लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०६०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०५९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ६०
[[लेखकः :|]]
अध्यायः ०६१ →

श्रीकृष्ण उवाच-
अपि राधे शृणु त्वन्यं चमत्कारं हरेस्तदा ।
उदयाख्योऽभवद् राजा धार्मिको देवपूजकः ।। १ ।।
अरवल्यद्रिभूभागे राज्यं यस्य महत्तमम् ।
उदयाख्यं पत्तनं च राजधानी ह्यभूच्छुभा ।। २ ।।
राजा व्रतं परं चक्रे चातुर्मास्यैकभोजनम् ।
नित्यं दानं विप्रसाधुभोजनं धेनुसेवनम् ।। ३ ।।
अनाथबालसाध्वीभ्यश्चान्नवस्त्रसमर्पणम् ।
विद्यादाने तथा द्रव्यं देवालयेषु सद्धनम् ।। ४ ।।
हवनं सर्वदा प्रातर्ब्राह्मं सायं जलाप्लवम् ।
एवं व्रते सुकुर्वाणे श्रावणे मासि सर्वथा ।। ५ ।।
इच्छा तस्याऽभवत् स्नातुं मासमेकं सरोवरे ।
यथावाषाढमासेऽसौ धीरवीरसरोवरम् ।। ६ ।।
परिमेयाऽनुगो राजा आर्यायनऋषेर्वने ।
आश्रमे च निजावासं चकार सरितस्तटे ।। ७ ।।
श्रावणे नित्यमेवाऽसौ प्रातरुत्थाय सत्वरम् ।
नारायणं नमस्कृत्य ध्यात्वा श्रीविष्णुमच्युतम् ।। ८ ।।
स्नात्वा सम्पूज्य च लक्ष्मीनारायणं प्रभापतिम् ।
पार्वतीस्वामिनं राधेश्वरं सम्पूज्य भावतः ।। ९ ।।
ततश्चार्यायनऋषेः पूजां करोति नित्यशः ।
अथ पश्चात् सदायाति तीर्थानि द्रष्टुमेव सः ।। 2.60.१ ०।।
सतीतीर्थं शंभुतीर्थं चक्रतीर्थं ततः परम् ।
कृष्णतीर्थं स्वामितीर्थं मञ्जुलातीर्थमित्यपि ।। ११ ।।
सूर्यतीर्थं चेन्द्रतीर्थं ब्रह्मतीर्थं ततः परम् ।
मुक्ततीर्थम् ऋषितीर्थं धर्मतीर्थं जलाश्रयम् ।। १२।।
एवमादीनि तीर्थानि कृत्वा सरोवरेऽभितः ।
प्रदक्षिणं सरः कृत्वा दत्वा दानानि सर्वशः ।। १ ३।।
स्वर्णं रूप्यं चाम्बराणि पात्राणि विविधानि च ।
भोज्यानि चान्नदानानि ततो याति निजाश्रयम् ।। १४।।
एवं कृत्वा ततो होमं वैश्वदेवं करोति च ।
विप्रानृषीन् सतीः साध्वीः साधून् बालाननाथकान् ।। १५।।
विभज्याऽन्नान्यतिथीँश्च भोजयित्वाऽनुगानपि ।
ततो भुंक्ते स्वयं राजा नत्वा त्वार्यायनमृषिम् ।। १६।।
एवं पुण्यप्रतापेन राज्ञः पूर्वकृतानि च ।
यानि कान्यपि पापानि दग्धान्येव समन्ततः ।। १७।।
पुण्यपुञ्जोऽपिं च महानस्य कृष्णेऽर्पितस्ततः ।
कृष्णनारायणस्यैव प्रसन्नताऽस्य शिष्यते ।। १८।।
प्रसन्नता महत् पुण्यं नान्यत् पुण्यं स मन्यते ।
हरिकृष्णः प्रसन्नोऽभूदार्यायनर्षिहृद्गतः ।। १ ९।।
ऋषिः प्राह च राजानं राजन्नेहि ममान्तिके ।
गृहाण परमं मन्त्रं यद्देवः पुरुषोत्तमः ।। 2.60.२०।।
राजा तदा ऋषेरग्रे उपाविवेश तम् ऋषिः ।
'ओं नमः श्रीकृष्णनारायणाय स्वामिने स्वाहा' ।। २१ ।।
इति मन्त्रं दिदेशापि स्रजं च तौलसीं तथा ।
ततोऽनुगानपि मन्त्रमाह चार्यायनो मुनिः ।। २२।।
मन्त्रं लब्ध्वा ऋषिं नत्वा राजा सहानुगो गृहम् ।
ययौ तत्र नदीतीरे स्वोटजायामुपाविशत् ।।२३ ।।
तावत् तत्रागतो बालो मुरलीकरशोभितः ।
राधया प्रभया लक्ष्म्या पारवत्या च सेवितः ।।२४।।
रूपरूपानुरूपाधिमूर्तिः श्रीभगवान् स्वयम् ।
हसन् मुहुस्तथा कान्ता हासयन् रङ्गपूरितः ।।२५।।
दिव्यो दिव्यस्वरूपाभिः पत्नीभिः परिवारितः ।
मयूरपिच्छकल्ग्याढ्यहैममुकुटशोभितः ।। २६।।
वह्निशुद्धांशुकधरो दिव्यभूषाविराजितः ।
करे मीनध्वजस्वस्तिधनुःशूलादिलक्षितः ।। २७।।
तत्पार्श्वे च मनाक् दूरं लक्ष्मीश्रीकम्भरा सती ।
पार्श्वान्तरे मनाक् दूरं श्रीमद्गोपालकृष्णकः ।। २८।।
अन्या दास्यस्तथा दासाः पर्णकुट्यां समागताः ।
कोटिकोटयर्कभातुल्यं तेजस्तत्र बभौ सुखम् ।।२९ ।।
राजा विलोक्य रुचिरं मूर्तौ तत्र स्थिरोऽभवत् ।
नेमे नेत्रे च सम्मिल्य तेजोव्याहतरश्मिणी ।।2.60.३ ०।।
क्षणान्तरे समुद्धाट्य यावत् पश्यति केशवम् ।
तावदेकोऽभवत् कृष्णस्तन्मूर्तौ श्रीहरिः स्वयम् ।।३ १।।
दर्शयामास सौराष्ट्रं तथा कुंकुमवापिकाम् ।
अश्वपट्टसरश्चापि तथा श्रीलोमशाश्रमम् ।। ३ २।।
तथा श्रीकम्भरालक्ष्मीं तथा गोपालकृष्णकम् ।
कोट्यर्बुदाब्जकन्याश्च तीर्थान्यपि च सर्वशः ।। ३३ ।।
एवं प्रदर्श्य भगवान् सर्वं लीनं चकार ह ।
ततः स्वपादयोस्तस्मै दर्शयामास वै क्षणात् ।। ३४।।
पातालं च तदूर्ध्वं च रसातलं ततः परम् ।
महातलं जंघयोश्च जान्वोस्तलातलं ततः ।। ३५ ।।
सुतलं चोर्वधोभागे सक्थ्नोश्च वितलं ततः ।
सक्थिमूले चातलं च तत्रत्यान् दैत्यदानवान् ।। ३६ ।।
सर्पान्नागानन्यजीवान् नदीपर्वतभूस्तरान् ।
विभूतीन् दर्शयामास शेषं च कच्छपं तथा ।। ३७।।
कट्यां भुवं जघने च भुवर्लोकं ततः परम् ।
नाभ्यां स्वर्गं महर्लोकं ह्युदरे हृदये जनम् ।। ३८ ।।
तपोलोकं मुखे सत्यं ललाटेऽस्मै व्यदर्शयत् ।
चर्मणि सप्तकान्येवावरणानि व्यदर्शयत् ।। ३९ ।।
एवं प्रदर्श्य च क्षणाल्लीनं चकार तत्तदा ।
अथैनं दर्शयामास वैष्णवं रूपमात्मनः ।।2.60.४० ।।
सहस्रशिरसं रम्यं सहस्रकरपादकम् ।
तत्र वै पादयोरेनं दर्शयामास वै जलम् ।।४ १ ।।
तेजो वायुं चाम्बरं च ब्रह्मविष्णुमहेश्वरान् ।
पादयोर्जलवैकुण्ठं वैराजं जंघयोस्तथा ।।४२ । ।
जान्वोश्चाथ महाविष्णुं सक्थ्नोर्भूमानमित्यपि ।
सक्थिमूले प्रधानं च पुरुषं शिश्नके तथा ।।४३ ।।
प्रकृतिं जघने नाभौ वासुदेवमदर्शयत् ।
कट्यां कालं च पुरुषं पार्श्वे संकर्षणं तथा ।।४४।।
पार्श्वान्तरे च प्रद्युम्नं ह्युदरे त्वनिरुद्धकम् ।
कुक्ष्योर्वैकुण्ठगोलोकौ वक्षस्यनन्तदासिकाः ।।४८६ । ।
राधारमादिशक्तीश्च दर्शयामास केशवः ।
कण्ठे ब्रह्मस्वरूपाँश्च मुक्तान् कोट्यर्बुदाब्जकान् ।।४६ ।।
मुखे त्वमृतलोकं च नेत्रयोरक्षरं तथा ।
ब्रह्म प्रदर्शयामास ललाटे तेजसां चयम् ।।४७।।
तत्र श्रीकम्भरालक्ष्मीं श्रीमद्गोपालकृष्णकम् ।
ब्रह्मरन्ध्रे परं धाम नैजं प्रादर्शयद्धरिः ।।४८ ।।
तत्र सिंहासनं दिव्यं स्थितं तस्मिन् हरिं तथा ।
सेवमानं च तं तत्र स्वं राजा संव्यलोकयत् ।।४९ ।।
ततः पुनश्च तत्सर्वमदृश्यं समजायत ।
कुंकुमवापिकाक्षेत्रे स्थितं तं बालरूपिणम् ।। 2.60.५० ।।
ददर्श राजा श्रीमन्तं सेवितं कोटिदेहिभिः ।
तत्रात्मानं नृपः पुनर्ददर्श निकटे स्थितम् ।।५ १ ।।
अथ सर्वं क्षणात् लीनं नृपस्त्वाश्चर्यमाप्तवान् ।
ततः क्षणान्तरे नैजोटजां ददर्श शोभनाम् ।।५२।।
स्वस्थो भूत्वा दिशो नत्वा तुष्टाव ध्यानसंस्थितः ।
ओं नमः श्रीनिवासाय मूलप्रकृतियामिने ।।५३ ।।
अजिताय च देवाय महात्मने नमोऽस्तु ते ।
अनाश्रिताय शान्ताय निःस्पृहाय नमोस्तु ते ।।५४।।
नम आद्याय देवाय सर्वदेवमयाय च ।
आर्षायाऽऽदिस्वरूपाय श्रीकृष्णाय च ते नमः ।।५५।।
अनन्तराय चैकाय सदा व्यक्ताय ते नमः ।
नमो गुप्ताय काशाय गुणेश्वराय ते नमः ।।५६।।
अतर्क्यायाऽप्रमेयाय चातुलाय च ते नमः ।
निश्चिन्ताय च पूर्वाय सनातनाय ते नमः ।।५७।।
पुराणाय नमस्तस्मै निर्गुणाय नमोऽस्तु ते ।
नमो जगत्प्रतिष्ठाय ब्रह्मनिष्ठाय ते नमः ।।५८।।
पद्मनाभाय योगाय गोविन्दाय नमो नमः ।
नमोऽस्तु सांख्यवेद्याय विश्वेश्वराय ते नमः ।। ५९ ।।
हरये शिवरक्षाय नारायणाय ते नमः ।
परात्मनेऽमितदात्रेऽमितक्रमाय ते नमः । ।2.60.६ ० ।।
शार्ङ्गचक्रगदापद्मशालिने ते नमो नमः ।
महोरगाय सिंहाय नमोऽस्तु वेदवासिने ।। ६१ ।।
महामत्स्याय कान्ताय कच्छपाय च ते नमः ।
वामनाय च दीर्घाय चतुर्भुजाय ते नमः । ।६२ ।।
सिद्धचारणगन्धर्वसंस्तुताय नमो नमः ।
अच्युताय सकलाय नागेन्द्रशयनाय च ।।६ ३ ।।
दुग्धवर्णाय कृष्णाय हेमाभाय नमो नमः ।
पीताम्बराय दैत्यादिनाशनाय च ते नमः ।।६४।।
अक्षरायाऽक्षरेशाय नाभिपद्माय ते नमः ।
चतुर्मुखाय देवाय पञ्चवक्त्राय ते नमः ।। ६५ ।।
क्षीरवासाय यशसे कान्तये वरदाय च ।
सर्वेश्वराय कान्ताय कामिनीशाय ते नमः ।।६६।।
वरेण्याय विघ्नहर्त्रे भक्तिप्रियाय ते नमः ।
पद्मायतसुनेत्राय शुकनासाय शार्ङ्गिणे ।।६७।।
योगेश्वराय वृक्षाय शाखिने ते नमो नमः ।
देवायनाय मुनये साधवे ते नमो नमः ।।६८ ।।
मोहिनीरूपभासाय जीववासाय ते नमः ।
वाराहाय नृसिंहाय शरभाय च ते नमः ।।६९।।
कूटस्थं सर्वहेतुं च पुरुषं च पुरातनम् ।
मायाकान्तं चेशकान्तं सर्वकान्तं नमाम्यहम् ।। 2.60.७० ।।
क्षेत्रज्ञं कालमायेशं व्यूहेशं मुक्तजीवकम् ।
वासुदेवं सतीकान्तं कृष्णनारायणं प्रभुम् ।।७ १ ।।
कम्भरानन्दनं कृष्णं गोपालकृष्णबालकम् ।
परधामनिवासं तं पुमुत्तमं नमाम्यहम् ।।७२।।
ब्रह्मर्षयो ब्रह्मरूपं यं वदन्ति सनातनम् ।
अक्षरेशं च मुक्तेशं प्रपद्ये शरणं हरिम् ।।७३ ।।
श्रीवत्साऽङ्कं श्वेतपद्मरेखं विगुणहारकम् ।
षोडशादिचिह्नशोभं प्रपद्ये शरणं पतिम् । ७४।।
यत्र विश्वं यश्च विश्वे सर्वं यत्र प्रतिष्ठते ।
प्रभवं सर्वभूतानां दिव्यगुणं परेश्वरम् ।।७५।।
प्रपद्ये मुक्तसंगानां साधूनां परमां गतिम् ।
भगवन्तं चात्मवासं स्त्रीवासं पुष्करेक्षणम् ।।७६।।
शरण्यं शरणं भक्त्या प्रपद्ये भक्तवत्सलम् ।
अन्तकाले समागत्य प्रदर्श्यात्मानमेव यः ।।७७।।
नैजं धाम निजं भक्तं नयत्येव प्रभुः परः ।
तं नमामि परं देवं मोक्षदं पुरुषोत्तमम् ।।७८ ।।
पातालान्तं च सत्यादि सर्वं माति तु यत्र वै ।
महामायान्तकं सर्वं यस्मिन् माति जनार्दने ।।७९।।
धामानि मुक्तकोट्यश्च यस्मिन् मान्ति परेश्वरे ।
तं प्रपद्ये परं कृष्णं नारायणं श्रियः पतिम् ।।2.60.८ ० ।।
न त्वां स्तोतुं तथा वेद्मि यथा त्वं वर्तसे प्रभो! ।
स्वरूपं न यथार्थं च वेद्मि वेद्मि तटस्थकम् ।।८ १ ।।
त्वया यत् कृष्ण कृपया कृष्णनारायणात्मकम् ।
रूपं प्रदर्शितं मह्यं तपः फलं कृपाफलम् ।।८२।।
धाम प्रदर्शितं चापि तथा कुंकुमवापिका ।
अश्वपट्टसरश्चापि दर्शितं लोमशाश्रमम् ।।८ ३ ।।
सर्वं पुनः पुनर्नाथ द्रष्टुमिच्छामि सेवया ।
प्रसन्नतां समिच्छामि तथा मे वरदो भव' ।।८४।।
इत्येवं संस्तुतोऽनादिश्रीमत्कृष्णनरायणः ।
सान्निध्यं चाजगाम द्राक् चक्रपद्मधरः प्रभुः ।।८५।।
प्रीतिमान् पुण्डरीकाक्षः शरणागतवत्सलः ।
प्रोवाच मधुरं तस्मै उदयाय महात्मने ।।८६।।
तव स्तोत्रेण च राजन् प्रसन्नोऽस्मि पुनः पुनः ।
सर्वमिष्टां च ते राजन् आर्यायनप्रसंगतः ।।८७।।
भविष्यत्यचिरात् क्षेत्रे मम वासोऽपि ते भवेत् ।
सन्नेष्ये त्वां मम क्षेत्रं वारुणेन पथा नृप ।।८८ ।।
ते योगान्मम योगाच्च नदीतीर्थं भविष्यति ।
इदं स्तोत्रं तु ये राजन् पठिष्यन्ति गृहे वने ।।८९।।
प्राप्स्यन्ति परमां सिद्धिं मम प्राप्तिस्वरूपिणीम् ।
अत्र तीर्थे धीरवीरसरोवरे तु ये जनाः ।।2.60.९०।।
पशवः पक्षिणः कीटा वृक्षवल्ल्यादिकास्तथा ।
जलपानं करिष्यन्ति मुक्तिं यास्यन्ति पावनीम् ।।९ १।।
श्राद्धं दानं जपं होमं तर्पणं भोजनं जलम् ।
येऽत्र दास्यन्ति विधिना तेषां मुक्तिर्भविष्यति ।।९२।।
इत्युक्त्वा भगवान् भूपं चादृश्यभावमास्थितः ।
राजा जजाप बहुधा कृष्णनारायणं प्रभुम् ।।९३।।
जगौ ननर्त दध्यौ च जहास च रुरोद च ।
तस्थौ सिषेवे पुपूज ददर्श तं यथा तथा ।।९४।।
भृत्यान् वै प्रेषयामास नैजमुदयपत्तनम् ।
नागदेवं सुतं राज्यदानं समादिदेश च ।।९५।।
साधुवद्वर्तते स्माऽत्र राजा भागवतोत्तमः ।
रात्रौ सुप्तः श्रावणस्याऽष्टम्यां ववर्ष मेघराट् ।।९६।।
सरोवरं नदी कूपा जलाकाराः समुद्रवत् ।
अतिवृष्ट्या तदा जाता पर्णशाला जलान्तरे ।।९७।।
लयं याता जनाश्चापि जले मग्नाः शताऽधिकाः ।
अनादिश्रीकृष्णनारायणं सस्मरुरत्यति ।।९८।।
द्रागेव राधिके कृष्णनारायणो दयानिधिः ।
ययौ रक्षणकर्ता स नावमादाय शाश्वतीम् ।।९९।।
सहस्ररूपधारी च यत्र यत्र जले जनाः ।
निमग्ना बालवृद्धाद्या नरा नार्यः पशूत्तराः ।। 2.60.१० ०।।
सर्वानुद्धारयामास नैकोऽपि मृतिमाप्तवान् ।
आर्यायनं महर्षिं च समाधिस्थं गतं जले ।। १० १।।
उद्गृह्य नावि भगवान् दधार करुणालयः ।
नद्यां मह्यां तु सा नौका स्थापिता परमात्मना १ ०२।।
शतद्वयाऽधिकान् तस्यां मग्नान् धृत्वा ररक्ष सः ।
पशून् पक्षिगणाँश्चापि ररक्ष जीवतस्तदा ।। १० ३।।
राजा च मानवा सर्वे जीवन्तः श्रीनरायणम् ।
भेजिरेऽनन्यभावाश्च नौरास्ते जलमस्तके ।। १ ०४।।
जलोपरि वहत्येव शनैः कृष्णेन वाहिता ।
राधिके रक्षिता कृष्णस्तत्र का नाम वेदना ।। १ ०५।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने उदयपुरनृपतेः चातुर्मास्ये धीरवीरसरोवरतटस्थितस्य प्रभोर्दर्शनं चातिवृष्ट्या जलमग्नत्वं प्रभुणा नावा रक्षा कृतेत्यादिनिरूपणनामा षष्टितमोऽध्यायः ।। ६० ।।