः श्रीपरमेश्वरः ।। ११ ।।
स्वयं विराजते यत्र ब्रह्म ब्रह्मर्षयस्तथा ।
ऋषयश्च सुराश्चापि जगतां पितरस्तथा ।। १२।।
तत्र किं नाम वै न्यूनं राधिके! ऋद्धिवर्जितम् ।
यत्र ब्रह्मप्रियाः सन्ति सन्ति वै कल्पवल्लयः ।। १३।।
स्वयं ब्रह्मा हरो विष्णुश्चार्यमा तत्र का क्षतिः ।
यत्र वह्निः सप्तजिह्वश्चतुर्वेदधरो ह्यजः ।। १४।।
पञ्चाननः स्वयं रुद्रस्तत्र का न्यूनता भवेत् ।
लोककल्याणदा देवा ईश्वरा यत्र सात्त्विकाः ।। १५।।
यत्र मोक्षप्रदाः शुद्धा महर्षयश्च वैष्णवाः ।
पावना लोकशुद्ध्यर्थं मिलितास्तीर्थरूपिणः ।। १६।।
यत्र प्रवर्तते यज्ञो वैष्णवो वैष्णवैः सुरैः ।
तत्र का नाम कल्याणे न्यूनभूमिः प्रजायते ।। १७।।
कल्पवल्ल्यस्तथा मुक्ता नदा नद्यो द्रुमास्तथा ।
सुरास्तत्त्वानि चाऽजह्रुर्यज्ञसामग्रिकाः पराः ।। १८।।
पञ्चगव्यानि सर्वान् वै पाययामासुरीश्वराः ।
ऋषयो ये विमानस्था नारायणसहस्थिताः ।। १९।।
प्रजानां युद्धगानां च देहशुद्धिं यथाविधि ।
कारयामासुरुत्साहात् ततो मन्त्रं च वैष्णवम् ।।2.110.२०।।।
शरणं श्रीकृष्णनारायणोऽस्तु मम सर्वथा
ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा ।।२१।।
कालमायापापकर्मशत्रुयाम्यकुहृद्भयात् ।
शूलमीनध्वजधनुश्चक्रस्वस्तिकवानव ।।२२।।
ब्रह्माऽहं श्रीकृष्णनारायणभक्तोऽस्मि शाश्वतः ।
अनादिश्रीकृष्णनारायणः स्वामी पतिश्च मे ।।२३।।
प्रथमं शरणं मन्त्रं द्वितीयं तु समर्पणम् ।
षोडशाक्षरयुक्तं च प्रथमं च द्वितीयकम् ।।२४।।
तृतीयं रक्षणं मन्त्रं द्वित्रिंशदक्षरं तथा ।
चतुर्थं ब्रह्मभावं च हर्यर्धांगप्रदं मनुम् ।।।२५।।
द्वात्रिंशदक्षरं ददुः ऋषयस्ते चतुर्दश ।
मंकणको मंकिरयः कूर्मो प्राचीनबर्हणः ।।२६।।
त्रीतः प्रभूतानकश्च रुशायी खासनस्तथा ।
अंगश्यामः आरकर्णो ब्रह्मदासो ह्यनामयः ।। २७।।
श्यामलर्षिमलयर्षिश्चैते मनून् ददुस्तदा ।
हवनोत्तरमेते वै प्रजाभ्यस्तौलसीः स्रजः ।।२८।।।
ददुश्चाऽब्जप्रमाणाभ्यः प्रजाभ्यः शासनाद्धरेः ।
कृष्णनारायणस्वामी श्रीहरिं शरणं मम ।।२९।।
यज्ञे मन्त्रं ददुस्ताभ्यः पावन्यश्चाऽकरोत्प्रजाः ।
लाशहासलिले सर्वाः स्नापयामास केशवः ।। 2.110.३० ।।
शालावत्याश्च सलिले ब्रह्मपुत्रीजले तथा ।
एवं सर्वाः प्रजा नारीर्नरान् बालाँश्च बालिकाः ।।३ १।।
पावयामास भगवान् सर्वज्ञातीयमानवान् ।
वह्निं देवान् हव्यरसैः सन्तृप्य पितृदेवताः ।। ३२।।
पार्षदान् कन्यकाश्चापि सन्तृप्य युद्धरक्षितान् ।
भोजयामास भगवान् मिष्टान्नैरब्जमानवान् ।। ३३।।
यज्ञप्रसादमासाद्य कृतकृत्याश्च तेऽभवन् ।
अवभृथं विधायैव सभायां बालकृष्णकः ।।३४।।
अजमाज्ञापयामास पारितोषिकहेतवे ।
ब्रह्मा नत्वा बालकृष्णं प्रभुं श्रीकृष्णवल्लभम् ।। ३५।।
प्रकाशं प्राह सर्वाभ्यः प्रजाभ्योऽभयदानकम् ।
परब्रह्माऽक्षरातीतः सर्वावतारकारणम् ।।३६।।
वासुदेवादिकव्यूहा उत्पद्यन्ते यतः खलु ।
कालो महापूरुषश्च माया यस्य तु शक्तयः ।।३७।।
अवताराश्च धामानि जायन्ते यस्य मूर्तितः ।
सोऽयं श्रीबालकृष्णोऽस्ति स्वामिश्रीकृष्णवल्लभः ।।३८।।
कंभराश्रीसुतः श्रीमद्गोपालबालको हरिः ।
अश्वपट्टसरःक्षेत्रेऽक्षरक्षेत्रे निवासकृत् ।।३ ९।।
कुंकुमवापिकासंस्थः प्रभापारवतीपतिः ।
कृष्णाब्रह्मप्रियाराधारमालक्ष्मीपतिः प्रभुः ।।2.110.४०।।
माणिकीललिताहंसामञ्जुलासगुणापतिः ।
जयाशान्तादयामुक्तादेवीहैमीकलापतिः ।।४१ ।।
सतां स्वामी मुक्तिकान्तः सृष्टिस्वामी परेश्वरः ।
सर्वधामेशोऽन्तरात्मा देहिनां फलदः स्वयम् ।।४२।।
यदाश्रयेण ज्ञातव्यं प्राप्तव्यं नावशिष्यते ।
यत्परो न समो येन कश्चिदन्यो न विद्यते ।।४३ ।।
आरुणैः प्रार्थनीया या मुक्तिः शाश्वतिका परा ।
तस्या दाता त्वयं स्वामी पतिः कान्तः परो हरिः ।।४४।।
परामुक्तिः समेष्टव्या ह्येतस्माच्छ्रीहरेर्जनाः ।
अस्माकं विजयस्त्वस्य प्रतापेन सदाऽस्ति वै ।।४५।।
नारायणाद्याः सततं यं भजामः स एव सः ।
अस्य मूर्तिं पूजयध्वं भजध्वं त्वेनमेव च ।।४६।।
सेवामस्य प्रकुरुध्वं तिष्ठध्वं वचनेऽस्य च ।
अस्य वाणी महावेदा अस्य क्रिया वृषो महान् ।।४७।।
अस्य मूर्तिः सदा सेव्या ह्ययं ध्येयः सदा जनैः ।
अस्य स्पर्शाद् पवित्रा वै जायन्ते जडचेतनाः ।।४८।।
युद्धे हतास्तु ये देवा देवपक्षास्तथा च ये ।
सजीवाः सन्तु ते सर्वे कृपयाऽस्य क्षणादिह ।।४९।।
पृथ्व्यां जलेऽम्बरे ये वा मृता देवानुसारिणः ।
शीघ्रं भवन्तु दिव्यास्ते समायान्तु हरिं प्रति ।।2.110.५०।।
इत्युक्त्वा जलमादाय कमण्डलौ हरेः पदात् ।
चिक्षेप चाम्बरे ब्रह्मा जलं तन्मेघसदृशम् ।।५ १ ।।
वर्धमानं द्रुतं च प्राऽसरद् भूव्योमवारिषु ।
अमृतं तत्तदा भूत्वा जीवयामास वै मृतान् ।।५२।।
सुरपक्षान् सर्वजीवान् कृत्रिमानपराँस्तथा ।
तदेव जलमेवाऽभूत् स्पृष्टं दानवसुप्तिषु ।।५३।।
तथापि दानवा नैव सजीवा अभवँस्तदा ।
श्रीशस्वामिकृष्णनारायणस्येच्छा हि तादृशी ।।५४।।
स्पृष्टं समं सुरपक्षा जीविता न तु दानवाः ।
अथ ब्रह्म तदा तेभ्यो ददौ मन्त्रचतुष्टयम् ।।५५।।
जीवितेभ्यो हरिस्तत्र प्रददौ पारितोषिकम् ।
विजेतृभ्यस्तथा तत्र ददौ सुपारितोषिकम् ।।५६।।
देहद्वयं मुक्तियोग्यं चैकं परं तु भूस्थितम् ।
प्रेषयामास तान् सर्वान् मुक्तियोग्यान् पदेऽक्षरे ।।५७।।
भूयोग्यान् भगवानाह स्वयं प्रसन्नमानसः ।
यज्ञहव्यं प्रसादं च पानं मिष्टं सुभोजनम् ।।५८।।
गृह्णन्तु चेति ते सर्वे भुक्तवन्तस्तदाज्ञया ।
अथ राजकुमाराँश्च ऋषीन् सैन्यानि चापि च ।।५९।।
समाहूय हरिः प्राह प्रजाश्च सकलास्तथा ।
पाविता वै मया देशा भवतां तीर्थरूपिणः ।।2.110.६ ०।।
कृता मोक्षप्रदा नद्यो नदाः सरांसि पर्वताः ।
दैत्यदानवनाशोऽति कृतश्चात्र भुवस्तले ।।६१ ।।
एते राजकुमाराश्च वैष्णवास्ते ममाश्रिताः ।
मया नृपासनेष्वेव स्थाप्यन्ते मम बालकाः ।।६२।।
प्रजाश्चापि भवत्यो मे बालिकाः सन्ति सर्वथा ।
नृपाऽऽज्ञायां प्रवर्तन्तु ममाऽऽज्ञैषा हि शाश्वती ।।६३।।
मम भक्तिं प्रकुर्वन्तु मान्या मे ऋषयस्तथा ।
शृण्वन्त्वपि विभागेन यथा राज्यं ददामि तत् ।।६४।।
अयं ब्रह्मा प्रजानां च पितामहः स्वयं प्रभुः ।
यस्य नाम वदाम्यस्मै किरीटं प्रददातु सः ।।६५।।
जलपानद्वीपभूमिर्दीयते सूर्यकेतवे ।
फिलीपद्वीपसंघाता दीयन्ते बीजजंगिने ।।६६।।
वारणीयद्वीपभूमिः सारकेताय दीयते ।
आर्द्रमानद्वीपभूमिः रक्तकेशाय दीयते ।।६७।।
दीयते प्राचीनराज्यं विज्ञविहंगमाय च ।
पिंगचिपिंगराज्यं तु पिंगकेशाय दीयते ।।६८।।
मंगूभूमिर्दायते च आहवमंगलाय तु ।
मञ्चुरणोऽर्प्यते प्रभाकिरीटाय प्रदेशकः ।।६९।।
लाशहाख्यप्रदेशश्च त्रीतर्षये प्रदीयते ।
त्रीतवित्तेतिनाम्ना च प्रसिद्धं राज्यमस्तु तत् ।।2.110.७०।।
ऋषिराज्यं भवत्वेतद् वसन्तु तत्र चारुणाः ।
छायाशरीररूपाश्च ब्रह्मात्मज्ञानवेदिनः ।।७ १ ।।
कारुराज्यं दीयते च कूर्मिणे तु महर्षये ।
ऋषिराज्यं तदप्यस्तु वैष्णवं पावनं सदा ।।७२।।
इलादेशस्य वै राज्य स्वयं ब्रह्मा करोतु च ।
ब्रह्मदेशः सदा चाऽस्तु तीर्थं चैरावती नदी ।।७३।।
पन्नामनदिकाभूमिं विष्णुः प्रशास्तु सर्वदा ।
श्यामदेशो ब्रह्मपूर्वे पन्नाम्नीतीर्थमस्तु च ।।७४।।
प्राक्चयनाख्यभूमेश्च रक्षकोऽस्तु शिवः सदा ।
विनायकाश्च प्राचीनरक्षकाः सन्तु तत्पराः ।।७५।।
अंगशिक्षांगदेशानां राजाऽपि शंकरः स्वयम् ।
स्वगणैः सहराज्यं तच्छास्तु प्राचीनदक्षिणम् ।।७६ ।।
सुमातृके प्रदेशे च तिष्ठन्तु मातरः सदा ।
शिवसत्यो रक्षणार्थं सामुद्रदैत्यनाशिकाः ।।७७।।
एवमेतानि राज्यानि भवन्तु वैष्णवानि वै ।
इट्येवं राधिके कृष्णनारायणेन भाषितम् ।।७८।।
ब्रह्मा च प्रददौ तस्मै तस्मै राज्यकिरीटकम् ।
हरिर्ददौ स्वयं चापि विष्णवेऽजाय शंभवे ।। ७९।।
तिलकं कैसरं कृत्वा कण्ठीं मालां च तौलसीम् ।
नूतनेभ्यश्च प्रददौ बालकृष्णः स्वयं तदा ।।2.110.८ ० ।।
अथाऽऽह च हरिस्तेभ्यो राजभ्यो हितकृद्वचः ।
गुरवोऽपि मया वोऽत्र दीयन्ते भक्तिहेतवे ।।८ १ ।।
कर्वरीजलपानानां गुरुः कूर्मीति वै ऋषिः ।
प्राचीनानां फिलीपानानां गुरुः शंभुर्महेश्वरः ।।८ २ । ।
प्राचीनोत्तरभागानां गुरुः प्राचीनबर्हणः ।
श्यामलानां चिपिंगानां गुरुः श्यामलको मुनिः ।।८३ ।।
मलयानां मलयर्षिरिलाया ब्रह्मदासकः ।
लाशहानां गुरुस्त्रीतो लूशानां लूशयस्तथा ।।८४।।
वारणानां मातरश्च गुर्व्यो बोध्याः ऋषिप्रियाः ।
आर्द्रमानगुरुर्ब्रह्मा ब्राह्माणामपि विश्वसृट् ।।८५।।
मंगूजानां मंकणको गुरुस्तद्देशवासिनाम् ।
मंचूराणां प्रजादीनां मंकिरयो गुरुर्मतः ।।।८६ ।।
भूतानां तु प्रभूतानः पन्नामानामनामयः ।
प्राक्चयनप्रदेशानां चयनर्षिर्गुरुर्मतः ।।८७ ।।
अंगशिक्षांगदेशानामंगश्यामलको गुरुः ।
आराकाणामारकर्णः खसीनानां तु खासनः ।। ८८ ।।
एते तद्देशराजानां प्रजानां गुरवः सदा ।
महर्षयो मया दत्ता महाभागवतोत्तमाः । ।८९ । ।
स्वीचक्रुस्तेऽपि राजानो वैष्णवा वैष्णवान् गुरून् ।
हर्षं प्रापुश्च ते सर्वे ऋषयो भूभृतः प्रजाः ।। 2.110.९० ।।
अथ श्रीभगवान् भक्तहृदयज्ञः प्रजाऽऽर्त्तिहा ।
अब्जरूपधरो भूत्वा मिमिले सर्वदेहिनः ।। ९१ ।।
चरणौ प्रददौ सर्ववक्षस्सु चिह्नशोभितौ ।
अष्टकोणश्चोर्ध्वरेखा स्वस्तिको यववज्रकौ ।। ९२।।
जाम्बूफलं ध्वजोंऽकुशः पद्मं दक्षपदेऽभवन् ।
त्रिकोणः कलशश्चापि गोष्पदं च धनुष्यकम् ।। ९३ ।।
मीनाऽर्धचन्द्रकौ व्योम वामे तु चरणेऽभवन् ।
कच्छपश्च गरुडश्च शिखरं करिहंसकौ ।। ९४।।
विमानं सूर्यमेवैते पादग्रन्थेरधोऽभवन् ।
दक्षे पदे हरेस्तत्र घुटिकाऽड्गुष्ठदिग्भवा ।। ९५।।
वामे तु घुटिकानिम्ने लक्ष्मीः सौधं द्रुमश्च गौः ।
सिंहासनं च पञ्चैते पदे समभवन् हरेः । । ९६।।
अथ मीनध्वजधनुश्चक्रस्वस्तिकशूलिनम् ।
पद्मबाणदण्डयुतं दक्षं करं तु सिद्धिदम् । । ९७।।
निर्भयचक्रसहितं श्रीरेखं समयूरकम् ।
वंशीचिह्नं कल्पवल्लीयुतं चाऽश्ववृषान्वितम् । । ९८।।
वामं करं तु शुभदं कृत्वा द्वयोस्तदाऽञ्जलिम् ।
प्रजानां च नृपादीनां प्रददौ मूर्द्धसु प्रभुः । । ९९।।
मुद्रिकाः कल्पफलदाः प्रददौ प्रतिमानवम् ।
कल्पमूर्तिं निजां पूजाकर्मणे प्रददौ प्रभुः । । 2.110.१०० । ।
अन्नवस्त्रर्द्धिबाहुल्यं प्रददावाशिषस्तथा ।
ददौ दिव्यं दर्शनं च परधामविराजितम् । । १०१ । ।
राधिके! कृपया यत्र प्रसन्नः परमेश्वरः ।
तत्र त्रिगुणजीवानां समो लाभो हरेर्भवेत् । । १०२। ।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने प्राग्ज्योतिषादिदेशानां वैष्णवनृपव्यवस्था, ऋषिव्यवस्था, कृपावर्षणं, दिव्यदर्शनं चेत्यादिनिरूपणनामा
दशाधिकशततमोऽध्यायः । । ११० । ।