लक्ष्मीनारायणसंहिता/खण्डः २ (त्रेतायुगसन्तानः)/अध्यायः ००७

विकिस्रोतः तः
नेविगेशन पर जाएँ खोज पर जाएँ
← अध्यायः ००६ लक्ष्मीनारायणसंहिता - खण्डः २ (त्रेतायुगसन्तानः)
अध्यायः ७
[[लेखकः :|]]
अध्यायः ००८ →

श्रीकृष्ण उवाच-
श्रूयतां च त्वया राधे कृष्णकान्तस्य चाद्भुतम् ।
चमत्कारं द्वादशेऽह्नि प्रेंखायां यो व्यजायत ।। १ ।।
गोपालकृष्णको देवो नामकरणके दिने ।
पुत्रस्यार्थे शुभां दोलां कारयामास चन्दनैः ।। २ ।।
मृदुलां शायनीं शय्यां क्लृप्तयामास तत्र च ।
सद्रत्नसारमौक्तिकहीरकादिसमञ्चिताम् ।। ३ ।।
स्वर्णदर्पणशोभाढ्यां धामचित्राप्यलंकृताम् ।
स्वर्णमयूरकीराद्यैः शोभितां सुचतुष्पदाम् ।। ४ ।।
चतुर्गारुडमूर्तिस्थां चतुर्हंसमुखेषु च ।
हीरसूत्रालम्बितां च मौक्तिकदण्डिकाश्रिताम् ।। ५ ।।
सुखस्पर्शकुसुमानां दिव्यवल्लीचतुष्टयाम् ।
पीयूषकिरणस्राविमध्यवितानछत्रिताम् ।। ६ ।।
नैसर्गाऽनिलयोगेन वेणुगीतिमनोहराम् ।
विनैवाकर्षणं बालेच्छया रक्षितसञ्चराम् ।। ७ ।।
क्वचिद्व्योम्नि क्वचिद्भूमौ क्वचिन्निम्नां क्षितिस्पृशाम् ।
क्वचिदूर्ध्वां च धवलां क्वचित्सुवर्णरूपिणीम् ।। ८ ।।
क्वचिदान्दोलनं याति क्वचित् स्वभावतः स्थिरा ।
कामावसायितायुक्तां प्राप्तिसिद्धिसमन्विताम् ।। ९ ।।
एवंविधां शुभां दोलामुपस्करविलासिताम् ।
विश्वकर्माणमाहूय कारयामास वै पिता ।। 2.7.१ ०।।
नामविधानदिवसे क्षणे श्रेष्ठे हरिं सुतम् ।
प्रेंखामारोहयन्याता पुत्रं प्राक्शिरसं प्रभुम् ।। ११ ।।
शोभितायां तु दोलायामस्वापयत्पुमुत्तमम् ।
अथ दोला नूतनाश्च देवा नीत्वा समाययुः ।। १२।।
अनादिश्रीकृष्णनारायणस्य शयनाय वै ।
राधे ययिथ तत्र त्वं प्रेंखां गोलोकजां पराम् ।। १३।।
दिव्यां नीत्वा महामूल्यां विमानवरशोभिताम् ।
लक्ष्मीस्तत्राऽऽजगामाऽपि प्रेंखां वैकुण्ठजां शुभाम् ।। १४।।
दिव्यां विभूतितत्त्वाढ्यां व्योममार्गस्थिरां पराम् ।
अक्षरस्य तथा पत्न्यः प्रेंखां परमशोभनाम् ।। १५।।
दिव्यसिंहासनाकारां समादाय ददुस्तदा ।
ईश्वर्यश्च महाविष्णुवैराजपत्निकास्तथा ।। १६।।
ब्रह्मविष्णुमहेशानां पत्न्यो वै दिव्यशोभनाः ।
प्रेंखा ददुर्हि विविधा बालकृष्णाय ताः स्त्रियः ।। १७।।
चतुष्कोणा वर्तुलाश्च कमलाकारनिर्मिताः ।
मत्स्याकाराः कूर्माकाराः शंखाकारास्तथा शुभाः ।। १८।।
हस्त्याकारा घोटिकाश्च पर्यंकिकाश्च खट्विकाः ।
दोलाकाराश्चैकस्तम्भा द्विस्तम्भा बहुपादिकाः ।। १९।।
चक्राधाराः पदाधारा दारवीः स्वर्णनिमिताः ।
राजतीस्तैजसीश्चापि चान्द्रीर्माणिक्यमौक्तिकीः ।।2.7.२०।।
शची तत्र समायाता चैकशृंखलयाऽन्विताम् ।
ध्रुवाकर्षणकाधाराऽन्तरीक्षस्थायिनीं शुभाम् ।।२१।।
आन्दोलनिकां नीत्वैव वज्रसारमयीं पराम् ।
ददौ च कम्भरादेव्यै पारिजातसुगन्धिनीम् ।।२२।।
अमृतस्राविणीं भद्रां विमानवद् विहारिणीम् ।
तारा च रोहिणी मेना सिद्धिर्वसुन्धरा सती ।।२३।।
विविधाश्चानयामासुः प्रेंखाः कृष्णमनोहराः ।
दिव्यद्रव्यसमोपेता दिव्यसंकल्पजास्तथा ।।२४।।
यत्रैकैके प्रदेशे वै स्वर्गं वैकुण्ठमित्यपि ।
गोलोकं चाक्षरं धाम दृश्यते भूमिमण्डलम् ।।२५।।
यत्रैकैकमणौ तत्र ससागरवनान्विता ।
क्षितिः सन्दृश्यते तत्र मेर्वाद्याः पर्वतास्तथा ।।२६।।
क्वचिन्मणौ तदा सूर्यः क्वचिन्मणौ सुधाकरः ।
क्वचिद् विभावसुर्भाति क्वचिद् विलोक्यते दिवम् ।।२७।।
क्वचिद् विलोक्यते सत्यलोको ब्रह्मसभा तथा ।
कुत्रचित्तु मणौ तत्राऽऽलोक्यते गोपिकागणः ।।२८।।
कुत्रचिद् दृश्यते तत्र विशालं रासमण्डलम् ।
कुत्रचिच्च मणौ विलोक्यते सागरसप्तकम् ।।२९।।
अरण्यानि विलोक्यन्ते मण्यन्तरे तथा परे ।
मणौ चालोक्यते शुभ्रं नन्दनं च वनं महत् ।।2.7.३ ०।।
पातालानि विलोक्यन्ते चान्येषु मणिषु प्रिये ।
कुत्रचित् क्षीरवार्धिश्च कुत्रचिन्नागमण्डलम् ।।३ १ ।।
विमानानि विलोक्यन्ते सर्वं देवगृहादिकम् ।
कुत्रचिद् दृश्यते द्वादशाधिकं शतमुत्तमम् ।।२२।।
परधामस्थपत्नीनां निजसेवापरायणम् ।
सप्तर्षिमण्डलं ध्रुवमण्डलं च ग्रहादिकम् ।।३३।।
आश्चर्याणि विलोक्यन्ते हीरकेषु तु केषुचित्। ।
उद्यानानि विलोक्यन्ते केषुचिद् विमलानि वै ।।३४।।
इत्येवं दिव्यतायुक्तप्रेंखाश्चादाय योषितः ।
समायाता ददुस्ताश्च बालकृष्णार्थमेव ताः ।।३५।।
चारण्यश्चापि गान्धर्व्यः किन्नर्यश्चापि कन्यकाः ।
नृत्यगीतिपराः कृष्णप्रेङ्खादानार्थमाययुः ।। ३६।।
कम्भरायै ददुस्ताश्च गोप्यो ददुश्च खट्विकाः ।
मानव्योऽपि ददुस्तस्यै समान्दोलनघोटिकाः ।।।३७।।
हीररश्मिसमायुक्ताः किंकिणीजालराविताः ।
वाद्यमिष्टस्वरश्रावाः वस्त्रग्रन्थनकारिताः ।। ३८।।
एवमासाद्य सा माता प्रसन्नाऽति बभूव ह ।
कृष्णस्तासु च सर्वासु युगपत्कृतकेतनः ।।३९।।
यावत्संख्याश्च ता दोलास्तावद्रूपधरो हरिः ।
बालरूपः स्वयमान्दोलनं चक्रे हसन् मुहुः ।।2.7.४०।।
दृष्ट्वा चैनं चमत्कारं महाश्चर्यप्लुताः स्त्रियः ।
कृष्णं कान्तं हृदि कृत्वा दध्यू रूपं पतिं प्रभुम् ।।४१।।
अक्षराधिपतिः श्रीमाननादिर्भगवानयम् ।
सर्वासां कामनापूर्णकरः का चित्रताऽत्र वै ।।४२।।
तदा तं परमब्रह्म दृष्ट्वा तेजस्विनं हरिम् ।
प्रेमपूर्णहृदयास्ताः स्वस्वपालनगं प्रभुम् ।।४३।।
आन्देलयित्वा गृह्णन्ति यावद् रामयितुं हरिम् ।
तावद् दोलानद्धमणिष्वनेकरूपतां गतः ।।४४।।
प्रत्येकायां च दोलायां बहुरूपमयं प्रभुम् ।
विलोक्य यावद् गृह्णाति प्रतिबिम्बं च तद् भवेत् ।।४५।।
नैव हस्तगतः कृष्णो भवत्याश्चर्यकारकः ।
तदा निवृत्तिमापन्ना जडेव तिष्ठति प्रिया ।।४६ ।।
एवं सर्वासु दोलासु बहुरूपं हरिं च ताः ।
अगृह्णन्त्योऽभवन्मुग्धाः कथं कृष्णो न लभ्यते ।।४७।।
तदा तु ललिता लक्ष्मीः प्रभा पारवती जया ।
माणिक्या नित्ययोगिन्यस्तासां प्रत्ययहेतवे ।।४८।।
सर्वाभ्यः प्राह शृणुत भगिन्यः सत्यमाधवम् ।
ग्रहीतुं चेच्छथ यदि वदाम प्रत्ययं हरेः ।।४९।।
तस्य दक्षे करे सन्ति मीनशूलधनुर्ध्वजाः ।
बिम्बे दक्षकरे ते स्युः प्रतिबिम्बे तु वामके ।।2.7.५०।।
सचिह्नं वामहस्तं मा स्पृशत प्रतिबिम्बकम् ।
सचिह्नदक्षहस्तं तं गृह्णत श्रीहरिम् ऋतम् ।।५१।।
इत्युक्तास्तास्तथा धृत्वा समुत्तोल्य परेश्वरम् ।
हसन्ति हासयन्ति श्रीकान्तं कट्यां निषाद्य च ।।५२।।।
चूम्बयित्वा प्रभुं कृष्णं बालं कान्तं पुनः पुनः ।
करतलयोर्दोलावत् कृत्वा त्वान्दोलनं मुहुः ।।५३ ।।
उत्क्षेपयित्वा गृह्णन्ति रामयन्ति स्म तत्पराः ।
एवमानन्दमासाद्य चक्रुर्दोलागतं हरिम् ।।५४ ।।
तावद्रूपाणि संहृत्य त्वेकरूपोऽभवत्प्रभुः ।
रिक्ता दोलाश्च या जातास्ताश्च ताभ्यः प्रसादजाः ।।५५।।
कम्भराश्रीर्ददौ सर्वाः प्रत्यर्पणविधानतः ।
एका प्रेंखाऽक्षररूपा गोपालकृष्णकारिता ।।५६।।
बालयुक्ता शिष्यते स्म चान्दनी दारवी शुभा ।
तास्तु प्रसादरूपाश्च दिव्याः प्रेंखाः सुपावनीः ।।५७।।
गृहीत्वा कन्यका देव्य ईशान्यो हर्षमागताः ।
अथैका तलदैत्यस्य सिंहारण्यनिवासिनः ।।।५८।।
पुत्री कन्या तलाजाख्या तलपर्वतवासिनी ।
आगता चोत्सवं श्रुत्वा कृत्वा रूपद्वयं तदा ।।५९।।
एका सा कन्यकारूपा यथेन्द्रस्य कुमारिका ।
सर्वावयवशोभाढ्या दिव्यरूपविलासिनी ।।2.7.६ ०।।
सर्वभूषणसंशोभत्स्वर्णवस्त्रादिधारिणी ।
दिव्यहस्तिसमारूढा दिव्याम्बालिकसंस्थिता ।।६ १ ।।
द्वितीयं चाकरोद् रूपं दोलाख्यं बहुहीरकम् ।
बहुचित्रसमायुक्तं बहुरत्नसुमौक्तिकम् ।।६२।।
असंख्यमालिकाहारशकुन्तव्रातशोभितम् ।
अन्तरीक्षगतौ दीपौ विद्येते चोर्ध्वयायिनौ ।।६ ३ ।।
तदाधारा च सा प्रेंखा निराधाराऽन्तरीक्षगा ।
दीपोष्मकृतसञ्चारा दिव्यकौशेयगेन्दुका ।।६४।।
एवंविधा च कमलपुष्पाकारा सुवर्तुला ।
मध्यक्लृप्तसुशयना कोमला क्षीरवर्णगा ।।६५।।
तलाजयाऽवतीर्यैव हस्तितो भूतलं प्रति ।
व्योमचारा तु सा दोला शनैश्च करचेष्टया ।।६६ ।।
अप्यवतारिता भूमौ तथापि सा तदाऽम्बरे ।
हस्तमात्रं भुवस्तूर्ध्वं स्थिराऽभवन्न भूगता ।।६७।।
एवंविधां शुभां दोलां दृष्ट्वा देवस्त्रियस्तदा ।
मुमुहुश्च जहृषुश्च प्रशशंसुः पुनः पुनः ।।६८।।
तलाजा तु हरिं कृत्वा कुंकुमाऽक्षतपूजितम् ।
अर्पयामास दोलायां कम्भरासन्निधौ स्थिता ।। ६ ९।।
हरिं च चान्दनीदोलासुप्तं धृत्वा शनैः शनैः ।
स्वदोलायां धृतवती मनोमालिन्यसंभृता ।।2.7.७ ० । ।
तलेन प्रेषिता शत्रुं कृष्णं मारयितुं तथा ।
तादृग्रूपधरा दुष्टा प्रेंखास्थं बालकं शनैः ।।७ १ ।।
उत्तोल्य व्योममार्गेण शीघ्रं दुद्राव चाम्बरे ।
अष्टयोजनदूरं सा गताऽरण्यं निजाश्रमम् । ।७२ । ।
हरिणैषा च विदिता हन्तुमिच्छावती तदा ।
तलाजाया गह्वरे स प्रभुश्चतुर्भुजोऽभवत् ।।७३ ।।
द्वितीयं बालरूपं च कुंकुमवापिकागताम् ।
आश्रित्य चान्दनीं दोलां वर्तते चेत्यदर्शयत् ।।७४।।
तत्र देव्यो रामयन्ति दोलायां परमेश्वरम् ।
यतो नाऽसां भवेच्छोकः प्रेंखोत्सवे तथाऽकरोत् ।।७५ । ।
शंखचक्रगदापद्मधरोऽपि बालरूपवान् ।
अत्युज्ज्वलः स भगवान् हासयामास राक्षसीम् ।।७६ ।।
हास्यैर्विविधैश्चेष्टाभिर्बालकम्पनकैस्तदा ।
चन्द्रतुल्यं हरिं दृष्ट्वा सा तु मुमोह राक्षसीम् ।।७७।।
मारयितुं मयाऽऽनीतो बालोऽयं कोमलांगकः ।
कथमेनं मारयामि रामयितुं सुयोग्यकम् ।।७८ । ।
न चायं मारयितव्यो रामयितव्य एव ह ।
वृद्धिं गतो मम स्वामी भविष्यति युवा दृढः ।।७९ ।।
इति सा चिन्तयित्वैव गह्वरे शयने शुभे ।
फलैः सुमधुभिश्चैनं रसैर्दुग्धादिभिः सदा ।।2.7.८ ० ।।
पोषयति स्म तत्रैव रक्षति स्माति नित्यदा ।
बालोऽपि चेष्टते नित्यं यथा सा रञ्जिता भवेत् ।।८ १ ।।
कृष्णपतित्वसंकल्पः पुण्यं तस्यास्तदाऽभवत् ।
तेन शुद्धां निजभक्तां मत्वा कृष्णनरायणः ।।८२ । ।
पापिन्याः सेवया पापध्वंसं चकार माधवः ।
सेवां जग्राह सततं प्रेमदुग्धं पपौ मुहुः ।।८३ । ।
एवं दिनाष्टकं यातं तलः प्रतीक्षते सुताम् ।
अनायातां तदाऽरण्ये तलस्याऽऽश्रममित्यतः ।।८४।।
ज्ञातवान् स मृता सेति यद्वा कृष्णगृहे स्थिता ।
यद्वाऽन्येन वलिष्ठेन धर्षिता च हृता च वा ।।८५ ।।
मार्गयामीति कृत्वैवाऽऽश्रमं त्यक्त्वा वनं वनम् ।
वृक्षं शृंगं तलं चाद्रिं पश्यन् याति यदा तदा ।।८६ ।।
दृष्टवान् पादविन्यासान् गह्वरस्य मुखे स्त्रियाः ।
आह्वयामास तां नाम्ना सा श्रत्वा भयमागता ।।८७।।
मारणार्थं मयाऽऽनीतो रक्ष्यते चेति कारणात् ।
पिता मां क्रोधमापन्नो सबालां मारयिष्यति ।।८८।।
इति सा भयमापन्ना तुष्टाव मौनमास्थिता ।
कृष्णं चतुर्भुजं कान्तं सर्वया शरणागता ।।८९।।
रक्ष रक्ष हरे कान्त परमेश्वर केशव ।
त्वयि मे मानसं लग्नं पिता मां घातयिष्यति ।।2.7.९०।।
इति स्तुत्वा च तं बालं कृत्वा वक्षसि भामिनी ।
अश्रुपातं चकाराऽथ कृष्णो युवा दृढोऽभवत् ।।९ १ ।।
पुष्टो दानवनाशार्थं धृतचक्रो बभूव ह ।
तलाजा तं विलोक्यैव क्षणं चुचुम्ब तं पतिम् ।।९२।।
भगवाँस्तु क्षणानन्दं दत्त्वा दिव्यां विधाय च ।
कृत्वा लीनां निजदेहे श्यामरूपो बभूव ह ।।९३।।
आजगाम गुहायास्तु बहिर्यत्र तलः स्थितः ।
तलो गदायुतश्चापि जीवने शंकितोऽभवत् ।।९४।।
शंखं दध्मौ हरिस्तत्र तलो दुद्राव भीतितः ।
पृथिव्यन्तस्तले लीनोऽभवत् तत्र हरिस्तदा ।।।९५।।
त्यक्त्वा तं च स्वयं कन्यायुतः कुंकुमवापिकाम् ।
समाजगाम सततं लोमशस्याऽऽश्रमे हरिः ।। ९६।।
विधाय कन्यकारूपद्वयं चैकां तदैव सः ।
हंसयानेन च नैजं धाम चाप्रेषयत् प्रियाम् ।।९७।।
द्वितीयं कन्यकारूःप लाजाख्यं समरक्षयत् ।
लोमशस्याऽऽश्रमे चान्यकन्याभिः सममेव सः ।। ९८।।
कृष्णार्पणं गता सा च तलाजा दिव्यरूपिणी ।
लाजारूपाभवत् सर्वपूजायां मंगलात्मिका ।।९९।।
श्रीहरिं लाजया नित्यं वर्धयन्ति सुरस्त्रियः ।
एवं तलाजा प्रेंखा सा लाजारूपाऽभवत्तथा ।। 2.7.१० ०।।
प्रेंखारूपा तथा चास्ते कृष्णस्याऽनुग्रहात् सदा ।
कन्यारूपा कृष्णपत्नी कुमारिकादिषु स्थिता ।। १०१ ।।
तथा दिव्यस्वरूपा च परे धाम्नि विराजते ।
कृष्णनारायणयोगाच्चतुर्धारूपधारिणी ।। १ ०२।।
अनादिश्रीकृष्णनारायणसेवास्थिताऽभवत् ।
लाजा प्रेंखा कन्यका च मुक्तरूपेतिभामिनी ।। १०३ ।।
यथा गंगाम्बुनो योगाद् रथ्याम्बु याति गांगताम् ।
तथाऽनादिकृष्णयोगाद् राक्षसी याति मुक्तताम् ।। १ ०४।।
किमत्र तु महाश्चर्यं राधे वदामि वै हरेः ।
त्वादृशी सा हरेः पत्नी विवाहेन भविष्यति ।। १ ०५।।
अथ श्रीभगवान् मातृसन्निधौ बालके पुनः ।
बालरूपः समागत्य चान्तर्लीनोऽभवत्तदा ।। १ ०६।।
तलाजयेदं कथितं लोमशाय महर्षये ।
लोमशेन च कथितं पितृभ्यां दैवतं च तत् ।। १ ०७।।
सर्वैर्ज्ञातश्चमत्कारो याते दिनाष्टके तदा ।
मेनिरे ते महाश्चर्यं शान्तिपाठान् प्रचक्रिरे ।। १ ०८।।
अथोत्सवे समायाता देवा देव्यश्च भोजिताः ।
वन्दिताश्चाऽर्पिता दानैर्गमिताः शं निजगृहान् ।। १० ९।।
त्रयोदशे दिने गत्वा गृहानष्टदिनोत्तरम् ।
ज्ञात्वा कृष्णप्रतापं च चमत्कारभरं परम् ।। 2.7.११० ।।
परम्परया ते देवा देव्यो मुमुदुरान्तरे ।
नेमुः प्रसस्मरुः स्वामिकृष्णनारायणं हृदि ।। १११ ।।
इत्येवं कथितो राधे! प्रेंखोत्सवो महान् शुभः ।
चमत्कारश्च कथितः श्रोतृवक्त्रोः प्रमुक्तिदः ।। १ १२।।
इति श्रीलक्ष्मीनारायणीयसंहितायां द्वितीये त्रेतासन्ताने श्रीकृष्णनारायणप्रभोः प्रेंखाऽऽरोहणोत्सवे तलपुत्र्यास्तलाजाराक्षस्याः कापट्येनाऽऽगताया अपि हरौ मोहिताया मुक्त्यादिचमत्कारवर्णननामा सप्तमोऽध्यायः ।। ७ ।।