लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०५०

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०४९ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ५०
[[लेखकः :|]]
अध्यायः ०५१ →

श्रीकृष्ण उवाच-
शृणु त्वं राधिके! दिव्यं चमत्कारं हरेस्तथा ।
वीणाभंगस्य च फलं यानस्थास्वभवत्तदा ।। १ ।।
अब्रिक्तदेशवासा ये म्लेच्छा राक्षसयोनयः ।
आरण्यकाश्च ग्रामस्था वनपर्वतवासिनः ।। २ ।।
सहस्रयोजनस्थास्ते व्यलोकयन् तदाम्बरे ।
शतसूर्यसमं तत्तु विमानं भास्वराम्बरम् ।। ३ ।।
सूर्यतेजोऽतितेजोभिर्दशगुणान् प्रभावतः ।
किरणान् व्यसृजद् व्योम्नि अनुष्णाशीतसंसहान् ।। ४ ।।
सुदृश्यान् सुस्पृशश्चापि मष्टामोदभराँस्तथा ।
आनन्दोत्पादकान् शान्तिप्रदान् विचित्रभासुरान् ।। ५ ।।
ब्रह्मणा श्रीकृष्णनारायणार्थं चार्पितं तु यत् ।
कि न्यूनं तत्र वै राधे! विमाने मानवद् भवेत् ।। ६ ।।
घृतदुग्धदधिकुल्या अमृतवारिसद्ध्रदाः ।
गन्धसारद्रवसारचूर्णसारादिगूटिकाः ।। ७ ।।
रससाराऽऽमोदसारचर्वणोत्तमवीटिकाः ।
विद्यन्ते यत्र सततं कल्पस्तम्बेषु शाश्वताः ।। ८ ।।
रत्नद्वीपा दर्शनार्हा नैकरङ्गादिभासुराः ।
स्वर्णचम्पकवर्णाभकन्यकाहृदयंगमाः ।। ९ ।।
हारतोरणकुञ्जादिहरिद्वर्णनिकुञ्जकाः ।
रम्यस्थेयोद्यानमध्यासनशाद्वलराजिताः ।। 2.50.१ ०।।
स्थल्यो यत्र प्रभासन्ते चन्द्रभूमिसमाः शुभाः ।
विमानरूपं कन्यानां रूपं रूपं च चान्द्रिकम् ।। १ १।।
प्रभारूपं च सर्वं वै रूपप्रदीपजं तथा ।
मणिरत्नादिरूपं च भिन्नं चापि परम्परम् ।। १२।।
अन्योन्योत्कृष्टतां प्राप्तं श्रेष्ठं श्रेष्ठं व्यभासत ।
केषां मनांसि लोकानां सस्पर्द्धचंचलानि वै ।। १३।
नाकृष्टानि भवेयुर्वै दिव्यैतादृशरश्मिभिः ।
दिव्याभिः कन्यकाभिश्च दिव्यस्मृद्धिभिरेव च ।। १४।।
ताभिरुत्तेजिता म्लेच्छा दैत्या चाब्रिक्तवासिनः ।
मायामन्त्रकरा व्योम्नि रुरुधुस्तद्विमानकम् ।। १५।।
आशावहालाभवहा इष्टंमन्याश्च वेगिनः ।
अविचार्य पतन्त्युग्रा प्राणान्तदुःखदेऽपि च ।। १६।।
दृष्ट्वाऽनलं पतंगाश्च गृह्णीम इति वाञ्च्छया ।
पतन्ति रूपभोगार्थं प्रज्वलन्तेऽतितेजसा ।। १७।।
अपात्राण्यपि कुर्वन्ति प्रयासं बहुले फले ।
अशक्तिगम्ये निक्षिप्यात्मानं मृतिं प्रयान्ति च ।। १८।।
असुरास्ते कालसीदा म्लेच्छा मत्वा बलं निजम् ।
अधिकं त्वरितं रुष्टाः सन्नह्य रणमागमन् ।। १ ९।।
रक्तवार्धिः रौद्रबाष्पो विज्ञतुरीयकस्तथा ।
तुंगानीको न्याससारो लिङ्गरसोऽतिदारुणः ।।2.50.२०।।
ध्वाक्षबीजो मूशलाम्बः कर्मांगः कर्महास्तथा ।
चण्डसारो नष्टजरः सहारश्चातलेष्टकः ।।२ १ ।।
तुङ्गमुखस्त्रिराशश्च लीलाबीजो भयंकरः ।
फल्गुबीजो गम्बिकायः सेनागोलः स्फुटार्दनः ।।२२।।
जीवलश्च केदण्डश्च कुमेरुः स्थानलिस्तथा ।
तुम्बासुरोऽथ लीनापश्चालिविष्टः किमूषकः ।।२३।।
तूनायश्च तथाऽऽबालो रुक्वासनश्च मावुरः ।
बांगिवलिर्दिनोलूकः कुवंशजः कुरेनृकः ।।२४।।
धोधसादा बहवश्च अम्बिकासश्च शिर्वमः ।
देषलश्च कक्रलश्च ईज्यापातो नबीजकः ।।२५।।
सुदानश्च सुमालिश्च काणिमश्च त्रिगोणिकः ।
रुद्रशिराश्च त्रिष्वालः पिलिपश्च नमाकुवः ।।२६।।
दिनमेरश्चाङ्गुलादः फेनगः कामनारुणिः ।
निम्नझरो लालवारो ह्रीयोढो मारकर्कशः ।।२७।।
अलिजीरश्च रोण्डेगः शाहुदः फकराणकः ।
पार्ष्णिः कृकाटकः पिण्डनलो रन्ध्रप्रमोषकः ।।२८।।
भुजहा जत्रुशमनो लामको मूर्द्धभामकः ।
प्रकोष्ठकः पृष्ठवंशो नितम्बवेणुकस्तथा ।।२९।।
आसवापश्चामीषपः कुक्कुटाशः कृकाशकः ।
इत्येते बलवन्तश्च मायया व्योमचारिणः ।।2.50.३ ० ।।
विद्युद्वेगेन वै सर्वे सन्नह्योपस्थिता रणे ।
तत्र राजा जुमासेम्ला दूतं वै रक्तवार्धिकम् ।।३ १ ।।
प्रेषयामास च विमानाग्रे वक्तुं निजेष्टकम् ।
राजा प्राह विमानाग्रे गत्वाऽऽवेदय रक्तक! ।।।३ २।।
विमानं त्वस्तु नश्चात्र कन्या भवन्तु नः स्त्रियः ।
विमानस्था नराः स्वर्गं यान्तु चान्यत्र वै सुखम् ।।३३।।
अन्यथा तु प्रसह्यैव हरिष्यामस्तु कन्यकाः ।
हनिष्यामश्च वस्तस्माद् यथेष्टं कुरुताऽत्र यत् ।।३४।।
दूतो नत्वा विमानाग्रे गत्वा प्राह तथैव तत् ।
नारदः प्राहः तं दूतं वदाऽसुरनृपं मम ।।३५।।
याश्चात्र सन्ति कन्यास्ता ब्रह्मणः पुत्र्य एव ताः ।
यूयं च ब्रह्मपौत्रस्य कश्यपस्य हि वंशजाः ।।३६।।
दैत्यो हिरण्यचक्षुर्यस्तस्य पुत्राः सुकालिकः ।
अञ्जनः कालमेघश्च जासुशेषो मलीनसः ।।३७।।
हावुको भावुकश्चापि दाउको धावुकस्तथा ।
क्वाश्मकश्चाजमालश्च सैरेयाद्याः शताधिकाः ।।३८।।
हिरण्याक्षे हते दैत्ये विष्णुना सूकरेण ह ।
तद्भयाद् द्रवमानास्ते चाब्रिक्तं रणपर्वतैः ।।३९।।
व्याप्तं देशं समागत्याऽकुर्वन् निवासमत्र ते ।
तद्वंश्या वै भवन्तश्च भवन्त्येव गतवृषाः ।।2.50.४०।।
असंस्कृता म्लेच्छवृत्ता मम भ्रात्रादिवंशजाः ।
अहं च नारदश्चास्मि तथाऽत्रास्ते सनत्-ऋषिः ।।४१।।
धर्मराजस्तथा चात्र विराजते हि दण्डधृक् ।
रुद्रोऽत्र राजते लोकसंहारकृत्परः प्रभुः ।।४२।।
अपुत्रेण पुरा रुद्रो हिरण्याक्षेण वै वने ।
आराधितो हरो देवः पुत्रार्थाय पुरा किल ।।४३।।
तत्प्रतापेन सापत्योऽभवद् भवत्पितामहः ।
तं रुद्रं माऽत्र रुन्धन्तु मा रुन्धन्तु यमाधिपम् ।।४४।।
कन्यका मातरः सर्वा भवतां ता भवन्ति वै ।
अजित्वा तु यमं रुद्रं भवत्कामो हि दुर्लभः ।।४५।।
यस्तरेत् सागरं दोर्भ्यां पातयेद् भुवि भास्करम् ।
मेरुमुत्पाटयेद्वापि स जयेद् यमशंकरौ ।।४६।।
किं न श्रुतं त्वया राजन् पूर्वे वै चाऽन्धकासुरः ।
पार्वतीकामनामूढः सदैत्यो नाशमाप्तवान् ।।४७।।
महीषश्च तथा जम्भः कुजम्भो नाशमागताः ।
शंखचूडस्तथा जालंधरोऽपि नाशमागतौ ।।४८।।
भस्मो मुरस्तथा चान्ये विनष्टा मोहमारिताः ।
परस्त्रीकामनामूढः पुरा दण्डो महीपतिः ।।४९।।
शुक्रपुत्र्यां रतिं कृत्वा सराष्ट्रो नाशमाप्तवान् ।
शृणु दूत! ततः श्रुत्वा श्रावय त्वं नराधिपम् ।।2.50.५०।।
दण्डो राजा महानासीत् प्रभूतबलवाहनः ।
ईजे स विविधैर्यज्ञैर्नृपतिः शुक्रपालितः ।।५१ ।।
शुक्रश्चाऽस्याऽभवद् यज्ञे पुरोहितः पुनः पुनः ।
शुक्रः कदाचिदगमत् पातालं दैत्यमन्त्रितः ।।५२।।
शुक्रस्यासीत्तु दुहिता अरजा नामतो गृहे ।
एकाकिनी पर्णकुट्यां शुश्रूषन्ती मखाऽनलम् ।।५३।।
राजा तु दर्शनं कर्तुं चायातो पर्णजे गृहे ।
अग्निं प्रणम्य च कन्यामेकाकिनीं सुरूपिणीम् ।।।५४।।
सन्दृष्ट्वा कामसन्तप्तस्तत्क्षणादेव पार्थिवः ।
नेमे तां तु गुरोः पुत्रीं पूर्णयौवनशालिनीम् ।।५५।।
सापि तमागतं कन्या प्रत्युत्थाय तपोधना ।
भ्रातृभावेन सत्कृत्य मालां प्रासादिकीं ददौ ।।५६।।
ततस्तामाह नृपतिर्बाले कामाग्नितापितम् ।
मां समाह्लादयस्वाऽत्र स्वपरिष्वंगवारिणा ।।५७।।
सा तं प्राह तदा मे तु पिता त्वां निर्दहेच्च माम् ।
यः समर्थो जीवयितुं देवान् मारयितुं ह्यपि ।।।५८।।
भवान् भ्राता धर्मतोऽस्ति शिष्यो यतः पितुर्मम ।
त्वं मैवं मानसं राजन् एकान्ते कर्तुमर्हसि ।।५९।।
सोऽब्रवीद् भीरु मां शुक्रः कालेन परिधक्ष्यति ।
कामाग्निस्त्वद्य मामत्र दहत्येव प्रशामय ।।2.50.६०।।
सा प्राह दण्डं नृपतिं मुहूर्तं परिपालय ।
गुरुं तमेव याचस्व स ते दास्यत्यसंशयम् ।।६१ ।।
दण्डोऽब्रवीत् अरजो! मे कालक्षेपो न वै क्षमः ।
क्षणे क्षणे नु विघ्नानां पंक्तिः सर्वत्र विद्यते ।।६२।।
विरजा प्राह नात्मानं दातुं शक्ता नराधिप ।
कामभोगे तु सुतरामस्वतन्त्रा हि योषितः ।।६३।।
किं वदामि तव राजन्नेवमुत्पथवर्तिनः ।
राष्ट्रं राज्यं कुटुम्बं च स्वयं चान्यच्च यत् तव ।।६४।।
सर्वं त्वया युतं नाशं शुक्रशापेन यास्यति ।
मैवं वह्नौ पत राजन्नैतद् धर्म्यं हि विद्यते ।।६५।।
राजा प्राह बलात्त्वां वै भोक्ष्ये चेन्नैव मन्यसे ।
अरजा यज्ञवह्निं स्वहस्ते कृत्वा नृपोपरि ।।६६।।
चिक्षेप गच्छ दुष्टात्मन्नितो विभ्रष्टमानस ।
इत्युक्त्वा पर्णशालां च त्यक्त्वा गन्तुं बहिर्हि सा ।।६७।।
यावद्धावति तावत्तां धृत्वा कृत्वा स्ववक्षसि ।
कामोपहतचित्तात्मा व्यध्वंसयत मन्दधीः ।।६८।।
तां कृत्वा च्युतचारित्रां निश्चक्राम ययौ गृहम् ।
सापि शुक्रप्लुता बाला अरजा रजसा प्लुता ।।६९।।
आश्रमादथ निर्गत्य बहिस्तस्थावधोमुखी ।
चिन्तयन्ती स्वपितरं रुदती च मुहुर्मुहुः ।।2.50.७० ।।
अस्नाना चाऽभोजना च तस्थौ वृक्षं समाश्रिता ।
प्रहरान्ते पिता तस्याः शुक्रः प्रागमदाश्रमम् ।।७१।।
ददृशे कन्यकां नैजां सन्ध्यातुल्यां रजस्वलाम् ।
पप्रच्छ पुत्रि! केनाऽसि धर्षिता वा कथं न्विदम् ।।७२।।
क्व स दुष्टो ययौ पापी विध्वंसयति कन्यकाम् ।
रुदती सा व्रीडया स्वपितरं प्राह चारजाः ।।७३ ।।
राज्ञा दण्डेन चागत्य वार्यमाणेन चाऽसकृत् ।
बलादनाथा रुदती नीताऽहमीदृशीं दशाम् ।।७४।।
एतच्छ्रुत्वा ह्युपस्पृश्य शुचिः शुक्रः शशाप तम् ।
यस्मात्तेनाऽविनातेन ममाऽऽज्ञां मम गौरवम् ।।७५।।
तिरस्कृत्य शुभाचारा च्युतधर्माऽरजाः कृता ।
तस्मात् सराष्ट्रः सबलः सभृत्यो वाहनैः सह ।।७६।।
सप्तरात्रान्तराद् भस्म दण्डो भवतु सानुगः ।
शुक्रः पुत्रीं ततः प्राह शुद्धाचारां तपस्विनीम् ।।७७।।
मासान्ते त्वागते राजस्वल्ये शुद्धा भविष्यसि ।
तावत् तपः कुरु पुत्रि यथेष्टं चोचितं तव ।।७८।।
न ते दोषोऽस्ति वै पुत्रि गर्भस्ते न भविष्यति ।
पिब चोष्णं पञ्चगव्यं मा भयं कुरु पुत्रिके ।।।७९।।
अथ दण्डोऽपि नृपतिः सराष्ट्रबलवाहनः ।
भस्मीभूतोऽभवत् शापात्सप्तरात्रान्तरेऽसुर ।।2.50.८० ।।
एवं भस्मस्थलं जातं दण्डकारण्यमुल्बणम् ।
एवं परकलत्राणि धर्षयन्ति तु ये जनाः ।।८१।।
भस्मीभवन्ति ते सर्वे सराष्ट्रबलवाहनाः ।
धर्मशीला विनीताश्च न्यायमार्गा हि निर्भयाः ।।८२।।
प्रसह्य परदारस्थाश्चेहाऽमुत्र न निर्भयाः ।
धर्मान्वितो रविर्धर्मः पत्नीव्रतश्च भूसुरः ।।८३।।
अगस्त्यश्च मनुः स्वयंप्रकाशोऽन्ये मुनीश्वराः।
तेजस्विनः शापमोक्षवरक्षमाः सुराऽर्चिताः ।।८४।।
अधर्मस्थाश्चन्द्रदेवेन्द्रान्धका दुःखिनोऽभवन् ।
तस्माद्धर्मो न सन्त्याज्यो धर्मो हि परमा गतिः ।।।८५।।।
तारणं परमो धर्मः पतनं त्वनयाद् भवेत् ।
तस्मात् त्याज्यं बलान्नित्यं परदारोपसेवनम् ।।८६।।
नयन्ति परदारास्तु महापत्तीर्हि दारुणाः।
परार्थपरदारस्था नरकार्हा सदा मताः ।।८७।।।
तस्माद्वै दूरतस्त्याज्याः परदारा विचक्षणैः ।
परदारहतप्रज्ञा न भवन्ति विभूतये ।।८८।।
शृणु दूत कथां चान्यां कथयामि समासतः ।
इत्युक्त्वा नारदः प्राह कथां दिव्यां पुरातनीम् ।।८९।।
विश्वकर्मसुता साध्वी नाम्ना चित्रांगदाऽभवत् ।
रूपयौवनसम्पन्ना कमला पद्मिनी यथा ।।2.50.९० ।।
सा स्नातुं नैमिषे क्षेत्रे सखीयुक्ता जगाम ह ।
स्नान्ती ददर्श सुरथः सुदेवतनयो नृपः ।।९ १।।
साऽपि त्वभूत् सकामाऽति स्वप्रदानमियेष च ।
सख्यस्तामब्रुवन् बाले नैतद् योग्यं हि जायते ।।।९२।।
अस्वातन्त्र्यं तवाऽस्त्यत्र प्रदाने स्वात्मनः परे ।
पिता कुर्यात् सुतादानं सुता पितृवशे यतः ।।९३।।
न ते युक्तमिहात्मानं दातुं नरपतेः स्वयम् ।
एतस्मिन्नन्तरे राजा सुरथः कामपीडितः ।।९४।।
उवाचेनां मदिराक्षि! मुग्धे मोहयसीव माम् ।
तन्मां कुचतले तल्पेऽभिशाययितुमर्हसि ।।९५।।
ततः सा कामसन्तप्ता प्रार्थिता भूभृता मुहुः ।
वार्यमाणा सखीभिस्तु प्रादादात्मानमात्मना ।।९६।।
आत्मा प्रदत्तः स्वातन्त्र्यात् ततस्ता तादृशीं सुताम् ।
पितरं चावमन्यैव कामगामशपत् पिता ।।९७।।
यतो धर्मं परित्यज्य श्रीभावात् मूर्खभूभृते ।
आत्मा प्रदत्तस्तस्मात्ते विवाहो न भविष्यति ।।९८।।
विवाहरहिता नैव सुखं लप्स्यसि भर्तृतः ।
न च पुत्रफलं नैव पतिना योगमेष्यसि ।।९९।।
उत्सृष्टमात्रे शापे तु ह्यपोवाह सरस्वती ।
अकृतार्थं नरपतिं योजनानि त्रयोदश ।। 2.50.१० ०।।
अपकृष्टे नरपतौ साऽप्यनिर्वृत्तकामना ।
मूर्छायां पतिता तत्र तदा सख्यो जलेन ताम् ।। १० १।।
सिषिचुः शैत्यमापन्ना क्षणान्तरेऽतिदुःखिता ।
मृतकल्पा हतोत्साहा संज्ञां लेभे शनैः शनैः ।। १ ०२।।
अपश्यन्तीं नरपतिं दुद्राव वेगतस्तदा ।
निपपात सरस्वत्या मुह्यमाना तरंगकैः ।। १०३ ।।
निर्गता सा महारण्ये सिंहव्याघ्रसमाकुले ।
तामपश्यद् गुह्यकश्च निन्ये श्रीयमुनातटे ।। १ ०४।।
तत्र चिक्षेप च भुक्त्वा जले श्रीकृष्णसन्निधौ ।
सा निर्गत्य शिरोनम्रा मध्याह्ने संस्थिताऽभवत् ।। १ ०५ ।।
ददर्शैनां तापसस्तु ऋतुध्वजाभिधानकः ।
तां प्राह पुत्रि! कस्याऽसि सुता कथं समागता ।।१ ०६ ।।
ततः सा सर्ववृत्तान्तं याथातथ्यमुवाच वै ।
श्रुत्वा ऋषि क्रुधा तस्याः पितरं शिल्पिनां वरम् ।। १ ०७।।
अशपद् यत्त्वया त्वष्टर्दानयोग्याऽपि पापिना ।
योजिता नैव पतिना तस्माच्छाखामृगो भव ।। १ ०८।।
इति शापाद् विश्वकर्मा द्रागेव वा नरोऽभवत् ।
न्यपतन्मेरुशिखराद् भूपृष्ठं शापकारणात् ।। १ ०९।।
अटन् पृथ्वीं समायातः श्रीकण्ठं वै ऋतुध्वजम् ।
प्रार्थयन्मे महाघोरो दत्तः शापो निवर्त्यताम् ।। 2.50.११ ०।।
चित्रांगदायाः पितरं मां त्वष्टारं विभावय ।
मया वानररूपेण पापान्यपि कृतानि हि ।। १११ ।।
तानि मे संक्षयं यान्तु कृपां कुरु ऋतुध्वज ।
ऋतुध्वजस्ततः प्राह शापस्याऽन्तो भविष्यति ।। १ १२।।
समुत्पाद्य घृताच्यां वै तनयं सुमहाबलम् ।
तावत् सौम्यां घृताचीं सोऽपश्यत् तत्कामितोऽभवत् ।। १ १३।।
ददौ गर्भं कामयानां सापि गोदावरीतटे ।
प्राप्ते काले बलवन्तं प्रासूत तनयं नलम् ।। १ १४।।
वानरः कपितां त्यक्त्वा विश्वकर्माऽभवत् क्षणात् ।
चित्रांगदा सप्तगोदावरं तीर्थं गताऽभवत् ।। १ १५।।
हाटकेश्वरपूजायां सदा मग्नाऽभवद् यतः ।
तत्राऽयं वानरो विश्वकर्मरूपोऽभवत् तदा ।। १ १६।।
सर्वं ज्ञातवती पुत्री स्वातन्त्र्यदुःखमीदृशम् ।
विश्वकर्मा ततस्तत्र राजानं सुरथं पुनः ।। १ १७।।
समाहूय ददौ तस्मै चित्रांगदां सुतां निजाम् ।
ततः सा सुखिनी जाता भुक्त्वा कष्टं शतं समाः ।। १ १८।।
तस्माद् दूत महादूत रक्तवार्धे सुबुद्धिमन् ।
जुमासेम्लाख्यनृपतिं निवेदय मयोदितम् ।। १ १९।।
सर्वं यथार्थं विधिवद् याहि गृहं सुखं वस ।
अजित्वा तु विमानं वा कन्यका नहि लप्स्यसे ।। 2.50.१ २०।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने अब्रिक्तदेशीयनृपतिना स्वसेनाधिपैः सर्वकामविमानं रुद्धं, दूतोक्तिः, नारदस्य प्रत्युक्तिश्च, तत्र शुक्राऽरजादण्डानां विश्वकर्मचित्रांगदासुरथानां कथा चेत्यादिनिरूपणनामा पञ्चाशत्तमोऽध्यायः ।। ५० ।।