लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ०१४

विकिस्रोतः तः
Jump to navigation Jump to search
← अध्यायः ०१३ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः १४
[[लेखकः :|]]
अध्यायः ०१५ →

श्रीकृष्ण उवाच-
श्रूयतां राधिके युद्धं नारीणां चण्डयोषिताम् ।
फेरुराजगृहिणीनां राक्षसीनां भयानकम् ।। १ ।।
दारुणं सर्वथानाशकरं प्राणार्पणात्मकम् ।
पतयोऽत्र मृता यस्मान्मर्तव्यं तत्र भस्मसु ।। २ ।।
इति कृत्वा युयुधुस्ता मरणांकगता यथा ।
भयं त्यक्त्वा हरिं दृष्ट्वा हन्यतां हन्यतामिति ।। ३ ।।
खण्डशः कूर्चभागाश्च विधीयन्तां प्रचुक्रुशुः ।
समुद्रस्य यथा पूरप्रवाहः पूर्णिमादिने ।। ४ ।।
तथा सैन्यं राक्षसीनां बालकृष्णगृहेऽपतत् ।
कन्यकानां महासैन्यं मिश्रितं न तदा पृथक् ।। ५ ।।
भाति यतश्च ताः क्रूरा मृत्वाऽपि बालकृष्णकम् ।
उद्धर्तुं पूरवच्चापि प्रसह्यापि यथाकथम् ।। ६ ।।
धर्तव्यो मारयितव्यो जीवतो नाऽसुमान् भवेत् ।
इत्येव मरणं चाऽग्रे कृत्वा हन्तुं प्रधाविताः ।। ७ ।।
प्रलये शलभा व्योम्नो यथा पतन्ति भूतले ।
तथा पतन्ति ताः सर्वा राक्षस्यो बालमन्दिरे ।। ८ ।।
दृष्ट्वैवं वैपरीत्यं तु बालकृष्णस्तदा प्रभुः ।
प्रहसन् कुंकुमवापीक्षेत्रं लीनं चकार ह ।। ९ ।।
राक्षस्यस्तत्र ह गृहस्थले वने जलात्मकम् ।
सर्वं चाकस्मिकं दृष्ट्वा निराशा ययुरम्बरम् ।। 2.14.१ ०।।
कन्यकाभिर्महायुद्धं चक्रः रोषातिसंभृताः ।
कन्यका दिव्यदेहास्ता वध्यन्ते शस्त्रकोटिभिः।। ११ ।।
न च तासां शरीराणि भिद्यन्ते वह्निपिण्डवत् ।
न च दुःखानि जायन्ते छेदनानि भवन्ति न ।। १२।।
स्वामिवर्मसमावृत्ता रक्षामन्त्राभिरक्षिताः ।
न म्रियन्ते कृष्णपत्न्यो म्रियन्ते दैत्ययोषितः ।। १३।।
छिद्यन्ते बहुधा शस्त्रैः कन्यकानां तदोल्बणैः ।
द्वेधा भूता राक्षसी या सा नैका पुनरस्ति वै ।। १४।।
हता सा जीवतो याता गता नायाति वै पुनः ।
आकाशं युद्धसंव्याप्तं रणचण्डीविभूषितम् ।। १५।।
अभवन्मोदमापन्नं चावकाशान् ददौ बहून् ।
सहस्रक्रोशपारे वै युद्धाकाशोऽभवत्तदा ।। १६।।
समन्ततः सुराष्ट्रे वै कोट्यब्जार्बुदयोषिताम् ।
एकोऽपि विद्यते नाऽत्र पुमान् रणग्लहे तदा ।। १७।।
राक्षसीनां कबन्धाश्च शिरांसि बाहवः स्तनाः ।
सक्थीनि च नितम्बाश्च व्योम्नो निपेतुरम्बरात् ।। १८।।
रक्तवर्षं मांसवर्षं पिण्डवर्षं बभूव ह ।
केशवर्षं शस्त्रवर्षं शववर्षं बभूव ह ।। १ ९।।
अंगवर्षं चन्द्रनिभखण्डवर्षं बभूव ह ।
नवनीतसमा देहा विदार्यन्तेऽतिकोमलाः ।।2.14.२०।।
पात्यन्ते पतिदेवार्थं परस्परं प्रियागणैः ।
यमराजः क्षणं युद्धं द्रष्टुं श्रुत्वा समागतः ।।२ १ ।।
देवा आकाशगा युद्धं लोकयन्ति न भूतजम् ।
यदा दैत्यस्त्रीगणैश्च विज्ञातं निजनाशनम् ।। २२।।
कन्यकाशाश्वतिकत्वं तदा मन्त्रैः प्रमन्त्र्य च ।
मुक्तान्यस्त्राणि दिव्यानि भूतसंहारकाणि वै ।।२३ ।।
राक्षसीभिः प्रथमं च बाष्पास्त्रं प्रहितं तदा ।
बाष्पं चाऽभूदम्बरेति नाऽज्ञायत तृणादिकम् ।।२४।।
लक्ष्म्या मुक्तं किरणास्त्रं बाष्पनाशो बभूव ह ।
अथ मुमोच वै शुक्रजीवनी धूम्रमस्त्रकम् ।।२५।।।
अम्बरं धूम्रसंछन्नं नेत्रयोर्ज्वलनं ह्यभूत्। ।
अञ्जनी च तदा धूम्रपानं सर्वं विधाय च ।।२६।।
मुमोच तत्र वह्न्यस्त्रं राक्षसीलयकारकम् ।
शुक्रसञ्जीवनी तत्र मेघास्त्रं प्रमुमोच ह ।। २७।।
वृन्दा तदा प्रमुमोच शालग्रामास्त्रकं महत् ।
आकाशे शालशैला वै ताडयन्ति तु राक्षसीः ।। २८।।
कोटरा राक्षसी शालग्रामास्त्रं त्वगिलत् तदा ।
पांश्वस्त्रं प्रमुमोचाऽत्र धूल्याढ्यं शुक्रजीवनी ।।२९।।
अञ्जनी तु तदा वायुमन्त्रास्त्रं प्रमुमोच ह ।
नागास्त्रं षण्ढिका तत्र प्रेरयामास सर्वतः ।।2.14.३ ०।।
गारुडास्त्रं च कमला प्रमुमोच सुखावहम् ।
वृश्चिकास्त्रं प्रमुमोच विखाता राक्षसी तदा ।।३ १ ।।
चिल्लिकास्त्रं प्रमुमोच गरुत्मती तदा पुनः ।
वह्न्यणुवृष्टिमकरोत् प्राणहा शुक्रजीवनी ।।३२।।
शारदा वह्निवृष्टिं च जग्रास लीलया तदा ।
अथ राक्षसपत्न्यस्ता मायायुद्धं तदा व्यधुः ।।३३।।
पाषाणान् मरुतो वृक्षान् मांसलोहितपूयकान् ।
ससृजुर्मद्यधाराश्च बाणान् शस्त्राणि सर्वशः ।।३४।।
वर्षयामासुरत्युग्रान् स्फोटचूर्णान् सवह्निकान् ।
हेतीन् समन्ततस्तीक्ष्णान् मलमूत्रादिकाँस्तथा ।।३५।।
हाहाकारस्तदा जातो भूतले कन्यकागणे ।
तदा तु योगिनीचक्रं चतुःषष्टिगणात्मकम् ।।३६।।
विधाय निजरूपाणि धराधरसमानि वै ।
जग्रसुस्ताः समस्ताश्च माया मृषोद्भवा मुहुः ।।३७।।
आमूलाल्लयमापन्ना योगिनीबलधर्षिताः ।
माया वृष्टिस्वरूपास्ता लयं यातास्तदा पुनः ।।३८।।
फेरुचिताख्याक्षस्या शवानां वर्षणं कृतम् ।
कोटिशो वै शवा व्योम्नो निपेतुर्योषितां तथा ।।३९।।
कुक्कुटीनां च गृध्रीणां काकीनां शुकयोषिताम् ।
श्येनीनां भासनारीणां कपोतीनां शवास्तथा ।।2.14.४०।।
क्रव्यादीनामुलूकीनां श्येनीनां चिबरीशवाः ।
निपेतुरम्बरात्तत्र भूतलं छन्नतां गतम् ।।४१।।
तदा विलोक्य वै शंभोर्भैरवी हि महासती ।
रूपं चकार वै नैजं दशयोजनमायतम् ।।४२।।
लक्षबाहुयुतं लक्षराक्षसी शवसर्जिनीः ।
जग्राह युगपत्सर्वा मर्दयामास तास्ततः ।।४३।।
लक्षपादैर्मूढ्मारैस्तदा चक्रुशुरुल्बणम् ।
शवसृष्टिर्लयं याता मृषा माया लयं गता ।।४४।।
अथ तदा तु भैरव्या हस्तगा दैत्ययोषितः ।
प्रतारयितुं हस्तेभ्यो निर्गन्तुं यत्नमाचरन् ।।४५।.।
एकैकास्ताः करे चक्रु रूपाण्यसंख्यकानि हि ।
काश्चिद् दश तथा काश्चित् पञ्चाशच्चापराः शतम् ।।४६।।
यथा हस्ते ममुर्नैव तथा ता व्यचरत् कलाः ।
भैरवी निजहस्तानां वर्धनं त्वकरोत्तदा ।।४७।।
तथा ता अपि राक्षस्यो वृद्धिं नैजां दधुस्तदा ।
एवं भारे तु महति त्वसंख्यदेहसर्जने ।।४८।।
भैरवीकरतस्ता वै विनिर्गत्य विमुष्टिकात् ।
जगर्जुर्व्योममार्गस्था भैरवीं मस्तके मुहुः ।।४९।।
ताडयामासुरत्यर्थमसंख्या राक्षसस्त्रियः ।
प्राणग्लहे स्थितास्ताभिर्मृत्युभीर्नैव गण्यते ।।2.14.५०।।
अथ दृष्ट्वा महालक्ष्मीरसंख्या राक्षसीस्तदा ।
कोट्यसंख्यस्वरूपास्ता अनन्तरूपधारिणीः ।। ५१ ।।
स्वयं माता महालक्ष्मीः स्मृत्वा कृष्णनरायणम् ।
दधार रूपं ब्रह्माण्डतुल्यं कोटिभुजायुतम् ।।५२।।
ग्रहनक्षत्रताराद्या लम्बन्ते मूर्धजेषु वै ।
यस्याः सा तु महाघोरा सर्वशस्त्रप्रहारिणी ।।५३ ।।
मारयामास संगृह्य संगृह्य राक्षसीर्मुहुः ।
अन्या लक्ष्म्यश्चतुर्हस्ता अष्टहस्तास्तथाऽपराः ।।५४।।
षोडशहस्तिकाश्चान्या द्वात्रिंशद्धस्तसंयुताः ।
चतुःषष्टिबाहुयुक्ताः शतसाहस्रसत्कराः ।।५५।।
दशसाहस्रहस्ताश्च महालक्ष्म्या विनिर्मिताः ।
घ्नन्ति ता राक्षसीर्व्योम्नि समुत्प्लुत्य पुनः पुनः ।।५६।।
बह्व्यस्तत्र हता नष्टा व्यसवः पेतुरर्दिताः ।
मृतास्तास्तु मृता एव पुनरुत्थानवर्जिताः ।।५७।।
तदात्मानो महालक्ष्म्यामन्तर्भावं प्रपेदिरे ।
बलं त्वर्धाधिकं सर्वं नष्टं राक्षसयोषिताम् ।।५८।।
महालक्ष्मीर्भीरुलक्ष्मीरन्या लक्ष्म्यस्ततः क्षणम् ।
विलोक्य विजयं नैजं रणतूर्याण्यवादयन् ।।५९।।
कन्यकाः श्रीबालकृष्णयुता मोदमथाऽलभन् ।
अथैका रूढिका तत्र राक्षसी शैलरूपिणी ।।2.14.६ ०।।
भूत्वा पपात वै व्योम्नो बालकृष्णोपरि द्रुतम् ।
तावत्तलाजा ह्यभवन्महच्छैलगृहोपमा ।।६ १ ।।
कुंकुमवापिकाक्षेत्रं तलाजाशैलरक्षितम् ।
अभवत् कन्यका गर्भं भयं दूरं ततो गतम् ।।६२।।
रूण्ढिका वेगतो यावत्तलाजापर्वतेऽपतत् ।
छिन्ना भिन्ना च शिखरैर्विदीर्णा च मृताऽभवत् ।।६३।।
अथाऽपरा भूमितलं प्रविश्य क्षितिजात्मिका ।
ह्यभवद् दीर्घरूपा वै शतयोजनमायता ।।६४।।
दर्दूंरीरूपमापन्ना दशयोजनमुच्छ्रिता ।
अधरोष्ठः कृतः पृथ्व्यास्तलरूपः सुशोभनः ।।६५।।
ऊर्ध्वोष्ठश्च कृतः स्वर्गसमस्ताराम्बरान्वितः ।
यत्र नैव हि कासाञ्चिद् विभ्रमो भयदो भवेत् ।।६६ ।।
कापट्येन तथा कृत्वा सर्वास्तु कन्यकास्तथा ।
कुंकुमवापिकाक्षेत्रं चाश्वपट्टसरोवरम् ।।६७।।
लोमशस्याऽऽश्रमश्चापि मुखमध्ये चकार सा ।
तावन्नारायणः कृष्णो ज्ञात्वा दुश्चेष्टितं तदा ।।६८।।
राक्षस्यास्तु विनाशार्थं तथा कौतुकसृष्टये ।
स्वयं वै कन्यकारूपं दधार कन्यकासु वै ।।६९।।
चक्रं सुदर्शनं दिव्यं करे कृत्वा गले स्थितः ।
कृष्णः कृष्णानामकन्या व्यराजत क्षणं तदा ।।2.14.७० ।।
सुदर्शनं महातेजोवह्नियुक्तं मुमोच सः ।
वह्नियुक्तेन चक्रेण तस्या गलमुखोदरम् ।।७ १ ।।
चकर्त खण्डशस्तां वै मण्डुकीं रूण्ढिकां क्षणात् ।
तस्या मेदाऽस्थितो जाताश्चाकचक्यचिरोटिकाः ।।।७२।।
अथाऽन्या दामिनीनाम्नी राक्षसी वीक्ष्य वै मृताम् ।
दर्दूरिकां स्वयं तेजोमयं रूपं दधार च ।।७३।।
व्योमव्याप्तं महाविद्युज्ज्वालामालाकुलं ततः ।
सुदर्शनमगिलत् सा मुखं व्यादाय वैष्णवम् ।।७४।।
तां च भित्त्वा विनिर्यातं द्रागेव तत् सुदर्शनम् ।
यथा विद्युल्लतांशाश्च निपतेयुः क्षितौ तथा ।।७५।।
दामिनी राक्षसी खण्डमयी पपात भूतले ।
अथाऽन्या द्युहना तत्र वपुर्निर्माय सूर्यवत् ।।७६।।
बालकृष्णं मुखे न्यस्योत्पपात खं दिवं प्रति ।
वीरशिस्तावदेवाऽत्र संवीक्ष्य लोमशं मुनिम् ।।७७।।
मुखे न्यस्योत्पपातोर्ध्वं ययौ दूरं यदाऽम्बरम् ।
कृष्णनारायणो बालो लोमशोऽपि च योगिराट् ।।७८।।
वह्निरूपावुभो तत्रौदरे जातौ हि दारुणौ ।
वह्निना जज्ज्वलतुश्च राक्षस्यौ मम्रतुस्तथा ।।७९ ।।
उदरे च विनिष्पाट्य निर्गतौ लोमशाऽच्युतौ ।
अथाऽन्या दामिनी वह्निरूपाऽभवत् तदाश्रमे ।।2.14.८०।।
लोमशस्याऽऽश्रमं सर्वं क्षेत्रं कुंकुमवापिकम् ।
ददाह वह्निना यावत् किञ्चिन्मात्रं तदा द्रुतम् ।।८१ ।।
बालाहकी महालक्ष्मीर्वृष्टिरूपा बभूव ह ।
वह्निं च रुन्धयामास शान्तयामास वर्षणैः ।।८२।।
धृत्वा तु दामिनीं तत्र जघान प्राणतः सती ।
मृता सा दामिनी तत्र प्रसार्य पादहस्तकौ ।।८३।।
अथाऽपरा च धीभक्ष्यानाम्नी राक्षसकामिनी ।
देवीं तु कम्भरालक्ष्मीं स्कन्धे निधाय खं ययौ ।।८४।।
दृष्ट्वा तदा तु सा साध्वी मुष्ट्या जघान धीमखीम् ।
ब्रह्मरन्ध्रे मृता धीभक्षिणी तूर्णं पपात ह ।।८५।।
शौण्डी व्याघ्रीरूपधरी भूत्वा गोपालकृष्णकम् ।
जग्राह पितरं यावत्तावत् पार्वती कारभी ।।८६।।
भूत्वा व्याघ्रीं चखादैनां पिता स्वस्थोऽभवत्तदा ।
अथाऽन्या रणचण्डीभिः कन्याभिः सर्वतोबलैः ।।८७।।
हतास्तत्रमृताः सर्वाः शतमात्राऽवशेषिताः ।
तास्तदा शरणं प्राप्ताः कुण्ठादिष्टिदमादिकाः ।।८८।।
कन्याभिस्ता निगडेषु धृताः शस्त्रविहीनकाः ।
विधवास्ताः कृष्णनारायणं स्मृत्वा प्रणेमिरे ।।८९ ।।
रुरुदुर्भयमग्नाश्च प्रार्थयामासुरीश्वरम् ।
हता नाथा हि नः कृष्ण वयं ते शरणं गताः ।। 2.14.९०।।
उद्धारय महादुःखात् परात्पर महाप्रभो ।
लक्षलक्षप्रलक्षाणां मूलकृत्रिमयोषिताम् ।। ९१ ।।
राक्षसीनां मृतानां त्वं समुद्धारं समाचर ।
वयं तु चाऽबलाः कृष्ण तव प्रिया हताः खलु ।। ९२।।
क्व गच्छामः कृपासिन्धो तलाजावत् निजाः कुरु ।
यथालक्ष्मीः रमा राधा श्रीः सती पार्वती प्रभा ।। ९३ ।।
माणिक्या मंजुला तासां दासीनैंजाः कुरु प्रभो ।
यद्वा तासां च दासीनां दासीर्विधेहि माधव ।। ९४।।
त्वां विना न गृहं चान्यत् सुखदं त्वायतौ मतम् ।
वयं तूभयतोभ्रष्टा लभामो वै कथं सुखम् ।। ९५।।
तस्मान्नैजाः कुरु कृष्ण क्षमाप्याऽस्मत्सुदारुणम् ।
कर्मप्रज्वाल्य रक्षत्वं दिव्यभावं प्रदेहि नः ।। ९६।।
सुराश्च भोगिनो दैत्या दानवा राक्षसाः खगाः ।
ऋषयो मुनयो मर्त्या वृक्षाद्यास्ते प्रसूतयः ।। ९७।।
तव वंश समुत्पन्नास्तव योगमुपागताः ।
कथं पापेन जीवामोऽलभ्यकान्तमुपागताः ।। ९८।।
कुरु नः पावनीः सर्वा रक्षोभावविवर्जिताः ।
इत्येवं त्वर्थितस्ताभिः कृष्णनारायणः प्रभुः ।।९९।।
ताः सर्वा दिव्यदृष्ट्या च दिव्याऽऽप्प्रोक्षणकेन च ।
द्वेषभावेन च स्वस्य सततस्मरणेन च ।। 2.14.१० ०।।
धूतपापा गतरक्षोभावाश्च ता व्यधात्तदा ।
कामधेनुगवामास्यैरन्तःकृत्वा गवोदरात् ।। १०१ ।।
मूत्रद्वारेण तत्रैव लोमशेन निकासिताः ।
ब्रह्मयोग्या अभवँस्ता दिव्यदेहा रमा यथा ।। १ ०२।।
विसस्मरुस्तदा नैजान् जन्मसंस्कारविग्रहान् ।
दिव्या देव्यो यथा तद्वज्जाताश्चन्द्रकला यथा ।। १०३ ।।
सर्वास्ताः कन्यकाः कृष्णनारायणस्य वाञ्च्छया ।
सौम्या द्वादशवार्षिक्यो वैष्णव्यस्तिलकान्विताः ।। १ ०४।।
अन्यथाकर्तृकृष्णस्य प्रभावेण हि राधिके! ।
अथ याश्च मृताः कृष्णमूर्तौ लीना रणे तदा ।। १ ०५।।
ताश्च सर्वाः कृष्णमूर्तेर्निर्गता दिव्यकन्यकाः ।
लक्षसंख्याश्च ताः सूर्योज्ज्वलाम्बराश्च निर्मलाः ।। १ ०६।।
कटकमुकुटचक्रकुण्डलरशनान्विताः ।
अजायन्त क्षणात् कृष्णनारायणेहया प्रियाः ।। १ ०७।।
'ओंनमः श्रीकृष्णनारायणाय पतये स्वाहा' ।
मन्त्रं श्रीलोमशस्ताभ्यो ददौ श्रीहरिसन्निधौ ।। १ ०८।।
हवनं कारयित्वा च ताभ्योऽन्याभ्यश्च लोमशः ।
ददौ यज्ञोपवीतानि पीताम्बराणि मालिकाः ।। १ ०९।।
तौलसीर्जपमालाश्च कण्ठीश्चापि ददौ तदा ।
शंखचक्रगदापद्मचिह्नान्यपि ददौ तदा ।। 2.14.११ ०।।
भोजिता दीक्षिताः सर्वा रक्षिता लोमशाश्रमे ।
याश्च युद्धेऽभवँस्तत्र रमाद्याः कोटिकन्यकाः ।। १११ ।।
ताभ्यः कृष्णपतिस्तत्र परात्परसुखं ददौ ।
बाहूभ्यां ताः परिगृह्य निपीड्य निजवक्षसि ।। ११ २।।
धन्याऽऽशीर्वादशब्दाँश्च चुम्बनानि ददौ प्रभुः ।
युद्धश्रमोऽस्त्रशस्त्रादिस्पर्शश्रमादिकं तदा ।। ११ ३।।
क्षणात् सर्वं निवृत्तं च रोममात्राऽपि न क्षतिः ।
सर्वासामभवत्तत्र जयकारो महानभूत् ।। १ १४।।
भोजिताः पूजिताः सर्वाः परिरब्धा दयालुना ।
चुम्बिता वक्षसि स्वस्य पीडिताश्चामृतीकृताः ।। १ १५।।
महोत्सवः कृतस्तत्र जयनिमित्तजोऽत्र च ।
देवाद्याश्च समाजग्मुः पूजिता भोजिताश्च ते ।। ११६।।
यथागतं गतास्ते तु लोमशो मुनिराट् ततः ।
नामानि लक्षकन्यानां विदधे तु नवानि वै ।। १ १७।।
सुशीला सुसहा विद्युत् किरणा चन्द्रिका द्युतिः ।
इत्यादिशुभनामानि कृतवान् लोमशो मुनिः ।। १ १८।।
आश्रमं नीतवान् सर्वाः कृष्णनारायणाज्ञया ।
अथ पृथ्वी समाहूता कृष्णनारायणेन तु ।। १ १९।।
युद्धस्थलीं स्वयं भूमिः समीचकार वै तदा ।
अशुद्धिं लोपयामास शुद्धां भूमिं चकार सा ।। 2.14.१ २०।।
वृष्ट्या चापि क्षालिता सा देवेनापि ततः शुभा ।
भूमिः सा लक्षतीर्थाख्या ह्यभवत् कृष्णवन्दिता ।। १२१ ।।
शस्त्राणि भगवान्नैजे सौधे ररक्ष यानि च ।
युद्धे तत्र पतितानि दिव्यानि भौतिकानि च ।। १ २२।।
एवं वै राधिके युद्धं पुरा तत्र बभूव ह ।
न भूतं न भविष्यच्च स्त्रीणां दिव्यगतिप्रदम् ।। १२३ ।।
लक्षाणां कन्यकानां तु रूपद्वयं हरीच्छया ।
व्यजायत च प्रत्येकं तत्रैकैकं विमानगम् ।। १ २४।।
भूत्वा च पार्षदैर्नीतं परमाक्षरसत्पदम् ।
कन्यारूपं द्वितीयं च लोमशाश्रमसंस्थितम् ।। १२५।।
इत्येवं राधिके तेऽत्र कथितं परमाऽद्भुतम् ।
कथानकं हरेर्दिव्यं नारीयुद्धमयं परम् ।। १२६।।
पठनाच्छ्रवणाच्चास्य चिन्तनाच्चार्पणात्तथा ।
कृष्णप्रियात्वमासाद्य ब्रह्मलोके गतिर्भवेत् ।। १ २७।।
इतिश्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्तानेऽसंख्यकन्यकाभिः युद्धसमर्थाभिः सह राक्षसीनां युद्धे राक्षसीनां विनाशाभिमुखपराजयेऽन्ते शरणागतिर्मुक्तिपदं कन्यकापदं च बालकृष्णकृपयेतिनिरूपणनामा चतुर्दशोऽध्यायः ।। १४।।