लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०९५

विकिस्रोतः तः
← अध्यायः ०९४ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ९५
[[लेखकः :|]]
अध्यायः ०९६ →

श्रीकृष्ण उवाच-
शृणु चान्यं चमत्कारं श्रीहरेः परमात्मनः ।
राधे चैकादशभक्तयोगाद् देशः सुरक्षितः ।। १ ।।
दक्षिणे वर्तमाने वै खण्डे उष्णालयाभिधे ।
अस्त्रालये रणे तत्र सामुद्रघोरवायुभिः ।। २ ।।
जाते तूपद्रवे देशो वालुकाभिस्तु मध्यगः ।
परितोऽब्धिजलैश्चापि धर्षितो विप्लवीकृतः ।। ३ ।।
आच्छादितोऽभवद् भाद्रपदे वृष्ट्या विनाशितः ।
अनादिश्रीकृष्णनारायणेन स्वामिना ततः ।। ४ ।।
रक्षितः स्वस्य भक्तार्थं शृणु पुण्यतमां कथाम् ।
ऊष्णालये महाखण्डे पूर्वेगऽस्त्यो महामुनिः ।। ५ ।।
आकाशेन ययौ पूर्वं पावयितुं तु तद्भुवम् ।
अगस्त्यो बहुदेशाँश्च समुद्रं प्रविहाय च ।। ६ ।।
ययौ तस्मिन् महाखण्डे हेमशालाख्यपर्वते ।
ततो बालाचलं रावासनाद्रिं त्वम्बराद् ययौ ।। ७ ।।
दारालिंगगिरिं मषीग्रीवाद्रिं भेकदानकम् ।
अद्रिं तथा शालवीनगिरिं ग्रामाचलं ततः ।। ८ ।।
आचालपर्वतं चापि दिवादिक्पर्वतं तथा ।
चाटाद्रिं च ततो गत्वा त्वाययौ हेमशालके ।। ९ ।।
तस्य द्रोणीं वृक्षवल्लीतृणैः पल्लवितां शुभाम् ।
सुवृष्ट्या फलपुष्पाढ्यां वीक्ष्य वत्सरमावसत् ।। 2.95.१ ०।।
अनादिश्रीकृष्णनारायँ स्मरत्यहर्निशम् ।
 'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। १ १।।
जपत्येव सदा मन्त्रं हेमशालाचले वसन् ।
लोपामुद्रापि तं मन्त्रं जपत्येव पतिव्रता ।। १ २।।
तया सह मुनिर्नित्यं तीर्थीकर्तुं तदाऽऽपगाः ।
नित्यं विहायसा याति स्नातुं भिन्नसरित्तटम् ।। १३।।
मुरानद्यां तुरुनद्यामैतनद्यां तथा मुहुः ।
सस्नौ गोशंकुनद्यां च बालानद्यामपि क्वचित् ।। १४।।
सस्नौ मर्चाशनानद्यां माकमानसरस्यपि ।
बालासरोवरे माङ्गिसरसि श्वानिकाजले ।। १५।।
कुवने सरसि सस्नौ लाभरुचिसरस्यपि ।
झिन्कुनद्यां रिन्कुनद्यां फिन्कुनद्यां तथा पुनः ।। १६।।
सस्नावुत्तुंगसरसि आरसरोवरे तथा ।
तुरूसरोवरे सस्नौ ग्रागिराख्ये सरस्यपि ।। १७।।
मौरीनद्यां तुरानद्यां भुरानद्यां तथा मुनिः ।
सस्नौ कविन्दुमानद्यां गौरानरसरोवरे ।। १८।।
कारुलिङ्ग्यां दारुलिङ्ग्यां चारुलिंगीसरित्यपि ।
क्वील्पीनद्यां लविंगायां पावनायां तथा ततः ।। १९।।
मीचलायां फिलञ्चायां सस्नावगस्त्यको मुनिः ।
घेलीनद्यां हेलीनद्यां वितूरीयासरित्यपि ।। 2.95.२०।।
फीजरायां चापगायां सस्नो निर्झरणेष्वपि ।
लोपामुद्रा सती पूजां चक्रे तद्देवतार्चनम् ।।२१ ।।
सरांसि सरितश्चापि चक्रुरगस्त्यमाननम् ।
अथैतेषु प्रदेशेषु सरित्तटेषु कुत्रचित् ।। २२।।
कुत्रचित्पार्वते देशे कुत्रचित् सरसस्तटे ।
विप्रास्तु तापसा रौद्रा वैष्णवाः सूर्यदेवताः ।। २३।।
वसन्तस्ते विलोक्यैनमगस्त्यं ख्यातपौरुषम् ।
प्रसन्नहृदयाः सर्वे स्वागतादि व्यधुर्मुदा ।।२४।।
हेमशालायनो बालायनो रावासनायनः ।
दारालिङ्गायनश्चापि भेकदानेयतापसः ।।२५।।
मसिग्रीवमहर्षिश्च तथा शालवनायनः ।
आचालर्षिस्तथा ग्रामायनो वाटायनस्तथा ।।२६।।
दिवादिङ्गायनाद्याश्च तापसा ब्रह्मवेदिनः ।
सहस्रशोऽन्यविप्राश्च ब्रह्मगृहवनस्थिताः ।। २७।।
यतयश्च महात्यागपरा विज्ञाश्च योषितः ।
सत्यः साध्व्यो निवसन्ति चात्मध्यानपरायणाः ।।२८।।
अगस्त्यस्तु ददौ तेभ्यो विज्ञानं पारमेश्वरम् ।
परब्रह्माऽऽक्षरातीतः परधामविराजितः ।।२९।।
अनन्तमुक्तसेव्यः श्रीपुरुषोत्तमसंज्ञकः ।
परमात्माऽन्तरात्मा च कृष्णात् कृष्णतरश्च यः ।।2.95.३ ० ।।
वासुदेवान्महावासुदेवः श्रीपरमेश्वरः ।
दिव्यैश्वर्यविभूत्यादिसंभृतो भगवान् प्रभुः ।। ३१ ।।
कालमायानियन्ता च व्यूहावतारशासकः ।
ईश्वराणामीश्वरेशः सुराणां सुरशक्तिदः ।।३२।।
ऋषीणां चापि पितॄणां रक्षकस्तद्धृदि स्थितः ।
देवमानुषनागानामन्तर्यामी परात्परः ।।।३३ ।।
सर्वब्रह्मप्रियाकान्तः सर्वधामप्रभाप्रदः ।
सर्वावतारधर्ता च सर्वसाक्षी निरञ्जनः ।। ३४।।
स्वप्रकाशोऽसीमशोभाऽसीमकन्दर्पसुन्दरः ।
दिव्यमूर्तिर्वेदवेद्यो योगिवेद्योऽन्तरात्मनि ।।३५।।
हृच्चक्षुर्भिस्तथा वेद्यश्चाऽवेद्यो बाह्यवृत्तिभिः ।
अगम्यो मायया छन्नैर्गम्यो भक्तिसमन्वितैः ।। ३६।।
अतिदूरोऽप्यतिसामीप्यस्थः सखा सुखप्रदः ।
सर्वप्रदः सदाऽऽनन्दः सर्वानन्दप्रदो हरिः ।।३७।।
अनादिश्रीकृष्णनारायणो राधारमापतिः ।
प्रभापारवतीहंसामंजुलासगुणापतिः ।। ३८ ।।
लक्ष्मीश्रीमाणिकीनाथः सत्पतिर्भक्तभावितः ।
ऋषीशः करुणापूर्णो ह्यबालो बालरूपधृक् ।।३ ९।।
वर्तते यश्चाजनाभे खण्डे देशे सुराष्ट्रके ।
अश्वपट्टसरस्तीरेऽक्षरक्षेत्रे विमुक्तिदे ।।2.95.४०।।
दिव्ये कुंकुमवाप्याख्ये नगरे च निजालये ।
कम्भराश्रीनन्दनः स श्रीमद्गोपालबालकः ।।४१।।
परब्रह्म स्वयं यः स बालब्रह्माऽद्य वर्तते ।
अन्तरात्मा च यः सोऽद्य बालात्मा बहिरस्ति वै ।।।४२।।
योगिनां योगफलदो ज्ञानिनां वित्तिगोचरः ।
मुक्तानां मानसे तिष्ठन् सतीनां सत्यधारकः ।।४३ ।।
यज्ञानां वह्निरूपे च भोजको हवनाशनः ।
तपस्विनां तपोवृत्तेः श्रद्धारूपोऽस्ति यः प्रभुः ।।४४।।
सात्त्विकानां धर्मसत्त्वं नीतीनां न्यायविस्तरः ।
सत्क्रियाणां चातिथेयो भक्ता राधनगोचरः ।।४५।।
निराकारोऽसंख्यमूर्तिर्यः स बालो विराजते ।
कृपया करुणासिन्धुर्मोक्षदः पापिनामपि ।।४६।।
यत्प्रसंगेन तत्त्वानि जडान्यपि कृतान्यपि ।
अकृतानि चेतनानि दिव्यानि संभवन्ति च ।।४७।।
अमुक्ता मुक्तिमायान्ति पापा भवन्ति पावनाः ।
असिद्धाः सिद्धिमासाद्य यद्ध्यानाद् यान्ति मोक्षणम् ।।४८।।
अगुणा गुणवन्तश्च भवन्त्यस्य प्रतापतः ।
मायिका मायया शून्या जायन्तेऽस्य स्मृतेरपि ।।४९।।
कल्मषा नाशमायान्ति यन्मूर्तेर्दर्शनादपि ।
नाऽस्य वै दर्शने प्राप्ते कर्तव्यं चावशिष्यते ।।2.95.५०।।
प्राप्तव्यं शिष्यते नापि स वै बालोऽद्य वर्तते ।
विप्रा गृह्णन्तु तन्मन्त्रं मुक्तिदं सर्वसिद्धिदम् ।।५१ ।।
इत्युक्ता राधिके! विप्रा जगृहुर्मन्त्रमुत्तमम् ।
'औं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।।५२।।
प्रजेपुः सततं तं च दध्युर्वै दिव्यरूपिणम् ।
तेषां वै हृदये कृष्णनारायणः समस्फुरत् ।।५३।।
किशोरो दिव्यरूपश्च कोटिमन्मथसुन्दरः ।
भेजुस्ते च ततो नित्यमगस्त्योदितपूजनैः ।।५४।।
अष्टधा श्रीहरेर्भक्तिं चक्रुर्मोक्षाभिवाञ्च्छया ।
एवं सहस्रलक्षाश्च भजन्ते ब्राह्मणा हरिम् ।।५५।।
अगस्त्यस्य तु योगेन अस्त्रालयक्षितौ तदा ।
उष्णालये महाखण्डेऽभवन् भक्तिपरायणाः ।।५६।।
वर्षान्तेऽगस्त्यमुनिराट् कृत्वा तीर्थानि सर्वशः ।
वैहायसा ययौ लोपामुद्रायुतोऽश्वसारसम् ।।५७।।
क्षेत्रं श्रीकुंकुमवापीसंज्ञं तत्र स्थिरोऽभवत् ।
अथ भाद्रपदे तत्र व्योम्नि रात्रौ ग्रहो महान् ।।५८।।
सहस्रयोजनदीर्घतेजःकल्गिलसच्छिराः ।
उदयं चैति नित्यं वै देशोपप्लवसूचकः ।।१९।।
धूमकेतुर्महात्रासप्रदो लोकविनाशकः ।
यं दृष्ट्वा तु प्रजाः सर्वा नाशभीतिसमाकुलाः ।।2.95.६०।।
अभवँश्चाऽप्यभजँश्च बालकृष्ण पुभुत्तमम् ।
अकुर्वंस्तस्य भक्तिं च विविधाराधनात्मिकाम् ।।६१।।
अथ भाद्रस्य विगमे पूर्णायां प्रातरेव तु ।
समुद्रस्य जलानां वै विप्लवः परितो ह्यभूत्। ।।६२।।
वेला भयप्रदा सर्वदेशप्रलयकारिकाः ।
चुक्षुभुश्चातिचण्डैर्वै वातैः सह च वृष्टिभिः ।।६३।।
उष्णालयस्य खण्डस्य परितोऽब्धिजलैर्भुवः ।
योजनायतभागा वै संप्लुता प्रलयो यथा ।।६४।।
ग्रामाः खेटाः खर्वटाश्चावसथा घोषविस्तराः ।
समुद्रमवधिं कृत्वा यावद्योजनमेव ते ।।६५।।
अब्धिवेलौघवेगैश्च नष्टा जललये तदा ।
वृक्षा लता वनोद्देशा उद्यानानि च वाटिकाः ।।६६।।
नौकास्थेयानि बन्धानि सेतवः क्षेत्रभूमिकाः ।
वर्त्मानि यानरक्षार्थं गृह्णाणि भूशिरांसि च ।।६७।।
वेलौघवेगैर्नष्टानि व्यापारस्य स्थलानि च ।
विमानावस्थलीबन्धा नष्टाः सर्वे जलौघकैः ।।६८।।
नदीमुखास्तथा सर्वे प्रजावसतयोऽपि च ।
पशवः पक्षिणश्चान्ये खनयोऽपि लयं गताः ।।६९।।
एवं जललये जाते हाहाकारो महानभूत् ।
अथ नद्योऽपि संक्षुब्धाः क्षुब्धानि च सरांस्यपि ।।2.95.७०।।
नदीसरोवराऽऽपश्च ययुः क्षेत्रेषु चाभितः ।
उद्वेलाभिः प्रदेशास्ते सप्रजाः प्रलयं गताः ।।७१।।
स्थले जलं जले स्थलं विपरीतमपद्यत ।
अतिवर्षातिवातैश्च देहिनो विलयं गताः ।।७२।।
पार्वता वनवासाश्च दृश्यन्ते नैव देहिनः ।
जलानां तु प्रवाहेषु शवा मानवपक्षिणाम् ।।७३।।
पशूनां च सरीसृपमृगादीनामनेकशः ।
कल्लोलैरुह्यमानाश्च विलोक्यन्ते सहस्रशः ।।७४।।
वृक्षाश्च वृक्षशाखाश्च दृश्यन्ते पूरवारिषु ।
गृहाणि पर्णशालाश्च तरन्ति लयवारिषु ।।७५।।
नद्यः सरोवराण्यन्या दीर्घिकाश्चापि कूपकाः ।
सामुद्राऽखातसदृशा दृश्यन्ते जलपूरिताः ।।७६ ।।
एवं जाते विनाशस्य कारणे जलविप्लवे ।
झंझावातैर्वालुकाश्चाडीयन्त रणगास्तदा ।।७७।।
यथा मेघास्तथा ताश्च दृश्यन्ते चाम्बरे तदा ।
वालुकाभिः पूरितानि नेत्राणि चान्धतां ययुः ।।७८।।
वालुकाहतनेत्रास्ते देहिनस्तु परस्परम् ।
नैव पश्यन्ति वै तत्र रजोऽन्धा वातताडिताः ।।७९।।
आकाशे वायुवेगेन क्षिप्यन्ते शाखिनस्तथा ।
गृहाणि वल्लयश्चापि मण्डपाच्छादनान्यपि ।।2.95.८०।।
उल्लोचाश्च वितानानि वस्त्राणि पक्षिणस्तथा ।
क्षिप्यन्ते बहुवेगेन वातेन च जले स्थले ।।८१।।
गृहाणि चातिभग्नानि वृक्षा भग्नास्तथोटजाः ।
आश्रया आश्रमाः सौधाः प्रासादा नेशुरूटजाः ।।८२।।
वालुकावर्षणैर्ग्रामाश्छन्ना वै वालुकातले ।
एवं रणात् समुड्डीय वालुकावर्षणं ह्यभूत् ।।८३।।
वृक्षाश्च वाटिका उद्यानानि प्रजाश्च पक्षिणः ।
पशवस्तापसाश्चापि वालुकाछन्नविग्रहाः ।।८४।।
वालुकान्तर्गर्भगास्ते भूगर्भे निहिताः क्षणात् ।
अभवँस्ते विना श्वासैर्मृताः कोटिसहस्रशः ।।८५।।
ऋषयो मुनयश्चापि पर्वतस्थाः क्षितिस्थिताः ।
वीक्ष्योपच्छवमत्युग्रं समाधौ कृतसंयमाः।।८६।।
आकृष्य नाडिकाप्राणान् निषेदुः कुंभकादिषु ।
सस्मरुर्भगवन्तं श्रीकृष्णनारायणं हृदि ।।८७।।
अभक्ता रुरुदुश्चापि त्रेसुश्चुक्रुषुरुद्गलम् ।
हाहाचक्रुर्बालकाश्च हा मातस्तात चुक्रुशुः ।।८८।।
विलपन्तो नराः पत्नीराह्वयांचक्रुरुद्गलम् ।
पत्न्योऽपत्यानि पितरं चाह्वयांचक्रुरत्यति ।।८९।।
पशूनां पक्षिणां चापि उष्ट्राणां करिणां तथा ।
सिंहानां चानलानां चाक्रोशाश्च गर्जनान्यपि ।।2.95.९०।।
दुःखभृतान्यत्यभन् झंझावाते तदा मुहुः ।
न श्रूयन्ते न रक्ष्यन्ते स्वरक्षा यत्र दुष्करा ।।९ १।।
तत्राऽन्यरक्षणं केन कुत्र वा हरिमन्तरा ।
कालानने ग्रासभावं गतानां रक्षकोऽत्र कः ।।९२।।
पर्वता रणदेशाश्च नद्यश्चापि सरांसि च ।
वनानि चोच्चभागाश्चारण्यानि क्षेत्रभूमयः ।। ९३ ।।
सर्वे पृथ्वीतलं झंझावातैश्चापीडितं तदा ।
जातं भाद्रस्य पूर्णायां रात्रौ तु प्रतिपद्दिने ।।९४।।
आसायं तन्महोत्पातैर्विना मृतिं मृताः प्रजाः ।
हेमशालायनाद्यास्तु तदा महर्षयोऽमलाः ।।९५।।
वीक्ष्याऽशान्तं वातवेगं जलाऽनिलकृतं लयम् ।
समाधावेव शान्त्यर्थं सस्मरुर्बालकृष्णकम् ।।९६।।
करुणासागरं भक्तरक्षाकरं कृपानिधिम् ।
अविगणय्य पापानि शरणागतरक्षकम् ।।९७।।
गजरक्षाकरं कृष्णं गर्भे रक्षन्तमीश्वरम् ।
प्रलये रक्षकं नाथं मायातो रक्षकं प्रभुम् ।।९८।।
प्राणानां रक्षकं कान्तं सर्वरक्षाकरं हरिम् ।
बालानां रक्षकं देवं सृष्टिरक्षाकरं पतिम् ।।९९।।
योगे रक्षाकरं स्वामिनारायणं परेश्वरम् ।
अनादिश्रीकृष्णनारायणं देहिप्रजीवनम् ।। 2.95.१ ००।।
सस्मरुर्हृदये त्वेकादशर्षयो लये स्थिते ।
तुष्टवुर्मनसा सर्वे देशरक्षणहेतवे ।। १०१ ।।
झंझावातस्य शान्त्यर्थं वृष्टेः शान्त्यर्थमित्यपि ।
वालुकावृष्टिशान्त्यर्थं भूतानां रक्षणाय च ।। १०२।।
राधिके ते तुष्टुवुर्वै परमेशं परात्परम् ।
कृपालुं बालकृष्णं सम्प्राप्ते नाशे महर्षयः ।। १ ०३।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उष्णालयखण्डेऽगस्त्यप्रवासस्तत्रत्यर्षिगणेन झंझावाताऽब्धिजलक्षोभे लये जाते श्रीकृष्णनारायणः स्मृत इत्यादि-
निरूपणनामा पञ्चनवतितमोऽध्यायः ।। ९५ ।।